________________
॥ १९५॥
किंच, इह - विचारप्रक्रमे तौ खपरसंबन्धनखभावौ ततः - समवायात्सकाशाद्भिन्नौ वा स्यातामभिन्नौ वा ? | यदि | भिन्नौ ततो भेदे सति तस्य - समवायस्यैतौ खभावाविति संबन्धः कथं स्यात् ?, नैव कथंचनापि । संबन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ ततः समवायमात्रमेव, न तौ, तदव्यतिरिक्तत्वात्, तत्खरूपवत् । तथाह - 'अभेदे कह दोन्नि' अभेदे सति कथं द्वौ - समयायतत्स्वभावद्वयलक्षणौ कथं भवतो ?, नैव कथंचन, खभावयोः समवाये अन्तर्भूतत्वात् ॥ ४८६ ॥ अन्यच्च, 'अयुतसिद्धानामाधार्याधारभूतानामिहेति प्रत्ययहेतुर्यः संवन्धः स समयाय' इति वचनादिहेति बुद्धिगम्यः समवाय इष्यते, सोऽप्यनैकान्तिक इति दर्शयन्नाह - समवाइसु समवातो इह बुद्धी जह विणा तयं इट्ठा ।
इय जीवे णाणमियं ण हवइ णणु केण कज्जेणं ? ॥ ४८७ ॥
यथा तर्क - समवायं विना इह - समवायिषु समवाय इतीह बुद्धिरिष्टा । इतिः- एवमिह - जीवे ज्ञानमितीयमपि इह बुद्धिः समवायं विना केन कार्येण - केन कारणेन न भवति ?, भवत्येवेति भावः । तुल्ययोगक्षेमत्वात् । तदेवमास्तां तावत्खरूपतश्चिन्त्यमानः समवायो न घटते, इहप्रत्ययगम्यतयापि न घटत इत्युपपादितम् ||४८७॥ सांप्रतमुपसंहारमाहएवं समवातोऽवि हु चिंतिज्जंतो न सवहा घडइ ।
Jain Education International
For Private & Personal Use Only
संग्रहणिः
॥ १९५॥
www.jainelibrary.org