________________
धर्म
संग्रहणि:
॥१०॥
पारणकवृत्तान्तं श्रुत्वा झटित्येवावस्थितपरिणामः समजनि । अपि च-प्राप्तं तेन श्रद्धातिशयतो निरुपहतं मोक्षवीजम् , अतो महत्तमपुण्यस्कन्धार्जनेन स एवास्यां नगर्यो सुपुण्यो, यस्त्वभिनवश्रेष्ठी स भगवतो दानं दापयन्नपि मन्दपरिणामत्वान्न सुपुण्यो, यच्च वसुधारानिपतनं तदेकजन्मिकत्वान्न महदिति ॥ तदेवं यतः खपरयोः सम्यक्त्वादिषु संस्थापनरूपाद्भावोपकारादेव सिद्धिः, नान्यस्माद्, अत आचार्योऽपि भव्यजन्तूनुपचिकीपुरत्रैव भावोपकारे प्रवृत्ति|मातन्वानो यथेदं प्रकरणमारम्भणीयं भवति तथा प्रतिपादयन्नाह
सम्मत्तादिसु जम्हा संठवणं होइ जिणुवदेसातो।
सो अपरिमिओ उ तओ सुहगम्मं किंपि वोच्छामि ॥१३॥ यस्मात्सम्यक्त्वादिषु खपरयोः संस्थापनं जिनोपदेशाद्भवति, 'सच' जिनोपदेशः सूत्रतोऽर्थतश्चापरिमितो नाल्पमेधोभिरिदानींतनजनैरवगाढुं शक्यते, अतस्तदुपकाराय जिनोपदेशादुद्धत्य सुखगम्यं किमपि वक्ष्यामि ॥ १३॥ यत्कथंभूतमित्याह
मेधामतिपरिहीणावि, जमिह णाऊण चरणरयणस्स ।
Jain Educaton Inter
For Private & Personel Use Only
www.jainelibrary.org