________________
धर्म
॥१६८॥
Jain Education In
जातस्सवि पुण करणे जायइ अणवत्थदोसो उ ॥ ४०३ ॥
न विनाश्यमेव घटादिकं तावद्विनाशहेतुः - मुद्गरादिः करोति यस्मात्स विनाश्यो — घटादिः खहेतुत एव - मृत्पिण्डादेः समुत्पन्नस्तस्मान्न तमेव विनाश्यं करोति । अथ यद्यपि स्वहेतुभ्यः समुत्पन्नस्तथापि तं करिष्यतीत्याशङ्कापोहायाह - 'जायस्सेत्यादि' जातस्यापि पुनः करणेऽभ्युपगम्यमाने जायते - आपद्यते अनवस्थादोषः, जातत्वाविशेषेण पुनःकरणप्रसक्तेः ॥ ४०३ ॥ द्वितीयं पक्षं दूषयितुमाशङ्कमान आह
अह उ तदन्नं किं तस्स आगयं ? तेण तादवत्थातो ।
दीसेज तओ कुजा कज्जंतरमो य जहपुत्रिं ॥ ४०४ ॥
अथ तदन्यत् —— कपालादिकं विनाशहेतुः करोतीत्यभ्युपगमः, तर्हि किं तस्य -- विनाश्यस्य घटादेरागतं ?,नैव किंचित्, विनाशहेतोस्तदन्यकरणे व्यापृतत्वात् तेन कारणेन 'तउत्ति' सको विनाश्यो घटादिः प्रागिव दृश्येत, यच्च स्वप्रतिबद्धं कार्यान्तरं तदपि कुर्यात् यथा स्वविनाशहेतूपनिपातात्पूर्वम् । कुत इत्याह- तादवस्थ्यात् — स्वरूपाभ्रंशात् । ॥ ४०४ ॥ अथ तेन कपालादिना आवृतत्वान्न प्राग्वदस्य दर्शनादिप्रसङ्ग इति मन्येथास्तत्राह - आवरणंपि न जुज्जइ तप्पभवं तस्स तादवत्थातो
For Private & Personal Use Only
संग्रहणिः०
॥१६८॥
www.jainelibrary.org