SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte यदा एकस्यापि अभावे सति नोपलभ्यते तदा तत्तस्य कार्यम्, यथा धूमो हुतभुज इति ॥ २८७॥ अत्र पर आहतष्फलजणणसहावं तु कारणं तं च घेप्पइ तहेव । कजं पुण तक्कारणजण्णसहावंति तंपि तहा ॥ २८८ ॥ कारणम् - अग्न्यादिकं तत्फलजनन स्वभावं - धूमादिलक्षणकार्यजननखभावं, तुः पूरणे, तच कारणमेवंस्वभावं सत् तथैव - तथा स्वभावतयैव प्रत्यक्षेण गृह्यते नान्यथा, अन्यथा तदग्रहणप्रसङ्गात्, कार्यमपि धूमादिकं पुनः शब्दोऽपि शब्दार्थः, तत्कारणजन्यखभावम् इति तस्मादर्थे, तस्मात्तदपि कार्य तथा तथास्वभावतयैव गृह्यते, अन्यथा तेन तस्याग्रहणप्रसङ्गात्, तत्सामर्थ्यप्रभवश्च विकल्पोऽपि तथैव प्रवर्त्तत इति युक्तः प्रत्यक्षानुपलम्भादिना कार्यकारणभावावसाय इति ॥ २८८ ॥ एतदेव भावयति - धूमजणणसभावो (वा) णलगाहगमो जमेत्थ विष्णाणं । जं तमणलजन्नसहाव - धूमविण्णाणउत्ति ॥ २८९ ॥ यत् - यस्मादत्र जगति यत् धूमजनन स्वभावानलग्राहकम् 'मो' इति पादपूरणे, विज्ञानं तदवश्यमनलजन्यस्वभा For Private & Personal Use Only 144444 www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy