Page #1
--------------------------------------------------------------------------
________________
OFANARWANAANANANANARWANANAMANANARWANAIAD
श्रीजैन-आत्मानन्द-ग्रन्थरत्नमाला-पश्चषष्टितमं रत्नम् (६५) महोपाध्यायश्रीचारित्ररत्नगणिविरचितः
दानप्रदीपः।
SATARIANARTAIAAWAANANE
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीशशिष्यप्रवर्तकश्रीमत्कान्तिविजयविनेयेन मुनिचतुरविजयेन संशोधितः । मुनिवर्यश्रीमद्-हंसविजयान्तेवासिमुनिदोलतविजयोपदिष्ट-पोरबन्दरवास्तव्य-श्रेष्ठि
धर्मसिंह-तनुजयोः मूलजी-दुर्लभदासयोर्द्रव्यसाहाय्येन
प्रकाशयित्री-भावनगरस्था श्रीजैन-आत्मानन्द सभा। इदं पुस्तकं मोहमय्यां वल्लभदास-त्रिभुवनदास गांधी सेक्रेटरी श्रीजैन-आत्मानन्दसभा भावनगर इत्यनेन 'निर्णयसागरमुद्रणालये' कोलभाटवीथ्यां २३ तमे गृहे, रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४४. मात्मसंवत् २२.
विक्रमसंवत् १९७४.
GANAWARAWANNANANAD
Page #2
--------------------------------------------------------------------------
________________
G-%25AASAASASA
Printed by Ramohandra Yesu Shedge, at the Nirnayasagar Press, 23, Kolbbat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar.
%*
Page #3
--------------------------------------------------------------------------
________________
प्रस्तावना।
इहहि करुणावरुणालयैः समग्रपदार्थसार्थप्रकाशनासाधारणज्ञानभानुविभवैः श्रीमद्देवाधिदेवैदानशीलतपोभावनारूपश्चतुर्धा धर्मः प्ररूपितः । | तत्रानेकभेदभिन्नस्य दानधर्मस्य प्रधानता दर्शयितुं तैः स एव धुरि व्यवस्थापितः । यद्यपि श्रीजिनवरेन्द्रा ज्ञानाभयोपग्रहदानभेदतनिधा दानं जग|दुस्तथाप्येतद्वन्थकर्तृभिः कविवरैराद्यप्रकाशत्रितयेषु साधारणज्ञानाभयदानानां विस्तरेण स्वरूपं निरूप्यावशिष्टेषु नवसु प्रकाशेषु
"सर्वो यतिष्वेव भवेत्रिधा ह्ययं, शीलादिधर्मः समये यथोदितः । अन्नाद्युपष्टम्भकदानहेतुक-स्तेषां तदाराधनसंभवः पुनः ।।
अन्नाद्यधीना विदिता तनुस्थितिधर्मश्च सर्वस्तनुसाधनो यतः । इत्थं त्रयस्यापि निमित्तभावतो वदन्ति दानस्य बुधाः प्रधानताम् ॥ |
ततश्च संसेवितमेव तत्रयं सम्यक्तदासेवननिष्णमानसैः । यथावदाराधयतो नरेश्वरं नाराधितः स्यात्किमु तत्परिच्छदः ॥" एतत्काव्यत्रयवर्णितस्योपग्रहदानस्य प्राधान्यं प्रकाशयितुकामै हकदातृदेयशुद्धस्योपष्टम्भदानस्यैवान्यान्यैः प्रधानपुरुषनिदर्शनैर्माहात्म्यवर्णनं कृतमस्ति । अपरं च दातृजननिदर्शनेषु गौणवृत्त्या तदाराधितशीलतपोभावनादेशसर्वविरत्यादिधर्माणां किञ्चित्किञ्चित्वरूपनिरूपणं कृतमस्ति । __ अस्य सरलसंस्कृतभाषामयस्य सुललितपदवर्णविन्यासजनितसहृदयहृदयानन्दस्य दानमाहात्म्यप्रकाशनपटोख्दप्रकाशात्मकस्य सान्वर्था| भिधेयस्य दानप्रदीपनानो ग्रन्थस्य के परोपकृतिकरणप्रवीणान्तःकरणाः प्रणेतारः ! इत्येतद्विषयस्य निर्णयस्त्वेतद्वन्थकारविनीतविनेयश्रीसोमधर्मगणिविरचितोपदेशसप्ततिकाप्रशस्तिगतेन
"येषां बुद्धिरनुत्तरातिविषमग्रन्थार्थसाक्षात्कृति चेतःसद्मनि दीपिकेव सृजती प्रोज्जागरा सर्वदा । सर्वेषामुपयोगिनी समभवद्दानप्रदीपस्तथा अन्थो यद्विहितश्छिनत्ति कृतिनामद्यापि दुष्टं तमः ॥
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना.
दानप्रदीपे ॥ २॥
जयन्तु ते वाचकपुङ्गवाः श्रीचारित्ररत्ना गुरवो मदीयाः । यद्भाणिता वर्यविनेयवाराः कुर्वन्त्यनेका उपकारकोटीः॥" अनेन पद्यद्वितयेन, प्रस्तुतग्रन्थप्रतिप्रकाशावसानवर्तिना च__ "इति श्रीतपागच्छनायकश्रीजगचन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानप्रदीपनाम्नि ग्रन्थे दाना साधारणदानफलप्रकाशनः प्रथमः प्रकाशः।" । इत्येतदुल्लेखेन महोपाध्यायश्रीमच्चारित्ररत्नगणयोऽस्य प्रणेतार इति प्रकटमेव । प्रस्तुतग्रन्थस्यास्याथैकादशप्रकाशेष्वनन्तरोक्त एवोल्लेखो | दृश्यते, तदाधारेण महोपाध्यायश्रीचारित्ररत्नगणयो बृहत्तपागच्छीयश्रीमत्सोमसुन्दरसूरीणां शिष्या अभूवन्निति प्रकटतया प्रतिभाति । परं प्रस्तुतग्रन्थस्य द्वादशप्रकाशप्रान्तवर्तिना प्रशस्तिमध्यवर्तिना च। "इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालकरणश्रीसोमसुन्दरसूरिशिष्यश्रीजिनसुन्दरसूरिविनेयमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रदानगुणदोषप्रकाशनो नाम द्वादशः प्रकाशः ।" "विद्यानिधानजिनसुन्दरसूरिशिष्यः, श्रीसोमसुन्दरगणेन्द्रनिदेशवश्यः । चारित्ररत्नगणिरल्पमतिळधत्त, दानप्रदीपमिममात्मपरार्थसिद्धयै ॥" | इत्यनेनोल्लेखदर्शनेन महोपाध्यायश्रीचारित्ररत्नगणयः श्रीजिनसुन्दरसूरीणां विनेया अभूवन्नित्यपि प्रकटतया प्रतिभाति, इत्यनयोर्द्वयोर्मध्ये |एते केषां शिष्याः ? इति सन्देहे जायमानेऽत्रैवं समाधेयं “विद्यानिधानजिनसुन्दरसूरिशिष्यः" इत्यनेन वाक्येन श्रीमज्जिनसुन्दरसूरय एतेषां दीक्षागुरव एवेति निश्चीयते, श्रीसोमसुन्दरसूरीणां शिष्यत्वप्रकाशनं तु गच्छाधिपतित्वेन खगुरोर्गुरुत्वेन च न विरोधास्पदम् ।
एते वाचकपुङ्गवाः कदा भूमण्डलं मण्डयामासुः ! इति जिज्ञासायां प्रस्तुतग्रन्थप्रशस्त्युपन्यस्तेन
SXCLASSE5K
|
॥
२
॥
Page #5
--------------------------------------------------------------------------
________________
मामात्र
655555
"नवाकवार्षिशीतांशु १४९९ मिते विक्रमवत्सरे । चित्रकूटमहादुर्गे ग्रन्थोऽयं समपद्यत ।" इत्यनेन पद्येन ग्रन्थनिर्माणकालस्य निश्चये सति एतेषां सत्तासमयोऽपि विक्रमार्कीयपञ्चदशशताब्दीयः सुप्रतीत एव ।
एतद्वन्थव्यतिरिक्ता एतद्वाचकमहाशयविरचिता अन्येऽपि ग्रन्थाः सन्ति न वेत्येतद्विषयस्य निर्णयस्तु कर्तुं न पार्यतेऽद्यावधि काप्येतन्महाशयकृतान्यग्रन्थस्योपलम्भाभावात् ।
अस्य दानप्रदीपग्रन्थस्य स्थूलविषयविभागः पृथक्संपादितोऽस्ति ततोऽवलोकनीयः ।। ग्रन्थस्यास्य श्रीमद्दोलतविजयोपदेशेन सौराष्ट्रावनिवनिताललाटतिलकायमानपोरबन्दरवास्तव्याभ्यां श्रेष्ठिवर्याभ्यां श्रीजैनमतवासनावासितान्तःकरणाभ्यां धर्मसिंहात्मज-मूलजी-दुर्लभदासाभ्यां मुद्रणोपयोगिद्रव्यसाहाय्यं दत्तं तेनैतयोः पुस्तकोद्धारविषयिक धर्मकार्य समयोचितत्वेन प्रशंसाहम्।
एतत्संशोधनसमये पुस्तकद्वितयमेव समासादि । तत्राचं मुनिवर्यश्रीमन्मोहनलालमुनेः सूर्यपुर (सुरत) स्थपुस्तकभाण्डागारसत्कं चतुरधिकशतप्रमितपत्रात्मकं प्राचीनं शुद्धप्रायम् । द्वितीयं पुनायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्यप्रवर्तकश्रीमत्कान्तिविजयमुनेरिक्षेत्र ( वडोदरा) | स्थचित्कोशीयं षट्त्रिंशदधिकशतपत्रात्मकं नवीनं शुद्धप्रायम् । एतत्पुस्तकद्वितयाधारेण संशोधन विषये साहाय्यं समुपलभमानः पुस्तकसमणोदारयोरेतयोः परोपकृति स्मृतिगोचरतां नयामि ।
अनन्तरोक्तपुस्तकद्वितयाधारण सावधानीभूय संशोधितेऽप्यत्र निबन्धेऽस्माकं दृष्टिदोषेण शिक्षकाक्षरयोजकदोषेण वा यत्र कचनाशुद्धिवों चकमहाशयानां दृष्टिपथमवतरेत्तत्र संशोध्य वाचनीयमुदाराशयै(धनैरिति प्रार्थयते
वेदयॆङ्कधराब्द पौषदशम्यां शुभे दिने सोमे । प्रवर्तकश्रीमत्कान्तिविजयचरणसेवाहवाकः चतुरेण मोहमय्यां लध्वी प्रस्तावना लिखिता ।
चतुरविजयो मुनिः।
Page #6
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ३ ॥
विषयः
दानप्रदीपग्रन्थवर्त्तिनां स्थूलविषयाणां संक्षेपतोऽनुक्रमणिका ।
विषयः
३४
विनयाचारस्वरूपनिरूपणपूर्वकं श्रेणिकज्ञातम् बहुमानाचारस्वरूपोद्घटनपूर्वकं द्विजपुलिन्दयोर्वृत्तम् ३६ उपधानाचारस्वरूपप्रकटनपूर्व भ्रातृद्वयोर्वृत्तम्... ३६ अनिह्नवाचारस्वरूपोद्घटनपूर्वकं त्रिदण्डिज्ञातम् अधिकहीन व्यञ्जनविषये कुणालविद्याधरयोरुदाह
३८
...
रणद्वयम् अर्थाचारस्वरूपनिरूपणपूर्वकं पर्वताख्यानम् व्यञ्जनार्थोभयाचारस्वरूपनिदर्शनपूर्वकं रोहगुप्त
प्रथमप्रकाशः
....
भावमङ्गलाद्याविष्करणम् ... ज्ञानदानादिपीठिका पूर्व साधारणदानस्वरूपम् | साधारणदाने मेघनादनृपचरित्रम् तद्गतगुरूपदेशे देहस्त्री स्वजन स्वरूपोद्भावनम् अर्थस्वरूपनिरूपणपूर्वकं मित्रचतुष्कज्ञातम् द्वितीयप्रकाशः
ज्ञानदानस्वरूपनिरूपणम् ...
...
***
...
versees
पत्राहुः
१
१
२
११
११
१९
२०
२६
| ज्ञानाराधनविराधनयोर्विजयकुमार कथानकम् तद्गतगुरूपदेशे व्रतपालन शिक्षायां रोहिणीज्ञातम् ज्ञानाराधनविराधनयो: सुबुद्धिकुबुद्धिज्ञातम् ... २८ अष्टविधज्ञानाचारे दृष्टान्तपूर्वकं कालाचारस्वरूपम् ३४
...
मुनिनिदर्शनम्
अभयदानस्वरूपवर्णनम्
...
तृतीयप्रकाशः
...
**
...
...
पत्राहः
३८
४०
४३
४६
अनुक्रमणिका ।
॥३॥
Page #7
--------------------------------------------------------------------------
________________
:
तद्दानादानयोः शङ्खस्य तन्मित्राणां च निदर्शनम् ४६ । एतद्विषये पद्माकरोदाहरणम् तदन्तर्गताभयदाने चौरदृष्टान्तम् ... ... ४९ तद्गतगुरूपदेशे रत्नसारकथानकम् जीवदयापालनेऽभयसिंहोदाहरणम् ... ... ५२
षष्ठप्रकाशः चतुर्थप्रकाशः
धर्मोपग्रहदाने तृतीयासनदानस्वरूपोपदर्शनम् ... धर्मोपष्टम्भदाने जघन्यमध्यमोत्कृष्टपात्रस्वरूपादि- तदुपरि करिराजनिदर्शनम् निरूपणम् ... . ... ... ... ५
करिराजपल्यङ्कपादानां संवादे प्रथमपादसंस्थापियतेरशुद्धाहारपरिष्ठापनेऽप्याराधना तद्विषये
तकामाङ्गे वानरकथानकम् ... ... | मुनिज्ञातम् ... ... ... ... ... ६२
द्वितीयपादव्यवस्थापितार्थाङ्गे दण्डवीर्यज्ञातम् ... मुधादातृस्वरूपोपदर्शनं तद्विषये भागवतज्ञातम्
तृतीयपादनिर्णीतधर्माङ्गे धर्मबुद्धिनिदर्शनम् ... मुधाजीवित्वे क्षुल्लकाख्यानकम् ...
तुरीयपादस्थापितमोक्षाङ्गप्रधानत्ववर्णनम् ... अष्टविधपात्रदानेष्वाद्यशय्यादानस्वरूपोपदर्शनम्
सप्तमप्रकाशः तद्विषये तारचन्द्रकुरुचन्द्रयोराख्यानम् ... धर्मोपष्टम्भदाने तुरीयाहारदानस्वरूपनिरूपणम् पश्चमप्रकाशः
अन्नदानप्राधान्ये रामचन्द्रोक्तिः ... ... धर्मोपष्टम्भदाने द्वितीयशयनीयदानस्वरूपोद्भावनम् ७४ । विधिपूर्वकपात्राशनदाने कनकरथाख्यानम् ...
Page #8
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ४ ॥
%%
तद्गतगुरूपदेशेऽल्पदानविषयिकं भद्रातिभद्रयोर्ज्ञातम् १०७
अष्टमप्रकाशः
धर्मोपष्टम्भदाने पञ्चमपानदानकल्प्याकल्प्यादिस्वरूपनिरूपणम् सुपात्रपानदाने रत्नपालनृपचरित्रम् तदन्तर्गतशीलविषये धनश्रीज्ञातम् ...
नवमप्रकाशः
...
| धर्मोपष्टम्भदाने षष्ठ भेषजदान स्वरूपवर्णनम् एतद्विषये धनदेवधनदत्तयो र्निदर्शनम् दशमप्रकाशः
धर्मोपग्रहदाने सप्तमवस्त्रदानस्वरूपोपदर्शनम्
एतद्विषये ध्वजभुजङ्गमोदाहरणम्
...
:::::3
...
एकादशप्रकाशः
| धर्मोपग्रह दानेऽष्टमसुपात्रपात्रदानस्वरूपवर्णनम्
११३
११४
१२१
१३८
१३९
१५५
१५६
१७३
तदुपरि धनपतिनिदर्शनम् तदन्तर्गतमित्रचतुष्ककथानकम्
...
::
⠀⠀⠀
द्वादशप्रकाशः
१७९
१७९ १८०
१८२
१८३
सुपात्रदाने गुणदोषस्वरूपवर्णनम् अनाशंसाशंसादाने द्वयोर्जरत्योर्ज्ञातम् अनाशंसादाने यक्षश्रेष्ठिधनश्रेष्ठिनोर्ज्ञातम् अनादरादरदान स्वरूपोपदर्शनम् अत्रार्थे वृकोदरजीर्णश्रेष्ठि अभिनवश्रेष्ठिनां ज्ञातम् अनादरादरदानविषये निधिदेवभोगदेवयोरराख्यानम् १८४ अनुतापाननुतापस्वरूपवर्णनम् एतद्विषये सुधनमदनयोर्निदर्शनम् विलम्बदाने कृतपुण्यनिदर्शनम् गर्वदान स्वरूपोद्भावनम् एतद्विषये नन्दधनदयोर्निदर्शनम्
१८७
१८७
१९० ४ ॥ ४ ॥
१९४ १९५
१७३ १७५
:::
अनुक्रम - णिका ।
Page #9
--------------------------------------------------------------------------
________________
॥ अहम् ॥ । न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः॥
--
G1N*%*364SHA SEASES
महामहोपाध्यायश्रीचारित्ररत्नगणिविरचितं
दानप्रदीपम्। श्रीसिडिभर्ता भगवान् सुमङ्गलाजानिर्जिनो यच्छतु मङ्गलानि वः। दानप्रणीतिर्यदुपज्ञमन्वहं त्रैलोक्यमद्यापि सुखाकरोत्यसौ ॥१॥ तत्वप्रकाशं कुरुतां तमोपहः श्रीवर्द्धमानप्रभुरद्भुतो रविः। अद्याप्यविश्रान्ततया विभाखरैरुदास्यते यस्य जगद्गवां गणैः ॥२॥ विशुद्धताशालिनि विज्ञमानसे या राजहंसीव बिलासलालसा । तनोति तत्त्वेतरयोर्विवेचनं श्रीशारदा सा श्रुतसारदाऽस्तु नः॥३॥ न केवलं ये कलिपङ्कमज्जतः श्रीशासनस्योद्धरणेन गौतमीम् । भेजुस्तुलां सारगुणश्रियाऽपि ते विभूतये श्रीगुरुदेवसुन्दराः॥४॥
-CAC-AA-%5
Page #10
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१॥
विजित्य मोहं दृढधर्मविद्यया परामुपायंसत ये जयश्रियम् । तपागणस्य प्रभवो जयन्ति ते गुरूत्तमाः श्रीवरसोमसुन्दराः ॥ ६ ॥ व्यधायि यैः शास्त्रसुधार्द्रताऽश्मनामस्मादृशां सौवगवीप्रयोगतः । शक्ता भवाधःकरणे कलाभृतः शुभाय ते श्रीजिनसुन्दराः सताम् ॥ ६ ॥ आरुह्य यन्नामरथे यथेप्सितं स्वर्भूर्भुवो मण्डलकेलिगोचरे । सुखेन खेलन्त्यखिलार्थसिद्धयः सर्वेऽप्यमी नः परमेष्ठिनः श्रिये ॥ ७ ॥ इत्यर्हणीयस्तवभावमङ्गलं विधाय जैनागमजातवेदसः । नानार्थतेजः परिगृह्य दीपये दानप्रदीपं जिनशासनालये ॥ ८ ॥ धर्मः समग्रामरमानवश्रियां परं निदानं शिवसंपदामपि । तदर्थिभिस्तेन स एव सेव्यतां न यद्विनोपायमुपेयसंभवः ॥ ९ ॥ अभिदधे बुधेश्वरैर्दानं च शीलं च तपोऽथ भावना । तत्रापि दानं खलु मुख्यमिष्यते शेषत्रयस्यापि हि तत्कृता स्थितिः ॥ १० ॥
तथाहि
ज्ञानाभयोपग्रह दानभेदतस्त्रिधा हि दानं जगदुर्जिनेश्वराः । न ज्ञानदानं च विनाऽत्र कस्यचित्स्वल्पोऽपि धर्मः
प्रथमः प्रकाशः ।
॥ १॥
Page #11
--------------------------------------------------------------------------
________________
खलु कोऽपि संभवेत् ॥ ११ ॥ प्रवर्षमाणेऽभयदानवारि प्रवृद्धिमायान्ति तृष्णा इव । सर्वेऽपि धर्मास्तदवणे पुनः शुष्यन्ति विख्यातमिदं मनीषिणाम् ।। १२ ।। दानं तृतीयं तु सुपात्रोक्तः समग्रमेवोपकरोत्यसंशयम् । श्रीधर्ममाधारगुणोपपादनादवश्यमाधेयगुणोपपत्तितः ।। १३ ।। सर्वो यवे भवेधा ह्ययं शीलादिधर्मः समये यथोदितः । दानवतासंभव पुनः ॥ १४ ॥ अन्नाद्यवयीना विदिता तनुस्थितिर्वमंत्र सर्वसाधनोयतः इत्थं त्रयस्यापि निमित्त भावतो वदन्ति दानस्य बुधाः प्रधानताम् ।। १५ ।। ततश्च संसेवितमेव तत्रयं सम्यक् तदासेचननिष्णमानसैः । यथावदाराधयतो नरेश्वरं नाराधितः स्यात्किमु तत्परिच्छदः ।। १६ ।। प्रवत्यं वर्षे हृपिताखिलक्षमं दानं जिनेन्द्रा अपि गृह्णते व्रतम् । श्रीकेवलज्ञानमवाप्यते तथा पूर्व तदेवोपदिशन्ति संसदि ॥ १७ ॥ जनेऽपि सर्वेषु गुणेषु मुख्यता विशिष्य दानस्य निरीक्ष्यते स्फुटम् । सर्वाङ्गपूर्णाऽपि सुलक्षणाऽपि गौरदुग्धदा नाऽऽद्रियते हि केनचित् ॥ १८ ॥ महोच्च वंशोऽपि सुवर्णभूषितोऽप्यजर्जरौजा अपि रूपवानपि । सलीलचारोऽपि न राजते जने गजेन्द्रवद्दानविनाकृतः पुमान् ॥ १९ ॥ वदन्ति वाणिज्यफलं धनं बुधाः फलं धनस्याप्यपरं न दानतः । शरीरभाजां तदसंभवे तु ते दुरन्तसंसारविहारकारणम् || २० || प्रदीयमानं निधनं धनं व्रजेदिति स्वचित्ते बुध ! मा विधा मुधा । प्रत्यक्षतः कृपवनीगवादयः पश्योपयोगादुपयान्ति न क्षयम् ॥ २१ ॥ ददीत विद्वाननुकूलतान्विते विधौ यतः पूरयिता स सर्वतः । विशेषतस्तु प्रतिकूलतां गते यतो गृहीताखिलमन्यथाऽपि सः ॥ २२ ॥ दानस्य नानर्द्धिनिदानताभृतः कः स्तोतुमीष्टे महिमानमद्भुतम् । करोति मर्त्योऽपि यतः करं निजं तीर्थङ्करस्यापि कराम्बुजोपरि ।। २३ ।। सुपर्वतिर्यक्प्रमुखे कचिद्भवे वभूव पूर्व नहि
Page #12
--------------------------------------------------------------------------
________________
दानप्रदीपें
॥ २ ॥
दानसंभवः । नयन्ति दानेन ततः कृतार्थतां धन्या निजं मानुषजन्म जन्मिनः ॥ २४ ॥ सौभाग्यमारोग्यमखण्डिताज्ञता सुदीर्घजीवित्वमभङ्गभोगता । ऐश्वर्यलीलाः सुरलोकसंपदः फलानि दानस्य परत्र जन्मिनाम् || २५ || कीर्तिः प्रतिष्ठा जगतोऽप्यभीष्टता कलङ्कलुप्तिद्विंपतोऽपि मित्रता । नृपादिमान्यत्व मलङ्घयता गिरामिहापि दानस्य फलानि देहिनाम् ॥ २६ ॥ दानं पुनग्रहकदातृदेयशुद्धं भवेत्सर्वशुभार्थसिद्ध्यै । उपायपाहुण्यमपेक्षते हि सर्वत्र नूनं सदुपेयसिद्धिः ॥ २७ ॥ सप्तप्रकारे समयप्रतीते पात्रे पवित्रे जिनमन्दिरादौ । दत्तं यथाविध्युपयुज्यते यद्दानं विदुग्रहकशुद्धमेतत् ॥ २८ ॥ स्पर्द्धानुतापादिविमुक्तचेताः प्रमोदरोमाञ्चविरोचिदेहः । दत्ते निराशंसतया कृती यत्तद्दानमाहुः किल दातृशुद्धम् ॥ २९ ॥ यश्यायसंपन्नमथैषणीयं यथाविधि प्रागुपदिष्टपात्रे । वितीर्यते सारतरं स्वगेहात्तदेयशुद्धं सुधियो वदन्ति ॥ ३० ॥ यो वर्धमानाध्यवसायशुद्धिः शुद्धं त्रिधाऽऽराध्यति दानमेवम् । सर्वाः समृद्धीर्लभते शिवं च क्रमात्स भूमानिव मेघनादः ॥ ३१ ॥ तथाहि
1
अस्ति जम्बूरिति द्वीपः सर्वद्वीपान्निजश्रिया । जित्वा यो मेरुदम्भेन जयस्तम्भमुदस्तभत् ॥ ३२ ॥ तत्रास्ति भरतक्षेत्रं यत्र संसूत्र्यते जनैः । स्वर्गापवर्गशस्यश्रीजिनोक्तिजलसेकतः ॥ ३३ ॥ तत्र चैत्यैः सतां दत्तरङ्गा रङ्गावती पुरी । यदग्रे श्रीमदं त्वती सती ॥ ३४ ॥ पतिरिति ख्यात क्ष्मापतिस्तत्र सम्मतिः । पुरुषोत्तमता यस्य नामान्वर्ध* मपप्रथत् ॥ ३५ ॥ कान्ताऽस्य कमला शीकला शशिकलोज्वला । उपास्कुरुत यद्रूपं मणीव स्वर्णभूषणम् ॥ ३६ ॥ अभूतदङ्गभूर्मेघनादः सादरधीर्नये । विधिः सर्वगुणद्धीनां निधानमिव यं व्यधात् ॥ ३७ ॥ परस्परमिवात्रद्धस्पर्द्धास्तं सकलाः कलाः । समकालं श्रयन्ति स्म सदाचारमिव श्रियः ॥ ३८ ॥ तथाहि -लक्षणाद्या महाविद्या निरवद्याश्चतुर्दश । अध्यगीष्ट
ছ
प्रथमः प्रकाशः ।
।। २ ।।
Page #13
--------------------------------------------------------------------------
________________
स गीर्वाणगुरुरूवामिवागतः ।। ३९ ॥ पतिशत तथा दण्डायुधान्ययमशिश्रमत् । यथा पनिणमप्याजी न तृणायाप्यमन्यत ॥ ४० ॥ यस्मिन् मन्दायते मन्ये शतमन्युसुतोऽपि सः । तं विवेद धनुर्वेदमनिर्वेदमना अयम् ॥ ४१ ।। असौ तिर्यग्मनुष्याणां भाषासु विषमास्वपि । कलयामास गीर्वाण इव सर्वासु कौशलम् ॥ ४२ ॥ अविश्रान्तं तथा वाणकलामभ्यस्वति स स । अविन्दत यया शब्दपेविचपि धुरीणताम् ॥ ३॥ कामाय हुतशिलाश पादीगयाशिभियत् । स्वजिष्णुमिव यं दृष्ट्वा त्वष्टा नंष्ट्रा दिवं ययौ ॥४४ ॥ निमित्तशास्त्रमष्टाङ्गं सोऽध्यगीष्ट विशिष्टधीः । भावानवागमत् सम्यग् येन कालत्रयोद्भवान् ॥ ४५॥न सा विश्व कला काऽपि कलयामास यां न सः। रत्नजातिनं सा काऽपि या न रोहति रोहणे ॥ ४६॥ अयमन्येधुरुधानं समेतः सवयोवृतः। पान्थं कमपि तत्रस्थमप्राक्षीदक्षतोचितम् ॥ ४७ ।। कुतः प्राप्तोऽसि भोः पान्थ ! कुत्र वा गन्तुमुद्यतः । अपूर्वामभृतां वार्तामतिथीकुरु कर्णयोः ॥४८॥ पान्थोऽप्युवाच पृथ्वीश ! चम्पापुरनिवासिनः । श्रेष्ठिनो धनदेवस्य तनयः सुधनाभिधः ॥ ४९ शत्रुञ्जयमहातीर्थ वन्दितुं प्रस्थितोऽस्म्यहम् । पवित्रीक्रि-18 | यते यस्य यात्रया जन्म जन्मिभिः ॥ ५० ॥ प्रशास्ति सांप्रतं चम्पां राजा मदनसुन्दरः । पप्रथेऽन्वर्थनामैव सौन्दर्याति
शयेन यः॥५१॥ प्रियङ्गमञ्जरी तस्य सुन्दरी शीलसुन्दरी । तयोरगण्यलावण्या कन्या मदनमञ्जरी ॥५२॥ सा प्राप्ता | यौवनं नव्यं दोषजीवनमप्यहो ! । दिने दिनेऽधिकं भेजे सर्वाङ्गीणं गुणोदयम् ॥ ५३ ॥ वर्णनाधिकलावण्याद्यसामान्य-18 गुणश्रियम् । वर्णयन्तः सकास्तां के के नालीकभाषिणः ।। ५४ ॥ कौशलेन कलानां सा भारतीवावतेरुषी । सौभाग्यन पुनर्लक्ष्मीः प्रत्यक्षेव बभूवुषी ॥ ५५ ॥ धवैदुर्विधदुर्बुद्धिदुःशीलाद्यैः सुदुःखिताः । विलोक्य युवतीरन्याः सा विज्ञापन-11
CACACANCACAMANACA494
Page #14
--------------------------------------------------------------------------
________________
दानप्रदीपे
--
-
-
मातनोत् ॥ ५६ ॥ न्यक्षेण लक्षणज्योतिःशिल्पभाषाधनुर्मुखाः । यः कलाः सकला वेत्ति तं वरं वरयाम्यहम् ॥ ५७॥81 प्रथम ततस्तस्या वरं भूपस्तादृशं क्वाप्यनाप्नुवन् । प्रचक्रमे महामात्यविचारेण स्वयंवरम् ॥ ५८ ॥ स्वर्विमानमिवोत्तीर्ण स स्वयं- प्रकाशः। वरमण्डपम् । कारयामास केल्यर्थमिव कन्यागुणश्रियाम् ॥ ५९॥ दिनादद्यतनान्मासे मुहूर्तोपरि भूपतिः । नृपाणां हूतये दूतान् स्थाने स्थाने न्ययुत सः॥ ६०॥ जन्यावासानिवावासांस्तद्वासाय नृवासवः । शतशः कारयामास विशालान्निज| चित्तवत् ॥ ६१ ॥ तदर्थ कल्पिता हृद्यखाद्यघासादिराशयः । कन्याकीर्तिश्रियः क्रीडाचला इव चकासति ॥ ६२॥ इत्याकोदितं तस्य राजसूनुर्विसिष्मिये । तस्यामरक्त स्वकलानुरूपेण पणेन च ॥ ६३ ॥ सम्मान्याथ तमध्वन्यं राजसूः सौधमासदत् । नाप निद्रां च तद्रात्री तां विलोकितुमुत्कधीः ॥ ६४ ॥ अहो ! प्रवीणता तस्याः कस्याश्चर्यकरी नहि । वरं परीक्षितुं चक्रे दुष्पूरोऽयं पणो यया ॥ ६५ ।। कूपमण्डूककल्पस्य तस्याऽजननिरङ्गिनः । यः सान्वर्थाभिधां रत्नगर्भी विष्वग् न वीक्षते ॥ ६६ ॥ दक्षाणामपि दुर्लक्षा परीक्षा खलु वास्तवी । भाग्यहेम्नो विना नानाविदेशकषघर्षणम् ॥ ६७ ॥ न गेहे नर्दिनः क्वापि कीर्तिः स्फूर्तिमियर्ति च । स्थानस्थस्य प्रभा भानोः प्रभासयति किं भुवम् ? ॥ ६८ ॥ इत्यामृश्य स एकाकी निशि साहसिकारणी । पित्रादीनामविज्ञातं निर्जगाम स्वधामतः ॥६९॥ देशयामपुरादीनि स्थानान्युलधलयुः। क्रीडावेश्म यमस्येव स प्रापारण्यमन्यदा ॥ ७० ॥ दीर्घदंष्ट्राकरालास्यः कपिलोद्धतकुन्तलः । अखर्वपर्वतप्रायःकायस्ता- य ॥३ ॥ घायतेक्षणः ॥ ७१ ॥ कश्चिन्निशाचरस्तत्र समवर्तीव मूर्तिमान् । पुरः प्रादुरभूत्तस्य शयानस्य निशाभरे ॥ ७२ ॥ युग्मम् ॥ धृष्टमाचष्ट चाभीष्टं देवं रे ! स्मर सत्वरम् । एप त्वां भक्षयिष्यामि क्षामकुक्षिर्बुभुक्षया ।। ७३ ॥ कुमारस्तमथाभीरः माव
--
-
Page #15
--------------------------------------------------------------------------
________________
ACANCLOCACAAAACAMAC
| एम्भमभापत । निशाचरपते : साधु कुलोचितमवोचथाः ॥ ७४ । अनेन च शरीरेण नश्वरेणाचिरात् स्वयम् । जायते तव चेत्तृप्तिः प्राप्तं किं न तदा मया ।। ७५ ।। परं संप्रति सौत्सुक्यं गच्छाम्युपयमेच्छया । चम्पायां नृपकन्यायाः पणपूरणपूर्वकम् ।। ७६ ॥ कृतार्थोऽयकृतार्थो वा बलमानस्लवान्तिकम् । एष्यामि पूरयिष्यामि सर्व चैनं मनोरथम् ॥ ७७ ॥ प्राणालेऽपि प्रविज्ञान पपीति तिथि इदि तपोनिभिर्दन नरोजोनचाकृतः !! १८ ॥ नर्दि गादि शिवम्ने प्रस्तु! | पन्थाः साध्यं च साधय । तोऽपरेण में वेश्म तत्रागच्छेरतुच्छधीः ॥ ७९ ॥ इति तेनाभ्यनुज्ञातः कुमारः प्रस्थितस्ततः । प्रयाणैस्त्वरितैश्चम्पापुरी प्रापदभीप्सिताम् ॥ ८ ॥ कांश्चिदावासितांस्तत्राऽऽवास्यमानांश्च काश्चन । नव्यावासेषु भूमीशान | स ददर्श सहस्रशः ॥ ८१॥ ददर्श दिग्वधूरत्नभूषणायिततोरणम् । अयं मण्डपमुद्दण्डं स्वःखण्ड मिव भूमिगम् ॥ ८२ ॥ अश्रीपीत्पटहं राजपुरुषैः पुरमन्तरा । वाद्यमानमयं कन्यापणज्ञापनपूर्वकम् ॥ ८३ ।। पदे पदे मुदारब्धमहोत्सवपरंपरम् ।। स पुरं द्युपुरस्पर्द्धि दर्श दर्श विमिष्मिये ॥ ८४ ॥ अत्र चावसरे सौधगवाक्षस्थामलक्षितम् । इयेनप्रपातमापत्य कोऽपि कन्यामपाहरत् ॥ ८५॥ भुजिप्यास्तामवीक्ष्याथ वीक्षापन्नाः सुदुःखिताः । शिरोघातं महीकान्तपुरः पूच्चक्रुरुच्चकैः ॥८६॥ कोऽप्यलक्ष्यवपुः संप्रत्यपाहात्तिवाङ्गजाम् । तस्या गवेषणोपायः क्रियतां देव ! सत्वरम् ।। ८७ ॥ तदाकर्णनतो राजा वज्राहत इवाजनि । न्यक्षदिक्षु च तां मन स्वप्रेष्यैरगवेषयत् ॥ ८८ ॥ परं दूरेऽस्तु तत्प्राप्तिस्तच्छुद्धिरपि नाप्यत । विज्ञा अपि च दैवज्ञा न ता किश्चिदवादिषुः ॥ ८९ ॥ ततस्तद्विरहोत्थेन कीलिताः शोकाङ्कना । तारस्वरं जनन्याद्याः स्वजनाः प्रारुदन्निति ॥ ९० ॥ हा वत्से ! सहजस्वच्छे ! हा बुद्धिजितभारति !। हा मर्वगुणसंपूर्णे! हृता केनामि पापिना ॥९१॥
Page #16
--------------------------------------------------------------------------
________________
दानप्रदीप
वरीतुमुत्सुका वत्से ! त्वामागच्छन्नमी नृपाः । इमानस्मांश्च सस्नेहान् मुक्त्वा कुत्र गताऽसि हा ॥ ९२॥ निराशास्त्वां प्रथमः
|विना चामी निन्दन्तो नः स्वयंवरात् । यास्यन्ति कुपिताः क्षुद्रमन्दिरादिव मार्गणाः ॥ १३ ॥ इदं पुरमिदं सौधं मण्ड-18| प्रकाशः। ॥४॥ |पोऽयमयं महः । सर्वं त्वया विना शून्यमरण्यमिव हाऽजनि ॥ १४ ॥ रे दुष्ट ! धृष्ट ! पापिष्ठ ! किं त्वया विदधे विधे!।
यदस्मिन् समये वत्सा कापि दूरमनीयत ॥ ९५ ॥ किमस्माभिरपाराधि दुर्धियस्तव देव : रे। निर्मूलमुदमूल्यन्त यत्त्वयाऽस्मन्मनोरथाः ॥ ९६ ॥ कस्याप्युत्सवमच्छेत्स्म मात्सर्येण ध्रुवं पुरा । अकस्मादयमस्माकं छिद्यते कथमन्यथा ॥९७॥। इत्याक्रन्दत्युदस्राक्षे ज्ञातौ रोदितरोदसि । नृपोऽप्यस्तोकशोकेन शल्यितो हृद्यखिद्यत ।। ९८ ॥ कीदृशी मयि निःसीमा हा
हा धातुः प्रतीपता । मनोरथद्रुमो यन्मे मूलादुन्मूल्यतेऽमुना ॥ ९९॥ नृपाणामेयुपामेषां किं मुखं दर्शयिष्यते । किमु हैवा कथयित्वाऽमी प्रहेष्यन्ते गृहे मया ॥ १०० ॥ इति दुःखातुरं मापमाचख्यौ मुख्यधीसखः । न ते पृथग्जनस्येव
शोकविक्लवतोचिता ॥ १०१॥ पालोचय तात्पर्य कार्ये राजन् ! यथोचितम् । विधुरे हि धियं धीरा धीरयन्ति निजो|द्भुती ॥ १०२ ।। नृपोऽप्याख्यदमुदृक्षां विषमामापदापगाम् । तरीतुं त्वादृशामेव शेमुपी खलु नाव्यते ॥ १०३ ॥ अतस्त्व-| मेव संचिन्त्य कृत्योपायं प्ररूपया प्रत्ययोपरातोमात्यः प्रत्युत्पन्नमतिर्नुपम् ।। १७ कोममि देवादिको दिगानि कन्यामपाहत ! दिवा तदपहारे हि तस्यैव प्रभविष्णुता ॥ १०५ ॥ क्षमः पुमान्न सामान्यः प्रत्यानेतुमिमां ततः। नीता| तुरङ्गमैः शक्या न हि मोचयितुं खरैः ।। १०६ ॥ परं यः कोऽपि कन्यायाः प्रवीणः पणपूरणे । प्रत्याहतुमिमां जातु स प्रभूष्णुर्भवेद्यदि ॥ १०७ ॥ अतः सर्वेऽपि पच्छयन्ते नृपास्तपणपूरणे । प्रपद्यते पणं यश्च तामानीय वृणोतु सः ॥ १०८ ॥
Page #17
--------------------------------------------------------------------------
________________
Bilपणापूतौ पुनहींणाः सर्वे यास्यन्ति ते स्वयम् । तत्प्रत्याहृतयेऽस्माभिर्यथाशक्ति यतिष्यते ॥१०९॥ एवमस्त्विति सानन्द
नृपेणोक्तः स धीसखः। सर्वानास्त भूपालानभ्यधाच्च धियां निधिः॥११॥शब्दवेधं धनुर्वेदं भाषा: शिल्पकलाः समाः। यो वेत्ति स्पष्टमष्टाङ्गनिमित्तं च स मे पतिः॥ १११ ॥ अयं हि राजकन्यायाः पाणिग्रहविधौ पणः। वीरमानी पणं यश्च
दुष्पूरं पूरयत्यमुम् ॥११२॥ पटहं स्फुटमेवायं नृपः स्पृशतु सत्वरम् । निमित्तविद्यया सम्यगवगच्छतु तां हुताम् ॥११३॥ द करोतु कलया काष्ठगरुडान् व्योमगामिनः । तत्प्रयोगेण निर्विघ्नं कन्यास्थानमुपैतु च ॥११४ ॥ धनुर्विद्यादिसान्निध्या-19
तत्र कन्यापहारिणः । वैरिणो युधि निर्जित्य तां प्रत्यानयतु दुतम् ॥ ११५॥ तस्याः प्रत्याहतौ चास्य विधास्यामः सहायताम् । प्रत्याहृतां च तां पाणौ कुर्यानिर्विघ्नमेव सः॥ ११६ ॥ इहस्थामपि तां पाणी कुरुते पणपूरकः। प्रपूर्यैव पणं द्रष्टुम-| |पीष्टे सांप्रतं पुनः॥ ११७ ॥ इति साक्षेपमुक्तास्ते धीसखेन क्षितीश्वराः । निखिला न्यग्मुखीभूय विलक्षा जोषमासत ॥११८॥ मेघनादस्तु सानन्दं द्रुतमुत्थाय पाणिना । पस्पर्श पटहं विद्या न तिष्ठति यतो रहः ॥ ११९ ॥ अभाषत च युष्माकं समेषामपि पश्यताम् । सर्वमेतदहं कुर्वे श्रीलक्ष्मीपतिभूपभूः ॥ २२०॥ तदाकर्ण्य सभासीनाः सर्वेऽप्युत्तानलोचनाः। तस्याभिमुखमैक्षन्त याचका इव दानिनः॥१२१॥ नृपोऽप्याकृतिसत्त्वोक्तिविस्मितस्तमवोचत । ध्रुवं जागर्ति |भाग्यं नस्तवात्राभूद्यदागमः ॥ १२२ ॥ विश्वातिशायिनी शक्तिमियमाकृतिरेव ते । निवेदयत्यसंदेहं सर्वाङ्गीणसुलक्षणा ॥ १२३ ॥ भूभृतामियतामन्तः समेतस्त्वं प्रमादतः । नापालक्ष्यथाश्चिन्तामणिवन्मणिमण्डले ॥ १२४ ॥ परमा प्रीतिरस्माकं लक्ष्मीपतिमहीभृता । युक्तं तदुद्धरस्थस्मानस्माहुःखात्तदङ्गभूः॥१२५ ॥ पूर्वमस्मानसीमेन तप्तान् शोकदवाग्निना।
Page #18
--------------------------------------------------------------------------
________________
दानप्रदीपे
11 44 11
सुतावार्तासुधावृष्ट्या दिष्ट्या श्वासय सुन्दर ! ॥ १२६ ॥ इति राज्ञा ससम्मानं पृष्टः पार्थिवसूरथ । निमित्तविद्यया सम्यग् बुद्ध्वा तच्छुद्धिमभ्यधात् ॥ १२७ ॥ गगने गच्छतो हेमाङ्गदविद्याधरस्य सा । जहार हृदयं कन्या गवाक्षस्थां स तां पुनः ॥ १२८ ॥ इतः सहस्रयोजन्यामन्यायः स निनाय ताम् । रत्नसानुगिरौ यत्र देवानामप्यगम्यता ॥ १२९ ॥ तत्र चाटुशतैस्तेनात्यर्थमभ्यर्थ्यते स्म सा । दरिद्रस्येव तस्योक्तं न तु मेने मनागपि ॥ १३० ॥ प्रत्युत प्रत्युवाचेयं यः पर्ण पूरयेन्मम । तं विमुच्यापरं कान्तं न कुर्वे सर्वथाऽप्यहम् ॥ १३१ ॥ ततः स कुपितस्तत्र तां विमुध्य भयङ्करे । प्रतस्थे स्वं प्रति स्थानं न दया हि दुरात्मनाम् ॥ १३२ ॥ पुनरेत्यानुनेष्यामि परिणेष्यामि च स्वयम् । माऽपहार्षीदितश्चैतां कश्चनेति विचिन्त्य | सः ॥ १३३ ॥ तस्या रक्षाकृते रक्षोविद्यां गृधीवपुर्धराम् । न्यक्षिपद्भीषणां तत्र पुत्रीं पितृपतेरिव ॥ १३४ ॥ सततं सा च तत्रस्था विधत्ते विविधान् ध्वनीन् । कुशलं वः समस्तीति ब्रुवाणा सा शुभावहा ॥ १३५ ॥ अरे ! क्व यूयमायाताः कृतान्तः कुप्यति स्म वः । पलायध्वं पलायध्वमिति रौति यदा तु सा ॥ १३६ ॥ राक्षस्या इव यस्तस्यास्तदाकर्णयति ध्वनिम् । स लुठत्यवनीपीठे वमन् शोणितमानने ॥ १३७ ॥ दष्टो दुष्टोरगेणेव सद्यश्चायं विपद्यते । ईदृग्दुष्टानुभावा सा कन्याऽभ्यर्णेऽस्ति संततम् ॥ १३८ ॥ परं पिपर्ति चेद्वाणैः शब्दवेधी तदाननम् । तदा प्रहतशक्तिः सा द्रुतमेव पलायते ॥ १३९ ॥ इत्याकर्ण्य भृशं भूपादयो विस्मयमाययुः । अहो ! ज्ञानमहो ! बुद्धिरिति तं सुष्ठु तुष्टुवुः ॥ १४० ॥ प्रोचुश्च तदुदन्तोक्त्या वयमप्रीष्महि त्वया । प्रत्याहृत्याथ तामत्र हर्षमुत्कर्षयाशु नः ॥ १४१ ॥ भवन्तं हि विना सर्वकलाकौशलशालिनम् । न परः पारयेत्कर्तुं तत्समानयनोत्सवम् ॥ १४२ ॥ ततः स्वकलया काष्ठगरुडान् गगनाग्रगान् । त्रिविष्टपादिव
प्रथमः प्रकाशः ।
॥ ५ ॥
Page #19
--------------------------------------------------------------------------
________________
त्वष्टाऽवतीर्णः स व्यधाद्बह्वन् ॥ १४३ ॥ तेषु मुख्यं पराधृष्यमारुक्षन्नृपनन्दनः । तदन्यांस्त्वपरे योधा विविधायुधपाणयः ॥ १४४ ॥ अथायं सुभटप्रष्ठैः परीतस्तं नगं प्रति । तार्क्ष्यध्वज इवोर्जस्वानुत्पपात नभस्तले ॥ १४५ ॥ क्षणात्प्राप च तं शैलमपश्यत्तत्र तां कनीम् । भयकम्प्रदृशं सूनान्यस्तामिव गलस्तनीम् ॥ १४६ ॥ तत्र चावसरे गृध्री विरूपं विरुराव सा । मनाक् तच्छ्रुतियोगाच्च मुमूर्छुरिव ते भटाः ॥ १४७ ॥ सर्वभाषावगामिन्या प्रज्ञया तां नरेन्द्रसूः । कुर्वाणां दुःस्वरं सम्यगवागच्छदतुच्छधीः ॥ १४८ ॥ पूरयामास बाणैश्च शब्दवेधधुरन्धरः । पक्षिण्या वदनं तस्याः कन्यायास्तं पणं पुनः ॥ १४९ ॥ ततो निरन्तरापातितद्वाणैः पूरितानना । क्षीणसर्वानुभावा सा जवात् क्वाप्यपलायत ॥ १५० ॥ सुभटाश्चाग्रतस्तस्याः शब्दस्यानुपकर्णनात् । तत्कालं लब्धचैतन्याः कुमारोपान्तमैयरुः ॥ १५१ ॥ कलया विस्मितास्तस्य तामवोचन्त ते कनीम् । कुमारेणामुना सर्वः पर्यपूर्यत ते पणः ॥ १५२ ॥ समस्तां हि प्रवृत्तिं ते निमित्तज्ञानतोऽमुना । विज्ञाय सम्यगाख्याय हृष्यते स्माखिलो जनः ॥ १५३ ॥ स्वकलाघटितैः काष्ठगरुडैरत्र चापुषा । धनुर्विद्याबलान्मायागृधी दूरं निरास्यत ॥ १५४ ॥ रङ्गावतीपुरीभर्तुः श्रीलक्ष्मीपतिभूपतेः । देवि ! सूनुरयं विद्धि शेवधिर्बुद्धिसंपदाम् ॥ १५५ ॥ ध्रुवं प्राच्यानि भाग्यानि तवोदग्राणि जाग्रति । यदयं स्वयमेवार कुमारस्त्वन्महोत्सवे ॥ १५६ ॥ स्वयंवरे वरेण्याङ्गि ! नागमिष्यदयं | यदि । अत्रास्यत तदा कस्त्वां सङ्कटादुत्कटादतः ॥ १५७ ॥ एवमाकर्ण्य कन्येयममनाकू प्रमनायिता । मनसा तं वरं वत्रे वीक्षमाणोन्मिषेक्षणा ॥ १५८ ॥ अथादाय कुमारस्तां समं हर्षोद्भटैर्भटैः । सुपर्णवाहनः सद्यश्चम्पां प्रापदविघ्नतः ॥ १५९ ॥ राजाऽथ विस्मयानन्दपूरपूरितमानसः । सद्यः प्रगुणयामास पाणिग्रहविधिं तयोः ॥ १६० ॥ अहो ! निमित्तशास्त्रेऽस्य
Page #20
--------------------------------------------------------------------------
________________
दानप्रदीपे
कौशलं तुलनातिगम् । अहो ! शिल्पकलाऽप्यस्य विश्वकर्मातिशायिनी ॥१६१ ॥ धनुर्विद्यानवद्यास्य विजिष्णुर्जिष्णु-I प्रथमः मप्यहो!। अहो ! भाषास्वशेषासु दक्षताऽमुष्य चाक्षता ॥१२॥ अहो ! सर्वाङ्गसंग्यस्य सौभाग्यं जगदद्भुतम् । अस्याहो!|3||
प्रकाश विक्रमः कोऽपि दिक्वकाक्रमणक्षमः ॥ १६३ ॥ प्रत्यज्ञास्त पणं कन्या यं यं मदनसुन्दरी । दुष्पूरमप्यहो ! तं तं लीलयाऽयमपूरयत् ॥ १६५ ॥ इति स्तुतिपथं पौरैः प्राप्यमाणः स विस्मितैः। अतुच्छरुत्सवै राज्ञा पर्यणाय्यत कन्यया ॥१६४॥ पाणिमोक्षक्षणे प्रेष्य दृष्यहस्तियादिकम् । नृपोऽदत्तामितं तस्मै जामाता हि प्रियं परम् ॥ १६६ ॥ तत्कलाविस्मितस्वान्ता लज्जिताश्चापरे नृपाः। राज्ञा विसृष्टाः सत्कृत्य पुरं प्रापुर्निजं निजम् ॥ १६७ ॥ स्थापितः पृथगावासे कुमारस्तेन सादरम् । तयाऽभुत समं भोगान् रुच्यान् शच्या हरिर्यथा ॥ १६८॥ सोऽन्यदा नृपमापृच्छय प्रस्थितः स्वपुरी प्रति । तस्यां निशाचराटव्या क्रमात्प्राप चमूवृतः॥ १६९ ॥ तदा तेजःश्रियं तस्य पश्यन् स्वस्य विजित्वरीम् । ममज लज्जयेवांशुपतिः|3|| पश्चिमवारिधौ ॥ १७० ॥ सैन्यमावासयामास कुमारस्तत्र कानने । सुखं च सुषुपुर्मख पथश्रान्ततया जनाः ॥ १७१ ॥ स है तु व्यधात् सुधीः सान्ध्यविधि देवार्चनादिकम् । न सन्तः श्रान्तिमन्तोऽपि त्यजन्त्यावश्यकीः क्रियाः ॥१७२॥ प्रतिज्ञातं निजं जातु न त्यजन्ति गुणान्विताः। इतीव ज्ञापयन्तस्तं न्यमीलन् कमलाः समे ॥ १७३ ॥ अस्तमासददास्माकलक्ष्मीसर्वकषो रविः। इतीवानन्दतो जजुः कैरविण्यो विकस्वराः॥ १७४ ॥ चिरभुक्तामपि त्यक्त्वा पद्मिनी दुर्दशानि-ला ताम् । भेजुः कुमुदती भृङ्गाः धिक् प्रीतिं चपलात्मनाम् ॥ १७५ ॥ तेजस्वानप्ययं भानुर्वारुणीसंगतो जनाः। पपातेतीव जल्पन्तश्चक्रुः कोलाहलं खगाः॥ १७६ ॥ उद्भूय पश्चिमाशायाः संध्याभ्रमिषतः क्षणम् । असत्या इव सामस्त्याद्रागो
॥
६
॥
Page #21
--------------------------------------------------------------------------
________________
%9-%-5
-
द्रागप्यपासरत् ॥ १७७॥ युज्यते विरहे पत्युः सतीनां दुःखितेति ताम् । वदन्त्य इव नव्योढां जाताः श्यामायिता दिशः M॥ १७८ ॥ राजसूनुः प्रतिज्ञा स्वामयं पालयिता न वा । इतीव द्रष्टुमुत्तानतारका द्यौरभूत्तदा ॥ १७९ ॥ ब्रह्माण्डभाण्ड
मापूर्ण तमोभिः पर्यभाव्यत । किमेतदञ्जनैः पूर्ण चूर्णैर्वाञ्जनभूभृतः ॥ १८० ॥ प्रियालकृतवामाङ्गः स्मृतपश्चनमस्कृतिः। कुमारः समये तस्मिन् शयितुं यावदुद्यतः॥ १८१॥ प्रतिज्ञां तावदस्मार्षीदेष तां विममर्श च । दुतं तत्राधुना गत्वा स्ववचः पालयाम्यहम् ॥ १८२ ॥ परमस्या नवोढायास्त्यक्तायाः सहसा मया । भविता यूथमुक्तायाः कुरझ्या इव का गतिः॥ १८३ ॥ पतिव्रता मदायत्तजीविता मद्वियोगतः। ध्रुवं तृणमिव प्राणानेषा त्यक्ष्यति तत्क्षणात् ॥ १८४॥ यथेष्टं चेष्टतां चैषा राज्यश्री विनश्यतु । प्राणा अपि प्रयाणाय प्रगुणा मे भवन्त्वमी ॥ १८५ ॥ प्रतिज्ञा या स्वयं चक्रे पाल-| नीया तु सा मया । न श्रेयो जीवितं लुप्तप्रतिज्ञानां नृणां यतः॥ १८६ ॥ एतां पुनरनालाप्य युज्यते गमनं न मे। यदस्या दक्षिणः पाणिर्ददे पाणिग्रहे मया ॥ १८७॥ आभाषिता च जात्वेषा तिष्ठति स्वस्थमानसा । इत्यामृश्य कुमारस्तां
स्वां प्रतिज्ञामजिज्ञपत् ॥ १८८ ॥ साऽप्युवाच कथं प्राणपरित्यागस्तवोचितः। पतिव्रता मृतैवाहं जीवितेश ! मृतौ हि ते द॥ १८९ ॥ पितरोऽपि च ते शोकदवानलकरालिताः । देव ! सद्यः प्रपद्यन्ते त्वदीयपथपान्थताम् ॥ १९० ॥ अतोऽत्र
मा विलम्बस्व संप्रत्येवाग्रतश्चल । लघु लय चारण्यमज्ञातं तस्य रक्षसः ॥ १९१॥ सोऽप्यजल्पत्कथं लुम्पे प्रतिज्ञा |४|| देवि ! सत्यगी। प्राणान्तेऽपि न लुम्पन्ति प्रतिज्ञातं महाशयाः॥ १९२ ॥ वह्नौ विशन्ति वनवासमुपासते च राज्य
त्यजन्ति कमलामवहीलयन्ति । प्राणांश्च जीर्णतृणवद्णयन्ति सन्तः कुर्वन्ति किं न निजवाक्परिपालनाय ॥ १९३ ॥2
% C
I AS
Page #22
--------------------------------------------------------------------------
________________
दानप्रदीपे
प्रथमः प्रकाश
प्रतिज्ञाप्राप्तमुद्रेण हरिश्चन्द्रेण भूभुजा । चक्रे पानीयमानीय दास्यं श्वपचवेश्मनि ॥ १९४ ॥ वाग्बन्धबन्धनाश्चण्डदोर्दण्डा देवि! पाण्डवाः । वनवासमसेवन्त वत्सराणि त्रयोदश ॥ १९५॥ स्वभावेनापि यां भाषां भाषते पुरुषाग्रणी। पाषाणो|त्कीर्णरेखावदेषा नैवान्यथा भवेत् ॥ १९६ ॥ अतः सकृन्मया देवि ! गन्तव्यमुपकोणपम् । साऽप्यूचे तर्हि तत्राहं समेध्यामि समं त्वया ॥ १९७॥ मृतिर्वा जीवितव्यं वा सममेवावयोवरम् । संपत्तौ वा विपत्तौ वा सतीनां हि गतिः पतिः ॥ १९८॥ कुमारः पुनरूचे तां वाग्बन्धात्तत्र याम्यहम् । त्वं पुनस्तावदत्रैव तिष्ठ धीरिष्ठमानसा ॥ १९९ ॥ गमनानन्तरं तत्र प्रवृत्तिमवगत्य मे । मत्स्वरूपानुरूपं च कार्य कार्य त्वया प्रिये !॥२००॥ इत्याभाष्य प्रियामेष रहः केनाप्यवी| क्षितः। एकाकी प्रस्थितःप्राप भवनं तस्य रक्षसः॥ २०१॥ आख्यच्च रक्षसां मुख्य ! स एवाहं समागमम् । येनात्मा त्वत्पुरोऽबन्धि दामन्येव प्रतिज्ञया ॥ २०२॥ प्रसादादेव ते देव ! तामुपायंसि सुन्दरीम् । स्वेच्छया च विधत्स्वेति |ब्रुवस्तस्थौ स तत्पुरः ॥ २०३ ॥ तं प्रेक्ष्य हर्षितं रक्षः क्षामकुक्षि क्षुधातुरम् । कृपाण्या निष्कृपं तस्य तर्नु छेत्तुं प्रचक्रमे | 3 |॥२०४॥ तावत्स्वकान्तप्राणान्तशङ्काव्याकुलिताशया । अपारयन्त्यपारार्तिः स्थातुं स्वावासमन्तरा ॥ २०५॥ स्वप्रेष्ठपृष्ठतस्तत्र प्राप्ता मदनमञ्जरी । पाप्मन् ! मा मेति जल्पन्ती तस्थौ तद्यमन्तरा ॥२०६ ॥ युग्मम् ॥ आचचक्षे नृचक्षास्तां तत्सत्त्वं वीक्ष्य हर्षितः। काऽसि त्वं किन्नु मे भक्ष्यमिमं रक्षसि पूरुषम् ॥ २०७॥ साऽपि राक्षसमाचख्यावयं मे जीवि|तेश्वरः । वसुधायाश्चतुर्द्धिमेखलायाश्च रक्षिता ॥ २०८॥ महान्तं तदिमं मुश्च दक्ष ! भक्षय मां पुनः। भूयस्योऽपि भविष्यन्ति मादृश्यः पुनरस्य यत् ॥ २०९॥ पुनस्तां कौणपोऽजल्पन्न कल्पोऽस्मादृशामपि । वधे स्त्रीणां यतोऽवध्याः
Page #23
--------------------------------------------------------------------------
________________
स्मृताः स्त्रीबालरोगिणः ॥२१० ॥ आललाप पुनः साऽपि सत्यमेवोदितं त्वया । परमस्मिन् हते हन्त ! मृतिरेव गति-131 मम ॥२११॥ न हि मे कान्तमुक्तायाः पितृश्वशुरयोः कुले । स्थितिः श्रेयस्करी लोकद्वये मत्सरिणो यथा ॥ २१२॥ राक्षस्येषा ध्रुवं यस्मादवाभक्षन्निजं पतिम् । अयं च मे भवेल्लोके कलङ्को दुरपाकरः॥ २१३ ॥न योगक्षेमयोर्युक्तिरपि | संभविनी मम । प्रियं विहाय जीवन्त्याः कुमुदत्या विधुं यथा ॥ २१४ ॥ हा मे दुर्दैवदग्धाया मुग्धायाः काऽधुना गतिः। एवं विलापवाचाला तारतारं रुरोद सा ॥ २१५ ॥ अथ तां दु:खितां वीक्ष्य दयाद्रीभवदाशयः। कीनाश आसनोत्थायमन्तर्भवनमीयिवान् ॥ २१६ ॥ ततः कच्चोलक रत्नमयमानीय दैवतम् । तस्यै समार्पिपत्प्रीतः पलादस्तां जगाद च । ॥ २१७ ॥ इदं मौक्तिकमाणिक्यदुकूलकनकादिकम् । दत्ते चित्तेप्सितं वस्तु महामांसं विनाऽखिलम् ॥ २१८ ॥ अस्यार्थे | हि मया तेपे तपो द्वादशवत्सरीम् । व्यधाय्यधोमुखीभूय जपो मन्त्रस्य वाऽनिशम् ॥ २१९ ॥ ततः प्रसेदुषेदं मे नागेन्द्रेण ददे मुदा । सद्यः संपद्यते सर्वमस्माञ्चिन्तामणेरिव ॥ २२०॥ प्राक्तनाऽभाग्ययोगेन महामांसाशने तु मे । दुर्नाशं व्यसनं जज्ञे शूकरस्येव कर्दमे ॥ २२१ ॥न प्रापं सांप्रतं मर्त्यमांसमामासषदतः। ततः क्षुधाधिकं वृद्धा मां दरिद्रमिवार्दिदत् ॥ २२२ ॥ अद्यामुं सुकुमाराङ्गं नरं पुण्यादवामुवम् । योगक्षेमार्थिनी त्वं तु तत्र विघ्नं तनोषि मे ॥ २२३ ॥ न प्रभुस्त्वां | वपाकर्नु शीलसंवर्मितामहम् । तमः किमर्कविस्मेरामुपद्रवति पद्मिनीम् ॥ २२४ ॥ भर्तृभक्तिसुशीलत्वसत्त्वाद्यैर्विस्मितात्मनः। भद्रे ! ममाधमस्यापि तवोपरि कृपाऽभवत् ॥ २२५॥ अथाहं मांसलोभेन तुभ्यं दिव्यमिदं ददे । कपर्दिकानिमित्तेन धुरत्नमिव दुर्मतिः॥ २२६ ॥ नागेन्द्रस्य प्रसादेन सर्वाभिमतदानतः । योगक्षेमकरं भावि यावज्जीवमिदं तव
तु मे। दुर्नाशं व्यस
यादवामुवम् । योगसकतः । ततः क्षुधानि
Page #24
--------------------------------------------------------------------------
________________
दानप्रदीपे
प्रथमः प्रकाशः।
॥८॥
बोलकं कृत्वा । भक्त्या
A|॥ २२७ ॥ अहमप्येनमास्वाद्य भावी तृप्तः पतिं तव । स्वस्थानमामुहि स्वस्था पन्थानः सन्तु ते शिवाः ॥ २२८ ॥ प्रत्यु
त्पन्नमतिः साऽथ प्रत्युवाच वचस्विनी । यातुधानप्रधान ! त्वं साधु साधु व्यधाः सखे ! ॥ २२९ ॥ ममामुष्माद्भविप्यन्ति ध्रुवं सर्वार्थसिद्धयः। प्रमाणी किल गीर्वाणवाणी नैवात्र संशयः॥२३०॥परं स्त्रीत्वप्रकृत्याऽहमत्यन्तं कातराशया। तत्परीक्ष्य जिघृक्षामि राक्षसेश्वर ! वस्तु ते ॥२३१॥ महाय॑ममहायं वा पण्यमन्यसकाशतः। परीक्षापूर्वकं गृह्णन् ग्राहको न विगानवान् ॥ २३२ ॥ अतो यावत्तवाध्यक्ष कुर्वेऽमुष्य परीक्षणम् । मैनं विनीनशस्तावत्प्रसादो यदि ते मयि ॥२३३॥ राक्षसोऽपि सहर्षस्तामाख्यन्मङ्घ परीक्ष्यताम् । मदुक्तमन्यथा नैव तावदस्मि विलम्बितः॥ २३४ ॥ अथानन्दवशोन्निद्रवदना मदना स्वयम् । करे कच्चोलकं कृत्वा । भक्त्याऽभ्यर्च्य मुदाऽभ्यधात् ॥ २३५ ॥ भक्तिप्रहहितोन्निद्रनागेन्द्रस्नेहसान्द्रया । पश्य पश्य दृशा भर्तृभिक्षा मङ्क्षच देहि मे ॥ २३६ ॥ तद्वाचा वञ्चितंमन्यः स्फुरन्मन्युर्निशाचरः। कुमारं कर्तिकाघातं प्रणिहन्तुमढौकत ॥ २३७ ॥ अत्रान्तरे च नागेन्द्रः पुण्यैरुन्निद्रितस्तयोः । प्रत्यक्षीभूय साक्षेपमधिचिक्षेप राक्षसम् ॥ २३८ ॥ राक्षसाधम !रे मूर्ख ! त्वं विचक्षणयाऽनया । कालिकेनेव वृद्धौतुर्वाकप्रपञ्चेन वश्चितः॥ २३९ ॥ | अथ स्वक्लृप्तपापानामिहैव फलमामुहि । इत्युक्त्वा तं चपेटाभिः स निनाय यमालयम् ॥ २४०॥ अथ तौ प्रति नागेन्द्रः स्नेहसान्द्रमवोचत । अहं कच्चोलकस्वामी नागेन्द्रो नाम देवता ॥ २४१॥ वनवासफलाहारहोमब्रह्मजपादिभिः। तपोभिर्दुस्तपैस्तैस्तैस्तप्तैर्दादशवत्सरीम् ॥ २४२ ॥ सम्यगाराधितः पुंसः कस्यापीदमहं ददे । न हि चिन्तामणिः प्राप्तुं येन तेनापि पार्यते ॥ २४३ ॥ युग्मम् ॥ प्राकृतानामगण्यानां पुण्यानां त्वनुभावतः । उपतस्थे स्वयं तद्वश्चक्रिणां चक्ररत्नवत् ।
तद्वाचा वञ्चितमय
क्षीभूय साक्षेपमा
॥८॥
Page #25
--------------------------------------------------------------------------
________________
॥ २४४ ॥ विनाऽपि तत्तपस्तीव्रमस्मात्सर्वार्थसिद्धयः । यावजीवं भविष्यन्ति युष्माकं मत्प्रसादतः॥ २४५॥ मानुष्यऽप्यनिशं दिव्यभोगानां च समागमः । एवमावेद्य सद्योऽपि नागराजस्तिरोदधे ॥ २४६ ॥ अहो ! तवाद्भुतं सत्त्वमहो ! भक्तिरकृत्रिमा । अहो ! वचनचातुर्यमहो ! बुद्धिविधानता ॥ २४७ ॥ देवि ! त्वदीयबुद्ध्यैव बेडयेव सुकाष्ठया । दुस्तरोऽयं मया तेरे लीलया व्यसनाम्बुधिः॥२४८॥ कुतःप्राणाः कुतो राज्यमिदं कचोलकं कुतः। नागमिष्यः स्वयं मधु यदि त्वं पृष्ठतो मम ॥ २४९ ॥ सहस्रशोऽपि मे सन्तु पल्यः प्रौढनृपाङ्गजाः। परं तासु समग्रासु त्वमग्रमहिषी मम ॥ २५० ॥ इत्युपश्लोकितां कान्तां ततः कच्चोलकान्वितः। आकार्य राजसूः सैन्यमागम्य सुखमस्वपत् ॥ २५१॥ देवतावसरस्यान्तस्तन्निवेश्य दिनोदये । कुमारः स्वं प्रति स्थानं प्रतस्थानश्चमूवृतः॥ २५२ ॥ अवाप भुक्तिवेलायामेलापुरवनान्ययम् । कारयामास चावासान् सैन्यैस्तत्र यथोचितम् ॥ २५३ ॥ कृत्वा माध्याहिकीः स्नानदानपूजादिकाः क्रियाः । अयं महानसासन्नभोजनस्थानमागमत् ॥ २५४ ॥ भाषावेषादिना न्यक्षसदृक्षे युग्मजे इव । दृष्ट्वा द्वे मदने तत्र भृशं विस्मयते स्म सः॥२५५॥ द्विगुणां मम किं भक्तिमद्य निर्मातुमुद्यता । इयं द्विरूपतां भेजे निजविद्यानुभावतः |॥ २५६॥ यदि वा देवता काऽपि प्रतारणकृते मम । चक्रे मदनमञ्जर्यास्तुल्यं रूपान्तरं किमु ॥ २५७ ॥ दृष्टिभ्रमादहं किं वा द्वे पश्यामि द्विचन्द्रवत् । इति चिन्ताशताक्रान्तः कुमारः समजायत ॥ २५८ ॥ सूक्ष्मयाऽपि दृशा पश्यस्तत्त्वातवप्रवीणया । द्वयोस्तयोः स्त्रियोः सम्यग् नैव भेदं विवेद सः॥ २५९ ॥ ततः स्वपरिचर्यातस्तां निवार्य द्वयीमपि । स मावर्तत भुक्त्यादौ सुधीः केन प्रतार्यते ॥२६० ॥ जिनार्चावश्यकस्नानदानमानादिकां क्रियाम् । यां यामेका यथाकालं
Page #26
--------------------------------------------------------------------------
________________
दानप्रदीपे
%A5%
A
4
%
तां तामन्याऽपि चक्रुषी ॥२६१॥ निमित्तविद्ययाऽप्येष न विशेषमवेत्तयोः । छद्मस्थसंविदश्चित्राः सर्वत्रास्खलिता न हि प्रथमः ॥२६२ ॥ ततो विषण्णवानेष समन्तादित्यघोषयत् । एते वेवेक्ति यः स्वर्णकोटिं तस्मै ददाम्यहम् ॥ २६३ ॥ तत्तद्बुद्धि- प्रकाशः। निधिमन्या विज्ञास्तत्र सहस्रशः। अहंपूर्विकया प्रापुर्लिप्सा स्वर्णे हि कस्य न ॥ २६४ ॥ पर शतानुपायांश्च रचयामासुरुद्यताः। परं तत्रोद्यमस्तेषां सर्वोऽभूदवकेशिवत् ॥२६५ ॥ स्वयं वेवेक्तुकामस्ते कुमारोऽथ स्वबुद्धितः। तनीयोमुखरन्ध्रायां मञ्जषायां निचिक्षिपे ॥२६६ ॥ ऊचे च क्रियतां दिव्यमिदं रन्ध्रण याऽमुना । निर्यात्यस्याः स्वसत्येन सा सत्या नापरा पुनः ॥२६७ ॥ ततो दुःखाश्रुमिश्राक्षी सत्या मदनमञ्जरी । जगाद गद्गदालापम्लिष्टप्रस्खलदक्षरम् ॥ २६८ ॥ | अनेन तनुरन्ध्रेण देव ! मानव्यहं बहिः । निःसरामि कथं शक्तिः सुराणामीदृशी यतः॥२६९ ॥ असत्याऽपि निकृत्यातकूटनाटकपाटवा । दर्शयन्ती भृशं दुःखमभाषत तथैव तम् ॥ २७० ॥ स्वयमेव कुमारस्ते कृपालुरकृषत्ततः। दुष्टेष्वपि गरिष्ठानां करुणा प्रगुणा यतः॥२७१ ॥ परस्त्रीसङ्गपापं मांमा स्पाक्षीदिति शङ्कितः। पिशाचीभ्यामिवैताभ्यां परं दूरं स तस्थिवान् ॥ २७२ ॥ हा नाथ ! किमनाथां मां त्वमहासीर्निरागसम् । एवं विलेपतुः शोकविक्लवे ते दिवानिशम् ॥२७॥ दध्यौ हृदि कुमारोऽपि तद्भेदावेदखेदवान् । हा ! मे निःसीमधाम्नोऽपि वैषम्यं कीगागमत् ॥ २७४ ॥ वैषम्ये यद्यमूदृक्षे मिलेयं स्वगुरूनहम् । तदा दूरे मुदस्तेषां भवेत्प्रत्युत दुःखिता ॥ २७५॥ भ्रामं भ्राममवन्यन्तरहो ! कीदृक् सुखावहम् । अयमर्जयति स्मेति हसेयुर्दुर्जनाश्च माम् ॥ २७६ ॥ एकतो मां गुरूत्कण्ठाऽन्यतः पुनरियं द्वयी । दुनोति किमु ४ कुर्वेऽहमितो व्याघ्र इतस्तटी ॥२७७ ॥ इत्थमर्तिशताक्रान्तस्वान्तःक्ष्माकान्तनन्दनः । तत्रैव हृतसर्वस्व इवायं समया
AAX.2
॥
९
॥
Page #27
--------------------------------------------------------------------------
________________
ऽकरोत् ॥ २७८ ॥ तयोर्वियुक्तयोस्त्यक्तसुखयोश्चक्रयोरिव । दम्पत्योरिति षण्मासी षड्युगीवातिजग्मुषी ॥ २७९ ॥ अथोत्पन्नमतिः सत्याऽन्यदा मदनमञ्जरी । पुष्पादिभिस्तदभ्यर्च्य कच्चोलकमवोचत ॥ २८० ॥ नागेन्द्र ! नमतां भद्रदानोनिद्र ! विमोचय । कस्याश्चिदस्या राक्षस्याः पापीयस्याः प्रसद्य माम् ॥ २८१॥ तत्क्षणादेव नागेन्द्रस्ततः प्रत्यक्षतां गतः। भृकुटिस्थपुटालीकं व्यलीका तामतर्जयत् ॥ २८२ ॥ किं रे दुश्चेष्टिते ! धृष्टे ! मूर्खे। मङ्घ मुमूर्षसि । पुण्यवयां यदेताभ्यां मुग्धे ! द्रोग्धुं त्वमीहसे ॥ २८३ ॥ ततो भीतिप्रकम्पाङ्गी सा पलायितुमप्रभुः । सहज रूपमापन्ना नागेन्द्रं दीनवाग्जगौ ॥ २८४ ॥ चपेटाघाततोऽघाति यस्त्वया रजनीचरः । अहं भ्रमरशीलाख्या खेचरी तस्य सोदरी ॥ २८५ ॥ स्वभ्रातुर्मृत्युना जातकोपा त्वां प्रति चाप्रभुः । मेघनादं सपत्नीकं प्रणिहन्तुमिहागमम् ॥ २८६ ॥ अगण्यैश्चास्य लावण्य- | रसैविष्वक्प्रसृत्वरैः । सद्यो विध्यापयामाहे मम क्रोधधनञ्जयः ॥ २८७ ॥ उदपाद्यत मच्चित्तभुवि रागाङ्कुरोत्करः। निरपाद्यत सद्यश्च पीवरी प्रीतिवल्लरी ॥ २८८ ॥ युग्मम् ॥ परमेनं परस्त्रीषु वीक्ष्याजन्मपराङ्मुखम् । रूपं मदनमञ्जर्या वञ्चनाय | व्यधामहम् ॥ २८९ ॥ भ्रान्ति चास्य निराकर्तु सत्यां मदनमञ्जरीम् । अहं देशान्तरे मोक्तुं यथाशक्त्युपचक्रमे ॥ २९० ॥ प्रभूष्णुस्त्वभवं दृष्ट्या न द्रष्टुमपि दुष्टया । तां ब्रह्मवज्रवर्माणं कर्मठो धर्मकर्मसु ॥२९१ ॥ हावभावविलासाद्यैर्वि-18 घया परिकर्मितैः। मेघनादोऽयमारेभे मुहुर्मोहयितुं मया ॥ २९२॥ चक्षुःपक्ष्माऽपि नामुष्य दक्षस्य परमचभत् । किं मेरोः शिखरं कल्पपवनैरपि कम्पते ॥ २९३ ॥ निर्ममेऽस्य मनो मन्ये नूनं वज्रमयाणुभिः। यन्मे लोचननाराचा न भेत्तुं प्रभविष्णवः ॥ २९४ ॥ इत्युक्त्वा क्षमयामास नागेन्द्रं तौ च दम्पती । त्रैलोक्यविजयं हारं कुमाराय ददौ च सा ॥२९॥
रपि कम्पते । सोहयितुं मया वर्माणं कर्मठो धार
Page #28
--------------------------------------------------------------------------
________________
प्रथमः
दानप्रदीपे
॥१०॥
HHHHHORROR
ततो नागेश्वरः सा च सद्यः स्वं सद्म जग्मतुः । प्रियौ च पिप्रियाते तो मिथः शीलपरीक्षया ॥ २९६ ॥ कुमारोऽथ निजं में स्थान प्रति प्रास्थित सुस्थितः । प्रयाणैरविलम्बैश्च प्राप स्वपुरसंनिधिम् ॥ २९७ ॥ सर्व तद्वृत्तमाकर्ण्य पूर्वमाजग्मुषो : प्रकाशः।
जनात् । प्रमोदविस्मयाद्वैतं प्राप लक्ष्मीपतिर्नुपः ॥ २९८ ॥पुरी सर्वामलङ्कार्य विस्तार्य निजसंपदम् । कुमारमभ्यगाद्भपः सानन्दं सपरिच्छदः ॥ २९९ ॥ कुमारोऽपि समारोपिधनुरानम्रमूर्तिकः । प्रणनाम पितुः पादानादाय निजपाणिना ॥ ३०॥ भुजोपपीडं भूजानिर्गाढमालिङ्गदङ्गजम् । चिरं वियोगजं दुःखमन्तःक्षिप्वेव मर्दितुम् ॥ ३०१॥ विरहानलसन्तापनिर्वापकमपीप्यताम् । क्षेमादिप्रश्नपीयूषं तावन्योन्यं क्षणं वने ॥ ३०२॥ अतुच्छरुत्सवैस्तैस्तैर्विश्वविस्मयकारिभिः। सूनुनाऽथ महीनाथः प्रतस्थे नगरी प्रति ॥ ३०३ ॥ पौराँस्तुच्छामिवोत्सृज्य तामप्युत्सवपद्धतिम् । अन्यतो ब्रजतः पश्यन् । कुमारः माह विस्मितः॥ ३०४ ॥ पौराः स्वस्वपरीवारपरीताः पूरिता मुदा । द्रुतं तात ! क्व यान्त्येते विहायेमान् महामहान् ॥ ३०५॥ अभाषत क्षितीन्द्रोऽपि धर्मघोष ऋषिप्रभुः। अद्योद्यानं तमःस्तोमवासरः समवासरत् ॥ ३०६ ॥ तंशमीशममी नन्तुं वत्स ! यान्त्युत्सुका वनम् । प्राच्यैः पचेलिमैः पुण्यैर्लभ्यते हि गुरुः शुभः ॥ ३०७ ॥ अहं ते सवधूकस्य विदधेऽद्यागमोत्सवम् । प्रभाते तु प्रभोस्तस्य प्रणस्यामि क्रमाम्बुजम् ॥ ३०८ ॥ जगाद मेघनादस्तु प्रमोदो दमेदुरः। युक्ता गुरोर्नतिस्तात ! सम्प्रत्येवावयोरपि ॥ ३०९॥ दुग्धे स्निग्धसितायोग उत्सवान्तरमुत्सवे । आनन्दान्तरमाः | नन्दे साम्प्रतं गुरुवन्दनम् ॥ ३१॥ पुरे प्रविशतां पूर्व परममङ्गलं च नः। शोभनं शकुनं साधोदर्शनं किं पुनगुरो ॥ ३११॥ त्वरैव प्रवरा पुण्ये रात्रिमात्रविलम्बिनः । न बाहुबलिनो जाता यतस्तात ! नतिः पुनः॥ ३१२॥ ततो हृष्टः
॥१०॥
Page #29
--------------------------------------------------------------------------
________________
समं तेन विभूत्याऽद्भुतया तया । प्रणनाम तमुद्दामभक्तिः क्षितिपतिर्गुरुम् ॥ ३१३ ॥ अथ पीयूषवर्षिण्या धर्मघोषगुरुगिरा । वैराग्यैकमयं पुण्योपदेशमुपचक्रमे । ३१४ ॥
जीवाः सर्वेऽपि संसारे सुखमेवाभिलाषुकाः । जायते तत्त्वतस्तच्च धर्मान्न पुनरन्यतः ॥ ३१५ ॥ धर्मादन्ये हि देहत्रीस्वजनार्थाः सुखाकराः । मता मूढधियां तत्त्ववेदिनां पुनरन्यथा ॥ ३१६ ॥ तथाहि
देहस्तत्रापवित्रात्मा सप्तधातुमयत्वतः । मलौघैराविलत्वाच्च स्यात् सुखाय कथं नृणाम् ॥३१७॥ करौ जातु क्रमौ जातु जातु हज्जातुचिन्मुखम् । जातु कर्णौ दृशौ जातु जात्वंसौ जातु कन्धरा ॥ ३१८ ॥ कटिर्जातु शिरो जातु जात्वोष्ठौ जातुचिद्रदाः । जातु जानुर्हनुर्जातु जातुचिज्जठरान्तरम् ॥ ३१९ ॥ यत्र दुष्यन्ति पुष्णन्ति व्यथामत्यर्थमात्मनः । सुखावहममुं देहममोहः को हि मन्यते ॥ ३२० ॥ त्रिभिर्विशेषकम् ॥ माशना या पिपासा मा मा शीतं मा स्म चातपः । मा भुजङ्गाश्च मा रोगा वातपित्तकफोद्भवाः ॥ ३२१ ॥ मा दंशा मशका मा स्म माजलं ज्वलनश्च मा। भूताद्याः क्षुद्रदेवा मा मा मलो | मा स्म दस्यवः ॥ ३२२ ॥ एतां बाधिपते त्यार्तास्त्रातुमभ्युद्यतास्तनुम् । आयासान् शतशस्तांस्तानामुवन्त्यल्पमेधसः ॥ ३२३ ॥ त्रिभिविशेषकम् ॥ कारं कारमपाराणि पापान्यङ्गकृते जडाः । लभन्तेऽनन्तदुःखानि दुरन्तां दुर्गतिं गताः ॥ ३२४ ॥ यदुक्तम् - "निरयत्यो ससिराया बहुं भणइ देहलालणासुहिओ । पडिओमि भए भाऊ तो मे जाण्ह तं देहं ॥ १ ॥” इति ।
वनुं त्यक्तुमुद्यतास्तत्त्ववेदिनः । दुस्तपान्यपि तथ्यन्ते तपस्यात्मसुखैषिणः ॥ ३२५ ॥ तपस्क्रियादिभिर्याति यदि धर्मोपयोगिताम् । तदा देहोऽपि सौख्याय तुरीयस्येव चक्रिणः ॥ ३२६ ॥ देहः ॥ शोणितास्थिवसामांसाद्यमेध्यम
Page #30
--------------------------------------------------------------------------
________________
%
%
प्रथमः प्रकाश:।
%A5
दानप्रदीपे
यमूर्तयः। मतास्तत्त्वविदां नैव स्त्रियोऽपि सुखहेतवः ॥ ३२७ ॥ इहाप्यपपवित्रादिचिन्तासंतापसंततिम् । लभन्ते ललनासका मूढात्मानः पदे पदे ॥ ३२८ ॥ कम्पग्लानिश्रमस्वेदराजयक्ष्मादिका रुजः । जायन्ते प्राणहारिण्यस्तदत्यासक्तितः पुनः॥ ३२९ ॥ यं यं तदङ्गावयवं सुखाङ्गं बहिर्मनोझं मनुते विमूढः । तं तं मनस्वी विमृशंस्तु तत्त्वदृशा विपर्यस्ततया समस्तम् ॥ ३३० ॥ विरक्ताश्च स्त्रियः कां कां ददते नापदं नृणाम् । श्रूयते हि नृपोऽघाति प्रदेशी सूर्यकान्तया ॥३३१॥ | गृहिणां यद्यमूर्धर्म साहाय्यादुपकुर्वते । तदा मदनरेखेव ता अपि स्युः सुखावहाः ॥ ३३२ ॥ स्त्रियः ॥ स्वजनाश्च पितृभ्रातृमातृस्वसृसुतादयः । स्वकार्यकपरास्तेऽपि कथं स्युः सुखदायिनः ॥ ३३३ ॥ रोगाद्यापदि न त्राणमुपकारे च संशयः। न प्रेमाऽकृत्रिमं येषां तेभ्यः किं सुखमिष्यताम् ॥ ३३४ ॥ तदर्थमर्थार्जनहेतुकान् प्राक् शीतातपादीन शतशः प्रयासान् । इहाश्नुतेऽङ्गी कलिकङ्घनादीन पश्चात्तदंशीकरणादिजांश्च ॥ ३३५ ॥ यदुक्तम्
___ "माया पिया य भाया भज्जा पुत्ता य सुही अनिअगा य । इह चेव बहुविहाई करंति भयवेमणस्साई ॥१॥” इति ॥ 18| तदर्थ विहितेस्तैस्तैर्महारम्भादिसंभवैः। दुरन्तां दुरितैर्जन्तुः प्रेत्यावाप्नोति दुर्गतिम् ॥ ३३६ ॥ भजन्ते चेन्मिथः प्रीति-18
भाजः पुण्ये सहायताम् । स्वजना अप्यमी लोकद्वयसौख्यप्रदास्तदा ॥ ३३७ ॥ स्वजनाः ॥ धनधान्यहिरण्यादिरों नव-| विधः स्मृतः। आयावनविनाशादौ सोऽपि दुःखैककारणम् ॥ ३३८ ॥ न मृत्याद्यापदां होंपकर्ता द्विषतामपि । सर्पादिदुर्गर्दाता कथमर्थः सुखाकरः ॥ ३३९॥ सुखं वैषयिक यत्तु भवेद्वित्तनिमित्तकम् । अनन्तदुःखदायित्वादुधास्तदसुखं विदुः॥३४०॥ भ्रातृमित्रपितापुत्रसहक्रयिकगोत्रिणाम् । अर्थः प्रथयति प्रायः कलिं प्राणान्तकारिणम्॥३४१॥तदुक्तम्
AD
॥११॥
-
-
Page #31
--------------------------------------------------------------------------
________________
ॐॐ--
"छेओ भेओ वसणं आयासकिलेसभयविवागो अ । मरणं धम्मभंसो अरई अस्थाउ सबाई ॥१॥” इति ॥
अत्रार्थे श्रूयतां सभ्याश्चतुर्मित्रीनिदर्शनम् । वसन्तपुरवास्तव्या बाल्यादप्याप्तसौहृदाः ॥ ३४२॥ चत्वारो भूधवामात्यदमहेभ्यारक्षसूनवः । सममाम्नातिनोऽभूवन कलासु सकलास्वपि ॥ ३४३ ॥ युग्मम् ॥ आक्रीडादौ सह क्रीडां कुर्वाणाः
सर्वदाऽप्यमी । तरङ्गिताङ्गलावण्यं तारुण्यं भेजिरे क्रमात् ॥३४४॥ मिथो विमृश्य तेऽन्येधुः कौतुकालोककाम्यया । चेलु
र्देशान्तरे कूपभेका हि न विवेकिनः ॥ ३४५ ॥ अथापरे त्रयः प्रोचुर्भक्त्या नृपतिनन्दनम् । देव ! स्वामी त्वस्माकं वयं ट्रच तव सेवकाः॥ ३४६ ॥ भुक्तियुक्तिं ततो वित्तैर्वयं स्वस्वकलार्जितैः। वारकेण करिष्यामस्तत्र निश्चिन्तताऽस्तु ते
॥ ३४७ ॥ रक्षणीयः प्रभु त्यैस्तदायत्ता हि ते ध्रुवम् । स्थिरा भवन्त्यरा नैव तुम्बे जर्जरतां श्रिते ॥ ३४८॥ अथ ते दिवसे प्राच्ये सायं ग्रामे क्वचिद्गताः । कश्चित्तत्राभ्यवस्कन्दस्तदा च द्रुतमापतत् ॥ ३४९ ॥ तमारक्षात्मजो रक्षादक्षो विशिखवर्षणैः । द्रुतं विद्रावयामास केशरीव मृगब्रजम् ॥ ३५० ॥ ततः प्रमुदिता लोका अस्तोकादरतः प्रगे । तत्र तान् भोजयामासुः कलायाः क्व न मान्यता ॥ ३५१॥ पुरतः प्रस्थितास्तेऽथ प्रापुः क्षेमपुरं पुरम् । तदन्तर्भुक्तिचिन्तायै जगाम च महेभ्यसूः॥ ३५२॥ वित्तेनात्तेन कस्यापि न्यासीकृत्य स्वमुद्रिकाम् । वणिज्याकुशलस्तत्र चक्रे स क्रयविक्रयम् ॥३५॥ दीनाराणामदीनोऽयं सार्द्धयामवणिज्यया । लेभे पञ्चशती लाभे वाणिज्यं हि सुरदुमः ॥ ३५४ ॥ शस्याहारैर्वयस्यादीलाभेनायमभोजयत् । निजां च प्रतिजग्राह मूलद्रव्येण मुद्रिकाम् ॥ ३५५ ॥ अथ मन्त्रिभुवो वारे ते काम्पील्यपुरं ययुः। मन्त्रिभूस्तत्र चाश्रौषीत्पटहं श्रीपथे गतः। ३५६ ॥ अपृच्छच्च नरं कञ्चित्कैषा पटहघोषणा । सोऽप्यूचेऽत्र पुरे सार्थपति
SAA%D1%
-
C4%AM
Page #32
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१२॥
REASONOCOLOGIC
नामा धनी महान् ॥ ३५७ ॥ तं च कोऽप्यधुना धूर्तो मूर्तो दम्भ इवावदत् । तव पार्श्वे पुरा द्रम्मलक्ष न्यक्षिपमर्पय प्रथमः ॥ ३५८ ॥ इभ्यस्तमभ्यधादत्र प्रतिभूः कः प्रकाशय । सोऽप्याचचक्षे निक्षेपे साक्षी हि परमेश्वरः ॥ ३५९ ॥ एवं विवद
प्रकाश मानौ तौ नृपसंसदमीयतुः । आदिदेश नरेशोऽपि धीसखांस्तद्विनिर्णये ॥ ३६०॥ ते भृशं विमृशन्तोऽपि निरणैषुन किञ्चन । धीप्रौढा अपि गूढार्थे मूढा न हि भवन्ति किम् ॥ ३६१॥ ततस्तेभ्यो नृपः क्रुद्धः पटहं वादयत्वमुम् । निर्णेता योऽत्र लक्षास्मै दास्यते मम मन्त्रिभिः॥ ३६२ ॥ अथामात्यात्मजः प्रज्ञापटुः पटहमस्पृशत् । ततश्चाजूहवन्मन्त्रिपुत्रधूर्तादिकान्नपः॥३६३ ॥ निर्धारयेति भूपोक्तो धूर्तमाख्यत मन्त्रिसूः। भूयसा नेहसा भद्र ! वीक्षितोऽसि स्मरस्यदः ॥३६॥ सन्निधौ ते निधास्यामि द्रम्मलक्षचतुष्टयीम् । परमेश्वर एवात्र साक्षी प्रत्यर्पयाथ ताम् ॥ ३६५ ॥ श्यामितास्यस्ततो धूर्त| स्तूष्णीकः श्माभुजा रुषा । निरकास्यत धिक्कृत्य दम्भारम्भे शुभं न हि ॥ ३६६ ॥ नरेशादेशतोऽमात्याः सर्वे सचिवसू8 नवे । द्रम्मलक्षं ददुस्तस्मै कमर्थं साधयेन्न धीः ॥ ३६७ ॥ रुच्यामररचद्भक्तिं सुहृदां तेन मन्त्रिसूः । विकटामटवीं ते चले है तद्बलादुदलङ्घयन् ॥ ३६८ ॥ सीम्नि ग्रामस्य कस्यापि सायं सिकतिलेतले । नैयग्रोधे वसन्ति स्म पथश्रान्ताः सुषुप्सवः
॥३६९ ॥ जाग्रतां हि भयं नेति व्यधुस्ते जागरक्रमम् । तत्र च प्रथमे यामे जजागार नृपाङ्गजः॥ ३७॥ पतामीति तदा दिव्यवागभूद्गगने मुहुः । द्रुतं पतेति पृथ्वीशपुत्रोऽपि प्रत्यवोचत ॥ ३७१ ॥ महानत्र समस्त्यर्थः किन्त्वनर्थसम-ते न्वितः । इत्थं दिव्याऽभवद्वाणी पुनर्यग्रोधमूर्धनि ॥ ३७२ ॥ सोऽप्यचीकथदर्थश्चेदनों मथितस्तदा । उदीयुषि त्विषां
१२॥ पत्यौ न नश्यति तमः किमु ॥ ३७३ ॥ अनर्थों यदि वार्थेन जायते तर्हि जायताम् । कर्पूरमदतां दन्ताश्चेत्पतन्ति पतन्तु
ROCCASICALCERCANCE
Page #33
--------------------------------------------------------------------------
________________
तत् ॥ ३७४ ॥ ततोऽपप्तद्विहायस्तः सहसा स्वर्णपूरुषः । तं च वीक्ष्य जहर्षायमगोपायच्च लोभतः॥ ३७५ ॥ इत्यन्येषा-1 मपि स्वर्णपुरुषाप्तिरजायत । परस्परमगोपायंस्तेऽपि लोभानुभावतः॥ ३७६ ॥ चत्वारोऽपि प्रगे भिन्नहृदो भ्रमुरितस्ततः। | वक्तुकामा मिथो गुप्तीकृतार्था इव सोदराः॥ ३७७ ॥ साजात्यात्समगंसातां राजारक्षसुतावथ । वृत्तान्तं च मिथोऽवक्तामेवमन्यावपि स्वयम् ॥ ३७८ ॥ तत्राद्यावममन्त्रेताममात्रैः सुकृतैरिमौ । सिद्धौ स्वर्णनरौ युक्तौ न दर्शयितुमेतयोः॥३७९॥ तद्भागोऽप्यनयोर्दातुं वणिजोनव युज्यते । ज्ञाते मैत्र्या च याचन्तौ कलिमेतौ करिष्यतः॥ ३८॥ तदेतावविजानन्तौ निहन्येते कथञ्चन । अधुना चान्नमानेतुं प्रेष्येते ग्राममन्तरा ॥ ३८१॥ प्रत्यायान्ताविमौ कुञ्जान्तरिताभ्यामुभावपि । आवाभ्यां घातयिष्येते खगघातमतर्कितम् ॥ ३८२ ॥ ततश्चावां गृहं प्राप्तौ विप्रतार्य तयोः पितॄन् । स्वयं भोक्ष्यावहे स्वैरं सुवर्णपुरुषाविमौ ॥ ३८३ ॥ इति तौ वणिजौ ताभ्यां प्रहितौ ग्राममन्तरा । के के लोभपिशाचोऽयं नाधत्ते धीविपर्ययम् ॥ ३८४ ॥ गच्छन्तौ तावपि ग्राम मन्त्रयामासतुर्मिथः । सुकृतैरमितैरेतौ सिद्धौ नः स्वर्णपूरुषौ ॥ ३८५॥ दुर्धर्षों क्षत्रियावेतौ प्रसह्याच्छेत्स्यतः परम् । तदमू द्रुतमावाभ्यां निहन्तव्यौ विषादिना ॥ ३८६ ॥ इति तौ विषसंपृक्तं भक्तं कृत्वा समागतौ । अहसातां द्रुतं ताभ्यां हहा लोभविजृम्भितम् ॥ ३८७ ॥ तद्विषान्नमजानन्तौ भुक्त्वाऽन्यावपि मम्रतुः।। प्रथयेन्न कुपात्रस्थः कां कामर्थः कदर्थनाम् ॥३८८॥अत्र चावसरे नत्वा नन्दीश्वरजिनेश्वरान् । प्रत्यायान्तौ यती कौचित्तदुपान्तमुपेयतुः ॥ ३८९ ॥ तानिरीक्ष्य स वैलक्ष्यः शिष्यो मुख्यर्षिमाख्यत । इत्थं जग्मुरमी केन कर्मणा मरणं समम् ॥ ३९०॥ आख्यन्मुख्योऽपि सुग्रामे ग्रामे नृपतिपत्तयः। चत्वारः क्षत्रियाश्चित्रपवित्रस्थितयोऽभवन् ॥ ३९१॥ ग्राम
Page #34
--------------------------------------------------------------------------
________________
दानप्रदीप
AR...
प्रथमः प्रकाश
॥१३॥
ज्वालयितुं कश्चिदाज्ञालोपसकोपधीः । तान्ययुत नृपोऽन्येधुर्न नृपा हि कृपास्पदम् ॥ ३९२ ॥ तत्र ते सायमायाता| दयार्दीभवदाशयाः । स्वयं विचारयामासुश्चत्वारोऽपि परस्परम् ॥ ३९३ ॥ पशुबालाबलाविप्रतपस्व्यादिभिराकुलः । ग्राम|श्चेद्दह्यते तर्हि पातकं श्वभ्रपातकम् ॥ ३९४ ॥ दहामश्च न चेदाम तन्नृपाज्ञा विलुप्यते । हहा वैषम्यमापन्नमितो व्याघ्र ले इतस्तटी ॥ ३९५ ॥ धिर धिक् तानधमान् भृत्यान् स्वकीयोदरपूर्तये । पापकर्माणि निर्माय निरयं स्वं नयन्ति ये ॥३९॥
दुःखं चासंख्यवर्षाणि सहन्ते तत्र दुःसहम् । इहाकीर्त्यपमृत्यादीन् विन्दन्ते च पदे पदे ॥ ३९७ ॥ वरं वन्यफलैर्वृत्तिर्दास्यं धर्म्यगृहे वरम् । न तु सेवा नरेन्द्रस्य दुरन्तदुरितास्पदम् ॥ ३९८ ॥ एवं विमृश्य ते सीम्नि कणाम्बापूलकोत्करम् । दहन्ति स्म स्वस्वकर्मवश्या लेश्या हि देहिनाम् ॥ ३९९ ॥ ग्रामद्वारे च तच्चिद्रं कृत्वा स्वं स्थानमासदन । प्रविष्टोऽभूत्कणाम्बान्तः साशकः कोऽपि हालिकः॥४०॥ स तत्र दग्धदेहः सन् वटेऽस्मिन् व्यन्तरोऽजनि । वल्यादिजातमृत्यूनां प्रायो वैयन्तरी गतिः॥४०१॥ चत्वारः क्षत्रियास्ते तु मृत्वा राजादिवंशजाः । करुणापरिणामेन कुमारा अभवन्नमी ॥ ४०२ ॥ वटागतान्नमून् दृष्ट्वा व्यन्तरश्चाकुपत्तराम् । अहमेतैर्विना हेतुं प्रागधक्षीति दोषधीः॥ ४०३ ॥ नियन्तां स्वयमेवामी दुर्धियेति विचिन्त्य च । सुवर्णपुरुषीभूय प्रतियाम पपात सः॥ ४०४॥ धिर धिग् मौग्ध्यं यदधुग्भ्योऽप्येभ्यो द्रुह्यत्ययं मुधा । न ह्यदह्यत विज्ञाय तैरेष द्वेषतः पुरा॥४०५ ॥ अथ लोभमहाभूतविकलीभूतचेतसः। कुमारा मारयामासुश्चत्वारस्ते परस्परम् ॥४०६ ॥ वैरिशुद्धिं विधायेति व्यन्तरः प्रीतिमाप सः । नराणां हि भवेन्मृत्युय॑न्तराणां तु कौतुकम् ॥४०७॥ वत्सैवं क्रोधलोभायैर्विश्व कलकलायते । इत्यालापं सृजन्तौ तौ यती जग्मतुरग्रतः॥४०८॥ एवं विभवलो
%
SC-
Page #35
--------------------------------------------------------------------------
________________
लिभान्धा निधनाद्याननेकधा । इहैवाचवतेऽनर्थान् प्रेत्य तास्तास्तु दुर्गतीः॥४०९॥ यदि धर्मार्थतामर्थनयन्ति विधिवद्वधाः।
सन्तोषसुहितास्तहि स्यादेषोऽपि सुखावहः ॥ ४१०॥ अर्थः ॥ यत्र संगच्छते धर्मस्तत्सर्व सुखदं भवेत् । नायं संगच्छते है यत्र तत्सर्व दुःखदं पुनः॥४११॥ अतःश्रीधर्म एवायमन्वयव्यतिरेकतः। हेतुः सर्वसुखश्रीणां पर्जन्य इव वीरुधाम् ॥४१२॥ __ इत्यास्वाद्य गुरोः पुण्यदेशनां गोस्तनीमिव । भूपाद्यास्त्यक्तसंतापाः प्रापुराप्यायनां पराम् ॥ ४१३ ॥ अथ माभृत्तमप्राक्षीत् प्रभो! नृपनिदेशतः। अज्ञातैकाङ्गिघातेन ययेषां फलमीदृशम् ॥ ४१४ ॥ तर्हि जन्तूनमन्तून्नः शतशः सततं नताम् । का गतिविता स्थानं सप्तमे नरकेंऽपि नः॥ ४१५ ॥ जगाद गुरुराजस्तं सत्यमेतन्महीपते। कर्मणां प्रागुपात्तानामीदृश्येव दुरन्तता ॥ ४१६ ॥ वधबन्धे छिदाद्यं हि कर्म निर्मीयते पुरा । तद्विपाको जघन्योऽपि श्रुते दशगुणः स्मृतः ॥ ४१७ ॥ तदुक्तम्
"वहमारणअब्भक्खाणदाणपरधणविलोवणाईण । सबजहन्नो उदओ दसगुणिओ इक्कसिकयाणं ॥१॥
तिबयरे अ पओसे सयगुणिओ सयसहस्सकोडिगुणो । कोडाकोडिगुणो वा हुज बिवागो बहुतरोय ॥२॥" शक्यो वारयितुं वार्धिरुद्धेलो जातु बाहुभिः। न पुनःप्राक्तनकर्मपरीपाकः समापतन् ॥ ४१८ ॥ परं यदि तपस्तीनं तप्यते संवृतानवः । क्षयः कुकर्मणां मर्माविधामपि तदा ध्रुवम् ॥ ४१९॥ यदुक्तम्
"पुविं दुच्चिन्नाणं दुप्पडिकंताणं वेअइत्ता मुखो, नत्थि अवेअइत्ता, तवसा वा झोसइत्तेति ॥" अथ श्मापतिराचख्यौ विषयेषु परामुखः । कर्ममर्मनिरस्यायै तपस्यायै प्रसीद मे ॥ ४२० ॥ गुरुप्रष्ठोऽप्यभाषिष्ट
Page #36
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१४॥
प्रथमः प्रकाशा
%ASHNES-R
|| विलम्बमिह मा विधाः । पुण्ये बह्वन्तराये हि प्रमादो नोपपद्यते ॥ ४२१ ॥ मेघनादकुमारोऽपि भीतः कर्मविपाकतः।
गुरुं व्रतमयाचिष्ट भवागीन कः सुधीः ॥ ४२२ ॥ गुरवोऽपि जगुर्भोगफलं कर्म निकाचितम् । तवास्ति साम्प्रतं तेन न ते चारित्रयोग्यता ॥ ४२३ ॥ अवश्यं हि त्वया भोगा भोक्तव्यास्तद्विपाकतः । देवानामपि दुष्पापा वर्षाणां लक्षमक्षताः ॥ ४२४ ॥ कुमारोऽपि जगौ भोगसुखैः किं तैर्विषैरिव । यानि भुक्तानि जायन्ते विपाके विपदेऽङ्गिनाम् ॥ ४२५ ॥ जगौ गुरुरिदं सत्यमेव किन्त्वशुभं यथा । नाऽभुक्तं क्षीयते कर्म तथा शुभमपि ध्रुवम् ॥ ४२६ ॥ आयसीवाऽशुभं कर्म सौवर्णीव शुभं पुनः । शृङ्खला स्खलयेत्कं न मुक्तौ प्रस्थातुमुद्यतम् ॥ ४२७ ॥ क्षये तु कर्मणस्तस्य वर्षलक्षादनन्तरम् । तपस्या तेऽपि शस्यात्मन् ! भाविनी शिवदायिनी ॥ ४२८ ॥ तावता विधिवत् श्राद्धधर्ममाराधयाधुना । अतोऽपि कियती कर्मनिर्जरा तव भाविनी ॥ ४२९ ॥ कुमारोऽथ समं पल्या प्रमोदेनोदरंभरिः । द्वादशव्रतविस्तीर्ण श्राद्धधर्ममुपाददे ॥ ४३० ॥ व्रतोत्सुको गुरुं नत्वा प्रस्थितो नगरं प्रति । प्रौढोत्सवैः कुमारं तं पुरे प्रावीविशन्नृपः॥४३१॥ ततो राजा कुमाराय दत्त्वा साम्राज्यमार्यधीः । व्रतं भेजे तपस्तेपे ययौ च सुगति क्रमात् ॥ ४३२ ॥ मेघनादमहीन्द्रोऽथ प्राच्यपुण्योपढौकितम् । बुभुजे भुवि साम्राज्यं स्वाराज्यमिव वासवः ॥४३३ ॥ केयूरकुण्डलमुखाभरणानि रत्नस्वर्णात्मकानि शयमा(ना)सनमद्वितीयम् । क्षौमादिदिव्यवसनं च यथेच्छमस्मै कच्चोलकं प्रतिदिनं द्युमणीव दत्ते॥४३४॥समं मदनमञ्जर्या दत्तांस्तेन नवान्नवान् । दिव्यभोगानभुक्तायं शालिभद्र इवान्वहम् ॥ ४३५ ॥ दीनानाथादिषु स्वर्णकोटीर्दश दिने दिने। स दानी व्यययामास सतां ह्यौदार्यमद्भुतम् ॥ ४३६ ॥ स रौप्यादिमयान माया हारानिव सहस्रशः। विहारान् कार
॥ १४ ॥
AKAR
Page #37
--------------------------------------------------------------------------
________________
यामास श्रीरेवं हि फलेग्रहिः ॥ ४३७ ॥ जिनाचः कोटिशस्तेषु स स्वर्णादिमयीर्न्यधात् । बोधिलाभे परं बीजं यतस्तासां विधापनम् ॥ ४३८ ॥ स तत्र व्यधितस्नात्रममात्रमहमन्वहम् । प्रभावना विभूषा हि सम्यक्त्वस्य महीयसी ॥४३९ ॥ तीर्थयात्रारथयात्राद्युत्सवान् प्रतिवत्सरम् । सोऽद्भुतानमितांश्चक्रे न तृप्तिः सुकृते सताम् ॥ ४४० ॥ कांश्चिलक्षेश्वरांश्चक्रे कांश्चित्कोटीश्वरान् पुनः । साधर्मिकानयं शुल्कमुक्तिचिन्तार्पणादिना ॥ ४४१ ॥ मासे मासेऽयमस्राक्षी लक्ष भोज्यं सधर्मणाम् । कोटिभोज्यं पुनर्वर्षे पोष्यास्ते तत्त्वतः सताम् ॥ ४४२ ॥ भोजं भोजं समस्तेभ्यस्तेभ्यश्चादादयं मुदा । दिव्यं नेप थ्यमातिथ्यमेषु पथ्यं परत्र यत् ॥ ४४३ ॥ त्रिसन्ध्यं विदधे नित्यमर्हणामर्हतामयम् । श्रेयसीनां यतः श्रेयः श्रीणां विश्रामभूरियम् ॥ ४४४ ॥ सहस्रैः सह भूपानां स द्विरावश्यकं व्यधात् । इदं हि हननस्थानमंहसां भूयसामपि ॥ ४४५ ॥ स पर्वपौषधं भूपत्रिसहस्रया सह व्यधात् । पर्वकृत्यपरित्यागः सतां नैवोचितो यतः ॥४४६ ॥ एवमाराध्यतो धर्मं राज्यं तस्यै धताधिकम् । धर्मः पर्जन्यधर्मा हि वृद्धये ऋद्धिवीरुधाम् ॥ ४४७ ॥ मूर्द्धाभिषिक्तास्तं भक्त्या सहस्रमपरे नृपाः। उपासत सुरेशानं सामानिकसुरा इव ॥ ४४८ ॥ पञ्चाशतः स कोटीनां ग्रामाणामाधिपत्यभुक् । द्वात्रिंशतः सहस्राणां पुराणां पुनरीशिता ॥ ४४९ ॥ प्रभुर्गजरथाश्वस्य प्रत्येकं. लक्षविंशतेः । स चत्वारिंशतः पत्तिकोटीनामनुशासिता ॥ ४५० ॥ राज्यमित्यक्षतं वर्षलक्षमेकममुक्त सः । पुण्यत्राते हि कस्तत्र विघ्नमाधातुमीश्वरः ॥ ४५१ ॥ अन्येद्युः पार्श्वदेवाही ज्ञानी तत्रागमद्गुरुः । नृपश्च सपरीवारस्तमवन्दत भक्तितः ॥ ४५२ || सुधादेश्यं गुरोः पुण्योपदेशमुपकर्ण्य सः । नृपः प्रमोदमेदस्वी पप्रच्छ स्वच्छधीर मुम् ॥४५३ ॥ प्राग्भवे किं मया पुण्यं चक्रे राज्यर्द्धिरीदृशी । कच्चोलकं च येनाप्तमिष्टदायि द्युर लवत् ॥४५४॥
Page #38
--------------------------------------------------------------------------
________________
प्रथमः प्रकाशः।
-
-
दानप्रदीपे|| प्रत्युवाच गुरुः शौर्यपुरे भरतभूषणे । भीमनामा वणिग् जज्ञे भारिकः कृपणाग्रणीः ॥ ४५५ ॥ इभ्यानां भृत्यया
भारमारतः परतो वहन् । स द्युम्नमर्जयामास दुर्भरं ह्युदरं नृणाम् ॥ ४५६॥ मितंपचतया वित्तसंचिचीपुरनुच्चधीः । भुक्ति तैलकदन्नाभ्यामेकवारं चकार सः ॥४५७॥ किं वर्ण्यतेऽस्य कार्पण्यमेकेकेन वराशिना (?)। निर्वाहं पञ्चवर्षीयः कुर्वाणः स्वानकारयत् ॥ ४५८ ॥ स्वजनानामपि स्वल्पेऽप्युत्सवे तुच्छधीरयम् । समगच्छत न वापि किमौचित्यं मितंपचे ॥४५९॥ |वैयग्येणार्जनेऽर्थस्य व्ययभीरुतया च सः । धर्म न जातु शुश्राव दूरे तस्यास्तु तस्कृतिः॥४६०॥ न जातु देवतागारं न धर्मागारमप्ययम् । प्रविवेशानिशं त्रस्तः पशुर्वन्यः पुरं यथा ॥ ४६१ ॥ केवलं भारवाहादिकुकर्माणि स निर्ममे । क्रमाचास्यामिलट्रम्मलक्षं धिग् दक्षतां श्रियः ॥ ४६२ ॥ गुणैरपि सजातीयस्तस्याऽजायत नन्दनः । कार्य बीजानुयायीति भेजे यः प्रकृतिं पितुः ॥ ४६३ ॥ पिता स्वां प्रकृति तस्य पश्यन्नुल्लासमासदत् । पितरः स्वसमाचारैः प्रीयन्ते प्रायशः सुतैः ॥ ४६४ ॥ अथापन्नो दशामन्त्यां पिता पुत्रमवोचत । भारवाहादिभिः क्लेशैम्मलक्षमुपार्जितम् ॥ ४६५ ॥ एतद|न्तर्धनं कृत्वा मद्वदाजीविकापरः । योगक्षेमं वितन्वीथा वित्तैः स्वयमुपार्जितैः ॥ ४६६ ॥ ततस्तस्मिन् मृते सोऽपि बिभ्रा-1 णो भारवाहताम् । तस्मादन्यूनकार्पण्यस्तावद्रव्यममेलयत् ॥४६७ ॥ तथैवाशिक्षयन्मृत्युक्षणे सोऽपि निजं सुतम् ।। सोऽपि द्विगुणकार्पण्यो न वप्तारमजिहिपत् ॥ ४६८ ॥ तथैव मेलयामास लक्षमेषोऽप्यलक्षणः । विधीचक्रे च तिस्रोऽपि लक्षाः पञ्चत्वमाप च ॥ ४६९ ॥ ततस्तस्याङ्गजः सर्वपूर्वजाधिकतद्धनः । धनराजाभिधो दधे कुलाचारधुरीणताम् ॥४७०॥ जज्ञे धन्याभिधा भार्या तस्य शस्यगुणान्विता । व्यराजततरां यस्यामौदार्य धर्मसङ्गतम् ॥ ४७१ ॥ राजहंसी बकस्येव
मायालयामा
-
का॥१५॥
--%
Page #39
--------------------------------------------------------------------------
________________
| काचस्येव हरिन्मणी । लक्ष्मीरिवालक्षणस्य तस्याभ्यणे व्यभादसौ ॥ ४७२ ॥ निःसीमा कीदृशी हन्त ! विधातुरविवेकिता। य एतेनाधमेनैतामुत्तमां समजीगमत् ॥ ४७३ ॥ यद्वाऽस्य प्राक्तनं प्राग्रं भाग्यं जागर्ति पक्रिमम् । गृहालङ्करणी यस्य रमणीयमजायत ॥ ४७४ ॥ त्रिलक्ष्या अप्ययं स्वामी स्वयं निःस्व इवानिशम् । निर्ममे निन्द्यकर्माणि धनिनां तद्धनस्य, धिक् ॥ ४७५ ॥ न साधूनाप्ययं बन्धून्न गुरून्नापि देवताः । अभिवीक्षांबभूवापि दूरे तेषां तु सत्कृतिः ॥ ४७६ ॥ कुकमकर्मठं धर्मपरामुखमवेक्ष्य तम् । अखिद्यत भृशं धन्या पत्यौ हि स्नेहला सती ॥ ४७७ ॥ साऽन्यदाऽवसरं प्राप्य तमजल्पदनल्पधीः । कुकर्म रङ्गवत्कुर्वन् स्वामिन् ! न त्रपसे किमु ॥ ४७८ ॥ लोभान्धधीर्वहन् भारं न वेत्सि दिवसं निशाम् । गृहे वित्तं प्रभूतं नस्त्वया प्राच्यैश्च सश्चितम् ॥ ४७९ ॥ न भोगे नापि पुण्यादौ व्यययस्यल्पमप्यदः। प्रेष्ठकष्टं च भूयिष्ठं विदधासि मुधा किमु ॥ ४८० ।। मेलं मेलं विमुच्यार्थ तव सर्वेऽपि पूर्वजाः । क्लिश्यन्त एव तृष्णार्ता जग्मुस्तैः किमसाध्यत ॥ ४८१॥ दिनैः कतिपयैरेव त्वमप्येतादृशस्थितिः। प्रयाताऽसि तदध्वानं वित्तं ते जीवितं च धिक ॥४८२॥ मुखे च वीक्ष्यते तेऽद्य श्यामताऽऽकस्मिकी किमु । किञ्च मुञ्चसि निश्वासानत्युष्णानायतान्मुहुः ॥ ४८३ ॥ किमु त्वां वाधते व्याधिर्हानिर्वा क्रयविक्रये । निधानश्रीः प्रनष्टा वाऽपमानः कश्चनाथवा ॥ ४८४ ॥ सोऽप्यवोचत किञ्चिन्मे नेदं| | खेदनिबन्धनम् । किन्तु चीनकमुष्टिं यत्त्वमदाद्यविजन्मने ॥४८५॥ वज्रेणेवाहतस्तेन प्रिये ! जातोऽस्मि सम्प्रति । न
मां मृत्युस्तथा दुःखाकरोत्यर्थव्ययो यथा ॥ ४८६ ॥ धनं बुद्धिर्धनं सिद्धिर्धनं त्राणं धनं गतिः। धन कीर्तिर्धनं स्फूर्तिजीवितं |च धनं नृणाम् ॥ ४८७ ॥ त्वमेवं च व्ययं मुग्धे ! विदधाना मुधा धनम् । अचिरादेव नेताऽसि क्षयं धान्यमिवेलिका
Page #40
--------------------------------------------------------------------------
________________
दानप्रदीपे
प्रथम: प्रकाशः।
॥४८८ ॥ इत्याकास्य कार्पण्यातिशयं चावगत्य सा। चित्तानुवर्तिनी कान्तमुवाच चतुराग्रणीः ॥४८९ ॥ नातः पर विधास्येऽहमेवंविधमपि व्ययम् । पतिव्रता यतः पत्युः प्रियमेव वितन्वते ॥४९॥ परं कोऽपि न यत्रार्थे व्ययस्तत्सुकृतं कुरु । येन कीर्तिरिह स्फूर्तिमेति प्रेत्य च सद्गतिः॥४९१ ॥ जिनं नमस्य वन्दस्व गुरुं धर्मकथाः शृणु । इत्यादिधर्मकृत्येषु न हि कोऽपि धनव्ययः॥ ४९२ ॥ प्रत्यूचे नीचधीः सोऽपि नमस्यामि मुनीन् यदि । तदा परिचितास्ते मां वञ्चयन्ते वचस्विनः ॥ ४९३ ॥ विहाराः किल कार्यन्ते स्थाप्यन्ते जैनमूर्तयः । चतुर्विधोऽर्च्यते सो जिनस्यार्चा विरच्यते ॥ ४९४ ॥ यतयः प्रतिलाभ्यन्ते दीनादिभ्यः प्रदीयते । तीर्थयात्रा विधीयन्ते लेख्यन्ते श्रुतपुस्तकाः ॥ ४९५ ॥ द एवं हि व्ययितं वित्तमिह कीादिकारणम् । परलोके पुनः स्वर्गापवर्गश्रीनिवन्धनम् ॥ ४९६ ॥ इत्यमी मुनयो वञ्चं वञ्चं
वञ्चनचञ्चवः । व्यययन्ति मया वित्तं क्षीयते चाचिरात्तथा ॥४९७ ॥ वन्द्यमानः परं देवस्तप्ति काञ्चित्करोति न । अतस्त्वद्वचसा भोक्ष्ये नत्वा चैत्ये जिनेश्वरान् ॥ ४९८ ॥ अयं भद्रङ्करो मेऽस्तु यावज्जीवमभिग्रहः । न ह्यत्रार्थव्ययः कोऽपि तुष्टिस्ते च कृता भवेत् ॥ ४९१ ॥ ततस्तुष्टा भृशं प्रेष्ठा तमाचष्टाऽमुनाऽपि ते । सम्यग्धर्मेण भाविन्यः सद्योऽप्यद्भुतसंपदः॥५०॥ तयेत्युत्साहितः सम्यग् नियमं सोऽप्यपालयत् । धर्मे स्यान्मतिरासन्नभद्राणां हि द्रढीयसी ॥५०१॥ साऽपि सांमत्यतस्तस्य धर्मकर्म विनिर्ममे । ययाऽनुवृत्यते पत्युश्चित्तं सा हि पतिव्रता ॥५०२ ॥ एवं स्नेहमयोऽनेहा व्यतीयाय कियांस्तयोः । मिथश्चित्तानुवृत्त्यैव प्रीतिमन्तौ हि दम्पती ॥ ५०३ ॥ स मध्याह्नेऽन्यदा मूों भारमुत्तार्य, वेगतः। भोक्तुं जलव्ययाद्भीरधौताहिय॑विक्षत ॥५०४॥क्षिप्रंक्षिप्रचटंक्षामकुक्षेरस्य बुभुक्षया । सा मूर्तमिव कार्पण्यं सतैलं
Page #41
--------------------------------------------------------------------------
________________
पर्यवेषयत् ॥ ५०५ ॥ यावत्कवलयत्येष करेण परिमृज्य तम् । नियमं तावदस्मार्षीद्वभाषे च ससंभ्रमम् ॥ ५०६ ॥ नमस्कृतो नाद्य मया जिनः प्रिये ! तं यामि नन्तुं नियमोऽस्ति यन्मम । कर सिचाच्छादय न त्रपे यथा धौते पुनस्तत्र रसोऽपयात्ययम् ॥ ५०७ ॥ अथ धन्या मुदा दध्यौ जिने भक्तिरकृत्रिमा । अहो ! पत्युर्यदस्मार्षीत्तं क्षुधातॊऽधुनाऽप्ययम् ॥ ५०८॥ कीहक् सीमातिगं चास्य कार्पण्यं पूर्वकर्मजम् । यद्भीरुरियतोऽप्यन्नरसस्यापगमादयम् ॥ ५०९ ॥ परमीहग्विधोऽप्येष बद्धो नियमरश्मिना । यदि जैनालयं याति तर्हि भक्तिवशीकृतः ॥ ५१० ॥ चैत्याधिष्ठायकस्तुष्टः सुरः | स्यादस्य कर्हिचित् । स्वग्नेऽद्य यन्मया दृष्टा तदधिष्ठातृतुष्टता ॥५११॥ युग्मम् ॥ नतिरेकाऽपि जैनी हि भवेत्सर्वेष्टसिद्धये । किं पुनर्नियतं भक्त्या तन्यमाना दिने दिने ॥ ५१२॥ तदीदृशोऽप्ययं यायादिति निश्चित्य सत्यधीः । वाससाच्छादयत्तस्य कार्पण्यमिव सा करम् ॥ ५१३ ॥ अवोचत च चैत्यान्तः कश्चित्त्वां यदि किश्चन । आचष्टे तर्हि पृष्ट्वा मां देयं प्रतिवचस्त्वया ॥५१४ ॥ ओमित्युक्त्वा तथाभूतकरश्चैत्यमुपेत्य सः । जिनं ननाम कर्म स्वं नामयामास चाशुभम् ॥ ५१५ ॥ स पश्चाद्वलते यावत्तावद्भक्तिचमत्कृतः । चैत्यरक्षणकृद्यक्षः प्रत्यक्षस्तमभाषत ॥ ५१६ ॥ चैत्यस्याहमधिष्ठाता द्रढिम्ना नियमस्य ते । देवः प्रसेदिवानस्मि प्रार्थयस्व यथेप्सितम् ॥ ५१७॥ अभ्यधाद्धनराजोऽपि यावदायामि कामिनीम् । पृष्ट्वा तावदिहैवास्स्व देवोऽपि वदति स्म तम् ।। ५१८ ॥ गच्छ वत्स! त्वमागच्छेद्रुतं तावत्स्थितोऽस्म्यहम् । धनोऽपि सदनं गत्वा प्रेष्ठामाचष्ट तुष्टवान् ॥ ५१९ ॥ देवि ! श्रीजिनदेवोऽद्य प्रससाद किमर्थये । साऽप्यूचे नाथ ! सर्वेऽपि संपन्ना नौ मनोरथाः॥ ५२० ॥ संजाता वशवर्तिन्यः स्पष्टमष्टापि सिद्धयः। प्राप्तं त्रिजगदैश्वर्य शिवश्रीरपि
Page #42
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १७ ॥
पाणिगा ॥ ५२१ ॥ त्वरितं याहि याचस्व प्रभो ! मे पापयामिकान् । दूरीकुरुष्व येनाहमन्वहं स्यां विवेकवान् ॥ ५२२ ॥ विवेको हि समग्राणां गुणानामिह नायकः । लोकद्वयेऽपि सङ्केतनिकेतः संपदां पुनः ॥ ५२३ ॥ गत्वाऽथ स पुनश्चैत्यं तथैवार्थयते स्म तम् । हितां मतिं परेणोक्तां कुरुते हि शुभायतिः ॥ ५२४ ॥ देवोऽप्यतः परं पाप्मयामिकास्तव दूरतः । प्रयास्यन्ति मदादेशादित्युदित्वा तिरोदधे ॥ ५२५ ॥ अथायं गृहमायातः करमन्नरसाशुचिम् । पश्यन् जुगुप्सितः कान्तामवोचत विवेकतः ॥ ५२६ ॥ कोष्णमानय पानीयं येनाहं स्नपये करम् । जुगुप्सते मनो यस्मादीह गृहस्तस्य मेऽश्नतः ॥ ५२७॥ प्रभोद्भेदोऽस्य संपेदे विवेकांशोरुदेष्यतः । अभूदभूतपूर्वा यत्करप्रक्षालनौचिती ॥ ५२८ ॥ नूनं निनंक्षवोऽमुष्य मधु कल्मषयामिकाः । न व्यनक्ति तदुद्रेके विवेक छेकतां यतः ॥ ५२९ ॥ इत्युल्लसितया सद्यस्तयाऽऽनीतेन वारिणा । पाणी संस्नाप्य भुङ्क्ते स्म धनः संपन्नधर्मधीः ॥ ५३० ॥ न केवलं तदाहारैरसौ सौहित्यमासदत् । शमेन द्युम्नतृष्णायाः सन्तोषसुधयाऽपि च ॥ ५३१ ॥ दानभोगौ विना वित्तं निष्फलं मालतीव हा ! । दिनानीयन्ति मे जातमिति निश्यन्वशेत सः ॥ ५३२ ॥ प्रातर्द्विधा प्रबुद्धात्मा जन्मापूर्वमसौ सुधीः । अर्हगुरुप्रणामादि प्रातस्त्यं कृत्यमातनोत् ॥ ५३३ ॥ अयं सस्तौ कवोष्णेन मध्याह्ने गन्धवारिणा । क्षालयन्निव कार्पण्यसंपन्नमयशोमलम् ॥ ५३४ ॥ पर्यधत्त स धौतानि वासांसि शुभवासनः । महांसीव सुबोधेन्दोः प्रसृतान्यन्तरुद्यतः ॥ ५३५ ॥ पूजोपस्करयुक्पाणिः स जिनागारमागमत् । महोदयपुरं गन्तुं प्रस्थानमिव साधयन् ॥ ५३६ ॥ गन्धसारमयं सारघनसारमुदारधीः । सोत्कर्षहर्षतोऽघर्षन्निघर्षन्निजकल्मषम् ॥ ५३७ ॥ जिनाङ्गसंगि निर्माल्यमयं स्नपनकाम्यया । दूरमुत्सारयामास दौर्भाग्यं च निजाङ्गगम् ॥ ५३८ ॥ न परं स्वपयामास स
प्रथमः प्रकाशः ।
॥ १७ ॥
Page #43
--------------------------------------------------------------------------
________________
E-SC
-
जिनं शुद्धवारिणा । पापपङ्कापनोदेन निजमात्मानमप्ययम् ॥ ५३९ ॥ श्लक्ष्णेण रूक्षयामास वाससाङ्गं जिनेशितः । स्वचित्तं त्वार्द्रयामास व्यक्तभक्तिरसेन सः॥ ५४० ॥ सुगन्धिना चन्दनेन केवलीशं न केवलम् । भक्त्या तिलकयामास | यशसा वंशमप्ययम् ॥ ५४१॥ निस्तुलां विमला नव्यां कण्ठेऽतिष्ठिपदर्हतः । कुसुमानामयं मालां गुणानां पुनरात्मनः
५४२ ॥ स्वर्णालङ्कारवारेण सारेण मणियोगतः। पर्यस्कृत जिनं स्वं तु विवेकेनोजवलेन सः॥ ५४३ ॥ पुरस्तादहतो है दीप्रं स प्रदीपमदीपयत् । जात्यरत्नमयं ज्ञानमयं तु हृदये निजे ॥ ५४४ ॥ अक्षतानक्षतानेष निचिक्षेप पुरोऽर्हतः । बीजवापं सृजन पुण्यकृषि कर्तुमना इव ॥ ५४५ ॥ अढौकयत्प्रकृष्टानि स्वादिष्टानि फलानि सः । अर्हतः स्वस्य तु स्वर्गापव-15 र्गादिफलोत्करम् ॥ ५४६ ॥ सद्यस्कं हृद्यमास्वाद्यं नैवेद्यमनवद्यधीः । स न्यधत्त जिनाधीशे सम्यक्त्वं पुनरात्मनि ॥५४७॥ स कालागुरुधूपेन जिनावासमवासयत् । परितः कीर्तिकर्पूरपूरेण तु महीतलम् ॥ ५४८॥ जिनाधिराजमव्याजभक्तिराजन्मविज्ञवत् । अयं नीराजयामास राजयामास चान्वयम् ॥ ५४९ ॥ पुरो जिनस्य कल्याणमयं मङ्गलदीपकम् । अयमुत्तारयामास स्वात्मानं तु भवार्णवात् ॥ ५५ ॥ भक्तितन्त्रैरयं स्तोत्रैर्जिनं तुष्टाव भावतः। तद्गुणै रञ्जितस्वान्तस्तं तु सर्वाऽपि पूर्जनः॥ ५५१ ॥ इत्थं जिनपतेरी विरचय्य विचारवित् । आजगाम निजं धाम पडिंच स विवेकिनाम् ॥ ५५२ ॥ अतिथीनामथातिथ्यमयं तथ्यमपप्रथत् । संविभागं विना नैव भुञ्जते हि विवेकिनः ॥ ५५३ ॥ ततो विधाय
वृद्धादिचिन्तां भोक्तुमुपाविशत् । न भुक्तिसमये सन्तो भवन्त्यौदरिका यतः ॥ ५५४ ॥ दानभोगान्तरायाद्याः पापप्राहपारिका ध्रुवम् । प्रणेशुरस्य दूरेण सद्यो देवप्रसादतः ॥ ५५५ ॥ यतोऽभूदीदृशी बुद्धिर्विशुद्धा दानभोगयोः । शावरेष्वन्ध
Re
Page #44
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१८॥
प्रथमः प्रकाशः।
कारेषु प्रकाशः प्रादुरस्ति किम् ? ॥ ५५६ ॥ आजन्मतोऽप्यनभ्यस्ता जज्ञेऽस्याहो ! विवेकिता । तन्नूनमद्भुतैर्भाग्यैः फलितं नौ पचेलिमैः ॥ ५५७ ॥ इति प्रीता प्रिया तस्य सद्भोज्यं पर्यवेषयत् । कदाऽप्यास्वादि नो पूर्व पूर्वजैरमुना च यत् ॥ ५५८ ॥ यथा सात्म्यमथाऽभुक्त मुक्तलौल्यः स मौनवान् । यतो विवेकवानेव सम्यग् भोक्तुं व्यवस्यति ॥५५९ ॥ शौचमाचमनेनार्य सम्यग् व्यरचय(हिः । रोषादिदोषकालुष्यापनीत्या पुनरन्तरा ॥५६० ॥ मुखं विभूषयामास ताम्बू. लेन न केवलम् । सूक्तेनाप्ययमुत्सर्पदनल्परसशालिना ॥ ५६१ ॥ स क्षणं सुखशय्यायां विशश्राम महामनाः । भृशं श्रान्त इवाश्रान्तभारवाहादिकर्मभिः ॥५६२॥ न केवलमयं न्याय्यवाणिज्यैरर्थचिन्तनम् । व्यधात्सुधीधर्मशास्त्ररहस्यामर्शनैरपि ॥ ५६३ ॥ अयमावश्यकादीनि सान्ध्यकर्माणि निर्ममे । विवेकश्छेकतां ह्येति समयोचितकर्मभिः ॥ ५६४ ॥ स चकार नमस्कारस्मृत्याद्यं शयनक्षणे । हन्ति विघ्नमिह प्रेत्य दुर्गतिं च विधिः शये ॥५६५ ॥ समये द्रव्यतो निद्रामल्पकालमुपास्त सः। सुतरां जागरामास भावतस्तु दिवानिशम् ॥ ५६६ ॥ वर्यधीवर्जयामास प्रायेणाब्रह्म सोऽन्वहम् । कामानासक्तता लोकद्वयश्रेयस्करी यतः॥५६७ ॥ इति प्रत्यहं सत्कर्मकर्मठः स प्रतिष्ठितिम् । परां प्रापदलङ्कारः सदाचारः सतां यतः॥५६८ ॥ स ताम्रादिमयान्यम्ब्वाद्यमत्राणि व्यधीधपत् । यशोदुग्धमिवाधातुं दुग्धं सद्बुद्धिधेनुतः ॥ ५६९ ॥ तुम्बीपात्राणि कार्पण्ये चक्रे यानि गृहे पुरा । श्रद्धालुः स विशुद्धानि यतिभ्यस्तान्यदान्मुदा ॥ ५७० ॥ अयमाहतसद्मानि निच्छद्मा निरमापयत् । निवासाय नवोढानां पुण्यश्रीणामिव स्फुटम् ॥ ५७१ ॥ अयं जैनानि बिम्बानि प्रदीप्राणि व्यदीधपत् । बहिःपिण्डीकृतानीव पुण्यान्यात्मन्यमात्त्वतः॥ ५७२ ॥ लेख लेखं स हर्षेण पुस्तिकाः स्वस्तिका
SAMACHAR
॥१८॥
-
-
Page #45
--------------------------------------------------------------------------
________________
रिणी। जानवन्द्यो ददौ श्रेय श्रीणां सत्याकृतीरिव ॥ ५७३ ॥ अयं मृत्युभयातोनां बन्धाद्यापदमापुषाम् । बहुद्रव्यव्ययेनावि देहिनामभयं ददौ ॥ ५७४ ॥ त्रिलक्षीमित्ययं पुण्ये विनिन्ये पूर्वजार्जिताम् । वित्तस्यैका गतिः पात्रदानं ह्यन्या। विपत्तयः॥ ५७५ ॥ स्वार्जितेन तु वित्तेन कुटुम्ब निरवीवहत् । सिंहवन्नरसिंहा हि भुञ्जते नार्जितं परैः॥५७६ ॥ इत्यहद्धर्ममाराध्य साध्यं संसाध्य चान्तिमम् । विपद्य धनराजोऽयं नृपतिस्त्वमजायथाः॥ ५७७ ॥ कृत्वा पुण्यान्यगण्यानि धन्याऽपि न्याय्यवृत्तितः। विपद्य तव पत्नीयं जज्ञे मदनसुन्दरी ॥५७८ ॥ स्वाराज्यजिष्णुरभवत्तव राज्यऋद्धिः कच्चोलकं सकलकामितदायि यच्च । सर्व विजृम्भितमिदं किल दानपुण्यकल्पद्रुमस्य कुसुमोद्गममागतस्य ॥ ५७९ ॥ विपाकमाप्तस्त्वयमल्पकालतस्तवाक्षयं सिद्धिसुखं फलिष्यति । पुष्पाणि यन्मानवदेवसंपदः फलं तु मुक्तिर्जिनधर्मशाखिनः॥ ५८०॥ | एवं निशम्य निजपूर्वभवं सभार्यः संवेगसङ्गतमना नृपतिर्विधाय । अष्टाहिकोत्सवमतुच्छममत्सरात्मा राज्यं नियोज्य तनये जगृहे तपस्याम् ॥ ५८१॥ तप्वा तपांसि चिरकालमिमौ समूलं निर्मूल्य कर्म सकलं विकलङ्कवृत्ती। श्रीकेवलार्ककिरणैर्भुवन विभास्य निःश्रेयसश्रियमशिश्रियतां क्रमेण ॥ ५८२ ॥ इत्यद्भुतं विशददानमयावदातैः श्रीमेघनादनृपतेश्चरितं निशम्य । निछद्मदानविधये सुधियोऽवधत्त येन स्वयं श्रयति वः शिवसौख्यलक्ष्मीः॥५८३॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्य श्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे दाना साधा
रणदानफलप्रकाशनः प्रथमः प्रकाशः॥१॥ ग्रन्थानम् ६११॥
ACIRCRA-%A5
Page #46
--------------------------------------------------------------------------
________________
दानप्रदीपे|
द्वितीयः प्रकाशः।
॥१२॥
॥ अथ द्वितीयः प्रकाशः॥ श्रिये सुधर्मा नवजातवेदा यस्याक्षरात्मा श्रुतदीप एषः। निरञ्जनस्तत्त्वपथप्रकाशमद्याप्यविश्रान्ततया तनोति ॥१॥
अथ शाखा इवाख्यामि दानकल्पतरोभिदाः । फलं याःप्रौढमारूढालभन्तेऽभीष्टमङ्गिनः॥२॥ भवेद्दानं त्रिधा ज्ञानाभयोपष्टम्भभेदतः । तत्र प्रापश्चयन् पञ्च ज्ञानानि ज्ञानिपुङ्गवाः॥३॥ मतिश्रुतावधिमनःपर्यवाः केवलं तथा । तेषु मुख्यत्वमाचख्युः श्रुतस्यैव विचक्षणाः ॥४॥ श्रुतं दीप इव स्वान्यप्रकाशे हि प्रगल्भते । अपराणि पुनस्तानि स्वप्रका|शीनि मूकवत् ॥५॥ सम्यक्स्वरूपमप्येषां श्रुतेनैव प्ररूप्यते । श्रुताभ्यासवशादेव प्रायस्तेषां च संभवः॥६॥ ज्ञानानि हृदयेऽन्येषामपि दीपयति श्रुतम् । दीपो दीपान्तराणीव दीप्यते चानिशं स्वयम् ॥७॥परेभ्यश्च श्रुतं दातुं प्रभूतेभ्योऽपि पार्यते । दीप्यमानान्यपि स्वस्मिन्नपराणि पुनर्नहि ॥ ८॥ अतो युक्ता श्रुतस्यैव सर्वज्ञानप्रधानता । तच्च सम्यगुजिनोपझं वचस्तदनुसारि च ॥९॥ सम्यग्दृष्टिधिया पूतं शास्त्रमन्यदपि श्रुतम् । अन्येभ्यस्तस्य यद्दानं ज्ञानदानं तदुच्यते
१०॥ जन्तूनां मृत्युभीतानामभयं यत्प्रदीयते । वदन्त्यभयदानं तन्निदानं सर्वसंपदाम् ॥ ११॥ यद्दानं दीयते पात्रे धर्मोपष्टम्भपुष्टये । उपदिष्टमुपष्टम्भदानं तजिननायकैः ॥ १२॥ एत एव त्रयो धा भेदा दानस्य वास्तवाः । एषा|मेव यदक्षय्यमोक्षसौख्यैकहेतुता ॥ १३ ॥ भिदास्तस्य दयौचित्यकीर्तिदानादयस्तु याः। मार्गगास्ता यथायोगं तेष्वन्त-1
र्भावमाश्रिताः ॥ १४ ॥ तद्वदक्षयतां यान्ति सरितः सागरेष्विव । प्रवृत्ता मार्गमुत्सृज्य क्षीयन्ते यत्र तत्र तु ॥ १५ ॥ युग्मम् ॥ अमीषु ज्ञानदानस्य ब्रूमो मूर्दाभिषिक्तताम् । सर्वेषामपि यत्तेषां प्रवृत्तिर्ज्ञानपूर्विका ॥ १६ ॥ लघीयोऽपि यथा
॥१९॥
Page #47
--------------------------------------------------------------------------
________________
चक्षुर्जने गौरवकारणम् । तथा स्वल्पमपि ज्ञानमिहामुत्र च देहिनाम् ॥ १७ ॥ दीयमानं ध्रुवं वृद्ध्यै ज्ञानं स्वस्य परस्य च । अन्यथा त्वन्यथा कस्तद्दानेनोद्यच्छते ततः ॥ १८ ॥ स्थलाम्बुबद्धनादीनां स्वल्पकालादपि क्षयः । उत्तरोत्तरवृद्धिस्तु ज्ञानस्य वटवीजवत् ॥ १९ ॥ शय्यम्भवद्विजे दत्तं श्लोकार्द्धमपि साधुभिः । द्वादशाङ्गतया स्फातिमुपेतं श्रूयते ॥ २० ॥ सम्यग्ज्ञानं सुदुष्प्रापं यस्मै येन वितीर्यते । स्वर्गापवर्गसौख्यानि तस्मै तेन वितेरिरे ॥ २१ ॥ कृतानेककुकर्माणं चिलाती पुत्रमप्यहो ! । श्रमणस्त्रिपदीं दत्त्वा दिव्यां संपदमापिपत् ॥ २२ ॥ वेत्ति पुण्यं च पापं च सम्यग्ज्ञानेन मानवः । तत्प्रवृत्तिनिवृत्तिभ्यां मुक्तिमाप्नोति च क्रमात् ॥ २३ ॥ प्रायः परेषु दानेषु दायकः संपदां पदम् । उभावपि पुनर्ज्ञानदाने ग्राहकदायकौ ॥ २४ ॥ दत्तं स्थानेऽपि वित्तादि क्रमेणैव विवर्धते । अल्पीयोऽपि पुनर्ज्ञानं सद्योऽपि स्फातिमश्नुते ॥ २५ ॥ श्रूयते त्रिपदी दत्ता जिनेन गणधारिणाम् । द्वादशाङ्गीति विस्तारमानोत्यन्तर्मुहूर्ततः ॥ २६ ॥ ज्ञानादपैति रागादिगण| स्तम इवार्कतः । ज्ञानदानं ततो मुक्त्वा नोपकारोऽपरः परः ॥ २७ ॥ यो दानादानतो ज्ञानमाराध्यति विराध्यति । स पूज्यत्वमपूज्यत्वमश्नुते विजयो यथा ॥ २८ ॥
तथाहि भरतक्षेत्रभूमिभूषाविशेषकः । पुण्यलक्ष्मीकृतावेशो देशोऽस्ति मगधाभिधः ॥ २९ ॥ तत्र राजगृहं नाम नगरं कमलां निजाम्। पात्रता कुर्वते यत्र पवित्रीकर्तुमुत्तमाः ॥ ३० ॥ जयन्तस्तत्र भूकान्तः प्रतापाक्रान्तशात्रवः । सनीतिमध्यनीतिं यः सर्वतः कृतवान् भुवम् ॥ ३१ ॥ सुदर्शनेन रोचिष्णोः पुरुषोत्तमताभृतः । कान्ता तस्याच्युतस्येव कमला कमलावती ॥ ३२ ॥ तत्कुक्षिसंभवौ तस्य तनयौ विगतानयौ । विजयश्चन्द्रसेनश्च राज्यधुर्यौ विरेजतुः ॥ ३३ ॥ उभावपि
Page #48
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वितीयः प्रकाशः।
॥२०॥
सदाचारी पितृभक्तिपरायणौ । असीमविक्रमौ स्फीतमहिमानौ यशस्विनौ ॥ ३४॥ परं प्राकर्मदोषेण परस्परमहर्निशम् ।। समृद्धिमसहिष्णू तावसूयामासतुस्तमाम् ॥ ३५॥ भूयादभवनिस्तेषां कषायकलुषात्मनाम् । मिथो वीक्ष्य न मृष्यन्ति | समृद्धिं बन्धवोऽपि ये ॥३६॥ तुल्यकक्षतया तौ तु नृपतिश्चतुराग्रणीः । तुलाचेलाविवौचित्यात्सर्वत्र निरवीवहत्॥३७॥ अन्यदा प्रातरास्थानमास्थितं पृथिवीपतिम् । वेत्री व्यजिज्ञपवारि दूतः प्राप्तोऽस्ति कश्चन ॥ ३८ ॥ ततो भूभर्तुरादेशात्प्रतीहारप्रवेशितः । प्रणम्य क्ष्माभुजे लेखमर्पयामासिवानयम् ॥ ३९ ॥ महीपृष्ठस्तमुद्देश्य वाचयामास तद्यथा । स्वस्ति श्रीभाजने राजपुरे सुरपुरोपमे ॥४०॥नमन्नृपशिरोदामपूज्यमानपदाम्बुजम् । श्रीजयन्तमहीकान्तं गङ्गोपान्तभुवि स्थितः ॥४१॥ नियुक्तः सीमरक्षायां कुरुदेवकसेवकः । प्रणम्य मस्तकन्यस्तहस्तो विज्ञपयत्यदः ॥ ४२ ॥ अस्त्यत्र कुशलं तत्र भवत्पादप्रसादतः। परं सेवालभूपालः सीमालः कालदारुणः॥४३॥ धाटीभिलण्टयन् ग्रामानभिरामान समृद्धिभिः। उपद्रवत्यमुं देशं भत्तेभ इव काननम् ॥ ४४ ॥ युग्मम् ॥ नाहमल्पबलस्तं तु निवारयितुमीशिता । अस्मिन्नर्थे ततः कश्चिदुपायश्चिन्त्यतां द्रुतम् ॥ ४५ ॥ वाचयित्वेति तं भूपः कोपपाटललोचनः । सामन्तादीनभाषिष्ट भ्रकुटिस्थपुटाननः ॥४६॥ भो भोः पश्यत पारीन्द्रं सुप्तं जागरयत्ययम् । विधत्ते यन्मया साधं विरोधं दुर्धियां निधिः॥४७॥ निग्रहीतुममुं योधाः संनद्धा भवत द्रुतम् । नहि व्याधिरिव द्वेषी क्षणमात्रमुपेक्ष्यते ॥४८॥ तं ससंरम्भमित्यादि भाषमाणं रुषारुणम् । प्रणम्य रणशौण्डीरौ कुमारौ सममूचतुः॥४९॥ अस्मासु सत्सु किं स्वामिन्नभिषेणयसि स्वयम् । प्रयासो हि प्रभो व युज्यते सति सेवके ॥५०॥ न च ते राजहंसस्य तात ! गन्तुमुपक्रमः। युज्यते प्रति सेवालं जडसङ्गतिगर्वितम् ॥५१॥
ACC-
2X5o4%
॥२०
Page #49
--------------------------------------------------------------------------
________________
तन्नः प्रदीयतां देव ! निदेशस्तस्य निग्रहे । खण्डयामो यथाऽनल्पमपि तदर्पमञ्जसा ॥५२॥ इत्याकर्ण्य नृपश्चक्षुश्चिक्षिपे है। मुख्यधीसखे । दक्षः सोऽपि समाचख्यौ साधूक्तं राजपुत्रयोः॥५३॥ वक्तुं हि कः परो वेत्ति प्रस्तावोचितमीदृशम् । तत-|
स्तन्निग्रहे भूपो ज्येष्ठमादिष्टवान् सुतम् ॥ ५४ ॥ अथापमानं मन्वानः क्रुधा धमधमायितः। चन्द्रसेनः समज्यातो निर्यातुं द्रुतमुत्थितः॥ ५५ ॥ सभाक्षोभे ततो जाते तातेनायं कथञ्चन । निवर्त्य पाणिनाऽऽदाय प्रोचे प्रेमकिरा गिरा ॥५६॥ किं तेऽयमपदे कोपः स्थितिं वत्स ! न वेत्सि किम् ? । ज्येष्ठे सति कनिष्ठस्य भवेदुत्थापनं न यत् ॥ ५७ ॥ कियदेतत्पितृप्राये ज्येष्ठे सति सहोदरे । न राज्यमपि वाच्छन्ति कुलीना दीयतेऽपि चेत् ॥ ५८॥ सम्मानमपि केनापि दीयमानमपक्रमम् । अपमानमिवामानं मन्वते हि मनस्विनः ॥ ५९॥ न च क्वाप्युचितः कर्तु मत्सरः स्वच्छचेतसाम् । गुणोत्कृष्टे निजज्येष्ठे किं पुनर्जनकोपमे ॥ ६०॥ ततो मात्सर्यमुत्सार्य वत्स ! स्वच्छमना भव । कुन्दावदातकीर्तीनां येन स्या भाजन जने ॥ ६१ ॥ इति प्रज्ञापितोऽप्येष नोपशान्तिमुपेयिवान् । ततो नृपगिरा सामसचिवेन स औच्यत ॥ ६२॥ प्रतिकूलयसि स्वामिवचनं किं पुनः पुनः। स किं पुत्रो हि यः पित्रोनिदेशमतिवर्तते ॥ ६३ ॥ स्वं चाविनयपङ्केन किं करोषि मलीमसम् । विशदा विनयादेव कीर्तिः स्फूर्तिमियर्ति यत् ॥ ६४ ॥ कीर्तिश्च जीवितं पुंसां प्राणास्तु व्यवहारतः। दुष्कीर्तिदुःखदग्धानां श्रेयसी जीवितान्मृतिः॥६५॥ किञ्च-राजपुत्रेषु सर्वत्र विनयाकरता स्मृता । यदि तेऽपि तमुज्झन्ति तदाऽस्य गतिरस्तु का ? ॥ ६६ ॥ विनीतस्तनयस्तां तामानीतः परिकर्मणाम् । जातरूपमिवाप्नोति सर्वस्यालङ्करिष्णुताम् ॥ ६७ ॥ इत्यादिहितशिक्षाभिर्द्राक्षाभिरिव मन्त्रिणा । निर्वाप्य कोपसंतापं स्वास्थ्यमाप्यत भूपभूः ॥ ६८ ॥ अथाभिषेण
Page #50
--------------------------------------------------------------------------
________________
न
दानप्रदीपे
HASHA
%A5%25A
यामास विजयो विजयोत्सुकः । वाद्यैर्वादितदिकक्रश्चतरङ्गचमूवृतः॥६९॥ प्राप्तः स्वदेशसीमायां सैन्यमावास्य राजसूः।। द्वितीयः प्राहिणोत् ज्ञापिताकूतं दूत सेवालभूपतेः ॥ ७० ॥ सोऽप्युपागम्य सीमालमालपत्तस्य वाचिकम् । अविमृश्य बलं युद्ध- प्रकाशः। प्रारम्भः पदमापदः ॥ ७१ ॥ प्रणतिस्तु बलोत्कृष्टे वैशिष्ट्याय स्वसंपदः । एवं संचिन्त्य यद्युक्तं प्रतिभाति कुरुष्व तत् । ॥ ७२ ॥ सेवालोऽप्यालपहूतं कातरा रणकर्मणि । नीतिमार्ग समाश्नित्य विमर्श तन्वते नृपाः ॥७३ ॥रणकण्डूलदोष्णां तु न नीतिः प्रीतिकारिणी । का वा नीतिगेन्द्रस्य मतदन्तिघटाभिदि ॥ ७४ ॥ युद्धे सन्नह्यतामाशु भुजौ तस्मिन्निमौ च | मे । स्वयमेव बलोत्कर्षापकर्षों दर्शयिष्यतः ॥ ७५ ॥ एवमावेद्य सद्यस्तं विससर्ज स ऊर्जितः । दूतोऽप्यागत्य तस्योक्ति | राजसूनुं व्यजिज्ञपत् ॥ ७६ ॥ सोऽपि ज्ञप्तरणारम्भां भम्भां भृत्यैरवादयत् । सद्यः संना सैन्यं च समराङ्गणमागमत् P॥७७ ॥ युद्धसन्नद्धमाधाय स्कन्धावारमुदायुधः। सेवालः प्रतिभूपालस्तेने तस्याभ्यमित्रताम् ॥ ७८ ॥ अथाहं पूर्विकापूर्वमुभयोरपि सैन्ययोः । रथिका रथिकैः साकं सादिभिः सह सादिनः ॥ ७९ ॥ यन्तृभिः सह यन्तारः पत्तिभिः सह पत्तयः । भटा दर्पोद्भटा द्वन्द्वयुद्धाय समगंसत ॥ ८ ॥ युग्मम् ॥ केचिदायोधनं योधाः कुन्ताकुन्ति वितेनिरे । खड्गाखङ्गि तथा केऽपि शराशरि परे पुनः॥ ८१॥ प्रचण्डभटदोर्दण्डकण्डूखण्डनपण्डितः । कातराणां दुरालोकस्तत्राभूहा|रुणो रणः ॥ ८२॥ अथ दैववशाद्भग्ना नृपसूनोरनीकिनी। पलायामास भग्नानां बलं नान्यत्पलायनात् ॥८३॥ तथाऽपि युध्यमानस्तु कुमारः स्फारविक्रमः । बलान्यवर्त्यतामात्यैरनिच्छन्नपि युद्धतः॥८४॥ निजं स सैन्यमायातस्त्रपया स्वपुरं प्रति । नाचाली किन्तु तत्रैव तस्थौ दुःस्थितमानसः॥ ८५॥ जितकाशिनमात्मानं मन्यमानः स्वमानसे । प्रत्यर्थी तु निज
4
%
%
Page #51
--------------------------------------------------------------------------
________________
स्थानमस्थानमगमद्भियाम् ॥८६॥ अथाकर्ण्य तथावृत्तं दुःखितः क्षमापतिः सुतम् । धीनिधानः प्रधानस्तं जवादाजू हवत्ततः॥ ८७॥ अथ प्रस्थातुमुधुक्तस्तं प्रति क्षमापतिः स्वयम् । नत्वा विज्ञपयांचवे चन्द्रसेनेन सूनुना ॥८८॥ देव ! प्रसद्य विद्वेषिपेषणे प्रेषयाथ माम् । लघीयानसमर्थोऽयमिति चित्ते च मा मथाः ॥ ८९॥ गुरूनपि गिरीन्द्रान् किं भिनत्त्यल्पोऽपि नो पविः। न केशरिकिशोरः किं हन्ति मत्तमपि द्विपम् ॥९॥धीसखा अप्यभाषन्त प्रसह्य प्राग् न्यषेध्ययम् । | तदस्य साम्प्रतं रङ्गभङ्गः क न साम्प्रतम् ॥ ९१ ॥ प्रेष्यतामेष एवात्र सविशेषचमूवृतः। सत्त्वं लोकोत्तरं ह्यस्य निश्चि| नोति जयश्रियम् ॥ ९२ ॥ ततो भूपतिनाऽऽदिष्टः प्रकृष्टपृतनान्वितः । चन्द्रसेनो ययौ देशसीमानं समरोन्मनाः ॥९३॥ | तत्रावस्थाय वक्तव्यं शिक्षयित्वा विचक्षणम् । दूतं सेवालभूपालपार्श्वे प्रेषयति स्म सः॥ ९४ ॥ गत्वा नत्वा च सेवाल|मालपत्सोऽपि वाचिकाम् । दैवस्य दुर्विलासेन क्वापि सारङ्गसङ्गरे ॥ ९५ ॥ यदि प्रमादवान् भग्नः पलायामास केशरी। इयतैव वराकाः किं सारङ्गाः सिंहजिष्णवः॥९६ ॥ युग्मम् ॥ प्रमद्वरस्त्वयाऽप्येवं पराजिग्ये मदग्रजः। एतावतैव मा मंस्था जितकाशित्वमात्मनः॥ ९७॥ विनाशं नीयते येन ज्वलन्नपि हुताशनः । पयस्तदपि पश्याब्धौ ग्रस्यते वडवाग्निना ॥ ९८ ॥ त्वया ध्रुवं प्रपञ्चेन जिग्ये मे ऋजुरग्रजः। विक्रमेण विजेतुं तु शक्रेणापि स दुःशकः॥ ९९ ॥ समस्ति वास्तवी काऽपि यदि ते सांयुगीनता । तदाऽधुना मया सार्द्ध योद्धं सन्नद्धतां भज ॥१०॥छलेन निर्जितोऽस्मीति मा वादी: कस्यचित्पुरः । कुलीना विक्रमेणैव विजिगीषामहे वयम् ॥ १०१॥ अथाललाप सेवालः स्वामिनस्ते निरर्गलाः । बाला जल्पन्ति वाचाला यत्तदुच्छृङ्खलं वचः॥ १०२॥ अमीषामिव मे वक्तुं युज्यते ज्यायसः किम । कर्म बालानुरूपं हि बाला
Page #52
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥२२॥
एव प्रकुर्वते ॥१०३ ॥ अमी वा खलु निर्दोषाः पितैवेषां सदूषणः । नियुङ्क्ते यः कुधीर्वालानमुष्मिन् भीषणे रणे ॥१०४॥ द्वितीयः वाचाटा विनयोत्सृष्टा दुष्टा दुःशिक्षिता इति । शिक्षितुं प्रेषयत्येष तानूनं छद्मनाऽमुना ॥ १०५ ॥ तत्पश्चाद्गच्छ दूत! स्वं प्रकाशः। प्रभुं प्रति वदेरिदम् । जय्योऽसि मे सुखेनेति कास्तु सन्नद्धता युधि ॥ १०६ ॥ कुरङ्गपूगभङ्गाय का सामग्री मृगेशितुः। छिदायामजनालस्य परशोः का निशातना ॥ १०७ ॥ परं तव समं पित्रा युज्यते योद्धमादितः । द्वेषी वा यदमीक्षा विदन् यस्त्वामपीपतत् ॥ १०८॥ इत्याकये गतो दूतः प्राणमन्नृपनन्दनम् । सकलं च तदाला ज्ञापयामासिवान् रहा
॥ १०९॥ चन्द्रसेनस्तमाकर्ण्य विममर्श सविस्मयः । गम्भीरार्थोऽयमालापः प्रसन्नस्तस्य कीदृशः ॥ ११ ॥ आत्मोत्कर्षहैमयुक्तं तु दूतेनाहमजिज्ञपम् । सतामात्मप्रशंसा हि त्रपायाः परमं पदम् ॥ १११ ॥ गरीयः कुर्वते कार्य स्वल्पं जल्पन्ति ||
साधवः। वार्षिका इव पर्जन्या गर्जाडम्बरवर्जिताः ॥११२॥ अस्मादृशाः पुनर्मुग्धा यौवनोत्तानमानसाः। श्रिता वाक्शरतामेव वारिदा इव शारदाः॥११३ ॥ गाम्भीर्यादिगुणश्रीणामाश्रयः प्रतिभाति मे । स शत्रुरपि सेवालो यस्यैषाऽऽलापपद्धतिः॥११४ ॥ अतोऽनेन समं योद्धं युज्यते न यथा तथा । विपदामास्पदं यस्मादविमृश्य विधायिता ॥ ११५॥ इत्यामृश्य रहस्तेनाकारिता मुख्यधीसखाः । ज्ञापिताः स्वमभिप्राय विचार्य प्रत्यवादिषुः ॥ ११६ ॥ यथा कथयसि स्वामि-18 स्तथैव प्रतिभाति नः । अतो रहः प्रहीयन्ते तत्र प्रत्ययिताश्चराः॥ ११७ ॥ प्राप्तास्ते तत्र जानन्ति सपत्नस्य बलाबले । |लक्षयन्ति च तद्भक्ताभक्तं सामन्तमण्डलम् ॥ ११८ ॥ मृगयन्ते च दुर्गादिमार्गाणां निर्गमागमौ । ज्ञापयन्ति यथाऽस्माकं | तत्रत्यं सर्वमप्यदः ॥११९॥ तज्ज्ञापितानुरूप्येण सामभेदादयः पुनः। व्यापार्यन्ते यथायोगमुपाया विजयावहाः॥१२०॥
Page #53
--------------------------------------------------------------------------
________________
मन्त्र्युक्तं तत्प्रपद्याथ कुमारश्चतुरांश्चरान् । चतुरः प्रेषयद्वेषविशेषमिषपोषिणः ॥ १२१ ॥ तेष्वाद्यः सामवित्तत्र भेजे राज्ञः पुरोहितम् । द्वितीयो मन्त्रनिष्णातो महामन्त्रिणमाश्रितः ॥ १२२ ॥ नैमित्तिकस्तृतीयस्तु सिषेवे सैन्यनायकम् । ज्योतिर्वेत्ता तुरीयस्तु पर्युपास्त महीपतिम् ॥ १२३ ॥ वैदेशिकेति विख्याताः स्वस्वविधासु कोविदाः । तत्तत्कार्येषु धुर्यास्ते समयज्ञाः प्रियंवदाः ॥ १२४ ॥ प्रवीणैरप्यविज्ञातमध्या बुद्ध्या निकेतनम् । प्रावर्तन्त तथा स्वस्वनियोगेष्वभियोगतः ॥ १२५ ॥ दिनैः कतिपयैरेव पारंपर्यागता इव । भेजुरभ्यन्तरीभावं भूपादीनाममी यथा ॥ १२६ ॥ युग्मम् ॥ व्यजिज्ञपंश्च तत्रत्यं प्रत्यहं ते रहः प्रभुम् । अहो ! दम्भनटेन्द्रस्य कूटनाटकपाटवम् ॥ १२७ ॥ कुमारमन्यदा प्रोचुः सचिवाः स्वान्ययोर्बले । समाने स्वस्य वा प्राज्ये युज्यते समरोद्यमः ॥ १२८ ॥ सैन्यसंपदनल्पा च सम्प्रति प्रतिभूपतेः । अतस्तेऽवसरस्तेन न संग्रामयितुं समम् ॥ १२९ ॥ तावता क्रियतां देव ! तद्देशोपद्रवस्ततः । तथा च त्वं प्रपत्स्यन्ते तत्तद्देशापिधा भिया ॥ १३० ॥ एवं च वैरिणः सैन्यं हास्यते बहुलेन्दुवत् । वर्धिष्यते त्वदीयं तु शुक्लपक्षशशाङ्कवत् ॥ १३१ ॥ ततो वेगवदुत्तुङ्गतुरङ्गादिचमूवृतः । विनाशयितुमारेभे शत्रुदेशं नरेशसुः ॥ १३२ ॥ अथ भ्रूक्षेप चूडालभाल: सेवालभूपतिः । सार्धं तेन क्रुधा योद्धुं ध्वजिनीः समनीनहत् ॥ १३३ ॥ गणकैर्गणयामास लग्नं यात्रां चिकीरयम् । आगन्तावपि दैवज्ञे चिक्षिपे चक्षुरुन्मुखः ॥ १३४ ॥ दैवज्ञोऽप्यवदत् स्वामिन्नमीभिर्गणकाग्रिमैः । दीयमानमिदं लग्नं सदोषं कथ्यते कथम् ॥ १३५ ॥ परं वक्तुं प्रयुङ्क्ते मां देवभक्तिरकृत्रिमा । स किं भक्तो हितं वक्ति न योऽप्रियमपि प्रभोः ! ॥ १३६ ॥ बलेनैतस्य लग्नस्य स्थिरराश्यादिशालिनः । स्थितस्यात्रैव देवस्य पश्यामि विजयश्रियम् ॥ १३७ ॥ बभाषिरे परे ज्योति -
Page #54
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशा
दानप्रदीपे विदः कोविदमानिनः । जायमाने स्वदेशस्य विनाशे विजयः कथम् ॥ १३८ ॥ सोऽप्युवाच न मे वाचि प्रत्ययस्तहि
पश्चषाः। दिना नेतः!प्रतीक्ष्यन्तां प्रतीतिर्जायते यथा ॥ १३९ ॥ तथा नृपे प्रपेदाने कुमारं स्वचरेण सः। रहस्तदैव दैवज्ञो ॥२३॥
ज्ञापयामास तद्यथा ॥ १४० ॥ प्रभो ! वृत्तान्तमत्रत्यमवगत्य चराननात् । वज्रसिंहादयः केऽपि सामन्ता ज्ञापिताशयाः M॥१४१॥ कलिं कृत्रिममातत्य तिरस्कारपुरःसरम् । निर्वास्य छद्मना चम्वाः कार्याः सेवालसेविनः ॥ १४२॥ युग्मम् ॥
तथैवानुष्ठितं तेन सामान्तास्तेऽपि सैन्यतः । क्रुद्धा इव पृथक् तस्थुः प्रतिपन्धिनृपा इव ॥ १४३ ॥ व्यजिज्ञपंश्च सेवालं लेखप्रेषणतो रहः । सेवांते कर्तुकामाः स्मो न्यत्कृताः शिशुनाऽमुना ॥ १४४ ॥ अथाहूय महामन्त्री पृष्टः सेवालभूभुजा। अत्रायियासवः शत्रुसामन्ता वद कीदृशाः ॥ १४५॥ तेनाप्यवादि देवाद्य समेष्यन्ति ततश्चराः। तेभ्यो निश्चित्य तत्रत्यं यथावत्कथयिष्यते ॥ १४६ ॥ ततो मन्त्री गृहं प्राप्तश्चरं कैतवसेवकम् । आप्तं सर्वत्र कृत्येषु वृत्तान्तं तमजिज्ञपत् ॥१४७॥ दम्भवान् सोऽप्यवर वज्रसिंहाद्या यदि सेवनम् । प्रपत्स्यन्ते तदा चन्द्रसेनोऽपि प्रतिपन्नवान् ॥ १४८॥ त एव तस्य सैन्ये हि रणपारीणताभृतः । अत्रान्तरे चराः प्राप्ताः शत्रुवृत्तान्तमभ्यधुः॥१४९ ॥ तानाकार्य च मन्त्रीन्दुनृपसंसदमासदत् । भूपेन प्रनितास्तेऽपि रिपूदन्तमवादिषुः ॥ १५० ॥ वज्रादिभूपतीन् जातकलहान्निजसैन्यतः। निर्भ चन्द्रसेनोऽस्मत्समक्षं निरवीवसत् ॥ १५१॥ अथावर मन्त्रिणं भूपः साम्प्रतं किं नु साम्प्रतम् । सोऽप्यवोचत सम्मानं तूर्णम
हन्ति देव ! ते ॥ १५२ ॥ ततः प्रधानैरानाय्य तान्नृपः सममानयत् । दुकूलादिप्रदानेन दैवज्ञं च प्रतीतितः॥ १५३ ॥ दशीघ्र जिघांसवोऽप्येते स्वकार्येकरताबहिः। तस्योपचारमाचेरुः शरीरस्येव साधवः॥ १५४ ॥ छद्मनैमित्तिकश्चापि रञ्जया
॥२३॥
Page #55
--------------------------------------------------------------------------
________________
मास मानसम् । सैन्यपस्य प्रनष्टादिप्रकटीकरणादिना ॥ १५५ ॥ प्रनितः स नृपेणापि वञ्चनाचञ्चरुचिवान् । निश्चिनोमि निमित्तेन स्थास्त्रोरत्रैव ते जयम् ॥ १५६ ॥ ततो दैवज्ञविज्ञप्त संवादिप्रतिपादनात् । तमप्यानन्दितस्वान्तः सच्चकार नरेश्वरः ॥ १५७ ॥ पुरोधाश्चाभ्यधाच्छद्म सामवेदिनमन्यदा । निर्माहि शान्तिकं किश्चिद्येन स्याद्विजयः प्रभोः ॥ १५८ ॥ | सोऽप्यवोचत मायावी वेदमन्त्रैः पवित्रितः । यदि निर्मीयते होमस्तदा भूमीभुजो जयः ॥ १५९ ॥ ततो भूपतिमापृच्छय तं होतारं पुरोहितः । होमं न्ययुक्त निर्मातुं तेनाप्तोऽयममानि यत् ॥ १६० ॥ स चाभिचारिकैर्मन्त्रैहोंमकर्म विनिर्ममे । ततस्तत्रैव सेनायामभवन् मृत्युदा गदाः ॥ १६१ ॥ इतश्च चन्द्रसेनेन निष्प्रत्यूहमसाध्यत । शत्रुनीवृन्निजाज्ञां च सामन्ताः | केऽपि निन्यिरे ॥ १६२ ॥ तदा च चन्द्रसेनस्य सेवालस्य च वांहिनी । ज्योत्स्नेव शुशुभे शुभाशुभ्रयोः पक्षयोः क्रमात् ॥ १६३ ॥ अधामी ज्ञापयामासुः कुमारं च चतुश्चराः । सेवालेन समं देव ! रणस्यावसरोऽधुना ॥ १६४ ॥ ततोऽयं सङ्ग| रोङ्गरङ्गया चतुरङ्गया । सेनया शीघ्रमागत्य तं रुरोध विरोधिनम् ॥ १६५ ॥ सोऽपि शौण्डीरकोटीरः सेवालः स्वबलान्वितः । रणाय निरगाद्दुर्गात्कन्दरादिव केशरी ॥ १६६ ॥ ततो निस्वानजध्यानस्तत्रभानुतुरङ्गमम् । निःशङ्कं ते डुढौकाते सैन्ये योद्धुमुभे मिथः ॥ १६७ ॥ द्वयानामपि वीराणां रणोऽभूदतिदारुणः । तद्भियेव न तत्पार्श्व जयलक्ष्मीः क्षणं ययौ ॥ १६८ ॥ भज्यमानं निजं सैन्यमथालोक्य भयाकुलः । दुर्ग सेवालभूपालः प्रवेष्टुं यावदुद्यतः ॥ १६९ ॥ ते संभूय पुरो| भूय वज्रसिंहादयो नृपाः । तावदूचुस्तमित्युच्चैर्वचश्चतुरिमाञ्चिताः ॥ १७० ॥ स्थिरीभव क्षणं देव ! प्रेक्षस्व प्रेष्य दोर्बलम् । पुरोऽस्माकमयं पाकः किं वराकः प्रयोत्स्यते ॥ १७१ ॥ इत्युत्साद्य पुरस्कृत्य ते सेवालमहीपतिम् । प्रावर्तन्त परैः सार्धं
Page #56
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वितीयः प्रकाशः।
॥२४॥
VOCIALPRAMOUS
योद्धं कृत्रिमया क्रुधा ॥१७२॥ मिथस्ते कृतसङ्केताः कुमारस्य च सैनिकाः । मध्ये कृत्य विपक्षं तं प्रह प्रावृतस्ततः॥१७॥ तं चानवरतापातिहेतिपङ्कितिरोहितम् । छिन्नातपत्रमत्राणं परित्रस्तपदातिकम् ॥ १७४॥ निरीक्ष्यामुष्य शौर्यादिगुणेरावर्जिताशयः । राजसूनुर्निजान सैन्यान् ससंभ्रममभाषत ॥१७५॥ युग्नम् ॥ श्रूयतां भो ! प्रहारं यः प्रदत्तेऽस्य महीपतेः। स लयति राजाज्ञां जीवंस्त्वानीयतामयम् ॥ १७६ ॥ सर्वे संभूय तेऽप्येनं नियम्य भुजपञ्जरे । अमुञ्चन्त कुमाराने सोऽपि हीन्यग्मुखोऽनमत् ॥ १७७ ॥ अथावोचत सौचित्यं कुमारस्तमुदारधीः।मा हैषीर्मुख्य ! शूराणां शिशुर्मा जितवानिति ॥ १७८ ॥ विजिग्यिषे महाभाग ! प्रपञ्चेनैव यन्मया । पराक्रमेण जेतुं तु भवन्तं कः प्रगल्भते ॥ १७९ ॥ इत्या. है श्वास्य तमादाय समं सप्ताङ्गसंपदा । प्रत्यचालीन्महासेनश्चन्द्रसेनः पुरी निजाम् ॥ १८० ॥ तत्तद्देशाधिपप्राप्तहास्तिका
|दिमहोपदः । स्फायमानमहाःप्राप पुरोपान्तमयं क्रमात् ॥ १८१ ॥ प्रमोदमेदुरस्तस्य कुमारस्य महौजसः। अचीकरदथो8वींशः प्रवेशोत्सवमद्भुतम् ॥ १८२ ॥ रम्भास्तम्भाभिरामाणि तोरणानि चतुष्पथे । रुचिराणि विरच्यन्ते दुकूलरचनादिना है ॥ १८३ ॥ प्रतिमन्दिरमुत्तुङ्गा उत्तम्भ्यन्ते जयध्वजाः । हृतचित्तानि नृत्यानि वितन्यन्ते पदे पदे ॥ १८४ ॥ एवं नृपति
देशेन जायमाने महामहे । यशसेव जयोत्थेन सितच्छत्रेण शोभितः ॥ १८५ ॥राज्यश्रीकेलये शुक्लकमलैरिव चामरैः। वीज्यमानोभयस्कन्धः स्निग्धवाराङ्गणागणैः॥१८६॥ नानागायनगीतालिवाचालितदिगम्बरः । कुमारःप्राविशद्भूपमन्दिर स्फुरदिन्दिरम् ॥ १८७॥ त्रिभिर्विशेषकम् ॥ ततः प्रणम्य भूपाय सेवालं स समापिपत् । व्यजिज्ञपच्च तातायमुत्तमः प्रतिपन्थ्यपि ॥ १८८ ॥ धैर्यगाम्भीर्यशौर्यादिगुणानामाश्रयो ह्ययम् । अतःप्रसन्नया दृष्ट्या द्रष्टव्यः साम्प्रतं त्वया ॥ १८९॥
HOROSCHEMESSACROCCORN.
