SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अन्नह तओ उ णासो एत्थ य पुवोदिओ दोसो ॥ ४०५ ॥ आवरणमपि-आब्रियमाणत्वमपि तस्य-घटादेविनाश्यस्य तत्प्रभवं-मुद्रादिजन्यमानतदन्यकपालादिप्रभवं न | युज्यते-न घटते। कुत इत्याह-तादवस्थ्यात् , अन्यथा-तादवस्थ्यानभ्युपगमे तत एव तदन्यस्मात्कपालादेन शोऽभ्युपगतः स्यात् । स्यादेवं को दोष इति चेत् । अत्राह-अत्र च कपालादेन शाभ्युपगमे पूर्वोदितो दोषो द्रष्टव्यः । तथाहि-तेनापि कपालादिना किं तदेव घटादिकं क्रियते किंवा तदन्यद्भावान्तरमित्यादि तदेवावर्चत इति ॥४०५॥ तृतीयं पक्षमधिकृत्याह ततियम्मि पज्जुदासे हंत वियप्पम्मि अविगला दोसा। एतच्चिय विन्नेया भावंतरओ उ तस्सावि ॥ ४०६ ॥ इह तदभावं विनाशहेतुः करोतीति किं पर्युदासविधिना विवक्षिताद्भावादू भावान्तरमेव करोतीत्युच्यते, किंवा तत्प्रध्वंसमिति विकल्पद्वयम् । तत्र पर्युदासरूपे तृतीये विकल्पे आश्रीयमाणे ये दोषाःप्राक् द्वितीये विकल्पेऽभिहिता एत एवेहाप्यविकला ज्ञेयाः। कुत? इत्याह-'भावन्तरओय तस्सावित्ति' तस्यापि-पयुदासविधिनाऽभिमतस्य तदभावस्य भावान्तरत्वात् , तथा च सति विनाशहेतोस्तत्रैव व्यापाराद्विनाश्यस्य तादवस्थ्यमित्यादि प्रसज्यते इति ॥४०६ ॥ CAREOCALORECASEARC Jain धर्म.२९ For Private & Personel Use Only R ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy