________________
यस्मात्तस्य-भावस्योत्पादेऽपि प्रतिप्राण्यनुभवप्रमाणसिद्धे एवंजातीया विकल्पाः सन्ति, न च तेषां विकल्पानां भावेऽपि तस्य-उत्पादस्याभावो भवति, तद्वन्नाशपक्षेऽपि भविष्यतीति ॥ ४४५॥ तानेवोत्पादविषयान् विकल्पान् दर्शयन्नाह
उप्पत्तिसहावं वा-णुप्पत्तिसहावगं व तद्धेऊ ।
कुज्जा भावं उभया-णुभयसहावं व इति भेदा ? ॥ ४४६ ॥ तद्धेतु:-भावहेतुर्भावमुत्पत्तिखभावं वा कुर्यात् , अनुत्पत्तिखभावं वा, उभयखभावम्-उत्पत्त्यनुत्पत्तिखभावमनुभयस्वभावं वेति, भेदा-विकल्पाः , न चैतेषामन्यतमोऽपि भेदो घटते ॥ ४४६ ॥ तथा चाह
जइ उप्पत्तिसहावं अफलो तस्सेव तस्सभावत्ता ।
तू तदवेक्खम्मि य तम्मि विणासेवि किमजुत्तं ? ॥ ४४७॥ यदि भावहेतुरुत्पत्तिखभावं भावं करोतीति पक्षस्ततः स हेतुरफलः । कुत इत्याह-तस्यैव तत्स्वभावत्वात्तदुत्पादसिद्धेः । अथोच्येत-तस्येत्थंभूत एव स्वभावो येन विवक्षितं हेतुमपेक्ष्योत्पद्यते नान्यथेत्यत आह-'तदवेक्खम्मीत्या
DMCAMOSAROKAR
For Private & Personel Use Only
O
ww.jainelibrary.org