SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte कि नो अन्नं ? किं तेण ? हंत वामोहहेतुति ॥ २८२ ॥ त्याक्षेपे । कस्तस्य हेतोर्ननु स्वभावो यद्वलात्कार्यस्य तत्स्वाभाव्यमुपजायते । पर आह-यत् तकतू - विवक्षितं कार्य तदनन्तरमेव - विवक्षितकारणानन्तरमेव भवति, स हेतोः स्वभावः । इह हेतुखभावनिबन्धनं कार्यभवनमपि हेतुखभाव इत्युक्तं, कार्ये कारणोपचारात्, अन्यथा विवक्षितहेतुस्वभावविशेषस्य निर्द्धारयितुमशक्यत्वाद् इदमुक्तं भवति - तस्य हेतोः खहेतुशक्तितस्तादृश एव स्वभावभाव उत्पेदे येन तदनन्तरमेव तद्विवक्षितं कार्यमुपजायते, तथा च तत्कृतं कार्यस्यापि तत्वाभाव्यमिति । आचार्य आह- किन्नो — नैवान्यत् - पटादिकं तदनन्तरमेव भवति १, येन विवक्षितहेतुस्वभाववलात् तस्यैव विवक्षितस्य घटक्षणलक्षणस्य तत्स्वाभाव्यं कल्प्यते नान्यस्य, अन्यदपि तदनन्तरं भवति तत्कथमेतत्तस्य कल्प्यत इति भावः । तस्मात् 'हन्तेति' परपक्षस्य विचारासहनत्वेन विपादसूचने । तदुक्तम् - " हन्त हर्पेऽनुकम्पायां, वाक्यारम्भविषादयोरिति । किं तेन तदनन्तरं सद्भाव इत्यनेनोद्घोषितेन ?, यस्मादयमित्थं विचार्यमाणो व्यामोह हेतुरिति ॥ २८२ ॥ पर आह तं चैव तदरू को वामोहोति ? किं न अण्णंपि ? | किंवा अणुरुवत्तं तद्धमाणुगमविरहम्मि ? ॥ २८३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy