SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ धर्म ॥९॥ Jain Education Inter । 'वैशाल्या नगर्यो 'स्मरे' स्मरायतने, जिनस्य-भगवतो महावीरस्य वर्षास्थानमभूत् । तत्र च स्थितस्य भगवतः प्रतिमां - कायोत्सर्गे प्रपन्नस्य श्रेष्ठीनो दर्शनमजायत, श्रेष्ठी प्रतिमाप्रतिपन्नं भगवन्तं दृष्टवानित्यर्थः । दर्शनानन्तरं | चातिभक्तिः समुल्ललास । चतुर्मासानन्तरं च पारणकदिने मनोरथः प्रादुरभूत्-यदि भगवान् मम गृहे पारयति ततोऽहं कृतपुण्य इति । भगवांश्चान्यत्र प्राविशत् । तत्र च यादृच्छिकदानमभूत् । ततो 'धारा' इति वसुधारा न्यपतत् । लोके च कृतपुण्य इति प्रशंसा । तस्मिन्नेव च दिने केवलिन आगमनं, तस्य समीपे जनस्य पृच्छा, कः पुण्यवानस्यां नगर्यो ?, केवली प्राह-जीर्ण श्रेष्ठीति गाथाद्वयाक्षरार्थः ॥ ११-१२ ॥ भावार्थः कथानकादवसेयः, तच्च संक्षेपत इदम्| एकदा भगवान् वर्द्धमानखामी ग्रामानुग्रामं विचरन् वैशाल्यां नगर्यां स्मरायतनेऽवग्रहमनुज्ञाप्य वर्षाकालमवस्थितवान् । तत्र च स्थितं भगवन्तं प्रतिमाप्रतिपन्नमपश्यत् जीर्णश्रेष्ठी । दृष्ट्वा चाहो भगवतो निष्प्रतिकर्मशरीरता, | निरुपमं किमपि वचनगोचरातीतं परमपदविषयं ध्यानं, असाधारणा जगज्जन्तुवत्सलता मनागपि चेष्टाया अकरणात् मूर्त्तः खल्वेष संयमराशिः सर्वात्मना गुप्तत्वात् भावी चैष सम्भाव्यते तीर्थकरः अन्यथैवंविध| लक्षणानामयोगादिति विचिन्त्य परमभक्तिपरीतचेता वभूव । भिक्षाटनाकरणतश्च ज्ञातो भगवतस्तेन चातुर्मासि | कोऽभिग्रहः, अतिक्रान्ताश्चत्वारो मासाः प्राप्तो भगवतः पारणक दिवसो, ददृशे भिक्षागोचरं प्रति चलितो भगवान् । For Private & Personal Use Only संग्रहणि. ॥९॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy