________________
धर्म
संग्रहणिः
॥१२४||
SSCLAC-TOCOCCCC
'तदेव' विवक्षितं तदुत्तरघटक्षणलक्षणं कार्य तदनुरूपं' विवक्षितघटलक्षणकारणानुकारं, नान्यत् पटक्षणादि,अत- स्तदेव तस्य कार्य, नेतरत् , तथा च को दोपः ? इत्यत्राह-किं न अन्नंपित्ति' काका नीयते किं नान्यदपि पटक्षणादि| तदनुरूपमस्ति?, येन तदेव तस्य कार्य स्यान्न तु पटादि, अस्त्येवेतिभावः, सर्वस्यापि कथंचिद्वस्तुत्वादिना परस्परमनुकारित्वात् । अपिच, तद्धर्मानुगमविरहे' विवक्षितकारणधर्माणां तद्रूपगन्धादीनामनुगमाभावे किमनुरूपत्वं स्यात् ?, नैव किंचिदितिभावः, पटादेरिव विवक्षितस्यापि कार्यस्य कारणधर्मानुगमाभावाविशेषात् ॥२८३॥ तत्खाभाव्यमेव कार्यस्य पूर्वोक्तमभ्युच्चयेन दूषयन्नाह
___ कजाणं अखिलाणं असेसकारणविसेसरहियाणं ।
जो तस्तभावभेओ वइमेत्तातोऽणियमहेतू ॥ २८४ ॥ योऽयमशेषकारण विशेषानुगमरहितानामखिलानां कार्याणां स्वस्वकारणापेक्षया तत्तत्वभावभेदः प्रतिकार्य व्यवस्थाया नियमहेतुरुद्धष्यते सोऽनियमहेतुरेव । कुत इत्याह-वइमित्ताउत्ति' भावप्रधानोऽयं निर्देशः, वाङ्मात्रत्वात् , वाङ्मात्रता च तत्साधकप्रमाणाभावात् , नच वामात्रेणेष्टसिद्धिर्भवति ॥२८४॥ अत आह
जं अण्णहावि तीरइ वइमेत्तेणं भणिउं स मिच्छत्ति ।
॥१२॥
454545
Jain Education
For Private & Personel Use Only
Rileww.jainelibrary.org