________________
संग्रहणि
॥१६०॥
गंतुंण परिच्छिदइ नाणं णेयं तयम्मि देसम्मि।
आयत्थं चिय नवरं अचिंतसत्तीउ विन्नेयं ॥ ३७१॥ न ज्ञानं यस्मिन् देशे ज्ञेयमस्ति तस्मिन् देशे गत्वा ज्ञेयं परिच्छिनत्ति, नवरं किंतु आत्मस्थमेव सत् तत् दरदेश स्थस्यापि ज्ञेयस्य परिच्छेदकमचिन्त्यशक्तेर्विज्ञेयम् ॥ ३७१ ॥ अमुमेवा) दृष्टान्तेन भावयति
लोहोवलस्स सत्ती आयत्था चेव भिन्नदेसंपि ।
लोहं आगरिसंती दीसइ इह कजपच्चक्खा ॥ ३७२ ॥ लोहस्साकर्षक उपलः लोहोपलः, अत्राकृष्याकर्षकभावलक्षणसंबन्धे षष्ठी, यथा राज्ञः पुरुष इत्यत्र पोष्यपोषकभावे, | तस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि-भिन्नस्थ(लस्थ)मपि लोहमाकर्षन्ती दृश्यते, न च दृष्टे अनुपपन्नं नाम। अती|न्द्रियत्वाच्छक्तीनां कथं तस्या दर्शनमिति चेत्। अत आह-कार्यप्रत्यक्षा' कार्य-लोहाकर्षणलक्षणं प्रत्यक्षं यस्याः सा कार्यप्रत्यक्षा, एतदुक्तं भवति-तत्कार्यस्य प्रत्यक्षत्वात् सापि दृश्यत इति व्यवहियत इत्यदोषः ॥३१२॥ तदेवं दृष्टान्तमभिधाय दार्शन्तिके योजनामाह
एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं ।
॥१६॥
Jain Education in
For Private Personel Use Only
Miww.jainelibrary.org