SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ धर्म योऽत्यन्तशुभः संवेगप्रधानः परिणामो ज्ञानिनो भवति, या च परा-प्रकृष्टा पापनिवृत्तिनैतदुभयमप्यज्ञानिनःसंग्रहणिः. ॥२०९॥ ॥ ५४० ॥ कुत इत्याह संसारासारत्ते सारत्ते चेव मुत्तभावस्स । विन्नाते संवेगो पावनिवित्तीय तत्तो उ॥ ५४१ ॥ यस्मात् संसारासारत्वे, सारत्वे चैव मुक्तभावस्य-मुक्तत्वस्य विज्ञाते सति भवति संवेगः, तस्माच संवेगात्पापनिवृत्तिश्च भवति, तदपि च संसारासारत्वादि ज्ञायते सम्यग्ज्ञानात् , ततो नोभयमपीदमज्ञानिनः संभवति । तन्न ज्ञाने हा सत्यपि विशेषाभावः । तथा च सति यदुक्तम्-‘णाणेण अलं असंगस्सेति' तदतीवासमीचीनम् , ज्ञानस्य संसारासाहारत्वाद्यवगमनिबन्धनतया एकान्तेन चरणोपकारित्वात् ॥ ५४१॥ एतदेवोपसंहरन्नाह तम्हा परलोगसमुज्जतस्स भिक्खुस्स असढभावस्स । चरणोवगारगं इय णाणं सुत्तेविमं भणितं ॥ ५४२ ॥ 1.२०९॥ तस्मादितिः-एवमुक्तेन प्रकारेण परलोकसमुद्यतस्य भिक्षोरशठमावख ज्ञानं चरणस-चारित्रस्योपकारक, न तूपवातितकम् । एतदेव स्वमनीषिकाशङ्काव्युदासाय सूत्रेऽप्यतिदिशति-सूत्रेऽपीदं भणितम् ॥ ५४२॥ तदेव सूत्रं पठति Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy