SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jain Education In वा प्रसज्यप्रतिषेधरूपा निवृत्तिर्भवेत् । वाशब्दः पक्षान्तरसूचनार्थः । तत्राद्यं पक्षमधिकृत्याह – यदि तदेव प्रत्यक्षमात्मनो ग्राहकत्वेन निवर्त्तमानं निवृत्तिशब्देनाभिधीयते तर्हि विरोधः, तथाहि - प्रत्यक्षनिवृत्त्या गम्यते वस्त्वभाव इत्युक्तं, सा च निवृत्तिः प्रत्यक्षमेव निवर्त्तमानमनिवर्त्तमानं च प्रतिषेधविषये प्रत्यक्षम विद्यमानम्, अविद्यमानेन च प्रत्यक्षेण वस्त्वभावो गम्यत इति व्याहतम्, अविद्यमानस्य खरविषाणस्येवावगम निबन्धनत्वाभावात् । तदुक्तं - "प्रत्यक्षस्य निवृत्तेरभावनिश्चयः इति चेत् तच नास्ति तेन च प्रतिपत्तिरिति व्याहत मेतदिति ॥ ११९ ॥ स्यादेतत्, न तत् प्रत्यक्षं विषयान्तरविषयमात्मनो ग्राहकत्वेन निवर्त्तमानमपि सर्वथा अविद्यमानमेव, तस्य भावात्, स्वरूपेण च विद्यमानं प्रवृत्तिविषये सद्व्यवहारं निवृत्तिविषये चासव्यवहारं प्रवर्त्तयिष्यति ततो न कश्चिद्दोष इत्येतदेवाह - अह तु तदंतरमेसा णो तसिएण तस्स संबंधो । सिद्ध कहं ततो णु तदभावविणिच्छओ एत्थ ? ॥ १२० ॥ अथ स्यादियं मतिः परस्य - तुशब्द एवकारार्थी भिन्नक्रमश्च । 'तदन्तरमेव' प्रत्यक्षान्तरमेव वस्त्वन्तरविषयमेषानिवृत्तिः, ततो न कश्चिद्दोषः, तथाहि — वस्त्वन्तरविषयं प्रत्यक्षमात्मनो ग्राहकत्वेन निवृत्तमतो निवृत्तिशब्देनाभिधीयते, तच्च विद्यमानं, ततः प्रवृत्तिविषये सद्यवहारं निवृत्तिविषये चासव्यवहारं प्रवर्त्तयिष्यति, यथा केवल भूतलविषयं घटा For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy