________________
समुद्बभूव तस्य पुण्यप्रेरितो निरुपमपुण्यानुवन्धी मनोरथो, यथा " धन्योऽहमस्मि यदि भगवान् मम गृहे पारणकं करोति" तत एवं सञ्जातमनोरथस्त्वरितमेव खगृहमागत्य प्रवृद्धशुभशुभतरभावनाको भगवन्तमागच्छन्तमीक्षितुं है प्रावर्त्तिष्ट । अचिन्तयच-इहेदानी किलागच्छति इहेदानी किलागच्छतीति । भगवांश्चादीनमनस्को यथास्थितगोच
रस्थित्या परिभ्रमन् अभिनवश्रेष्ठिगृहे प्राविशत् । सोऽपि चाभिनवश्रेष्ठी भगवन्तमागच्छन्तमालोक्य भद्रकभावेन यदृच्छया कुल्माषादिभोजनमदापयत् । ततः पात्रविशेषप्रभावतः प्रादुरभूवन् नभसि चेलोत्क्षेपादीनि दिव्यानि । निपतिता अर्द्धत्रयोदशहिरण्यकोटयः । जाता चाभिनवश्रेष्ठिनो लोकतः प्रशंसा-अहो कृतपुण्योऽयमिति । जीर्णश्रेष्ठ्यपि भगवतः पारणकं संवृत्तमाकर्ण्य नागमद्भगवान्मद्गृहमित्यवस्थितपरिणामो बभूव । भगवानपि ततः स्थानात्क्षेत्रान्तरं विजहार ॥ अथ च तस्मिन्नेव दिने भगवत्पार्श्वनाथसंतानवर्ती मुनिरुत्पन्नकेवलज्ञानदर्शनो वैशाल्यामागच्छत् । विदितश्च लोकेनागतः। समस्तोऽपि लोकस्तस्य समीपमाययौ । वन्दित्वा विस्मितचेता वसुधारावृत्तान्तमपृच्छत् । यथा-भगवन्नद्य कोऽस्यां नगयों कृतपुण्य इति, भगवानुक्तवान्-जीर्णश्रेष्ठी । लोक उवाच-भगवन् ! न तस्य गेहे भगवान् पारणकं कृतवान् , न च वसुधारा निपतिता, ततः कथं स पुण्यवानिति । केवल्यवादीत्कारितो भगवान् भावतस्तेन पारणम् , अपि चेदृशः खलु तस्य परिणामस्तदानीमजायत, यदि स्तोकवेलायां भगवतः पारणकवृत्तान्तं नाश्राविष्ट (नाऽश्रोष्यत्), ततः प्रवर्द्धमानसंवेगतया क्षपकश्रेणिमारुह्य केवलज्ञानमवाप्स्यत्, परं
Jain Education inte
For Private & Personel Use Only
www.jainelibrary.org