SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ %AGARCAS सो भावोत्ति सहावो तद्धम्मो चेव एसोऽवि ॥ ३२७॥ __यत उक्तन्यायेन धूमादिषु शक्तीनां परस्परं तुल्यरूपताऽभ्युपगम्यते तस्मादिदमायातं-धूमादिषु तुल्यार्थसाधिका शक्तिरस्तीति, किमुक्तं भवति ?-समानपरिणामोऽस्तीति, यत एषोऽपि-समानपरिणामो वस्तूनां स्वभावः, खभावश्च खो भावः खभाव इति व्युत्पत्तेस्तद्धर्मो-वस्तुधर्मः, धर्मः शक्तिरिति चानान्तरमिति ॥ ३२७ ॥ एसो कहंचि भिन्नो संवेदणवयणकज्जतो णेओ। अवरोप्परं समाणत्त-मण्णहा सबधाऽजुत्तं ॥ ३२८ ॥ एप-समानपरिणामः कथंचित-देशादिभेदापेक्षया भिन्नः-असमानपरिणामानुविद्धो ज्ञेयः। कुत इत्याह-संवेदनवदाचनकार्यतः-संवेदनवचनलक्षणकार्यभेददर्शनात् । तथाहि-घटेषु घटो घट इति सामान्याकारं मार्तिकस्ताम्रो राजत इति व्यावृत्ताकारं च संवेदनं वचनं चोपजायमानमुपलभ्यत इति । इत्थं च एतदङ्गीकर्तव्यमन्यथा-असमानपरिणासमानुवेधमन्तरेण भावानां परस्परं समानत्वमेव न युक्तम् , एकरूपतापत्तेः । समानपरिणामश्च सामान्यम् , “वस्तुन एव समानः परिणामो यः स एव सामान्य"मिति वचनात् , असमानपरिणामश्च विशेषः, "असमानस्तु विशेष" इति || Jan Educat an inte For Private & Personal Use Only w .jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy