SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ॥ १२६ ॥ Jain Education In वस्य धूमस्य विज्ञानं - परिच्छेदस्तस्य हेतुर्भवति, अन्यथा तेनानलग्राहकेन विज्ञानेनानलस्य धूमजननखभावतैव न गृहीता स्यात्, ततश्चेदं भवतीति प्रत्यक्षत एव सिद्धम् ॥ २८९ ॥ एतो इदंति सिद्धे नो अन्नाउत्ति अन्नया सिद्धी । कवि कारणा किंचि कज्जमिय किं न जुत्तमिह ? ॥ २९० ॥ प्रत्यक्षत एव च इतः - अश्यादेः कारणादिदं धूमादिकार्यमुपजायत इति सिद्धे सति न अन्यदा अन्यत्र अन्यस्मादपि - शक्रमूर्धादेर्धूमादिकार्य भविष्यत्येवमसिद्धिः कार्यकारणभावस्याशङ्कनीया । कुत इत्याह- यस्मात् कुतोऽपि प्रतिनिय - तादश्यादेः कारणात् सकाशात् किंचित् प्रतिनियतं धूमादिकं भवति, न यतः कुतश्चित् यत् किमपि । एतदुक्तं |भवति-यदि अन्यदा अन्यस्मादपि धूमादिकं कार्ये भवेत् तर्हि तत् अहेतुकं स्यात्, यद्धि यदन्वयव्यतिरेकानुविधायि तत्तद्धेतुकं, अन्यदा चेदन्यस्मादपि धूमादिकं कार्यं भवेत्तर्हि न तत् अभ्यादिव्यतिरेकानुविधायि स्यात्, तथा च सति न तस्याश्यादिहेतुर्भवेत्, अध्यादेश्च सकाशाद्भवतो धूमादिकार्यस्य न शक्रमूर्द्धादिव्यतिरेकानुविधायित्वं, ततस्तदपि न तस्य हेतुर्भवेत्, तथा च सति उभयस्यापि तद्धेतुत्वाभावात् धूमादिक महेतुकमेव प्राप्नोति, अहेतुकत्वाच्च सदाभावादिप्रसङ्गः । “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादितिन्यायात्” । तस्मात् यत् यस्मादेकदा भवत् For Private & Personal Use Only संग्रहणिः. ॥१२६॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy