________________
धर्म
संग्रहणि
॥१८॥
६
तुल्लमिणं इतरम्मि वि अत्थविसेसे विधणिमेत्तं ॥४४३॥ अथ खहेतुं खोत्पादहेतुं-मुक्त्वा स भावो न खविनाशेऽन्यं हेतुमपेक्षते इति तस्य नाशो निहतुक इत्युच्यते । अत्राचार्य आह-तुल्यमिदमितरस्मिन्नपि-उत्पादे, न हेतुमतिरिच्यान्यं हेतुमपेक्षते इति, तत इत्थमर्थाविशेषेऽपि यदिदमुच्यते सहेतुक उत्पादो निर्हेतुको विनाश इति, तत् भावार्थशून्यं ध्वनिमात्रमेवेति ॥४४३॥
अह तं पइ हेउस्सा अहेउगत्तं पसाहियं पुत्विं ।
णेयेहि वियप्पेहिं जातिवियप्पा हु ते णेया ॥ ४४४ ॥ अथोच्येत-किमनेन वाग्जालेन ?, घटादिविनाशं प्रति यो हेतुर्मुद्गरादिरभ्युपगम्यते तस्याहेतुत्वमनेकैर्विकल्पैः। पूर्व-प्राक् प्रसाधितं, तदपेक्षया चासौ निर्हेतुक इत्युच्यत इत्यदोषः । अत्राह-'जाइविगप्पा हु ते नेया' ये मुद्गरादेरहेतुत्वप्रसाधनाय अनेके विकल्पाः प्रागभिहितास्ते सर्वेऽपि हुरवधारणे प्रत्यक्षबाधितविषयतया जातिविकल्पा एव ज्ञेयाः॥४४४॥ जातिविकल्पत्वमेव द्रढयति
जम्हा अणुहवसिद्धे तस्सुप्पाए वि एवजातीया। संति वियप्पा तेसिं भावे विय तस्स णाभावो ॥४४५॥
॥१८॥
Jain Education
For Private & Personel Use Only
Viwww.jainelibrary.org