________________
1964
धर्म॥७॥
"भवितुमर्हति, तदानणं इत्युक्ताबापू
वादनकान्तिकत्वमु
भिप्रायमात्रेण 'वस्तुनो' घटादेरभावः। न हि वस्तु प्रवाद्यभिप्रायनिमित्तं, येन तदसंगतत्वे वस्तुनोऽप्यभावः स्यात्, किंतु | संग्रहणिः खकारणकलापनिमित्तम् । ततश्चायमप्यागमो यथावस्थितपदार्थप्रकाशनस्वभावतया खयं प्रमाणं सन् परस्परं वादि-15 नामसंगताभिप्रायत्वमात्रेण नाप्रमाणं भवितुमर्हति, तदभिप्रायनिमित्तप्रामाण्यानभ्युपगमात् । इहाभिप्रायविशेपेणैव वादिनो वस्तु प्रति परस्परमसंगता न खरूपेणेति 'असंगयमेत्तेणं' इत्युक्तावपि असंगताभिप्रायत्वमात्रेणेति व्याख्यातम् ॥१३२॥ तदेवं वादिनामसंगताभिप्रायत्वमात्रस्य वस्तुतथाभावाभावे प्रतिबन्धाभावादनैकान्तिकत्वमुद्भाव्य सांप्रतं साधारणानकान्तिकत्वमुपदर्शयन्नाह
ण य संगया पवादी भूतेसुवि अह य ताणि विजंति ।
णजंति य एवं चिय आगमपक्खेवि को दोसो ? ॥ १३३॥ चशब्दो संगताभिप्रायत्वस्य साधारणानैकान्तिकत्वदोषसमुच्चयार्थः । न परस्परं 'संगताः' संगताभिप्राया वादिनो भूतेष्वपि' पृथिव्यादिषु । तथा चाहुरेके-“न सन्त्येव पृथिव्यादीनि भूतानि किंतु विज्ञानमात्रमेवेदमिति" । अपरे पुनराहुः-"प्रधानपरिणामरूपं जगदित्यादि" । अथ च तानि विद्यन्ते न पुनर्वादिनामुक्तप्रकारेणासंगताभिप्रायत्वमात्रेऽपि तेषामभावः, न च तानि प्रतिज्ञामात्रेण विद्यन्ते, किंतु ज्ञायन्ते च प्रत्यक्षादिना प्रमाणेन, एवमेव चिय
SSCRACROCALCREASEAX
Jain Education International
For Private & Personel Use Only
X
w w.jainelibrary.org