SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Jain Education Int त्वेनापि ततः प्रामाण्याभ्युपगमे इतरेतराश्रयदोषस्तदवस्थ एव । तथाहि - तत्फलभूत सर्वज्ञप्रदर्शितार्थत्वेनागमस्य प्रामाण्यं, निश्चितप्रामाण्ये च तत्र प्रवृत्तौ सत्यां तत्फलभूतः सर्वज्ञ इति, न, सर्वज्ञपरंपराया अनादित्वेन दोषाभावात्, बीजाङ्कुरादिवत् । 'एमादीत्यादि' एवमादिकं - नागमस्यार्थोऽतीन्द्रियोऽन्यथा ज्ञातुं शक्यत इत्येवमादिकं सर्वमुपरि - सर्वज्ञसिद्धौ वक्ष्ये । तत्रावश्यं सप्रपञ्चं भणिष्यमाणत्वादिह पुनर्भणने ग्रन्थगौरवप्रसङ्गादिति ॥ ५२४ ॥ यच्चोक्तम्- 'भावम्मि वि तदुवएसम्मि किं माण' मिति तत्राह जो दिट्ठेऽविरुद्धो दयावरो सवभाववावी य । सो सन्देस जs किमओ परं माणं ? ॥ ५२५ ॥ उपदेशो दृष्टेष्टाविरुद्धोदयापरः- सर्वथा प्राणिहिंसा निषेधपरः, सर्वभावव्यापी च- समस्त वस्तुखरूपाभिधायी च, स ज्ञायते एष सर्वज्ञोपदेश इति । अन्यस्यैवंविधोपदेशदातृत्वायोगात् । ततः किमितो दृष्टेष्टाविरोधदर्शनादितोऽपरं मानं - प्रमाणमु (तदु) पदेशत्वज्ञप्तये मृग्यते ? न युक्तं तदन्वेषणं दृष्टेष्टाविरोधदर्शनादिनैव निःसंशयं तस्य तथाज्ञातत्वादित्यभिप्रायः ॥ ५२५ ॥ यत्पुनरुक्तं 'णाए वि तदुवएसे एसेवत्थो मतो त्ति से किह णु णज्जइत्ति' तत्रेदमाह - ते यदुवदेसे सेवत्थो मउत्ति से एवं । For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy