________________
संग्रहणिः
H
॥१४४॥
RANC%20RRESCREOGODSOM
ग्रहणपरिणामो यस्मिन् अनुभवे इत्थंभूतः । कस्मात्पुनरयमनुभव इत्थंभूत ? इत्याह-जंणेत्यादि' यत्-यस्मात्ते-द्रव्यपर्यायाः समस्तेऽपि भुवने न सर्वथा मिथो विभिन्नाः सन्ति, नहि मुकुलितार्द्धमुकुलिताद्याकारशून्यं किंचित् कुसुमादिद्रव्यं कुसुमादिद्रव्यविनि ठिता वा केचित् मुकुलितार्द्धमुकुलिताद्याकारा उपलभ्यन्ते इति । उक्तं च-"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केन वा ?॥१॥” इति । तस्मादनुभवसिद्धत्वात द्रव्यपर्यायरूपं वस्त्वङ्गीकर्त्तव्यम् , । तथाच सति तस्यैव तथापरिणामित्वात्सिद्धो धर्माधर्मिमणोः कथंचिद्भेद इति ॥ ३३८ ॥ यदपि चोक्तम् 'माणं च तओ अवाहाउत्ति' तदपीदानीं भावयन्नाह
नय बाहगं पमाणं इमस्स लोयम्मि दिस्सति कहंचि ।
अह अत्थाणिंदियं से ण साहगं तंपि का जुत्ती ? ॥ ३३९ ॥ न चास्य-द्रव्यपर्यायविषयस्यानुभवस्य बाधकं प्रमाणं किंचिल्लोके दृश्यते येनास्याप्रामाण्यं स्यात् , ततोऽबाधित-1 विषयत्वादसौ प्रमाणमेव । अत्र पराभिप्रायमाशङ्कमान आह-'अहेत्यादि' अथ मन्येथाः-निरस्ताशेषावरणभेदप्रपञ्चम-13 निन्द्रियं ज्ञानं 'से' तस्य द्रव्यपर्यायविषयस्यानुभवस्य बाधकं भविष्यतीत्यत्राह-'नेत्यादि' तदपि अनिन्द्रियं ज्ञानं द्रव्यपर्यायग्रहणप्रवणतया न विवक्षितस्यानुभवस्य साधकं किंतु बाधकमित्यत्र का युक्तिः, नैव काचित् , यदि हि तस्य
AKADCALCROCOCCCCCC
ISTORIRAMIRIWwwwwwwanwarREARRIAS
Jain Education Inter
For Private & Personel Use Only
X
ww.jainelibrary.org