________________
धर्म
संग्रहणि:
॥११७॥
एतेणं चिय खित्ता मूलविगप्पाण पच्छिमा दोवि ।
जं तुल्लजोगखेमा भणियविगप्पेहिं ते पायं ॥ २५७ ॥ 'एतेनैव' सत्स्वभावजननशीलादिविकल्पचतुष्टयनिराकरणेन, 'मूलविकल्पानां' किं तदभावविनाशमित्यादीनां संवन्धिनौ द्वौ यो पाश्चात्य विकल्पी उभयानुभयलक्षणौ तौ प्रतिक्षिप्तौ द्रष्टव्यौ, यस्मात्तौ भणितविकल्पाभ्याम्-उभयानुभयलक्षणाभ्यां प्रायस्तुल्ययोगक्षेमौ, तुल्याभ्युपगमबाधादिदोषसद्भावात् ॥२५७॥ पुनरपि परपक्षमाशङ्कमान आह
सिय उप्पण्णं भावो ततो य चिंताए होइ विसउत्ति।
दीसइ य तं तउच्चिय णिरस्थिगा तेण एसत्ति ॥ २५८ ॥ स्यादेतत्-'उत्पन्नं लब्धात्मलाभं सद्वस्तु भावो भवति-भावशब्दवाच्यं भवति, 'तत एव च' भावत्वादेव च | 'चिन्तायाः'युक्तिरूपाया विषयो भवति नान्यथा, दृश्यते चाथ तद्वस्तु 'तत एवं' भावत्वादेव प्रत्यक्षेण प्रमाणेन, तेन कारणेन 'एषा' चिन्ता पूर्वोक्तयुक्तिरूपा निरर्थिका, दृष्टस्यापहोतुमशक्यत्वाददृष्टस्य चानुत्पन्नत्वेन चिन्तातीतत्वादिति ॥ २५८ ॥ अत्र आचार्य आह
उप्पन्नं चिय भावो इदमेव कहति जुजती चिंता ? ।
CARRASAARCAUCRAKAR
॥११७॥
en Education
For Private
Personal Use Only