________________
धर्म-18
संग्रहणि
॥१४३॥
बालो भवति कुमारः, प्रतिक्षणं विशिष्टविशिष्टतरोपचयदर्शनात् , सोऽपि च कुमारो भवति युवा, ततो मध्यमः स्थविरश्च, एतच्चैकस्यैव वालाद्यवस्थाभेदभवनमेकान्तनित्यपक्षे अनित्यपक्षे वा कथं घटतेः ? नैव घटत इति भावः ॥ ३३५ ॥ कुत इत्याह
एगसहावत्ता सति निरन्नयत्तेण कारणाभावा ।
निच्चे धम्माजोगो भेदादिविगप्पिओ नेओ॥ ३३६॥ नित्यपक्षे सर्वदा एकखभावत्वादघटनम् , अनित्यपक्षे च कारणस्य निरन्वयत्वेनाभावाद्-विनाशात् । स्यादेतत् , नित्यपक्षे कथं बालाद्यवस्थाभेदाऽघटना, यावता तत्रापि धर्मधमिभावो विद्यत एव, तत एतेऽपि बालाद्यवस्थाः
सुखादयश्चात्मनो धर्मा भविष्यन्तीति को नो दोप ? इत्यत आह-निचेइत्यादि' नित्ये आत्मनि धर्माणां-बालाद्यसवस्थाभेदादिलक्षणानामयोगः-अघटमानता ज्ञेयः । किंविशिष्ट इत्याह-भेदादिविकल्पितः-भेदाभेदविकल्पितः,
तथाहि-ते धस्तितो भिन्ना वा स्युरभिन्ना वा ?, यदि भिन्नास्ते तस्येति संवन्धानुपपत्तिः । समवायलक्षणः संबन्धो|ऽस्तीति चेत् । न । तस्याग्रे निषेत्स्यमानत्वात् । अथाभिन्नास्तर्हि तेषामुत्पादे विनाशे च तदव्यतिरिक्तत्वात् आत्मनोऽप्युत्पादविनाशप्रसङ्गः, तथा च सति नित्यत्वक्षितिरिति ॥ ३३६ ॥ खपक्षे पुनदोषाभावमाह
परिणामे पुण जं धम्मधम्मिणो इह कहंचि भेदोउ।
SAMACHCRACAACARECRUCHCHANGESCR
॥१४३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org