SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ NAGARMACISCtest द्ध एव,तथाप्रतीत्यभावात् ,इदं तु प्रागनेकधा भणितमिति न भूयो भूयः प्रपश्यते । तदेवं 'सिय कारणं विसिट्टमित्यादिना' यः प्राक् प्रतीत्योत्पादोऽभिहितः स सप्रपञ्चमपाकीर्णः॥ २७० ॥ सांप्रतं पुनर्यत्तत्रैव वैशिष्टयमुक्तं तदूषयितुमुपक्रमते-- वेसिटुंपि न जुज्जति खणिगत्ते कारणस्स सहजाणं । णो इच्छिज्जइ जम्हा विसेसकरणं कहंचिदवि ॥ २७१ ॥ क्षणिकत्वेऽभ्युपगते सति यत्कारणस्य वैशिष्ट्यमभिहितं 'सिय कारणं विसिमिति' तदपि न युज्यते । कुत इत्याह-यस्मात्सहजानाम्-एककालजातानां 'कथञ्चिदपि' केनापि प्रकारेण विशेषणं नेष्यते,परिनिष्पन्नत्वेन तेषां परस्परxमनाधेयातिशयत्वात् । अथ मा भूत्सहजानां परिनिष्पन्नत्वेन परस्परमतिशयाधानं द्वाभ्यां पुनरुपादानसहकारिकारणाभ्यां प्राक्तनाभ्यामेकीभूय विशिष्टं तदुत्पादितं, ततः सिद्धं वैशिष्टयमिति ॥ २७१ ॥ अत्राह भिन्नद्धाणमुवादाणकारणस्साविसेसभावम्मि । कत्तो फले विसेसो ?, ण य सो तस्सावि इय जुत्तो ॥ २७२ ॥ उत्पाद्यविशिष्टकारणापेक्षया 'भिन्नाद्धानां' भिन्नकालानां सहकारिणां संवन्धी कुतः ‘फले उत्पाद्यविशिष्टकारणलक्ष धर्म, २१ Jan Educalan Intel For Private & Personal Use Only Gilwww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy