________________
धर्म-18 वचनात् । ततो भवताप्युक्तनीत्या सामान्यविशेषात्मकं च वस्त्वभ्युपगतं, तथा चाविप्रतिपत्तिरिति स्थितम् ॥३२८॥ संग्रहणि कार्यकारणभावावगमे एव पुनरपि पराभिप्रायं दूपयितुमाशङ्कमान आह
सिय वासणातो गम्मइ सा वासगवासणिजभावेण ।
जुत्ता समेच्च दोण्हं ण तु जम्माणंतरहतस्स ॥ ३२९ ॥ स्यादेतत् , वासनातः कार्यकारणभावोऽवगम्यते, तथाहि-पूर्व कारणविषयं ज्ञानं निरन्धानमुत्तरं कार्यविषयं विज्ञानं वासयति, तस्माच वासनाविशेषादत इदमुत्पन्नमिति कार्यकारणभावावसायो भवतीति । अत्रोत्तरमाह-'सा वासगेत्यादि' सा-वासना द्वयोरपि-वास्यवासकयोः समेत्य-मिलित्वा स्थितयोर्युक्ता, पुष्पादितिलायोस्तथादर्शनात् , न तु जन्मानन्तरमेव हतस्य, वास्यकाले वासकस्यैवाभावात् । किंच, इह यत् यस्य विशेषकं तत्तस्य वासकमितरच वास्यं, यथा तिलादेः पुष्पादि, सुरभिगन्धादिकल्पश्च विशेषो वासना, सा च भवदभ्युपगमपर्यालोचनया सर्वथा 8 नोपपद्यते एव ॥ ३२९ ॥ तथाहिसा वासगातो भिण्णा-ऽभिण्णा व हवेज ? भेदपक्खम्मि ।
॥१४॥ को तीऍ तस्स जोगो ? तस्सुण्णो वासइ कहं च ? ॥ ३३० ॥
Jain Education Int
For Private & Personel Use Only
www.jainelibrary.org