SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ह-'ण एत्थ वि पमाणं' न तत्रापि-देवागमादौ किंचित् प्रमाणं, नहि देवागमादिकं तस्यासीदित्यत्र किंचित् प्रमाणमस्ति, भवेद्वा प्रमाणं तथापि नेदं देवागमादिकं सर्वज्ञविशेषावसायलिङ्गम् । यत आह-'साहारणं च तं पि हु इति तदपि-देवागमादिकं तदन्यमायाविनामपि साधारण-समानम् , उक्तं च भावत्करपि-"देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥१॥” इति ॥ तस्मान्न देवागमादिकमपि सर्वज्ञविशेषावसायलिङ्गम् । अत्रैवाभ्युच्चयेनाह-'भावम्मि वि तदुवएसम्मि' भावेऽपि देवागमादीनां सर्वज्ञविशेषावसायलिङ्गत्वस्य, तदुपदेशे-विवक्षितवर्द्धमानखाम्यादिसर्वज्ञविशेषोपदेशे किं प्रमाणं? यथाऽयं वर्द्धमानखाम्युपदेशो नत्वन्यकृत इति ।। नैवात्र किंचित् प्रमाणमिति भावः ॥५०४॥ अभ्युपगम्याप्येतत् दूषणान्तरमाह णातेवि तदुवदेसे एसेवत्थो मउ ति से कह णु ? । नजइ चित्तत्था खल्लु जं सदा समइयाणेगे ॥ ५०५॥ ज्ञातेऽपि तदुपदेशे-विवक्षितवर्द्धमानखाम्यादिसर्वज्ञविशेषस्य संबन्धित्वेनोपदेशे तस्य-उपदेशस्य एष एवार्थो मतो लोनत्यन्य इति कथं नु ज्ञायते?, नैव कथंचन, यस्मादनेके शब्दाः समयिताः सन्तो लोके खलु चित्रार्था-नानार्थाः श्रयन्ते । तस्मान्न तदुपदेशस्य विवक्षितार्थनियमनिश्चय इति ॥ ५०५॥ अत्र परः सूरमतमाशङ्कमान आह Jain Education in For Private & Personel Use Only Pww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy