________________
| संग्रहणिः
HWAGANGACARRORS-AA%
अविघ्नेन शास्त्रपरिसमाप्त्यर्थमिष्टदेवतास्तवमभिधित्सुरादाविदमाह
नमिऊण वीयरागं, सवन्नु तियसपूइयं विहिणा। जहणायवत्थुवादि, अचिंतसत्तिं महावीरं ॥१॥ सुहभावजियतित्थगरणामकम्मस्स सुहविवागातो।
अणुवगियपरहियरयं तित्थगरमिमस्स तित्थस्स ॥ २ ॥ - नन्वविघ्नेन शास्त्रपरिसमाप्त्यर्थमिष्टदेवतास्तवाभिधानमित्ययुक्तं, स्तवविघ्नयोः शीतपावकयोरिव परस्परं विरोधा|सिद्धेः, तत्सिद्धौ च स्तवाभिधानतो विघ्नानामभावसिद्धिः, यथा शीतस्य पावकसद्भावतः, अन्यथा परस्परतः सकलवस्तूनामप्यभावापत्तेः । उच्यते-विघ्नो हि प्रागुपात्ताशुभकर्मविपाकोदयलक्षणः, तचाशुभं कर्म विशिष्टेष्टदेवतास्तवकरणतः प्रशस्तभावोपपत्त्या क्षयमुपपद्यते, ततो जलानलयोरिव स्तवविघ्नयोर्विरोधः । एतेन यदुच्यते 'नानयोर्विरोधः, स्तवभावेऽपि क्वचित् विघ्नदर्शनात्तदभावेऽपिच क्वचित् विघ्नानुपलब्धेरिति' तदपि प्रत्युक्तमवसेयम् ।।
१ हरिभद्रसूरिरिति कर्तुरध्याहारः । २ आद्यमङ्गलस्यैतदर्थकत्वात् पर आशङ्कते-नन्विति ।
Jan Education Intematon
For Private 3 Personal Use Only
www.jainelibrary.org