________________
एवान्यत्र-भवान्तरे वेदयिष्यते । य एव च शारीरमानसानेकदुःखभरापूरितशरीरः स एवापरिमितानन्दमन्दिरपरमपदयियासया तत्प्राप्त्यर्थमुपयुक्तः सन् मैत्र्यादिषु प्रयासमादधाति । य एव मैत्र्यादिषु प्रयासमाहितवान् स एवाभ्यासविशेषात् गुणप्रकर्ष-रागादिप्रहाणलक्षणं प्राप्नोति, मैत्र्यादिष्वित्यत्रादिशब्दात् करुणामुदितोपेक्षापरिग्रहः । तत्र प्रत्युपकारनिरपेक्षा प्रीतिमैत्री, दुःखात् दुःखहेतोर्वा या समुद्धरणकामना सा करुणा, अभिलषितहितवस्तुप्रात्या तुष्टिर्मुदिता प्रमोदाऽपरपर्याया, अशक्योपकारविशेषाधाने पुरुषे उपकाराधानं प्रत्युपेक्षणमुपेक्षा । एताश्च सत्वादिविषयतयाऽभ्यस्यमाना रागादिप्रहाणहेतवो भवन्तीति तद्विषयाः कर्तुमध्यवसेयाः, तदुक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिचिन्तनं सत्त्वगुणाधिकक्लिश्यमानाप्रज्ञाप्यगोचर"मित्यादि । तत एवमादिकः, आदिशब्दात् प्रत्यभिज्ञादृष्टविषयकौतुकतदसंप्राप्त्युद्वेगतदर्थप्रवृत्तितत्प्रात्यादिरूपश्च व्यवहारो लोकसिद्धः सकललोकप्रसिद्धो ननु कथं तत्र क्षणिकपक्षे स्यात् ?, नैव कथंचिदपीत्यर्थः ॥२३०-२३१ ॥ यस्मात् क्षणिकत्वे सतीदं प्राप्नोति
अन्नो वेदेड सह अपणो दक्खं पवत्तए अण्णो।
पावेति वेदती सुमरती य पत्तेयमन्नो तु ॥२३२ ॥ अन्यो वेदयते सुखम् अन्यश्च दुःखम् । प्रवर्तते चान्यः प्राप्नोति चान्य एव । वेदयते चान्यः स्मरति चान्यः ।
CLASAHESAGARLSHRESEARS
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org