SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ___चोऽत्राधिक्षेपसूचने। किमुपादानम्-उपादानकारणं से' तस्य विकल्पस्य स्यादिति वाच्यम् ?, किमत्र वक्तव्यं ?,तदेव निर्विकल्पं ज्ञानं तस्योपादानमिति चेत् ? । अत्राह-तदेव निर्विकल्पकं यदि उपादानमिष्यते ततः कथं वस्तुनः-खलक्षणरूपानिर्विकल्पकादवस्तु-अवस्तुरूपमिदं विकल्पज्ञानमुपजायते ?,अवस्तुता चास्य द्रष्टव्या,तत्कल्पनस्याऽवस्तुत्वात् ,18 तस्य च तदव्यतिरिक्तत्वात् । अथोच्येत-तदपि विकल्पज्ञानं कथंचित्खसंवित्त्यपेक्षया वस्त्विष्यते । अत्राह-'तो' ततो नावस्तु, किन्तु वस्त्वेव, खसंवित्त्यतिरिक्तस्य रूपान्तरस्साभावात् । दूषणान्तरमाह-विरोधो वा, तथाहि-यदि वस्तु। कथमवस्तु ? अवस्तु चेत् कथं वस्तु ?,वस्तुत्वावस्तुत्वयोः परस्परपरिहारेणावस्थानात्। तदेवं विकल्पः पराभ्युपगमपर्यालोचनया न गृहीतग्राही युज्यत इति व्यवस्थापितम् ॥ ३५५ ॥ सांप्रतमादिशब्दाक्षिप्त निविषयत्वं दूषयितुमाशङ्कमान आह अह सो निविसओ चिय ण पयदृइ किमिह छट्ठखंधेवि । तदंसणुत्तरद्धं च किं ततो तप्पवित्ती य ? ॥ ३५६ ॥ अथ स-विकल्पको निर्विषय एव "विकल्पोऽवस्तुनिर्भासा-"दित्यादिवचनात् अतोऽप्रमाणमिति। यद्येवं ततः। किमिह रूपादिस्कन्धपञ्चकव्यतिरिक्त षष्ठे स्कन्धे स विकल्पो न प्रवर्तते ?, उभयत्रापि निर्विषयत्वाविशेषात् । Jain Education Inted For Private & Personel Use Only Marw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy