________________
CANCIES AUSTOCAUSESSORRUCTOR
युवा, नचायं बालाद्यवस्थाभेद एकान्तनित्यपक्षे युज्यते, तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावतया अवस्थान्तरसंभवाभावात् । नाप्येकान्तक्षणिकपक्षे, तत्रापि निरन्वयविनाशिताऽभ्युपगमात् , स एवायं वालः कुमारो भूत इत्यादिप्रत्यवमर्शानुपपत्तेरिति । तथा सुखादियोगतः, यस्यैव हि प्राक् पुत्रलाभादिना सुखमुत्पन्नमासीत् तस्यैवेदानीं तद्वियोगादिना दुःखमुपजायमानमुपलभ्यते, नचैवं सुखादियोगः परिणामित्वमन्तरेणोपपद्यते इति । तथा स्मृतेश्च, स्मृतिर्हि तस्यैव प्रागनुभवपूर्विका नान्यस्य, तथाऽनुपलम्भात् , तथा च सति स एवात्मा तथा परिणमत इति परिणामित्वम् । तथा संसारात्-नारकादिभवभ्रमणरूपात्, स एव हि जीवो देवो भूत्वा मनुष्यो भवति, मनुष्यश्च भूत्वा देवादिरिति संसारादात्मा परिणामीत्यनुमीयते । तथा कर्मफलभावतः य एव हि शुभमशुभं वा कर्म बनाति स एव जन्मान्तरे तत्फलमुपभुते, न चासावेकस्य कर्मसंवन्धभोगभावस्तथापरिणामित्वमन्तरेणोपपद्यत इति । तथा मोक्षतश्चैव, बन्ध| पूर्वको हि मोक्षः, तौ च बन्धमोक्षावेकाधिकरणायकस्यैव सतोऽवस्थाभेदनिबन्धनौ, ततो नैती परिणामित्वमन्तरेण| दोघटेते इति ॥ ३३४ ॥ तत्राद्यं हेतुं विवृण्वन्नाह
बालो होइ कुमारो सोवि जुवा मज्झिमो य थविरो य । एगंतनिच्चपक्खे अणिञ्चपक्खे य कहमेयं ? ॥ ३३५ ॥
GROCESCRACOCCARMER
Jain Education Inter24
For Private & Personel Use Only
Kilaw.jainelibrary.org