________________
| संग्रहणि
धर्म- ॥१६२॥
CARDCORRC-
स्मिन्नपि लोहाकर्षणे सामर्थ्य-शक्तिरस्तीत्यभ्युपगम्यतां, विशेषाभावात् ॥ ३७९ ॥ अपि च
अब्भुवगम्माणूणं तहभावं भणितमेतमो एत्थ।
तद्देसम्मि य तेसिं नियमा सत्तंपि हु असिद्धं ॥ ३८० ॥ अभ्युपगम्य अणूनां तथाभावं-तथा लोहेन संघट्य ते लोहमाकर्षन्तीत्येवंभावम् एतत्-पूर्वोक्तं 'परिमियविसया सत्ती' इत्यादिकमत्र-विचारप्रक्रमे भणितम् , यावता तद्देशे तेषां-लोहोपलच्छायाणूनां नियमात्सत्त्वमप्यसिद्धं, तद्राहकप्रमाणाभावात् । नन्वस्ति तद्वाहकमनुमानम् । तथाहि-यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य संदंशेन, भवति चाकर्षणं लोहस्य लोहोपलेन, तत्र साक्षात्संसर्गो लोहोपलयोः प्रत्यक्षवाधित इत्यर्थात्संसर्गः छायाणुभिरिति
छायाणूनां सत्त्वम् । तदयुक्तम् , हेतोरनैकान्तिकत्वात् , मन्त्रेण व्यभिचारात् । तथाहि-मत्रेण स्मर्यमाणेनापि भवति है विवक्षितवस्त्वाकर्षणं, न च तत्र कश्चिदपि संसर्गस्ततो नेदमनुमानमिति न सिद्धं छायाणूनां सत्त्वम् । तस्मात् यथा
लोहोपलस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि लोहमाकर्पति तथेदमपि ज्ञानमात्मस्थं सत् अचिन्त्यशक्तियुक्ततया लोकान्तं परिच्छिनत्तीति स्थितम् ॥ ३८ ॥ स्यादेतत् , परिच्छिनत्तु ज्ञानमात्मस्थमेव सत् ज्ञेयं, तत् पुर्नज्ञेयं लोकातस्थमपि यावत् परिच्छिनत्तीति कथं श्रद्धीयते ? शक्तेः परिमितविषयतया दर्शनादित्यत आह
MASSACROCOCONCE
॥१६२॥
RACK
Jain Education in
For Private & Personel Use Only
wwww.jainelibrary.org