________________
Jain Education Inte
ते–रविकिरणाः तुल्यं–समकालं सर्वदिशं सर्वासु दिक्षु ज्ञेयमुद्योतयन्ति, ज्ञानं पुनर्भवति एकस्मिन् देशे वस्तूनां प्रकाशकं ततो नेह रविकिरणा दृष्टान्तत्वेनोपयुज्यन्ते, ज्ञानस्य तैः सह साधर्म्याभावात् । अत्राह - 'कम्मघणेत्यादि' एवं एकदेशस्थित वस्तुप्रकाशकत्वलक्षणेन प्रकारेण ज्ञानमात्मनो भवति कर्मघनपटलाच्छादितरूपस्य सतो, न तु विशुद्धस्य - सकलकर्म कलङ्कविप्रमुक्तस्य तथाभूतस्य संबन्धिनो ज्ञानस्य समकालं सर्वासु दिक्षु सकलज्ञेयविषयतया प्रवर्त्त|मानत्वात् । ततो न दृष्टान्तदान्तिकवैषम्यं, खेरपि घनपटलाच्छादितस्य किरणानामेकदेशविषयत्वात् ॥ ३६९ ॥ | अधुना प्रकारान्तरेण परो दृष्टान्तदार्शन्तिकयोर्वैपम्यमाह -
किरणा गुणा ण द तेसि पगासो गुणो ण यादवो । जं नाणं आयगुणो कहमद्दवो स अन्नत्थ ? ॥ ३७० ॥
ननु किरणा गुणा न भवन्ति किंतु द्रव्यं यस्तु तेषां किरणानां प्रकाशः स गुणो, न चासौ प्रकाशरूपो गुणोऽद्रव्यो- द्रव्यदेशादन्यत्र वर्त्तते, ज्ञानं पुनरिदं यत् - यस्मादात्मगुणस्ततः स कथमद्रव्यो- द्रव्यरहितः सन् अन्यत्र आत्मदेशपरित्यागेन भवेत् ?, नैव भवेदितिभावः । तस्माल्लोकान्ते ज्ञानदर्शनादयमात्मा सर्वव्यापी प्रतीयते एव ॥ ३७० ॥ तदेवं चिरादवबुध्यमानेन परेणाभिहिते सत्याचार्यः सम्यगुत्तरमाह -
For Private & Personal Use Only
www.jainelibrary.org