________________
Jain Education Inte
ता गुणगुणिणो सिद्धो संवेदणओ अभेदोवि ॥ ४८८ ॥
एवम् उक्तेन प्रकारेण समवायोऽपि 'हु' निश्चितं गुणानां प्रतिनियताधारताया निमित्तं परैः परिकल्पितश्चिन्त्यमा - नः सर्वथा न घटते । तस्मात् गुणगुणिनोः - ज्ञानात्मलक्षणयोः संवेदनतः - प्रतिनियताधारतान्यथानुपपत्तिलक्षणयुक्तिमूलानुभवादभेदोऽपि कथंचित्सिद्ध इति स्थितम् ॥ ४८८ ॥ अत्र परस्य मतमाशङ्कमान आहसिय करणमेव नाणं आता कत्त त्ति चैव भेदो तु । हि वसवणं इहं अभेदो कहंचिदवि ॥ ४८९ ॥
स्यादेतत् ज्ञानं करणमेव, आत्मा तु कर्त्ता, इतिरेवं कर्तृकरणभावेन ज्ञानात्मनोर्भेद एव । तुशब्द एवकारार्थः । भेदमेव कर्तृकरणयोर्दृष्टान्तेन साधयन्नाह - 'नहीत्यादि' नहि वासिवर्द्धक्योरिह - जगति अभेदः कथंचिदपि भवति, किंतु भेद एव, स च कर्तृकरणभावनिबन्धनः, कर्तृकरणभावश्च ज्ञानात्मनोरप्य विशिष्ट इत्यत्रापि भेद एवेति भावः
।। ४८९ ।। अत्राह -
तं खलु बज्झं करणं नाणं पुण अंतरं ति वेधम्मं ।
न य अपरिणओ उ तहा अगेण्हिउं तीं अयं घडति ॥ ४९० ॥
For Private & Personal Use Only
%%
www.jainelibrary.org