SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Jain Education Int भूता शक्तिस्तत्रस्थैव - लोहोपलस्थैव सती कार्यकरी - खसंबन्धिच्छायाणुपरिमितदेशगमनकरी, तद्वदियमपि लोहा करेंणशक्तिस्तत्रस्था परिमितदेशविषया लोहाकर्षणकरी भविष्यति, ततो न कश्चिद्दोषः ॥ ३७७ ॥ अत्र पर आह— नो तस्स तन्निमित्तो तम्मि देसम्म तेसि सन्भावो । किंतु तदविणाभूता सहावतो चेव ते होंति ॥ ३७८ ॥ नो तस्य-लोहोपलस्य तन्निमित्तः - शक्तिनिमित्तस्तस्मिन् परिमिते देशे तेषां - छायाणूनां सद्भावः, किंतु खभावत एव ते छायाणवस्तदविनाभूता- लोहोपलाऽविनाभूताः प्रवाहतो लोहोपलममुञ्चतो लोहदेशगामिनो भवन्ति, ततो नात्मस्था लोहोपलस्य शक्तिर्भिन्नदेशकार्य करीति तद्दृष्टान्तानुपपत्तिः ॥ ३७८ ॥ अत्राचार्य आह तेसि खलु जो सहावो तस्स व णणु सेव होति सत्तित्ति । अविणाभावम्मिय से इतरम्मि वि अत्थि सामत्थं ॥ ३७९ ॥ तेषां - छायानां यः स्वभावो लोहोपलाऽविनाभावनिबन्धनं ननु स ' तस्सवेति' तस्यैव लोहोपलस्यैव स्वभावतस्तस्य | तथास्वभावाभावे तेषामपि तथास्वभावत्वायोगात्, 'सेव होइ सत्तित्ति' सैव च भवति शक्तिः, शक्तिस्वभावशब्दयोः पर्यायत्वात्, अविनाभावे च तेषां छायाणूनामविनाभावविषये च 'से' तस्य लोहोपलस्य शक्ताविष्यमाणायामितर For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy