________________
SCREENNGRECROCCORICALCOCCRIL
एसो अणुहवसिद्धो माणं च तओ अबाधाओ ॥ ३३७ ॥ परिणामे पुनरभ्युपगम्यमाने धर्मयोग आत्मनो घटत एव, यत् यस्मादिह-परिणामे धर्मधम्मिणोः कथंचित् । अभेदानुविद्धो भेदो, न तु केवलो भेदोऽभेदो वा, नचासौ कथंचिद्भेदः खकल्पनाशिल्पिनिर्मापितसत्ताको यत आह
-'एप' धर्मधमिणोः कथंचिद्भेदोऽनुभवसिद्धः-अनुभूयते यथावस्थितं वस्त्वनेनेत्यनुभवः-"भूशेरल् प्रत्ययः" प्रत्यशक्षादिप्रमाणं तेन सिद्धः-प्रतीतोऽनुभवसिद्धः । न च वाच्यमेषोऽनुभवः कथंचिद्भेदविषयः प्रमाणान्तरवाध्यमानत्वाद
प्रमाणम् । यत आह-'मानं च' प्रमाणं च 'तउत्ति' सकोऽनुभवः कथंचिद्भेदविषयः । कुत इत्याह-अबाधातः, अवाध्यमानविषयत्वादित्यर्थः ॥ ३३७ ॥ यदुक्तमेषोऽनुभवसिद्ध इति, तत्रानुभवं दर्शयति
__ सबेसि दवपज्जव-दुगरूवोऽणुहवो विसेसेणं।
जं न मिहो ते भिन्ना भुवणम्मिवि सबहा अस्थि ॥ ३३८॥ 'सर्वेषां' सकलदेशकालवर्तिनां प्रमातॄणामविशेषेणानुभवो द्रव्यपर्यायद्विकरूपो-द्रव्यपर्यायरूपद्विकग्रहणखभायो । जायते । तत्र द्रव्यमन्वयिरूपं, पर्यायाः मृदादेरन्वयिनो द्रव्यस्य क्रमेण प्रतिक्षणभवनादिक्रियाभिसंवन्धाः, यदाह शाकटायनः-"क्रमेण पदार्थानां क्रियाभिसंबन्धः पर्याय इति,” एवंरूपं यद् द्विकं तद्विषयं रूपम्-आकारः प्रतिभासो
SANSACRECCORDCCCCCROCOCCCCCCE
Jain Education Inted
For Private & Personel Use Only
ww.jainelibrary.org