SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥२०२॥ भिन्नक्रमः स च यथास्थानं योजितः॥५१४॥ यदपि च विगानतः परलोकविवाधकत्वं भावयताभिहितम्-'अन्नेण अन्नहादेसियम्मि इत्यादि', तत्र प्रतिविधानमाह वादे वि कलुसभावो बंधनिमित्तमिह ण पुण णाणं ति । अन्नाणावगमेणं तं पुण कम्मक्खयनिमित्तं ॥ ५१५ ॥ | अन्येनान्यथादेशिते भावे सति वादेऽपि क्रियमाणे यश्चित्तस्य कलुपभावः स एवेह बन्धनिमित्तं न पुनर्ज्ञानं, केवलं तत्पुननिमज्ञानापगमकारितया कर्मक्षयनिमित्तमेव । एतदुक्तं भवति-यदा विवेकपूतात्मतया ज्ञानगर्वमपहाय परेषामुपकारबुद्या वादं विधत्ते तदा तत् ज्ञानं तस्य वादिनः परेषामज्ञानापगमकारितया कर्मक्षयनिमित्तमेव भवति । ततो न ज्ञानं परलोकस्य विवाधकं किंतु चित्तस्य कलुपभाव इति न कश्चिद्दोपः ॥५१५॥ यथा च विवेकामात्मनो वादे चित्तस्य कलुपभावो न भवति तं विधिमुपदर्शयन्नाह वादो वि वादिनरवइपरिच्छगजणेसु निउणबुद्धीसु। मज्झत्थेसु य विहिणा उस्सग्गेणं अणुन्नाओ ॥ ५१६ ॥ वादोऽपि तीर्थकरगणधरैरुत्सर्गेण विधिना अनुज्ञातो वादिनरपतिपरीक्षकेषु निपुणबुद्धिपु-मध्यस्थेषु सत्सु ना ॥२०२।। Jain Education in For Private & Personel Use Only W ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy