________________
श्रेष्ठिदेवचन्द लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीमद-हरिभद्रसूरिविरचिता
धर्मसङ्ग्रहणिः। आचार्यमलयगिरिप्रणीतया टीकया समलङ्कता ।
श्रीवीतरागाय नमः। यथास्थिताशेषपदार्थसार्थप्रकाशनं शासनमद्वितीयम् । कुतर्कसम्पर्कविमूढचित्तप्रवाद्यधृष्यं जयताजिनानाम् ॥१॥ ज्योतिर्ध्वस्ततमस्काण्डं, प्रकाण्डं वस्तुदेशिनाम् । बृहस्पत्यादिखद्योतोयोतमार्तण्डमण्डलम् ॥२॥ श्रीवर्द्धमानमानम्य, प्रमाणं तत्त्वनिर्णये । धर्मसङ्ग्रहणेष्टीकामहमाधातुमुत्सहे ॥३॥ (युग्मम् )
JainEdur धर्म. १
For Private & Personel Use Only
ww.jainelibrary.org