________________
तब्बाधियं ण सिद्धं तुह सामण्णादि दिटुं ता ॥ २५९ ॥ युक्तमेतदक्तम्-उत्पन्नमेव भावो भवति नान्यथेति, परं किंतु इदमेव-उत्पन्नत्वं दृश्यमानं कथं घटत इत्येवं चिन्ता युज्यते एव, यस्मात्तद्वाधितं-तया युक्तिरूपया चिन्तया वाधितं तव सामान्यादि, आदिशब्दात् गुणक्रियावयव्यादिपरिग्रहः 'दृष्टमपि' प्रत्यक्षेण विषयीकृतमपि न सिद्धं, तस्मान्न दृष्टमित्येव प्रत्येतव्यं, किंतु युक्त्येति तद्पा चिन्ता कर्त युज्यत एवेति ॥ २५९ ॥ उपसंहारमाह
___ ता इय जातिवियप्पा उज्झेयवाऽणुभूयमाणम्मि।
सजम्मि हेउफलभावमोहठाणाय ते किंच ॥ २६० ॥ | 'ता' तस्मादितिरेवमर्थे, एवम्-अनेन प्रकारेणान्येऽपि ये खपक्षदोषाच्छादनाय 'जातिविकल्पा' जात्युत्तराणि 'कारणविणासकजुप्पाया जुगवं तु होति नायवा' इत्यादयोऽभिहितास्ते 'उज्झितव्याः' परित्यक्तव्याः, यस्मात्ते पूर्वोक्ता जातिविकल्पाः 'अनुभूयमाने' अवाधितप्रत्ययेन निश्चीयमाने सर्वस्मिन् वस्तुनि हेतुफलभावमोहस्थानाय जायन्ते, तेषु हि सम्यक्परिभाव्यमानेषु न कथंचिदपि हेतुफलभावो घटते, केवलं धान्ध्यमेवापद्यते, यथाभिहितं प्रागिति । किंचेति वक्ष्यमाणदूषणाभ्युचये ॥२६० ॥ तान्येवाह
ESSASSAA5%
Jain Education iral
For Private & Personel Use Only
w w.jainelibrary.org