Page #57
--------------------------------------------------------------------------
________________
R
AA-%ELA
ततः सत्कृत्य तं पूर्वस्थितावस्थापयन्नृपः । रिपुमप्यागतं गेहं महान्तो ह्यनुगृह्णते ॥ १९० ॥ मत्वा लघुमपि ज्येष्ठं बुद्धिशौ-I र्यादिभिर्गुणैः । चन्द्रसेनं महीजानियाँवराज्ये न्ययोजयत् ॥ १९१॥ चतुरङ्गां चमूं चास्मै महती स वितीर्णवान् । प्रसीदन्तितरां योग्यपुत्रेभ्यः पितरो न किम् ॥ १९२॥ दृष्ट्वाथ नृपसंमानममानमनुजन्मनः। खिद्यते स्म भृशं ज्येष्ठो मन्वानः स्वावमाननाम् ॥ १९३ ॥ मयि ज्येष्ठेऽपि यद्येष भुङ्क्ते राज्यश्रियं पितुः। तदा मदीयमानाय दत्त एव जलाञ्जलिः॥१९४॥ जीजनजननी मा तं जातो वा वियतामयम् । कनीयसाऽपि हा ! यस्य जन्यते मानखण्डना ॥ १९५ । मान एवं प्रधान हि जीवितव्यं मनस्विनाम् । ततस्ते खण्डने तस्य जीवन्तोऽपि मृताः स्मृताः ॥ १९६ ॥ माने म्लानिमुपेतेऽपि गेहं वा ४ देहमेव वा। ये न त्यजन्ति कातर्यात्ते नराः कुकुरा इव ॥ १९७॥ देहत्यागस्तु न स्त्रीवद्युक्तो लोकद्वयाहितः। तथा जीवजानवामोति नरो भद्रशतान्यपि ॥ १९८ ॥ अतः स्थानं परित्यक्तुं साम्प्रतं मम साम्प्रतम् । तिग्मांशुरपि निस्तेजा निजं स्थान
हि मुश्चति ॥ १९९ ॥ एवं विचिन्त्य विजयो निःससार निशान्तरे । कृपाणपाणिरेकाकी सर्वाज्ञातं निशां ततः॥२०॥ क्रामन्नयं क्रमाद्भूमिमतिचक्राम पैतृकीम् । उड्डियाणाह्वयं देशं मतिधाम जगाम च ॥ २०१॥ तत्रोद्यानस्थितं कीर्तिधरं योगधुरन्धरम् । ध्यानलीनतया नासान्यस्तदृष्टिं स दृष्टवान् ।। २०२॥ अहो! अस्य प्रशान्तकपरमाणुमयी तनुः। अहो ! अस्याकृतिर्विश्वविश्वविश्वासनास्पदम् ॥ २०३ ॥ अयं च परमं तीर्थमयं मङ्गलमुत्तमम् । अयं बन्धुरसंबन्धमयं मित्रमकृ-2 |त्रिमम् ॥ २०४॥ दशेनेनापि नश्यन्ति ननमस्य तपस्विनःप्राणिनामापदः सर्वाः शिवा इव विवस्वतः ॥२०५॥ नमस्या पयुपास्यां वा वितन्वन्त्यस्य ये पुनः क्षणातेषामशेषार्थसिद्धयः पाणिपद्मगाः॥२०६॥ तदेतस्य प्रणामेन जन्म साफल्य
Page #58
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशा
दानप्रदीपेमानये । एवं विशुद्धधीः साधु साधुभक्तिर्ननाम सः॥२०७॥ अथ धर्माशिषा पुण्यपुषा पापभरप्लुषा । ध्यानमुद्रां परित्यज्य ॥२५॥
मुमुक्षुस्तमतूतुषत् ॥ २०८॥ यतः
____“देवस्य दर्शनात्तुष्टिराशीर्वादाद्गुरोः पुनः । प्रभोस्तु दानसम्मानात्कस्यापि किमपीच्यते ॥ १॥" पुरो निषेदुषस्तस्य मुनिर्धर्ममुपादिशत् । इदमेव हि साधूनां प्रतिपाद्यं परं प्रति ॥ २०९॥
संसारसागरोत्तारपोतः सर्वविदोदितः। धर्मः सर्वास्ववस्थासु कर्त्तव्यः स्वहितैषिभिः ॥ २१ ॥ धर्म एव हि दुष्कर्मदुमदाहदवानलः । सर्वाङ्गीणसुखारामप्रावृषेण्यधनागमः ॥ २११ ॥ धर्मः पितेव पुष्णाति धर्मो मातेव रक्षति । धर्मो | |बिभर्ति भ्रातेव धर्मः स्निह्यति बन्धुवत् ॥ २१२ ॥ तं च द्विधा बुधाः श्राद्धसाधुधर्मतयाऽभ्यधुः । तत्राद्यो देशसावद्यत्यागिनां गृहिणां मतः॥२१३॥ सन्तुष्टा धनसंपन्नाः सेवन्ते तं सुखेन ते । असन्तुष्टैरसंपन्नैः कष्टेनैव स पाल्यते ॥२१४॥ एषोऽपि मुक्तिलाभाय धुभवादिविलम्बतः। द्वितीयः सर्वसावद्यत्यागिनां त्वनगारिणाम् ॥ २१५॥ कालादेः स तथायोगे सद्यः सिद्धिपदप्रदः । तदभावे पुनाता शक्रचक्यादिसंपदाम् ॥ २१६ ॥ विनाऽप्यैश्वर्यतः पूज्या नृपादीनामिहाप्यतः। प्रधानमत एवायं सर्वहरुपदिश्यते ॥ २१७॥ पारावारमिवापार संसारं यस्तितीर्षति । स श्रयेत दुतं सर्वविरतिं तरणीमिव ॥ २१८ ॥ चक्रिणस्तृणवत्त्यक्त्वा पटूखण्डक्षोणिवैभवम् । यामुपाददते तस्यास्तपस्यायास्तुलास्तु का ॥२१९ ॥ यद्यप्यादौ कटुः साधुधर्मो निम्बौषधादिवत् । तथाऽपि परिणामेऽयमनन्तसुखसाधनम् ॥ २२०॥
इति तद्वाक्यपीयूषोत्तीर्णमोहमहाविषः। रङ्गदुत्तुङ्गवैराग्यः प्रव्रज्यां विजयोऽग्रहीत् ॥ २२१ ॥ गुरुः प्रव्राज्य तं प्राज्य
Page #59
--------------------------------------------------------------------------
________________
RONARY
शिक्षयैवमतूतुषत् । अदीयत मया तुभ्यमियं पञ्चमहाव्रती ॥ २२२ ॥ त्वयाऽस्याः पालने भाव्यमवधानवताऽन्वहम् । नोपद्रवन्ति तां वापि यथाऽतीचारतस्कराः॥ २२३ ॥ परां शिष्यप्रशिष्यादिसुस्थानस्थापनादिना । स्फाति नेया च रोहिण्या व्रीहिपञ्चतयीव सा ॥ २२४ ॥ __ भगवन् ! रोहिणी केयमेवं विजयसाधुना । पृष्टः सुगुरुराचष्ट श्रेष्ठी राजगृहे धनः ॥ २२५ ॥ भार्या भद्राभिधा तस्य चत्वारस्तनयास्तयोः। चतुर्णा च क्रमाद्वध्वश्चतस्रः सुकुलोद्भवाः॥ २२६ ॥ यथायुक्तं नियोक्तुं ता विधेयेषु वधूर्धनः। ऐषीत्परीक्षितुं दक्षः प्रेक्षावन्ता हि कीर्तये ॥२२७॥ ततो निमन्त्र्य स ज्ञातीन् वधूनामशनादिना । कार्म सत्कृत्य कृत्यज्ञो यथौचित्यं न्यवीविशत् ॥ २२८ ॥ तत्समक्षमनुज्येष्ठं स वधूनामगाधधीः।प्रत्येकमर्पयामास स शालिकणपञ्चकम् ॥ २२९॥ आदिदेश च हे वत्साः! स्थाप्या यत्नादमी कणाः। यदा याचे तदा मह्यं समर्पयत तान् पुनः॥ २३० ॥ ततः श्रेष्ठिवरिठेन विसृष्टः स्वजनोऽखिलः। अवाप स्वं पदं नैकविकल्पाकुलमानसः॥२३१॥ दध्यौ वधूरधीराद्या वृद्धोऽयं प्रथिलोडजनि । इयन्तं विदधे मुग्धो यो मुधैव धनव्ययम् ॥ २३२॥ यो व्यडम्बयदस्मांश्च व्रीहिमात्रप्रदानतः। इत्युज्झांचक्रिरे क्वापि कणाः कुपितया तया ॥२३३ ॥ व्यचिन्तयद्वितीया तु पूज्यार्पिततया ह्यमी । न त्याज्या नापि चैतेषां रक्षणं सुकर चिरम् ॥ २३४ ॥ इति मत्वा कणानेतानत्तिकर्मी चकार सा। जायते हि मतिः पुंसां स्वस्वकर्मानुसारिणी ॥ २३५॥ पूज्यादेशः शुभायेति तृतीया शुद्धबुद्धितः । तान्नियम्य दुकूलेन न्यधान्निजनिधानवत् ॥२३६ ॥ तुर्या तु निजचातुर्याच्चिन्तयामास चेतसि । औचित्येन सुराचार्य श्वशुरस्तिरयत्ययम् ॥ २३७ ॥ गूढाभिसन्धिना नूनं ददौ केनाप्यमूनयम् ।
Page #60
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥२६॥
द्वितीयः प्रकाशः।
प्रवृत्तिनिरभिप्राया नैव प्रेक्षावतां यतः ॥ २३८ ॥ ततस्ते ज्ञातये वस्तुं प्रत्युत्पन्नधिया तया । दत्तास्तेनाप्यतिस्फातिं नीता प्रत्यब्दवापतः॥२३९॥ पुनः सत्कृत्य तज्ज्ञातीन हायने पञ्चमेऽथ ताः। तानेवायाचत ब्रीहीन धनः शपथपूर्वकम् ॥२४॥ तत्राद्ये तदभावेन विलक्षीभूय तस्थतुः । सुलभा हि पराभूतिरविमृश्य विधायिनाम् ॥ २४१॥ श्रेष्ठिना ते पुनः पृष्टे यथाकृतमवोचताम् । न्यासस्थानिव तानेव तृतीया पुनरार्पिपत् ॥ २४२ ॥ तुरीया त्वब्रवीदेवं देव ! चेत्तैः प्रयोजनम् । प्रेष
यानांसि भूयांसि नानेयास्ते हि तैर्विना ॥ २४३ ॥ कुत इत्युदिते तेन सा यथास्थमचीकथत् । श्रेष्ठी हृष्टस्ततस्तासां ज्ञाति४ वर्गमवोचत ॥ २४४ ॥ आसां कर्मानुसारेण यदेवमभवन्मतिः। अतस्तदाऽनुरूप्येण कृत्येऽप्यस्तु नियोजनम् ॥ २४५॥
न रोषः पोषणीयोऽत्र केनापीति प्रजल्पता । उज्झिका भस्मपुञ्जादौ नामतश्च न्ययुज्यत ॥ २४६ ॥ भक्षिका सूदशालायां भाण्डागारे च रक्षिका । गृहस्वाम्ये तु सम्मानदानतस्तेन रोहिणी ॥२४७॥ युग्मम् ॥ शृणु चोपनयं श्रेष्ठिज्ञातिशालिकणस्नुषाः । उपमाः श्रीगुरुसङ्घनतभव्याङ्गिनां क्रमात् ॥ २४८॥ यथोज्झिका यथार्थाहा भस्माद्युत्सारणादिषु । नियुक्ता निन्द्यतामाप दुःखानां खानिरप्यभूत् ॥ २४९ ॥ वितीर्णा गुरुभिः सङ्घसमक्षं कोऽपि यस्तथा । प्रमादेनोन्मदः पञ्चव्रतीमुज्झति मूढधीः ॥२५० ॥स स्यादिहैव दुर्वादनिन्दादीनां पदं सदा। परलोके त्वसंख्यानामसौख्यानां कुयोनिषु ॥२५॥
भक्षिकाऽपि यथार्थाख्या यथाहारं यथेप्सितम् । भुञ्जानाऽप्यन्नदासीवदासीदुःखनिवासभूः ॥ २५२ ॥ तथाऽऽहारादिहे गृभुर्यो व्रतान्याजीविकाकृते । इहैवासक्तमासक्तः प्रयुक्ते मुक्ततधुरः ॥ २५३ ॥ वेषादेष यथाकाममाहारादिकमश्नुते । परं
न विदुषां मान्यः कामं दुःखी परत्र च ॥ २५४ ॥ रक्षिका सा पुनर्दक्षा कोशरक्षाविधौ यथा । भागिनी भोगसौख्यानां
Page #61
--------------------------------------------------------------------------
________________
जज्ञे मान्या जनस्य च ॥ २५५ ॥ यस्तथा निरतीचारां व्रतपञ्चतयीमिमाम् । सम्यक् पालयति त्यक्त्वा प्रमादं दूरतोऽखिलम् ॥ २५६ ॥ स्वहितैकरुचिः शस्यः कस्य न स्यादिहापि सः। परत्रासंख्यसौख्यं च मोक्षमक्षयमनुते ॥ २५७॥ यथा च रोहिणी बुद्धिरोहिणी शालिवर्धनात् । सर्वस्वस्वामितां प्राप्ता प्रतिष्ठामाप लव्यपि ॥२५८॥ तथा पञ्चव्रतीमेतां प्रयतः पालयन् स्वयम् । योऽधीतसर्वसिद्धान्तः प्रापयत्यपरानपि ॥ २५९ ॥ स गौतम इव प्राप्तः सर्वसङ्घप्रधानताम् । परां है संपदमाप्नोति स्वान्ययोरुपकारिणीम् ॥ २६०॥ तन्वा तीर्थोन्नतिं कृत्वा कुतीर्थिकतिरस्कृतिम् । जगत्पूज्यक्रमाम्भोजः क्रमाच्च लभते शिवम् ॥२६१॥अतस्त्वया परां स्फाति नेया पञ्चमहाव्रती।रोहिणीव यथा सद्यः परमां प्रौढिमभुषे॥२६२॥
इति तद्वाक्यपीयूषपाणप्रीणितमानसः। प्रयतः पालयामास संयम विजयो मुनिः॥ २६३ ॥ विनयेन स सिद्धान्तमध्यैष्ट गुरुसन्निधौ । यतः सम्यगनुष्ठानं सम्यग्ज्ञानवशंवदम् ॥ २६४ ॥ क्रमेण योग्यतां ज्ञात्वा न्यास्थत्तं स्वपदे गुरुः। नयन्ति गुरवो योग्यं महतीमुन्नतिं यतः॥ २६५ ॥ गुरुरन्वशिषत्तं च गौतमाद्यैरधिष्ठितम् । सिद्धिसौधप्रतिष्ठानं सर्वप्रछमिदं पदम् ॥२६६ ॥ ततः प्रमादमुत्सृज्य शिष्याणां सारणादिना । वाचनादिविधी वत्स! विधेयः सर्वदोद्यमः॥२६॥ सुखशीलतया स्वल्पमपि मा खेदमुबह । एवमेवर्णमोक्षस्ते शासने च महोन्नतिः॥ २६८॥ ततः सम्मेतशैलेन्द्रमधिरुह्य समाहितः । मासानशननिःश्रेण्या सिद्धिसौधमगाद्गुरुः ॥ २६९ ॥ अथो विजयसूरीन्द्रो निस्तन्द्रो वाचनादिषु । पुनानः पृथिवीं प्राप परमामुन्नतिं क्रमात् ॥ २७॥ अहंप्रथमिकापूर्वमपूर्वश्रुतमिच्छवः । विनेयाः परिवन्नुस्तं दातारमिव मार्गणाः ॥ २७१॥ प्रतीच्छका अपि श्रोतुमस्य पार्श्वमुपैयरुः । रत्नाकरे समासन्ने रत्नान्यादित्सते न कः॥ २७२ ॥ ददानो वाच
Page #62
--------------------------------------------------------------------------
________________
*
दानप्रदीपे
॥२७॥
**
नादीनि दिवा तेभ्यः सविश्रमम् । कदाऽप्यवाप ना पारं ग्राहकापाणिको यथा ॥ २७३ ॥ सूत्रार्थचिन्तनप्रश्नचालनाद्यैश्च ५
द्वितीयः तत्कृतैः । अजायत न जात्वस्य निशायामपि शायिका ॥ २७४ ॥ कर्मोदयादथान्येधुः पराजिग्ये स पाठतः । स्वच्छाया
प्रकाशः। मिव कः कर्मविपाकं लवितुं क्षमः ॥ २७५ ॥ चित्ते च चिन्तयामास यतयोऽमी वरं जडाः। वाचनाध्यापनादौ ये विमुखाः सुखमासते ॥ २७६ ॥ तदुक्तम्
"मूर्खत्वं हि सखे ! ममाभिरुचितं तस्मिन् यदष्टौ गुणा निश्चिन्तो बहुभोजनोऽत्रपमना रात्रिंदिवा शॉयकः। कार्याकार्यविचारणान्धबंधिरो मानापमाने समः प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥१॥" अहं त्वनेन ज्ञानेन हहाऽनायिषि कीदृशीम् । वैरिणैव शरीरान्तस्तस्थुषा दुःस्थितां दशाम् ॥ २७७ ॥ गुणेनाप्यमुना ध्राणा वयमायासहेतुना । दूरं तदस्तु कर्पूरं दन्तपातो यतो भवेत् ॥ २७८ ॥ उत्तमणैरिवामीभिरधमर्ण इवान्वहम् । कथंकारं कदयेऽहमत्यर्थं पठनार्थिभिः ॥ २७९ ॥ ज्ञानदानेन मे कीर्तिहेतुनाऽप्यमुना सृतम् । सुवर्णेनापि किं तेन येन कर्ण|छिदा भवेत् ॥ २८ ॥ अमी ज्ञानवशादेव जन्तवोऽप्यपमन्तवः । लभन्ते बन्धनं कीरसारिकाद्या दिवानिशम् ॥ २८१ ॥
ज्ञानमद्वेषमित्येष पुष्णन्नज्ञेषु शेखरः । वाचनादौ विनेयानाममन्दायत मन्दधीः ॥ २८२॥ स्थविरैः प्रेरितस्त्वाह कण्ठशो|पैकहेतुना । पाठेन कृतमेतेन क्रियायामेव यत्यताम् ।। २८३ ॥ क्रिया हि फलसंपत्तिनिमित्तं न पुनः श्रुतम् । रहिता अपि ॥२७॥
यत्तेत सिद्धा माषतुषादयः॥ २८४ ॥ अधीतिनोऽपि पूर्वेषु सर्वेषु क्रियया विना । श्रूयन्ते च श्रुतेऽनन्ताः पतिता दुःखिता &भवे ॥२८५ ॥ लोकेऽप्यालोक्यते क्वापि न ज्ञानेन फलोदयः । पुरी रसवतीं पश्यन् हृद्यामपि न तृप्यति ॥ २८६ ॥ नटी
XXNXT
Page #63
--------------------------------------------------------------------------
________________
ॐॐॐॐॐॐ
पटीयसी नाव्ये कौशलं कलयन्त्यपि । दानं तदप्रयुञ्जाना न जातु लभते जनात् ॥ २८७ ॥ अतः सम्यक्कियामेव सेवध्वं सिद्धिकाम्यया । न श्रुतं किमु युष्माभिर्यः क्रियावान् स पण्डितः॥ २८८ ॥ इत्याधुत्सूत्रवाद्येष स्थविरैरवहीलितः। बुधैराद्रियते नैव गुरुरप्युत्पथस्थितः ॥ २८९ ॥ धिम् धिक् कुकर्ममर्माविदन्धंकरणमात्मनः । उन्मार्ग नीयते येन विद्वानपि जिनागमम् ॥ २९० ॥ अथासौ तमतीचारमनालोच्य विपद्य च । सौधर्मे त्रिदशो जज्ञे संयमस्यानुभावतः ॥ २९१॥ तत्र वर्षाण्यसंख्यानि दिव्यसौख्यान्यभुक्त सः। ततश्चायुःक्षयेऽच्योष्ट पक्कपर्णमिव दुमात् ॥ २९२ ॥ पद्मखण्डपुरे श्रेष्ठी | धनस्तस्य प्रिया शिवा । तयोः सूनुरनूनश्रीधर्मशर्मा बभूव सः॥ २९३ ॥ पुत्रप्राप्त्याऽनपत्यौ प्राक् पिप्रियातेतमां च तौर चिरेष्टवस्तुयोगेन को वानन्दं न विन्दते ॥ २९४ ॥ पिता तमष्टवर्षीयं हर्षेणाथ क्षणे शुभे । सोत्सवं कारयामास लेखशालानिवेशनम् ॥ २९५ ॥ तमध्यापयितुं यत्नादुपाध्यायः प्रचक्रमे । ज्ञानावज्ञाभवं कर्म प्राच्यं चास्योदगात्तदा ॥ २९६ ॥ ततः किमप्युपाध्यायो नाध्यापयितुमैष्ट तम् । ग्रन्थिलं दारु केनापि शक्यं घटयितुं किमु ॥ २९७ ॥ महाभाष्यमिवामुष्य विषमा मातृकाऽप्यभूत् । तुङ्गदुर्गायते पङ्गोर्गेहस्यापि हि देहली ॥ २९८ ॥ ततः स्वं स्वयमुद्विज्य विससर्ज स पाठकः। 3 नयत्यायासमात्मानमस्थाने कः सचेतनः ॥२९९ ॥ दर्श दर्शमुपाध्यायः स एवं पञ्चभिः शतैः। अचिरान्मुमुचे कूटमणिकटिकैरिव ॥ ३००॥ एकेनापि न शेके तु विनिवेशयितुं हृदि । दुर्मतेर्मातृकाऽप्यस्य कुलिशेनेव निर्मिते ॥ ३०१॥ | ततस्तस्य पिताऽतीवविषादादित्यचिन्तयत् । प्रस्तरस्तनयोऽयं हा विधेयं किं मयाऽधुना ॥ ३०२॥ भूयादजननिस्तस्य जनने वाऽप्यजीवनिः । कलायां कौशलं वापि धत्ते नाध्यापितोऽपि यः॥३०३ ॥ यतः
Page #64
--------------------------------------------------------------------------
________________
दानप्रदीपे
SAGG
॥२८॥
I
"अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावजीवं जडः पुनः॥१॥"
द्वितीय | इत्या? दैवतत्रातं पूजयामास सोऽनिशम् । विविधानौषधांश्चक्रे मन्त्रयामास मात्रिकान् ॥३०४॥न केनाप्युपचारेण *
प्रकाश परं सूनोरभूद्गुणः। विना ज्ञानं निदानस्य नहि व्याधेः प्रतिक्रिया ॥ ३०५॥ अन्येधुर्नगरोद्यानं मुनिर्जानी समागमत् । तं नन्तुं पुत्रयुक् तत्र धनो बुद्धिधनो ययौ ॥ ३०६ ॥ परेऽपि भक्तिपूरात्तं पौरा नन्तुमुपागमन । सर्वेऽपि च तमानम्य निषेदुस्ते तदग्रतः॥ ३०७ ॥ ऋषिर्धमाशिषा सोऽपि प्रत्येकं परितोष्य तान् । यावदारभते धर्मदेशनामघनाशिनीम् ॥३०८॥ प्रणम्य प्राञ्जलिस्तावत्पप्रच्छ स्वच्छधीधनः। कर्मणा केन जज्ञेऽयं सूनु, मूर्खशेखरः॥ ३०९ ॥ भगवनियमे वाद्य दीयतां धर्मदेशना । सुसूत्राः श्रोतृतन्त्रा हि प्रवक्तृणां प्रवृत्तयः॥ ३१०॥ अथोवाच मुनिः प्राच्यं तस्य ज्ञानविराधनम् । अपमानगृहत्यागप्रवज्यादिप्रपञ्चितम् ॥ ३११॥ ज्ञानस्यावज्ञया चाभूदेष मूर्खेषु शेखरः। जन्मन्यन्यत्र दुष्पापं ज्ञानमाशातितं यतः॥ ३१२॥ यो दत्ते ज्ञानमन्येभ्यः प्राज्ञस्तद्बहुमानवान् । सोऽमुत्रामात्रशास्त्राणां पारीणः स्यादरीणधीः॥३१३ ॥ तनोत्यवज्ञामज्ञानाद्यो ज्ञानज्ञानिनोः पुनः । परत्र बुद्धिवन्ध्यानां धत्ते मूर्धन्यतामयम् ॥ ३१४॥
क्रमात् सुबुद्धिदुर्बुद्धिज्ञातमत्र निशम्यताम् । क्षितिप्रतिष्ठितं नाम पुरं क्षितिविभूषणम् ॥ ३१५ ॥ तत्र चन्द्रयशा राजा राजमानगुणव्रजः । नाम योऽन्वर्थयामास यशोभिश्चन्द्रशोभिभिः॥३१६ ॥ मतिसाराहयस्तस्य जज्ञे सचिवपुङ्गवः ॥२८॥ सुबुद्धिर्नन्दनस्तस्य जगदानन्दनोऽजनि ॥३१७॥ प्रज्ञाविशेषवानेष साक्षीकृत्य गुरुं कलाः । सकलाः कलयामास कालेनाल्पीयसाऽप्यहो!॥३१८ ॥ सद्यः संपन्नदुःसाधसिद्धयः शुद्धबुद्धयः । अभिसखुश्चतस्रस्तं कान्ता इव पतिवराः ॥३१९ ॥
***
Page #65
--------------------------------------------------------------------------
________________
न तच्छास्त्रं न तत्तन्त्रं न सा विद्या न सा कला । क्रमते स्म मतिस्तस्य दृष्टमात्रेऽपि यत्र न ॥ ३२० ॥ स विद्यास्वनवद्यासु वैशारयं दधौ तथा । यथा सोऽपि सुराचार्यः कलाचार्थीयति स्म तम् ॥ ३२१ || अमुष्य पुपुषुः प्रेक्षाविशेषा विष्वगुन्मिषाः । प्रावृषेण्या इवाम्भोदाः सर्वोपकृतिहेतुताम् ॥ ३२२ ॥ जज्ञेऽथ मन्त्रिणः पुत्रः परो दुष्कर्मयोगतः । दुर्बुद्धिरिति यस्याख्या साऽन्वर्था पप्रथे जने ॥ ३२३ ॥ पाठकस्य पठन् कस्याप्युपकण्ठेऽतिकुण्ठधीः । मासैश्चतुर्भिरप्येष नापठन् मातृकामपि ॥ ३२४ ॥ उपदेश इवाभव्ये बीजवाप इवौषरे । कलाचार्यस्य तत्राभूद्विफलः पाठनोद्यमः ॥ ३२५ ॥ तं बुद्धिशेविधिं सर्वशास्त्रपारीणमग्रजम् । अनुजं चान्यथाऽऽलोक्य कस्कः प्राप न कौतुकम् ॥ ३२६ ॥ तत्र चाभूद्धनश्रेष्ठी धन धनदोपमः । चत्वारस्तनयाः स्फीतविनयास्तस्य सन्नयाः ॥ ३२७ ॥ देहडो बाहडश्चाथ भावडः सावडस्तथा । क्रमात्ते यौवनं भेजुर्युवतीजनजीवनम् ॥ ३२८ ॥ पित्रा कुलीनकन्याभिः पर्यणाय्यन्त ते क्रमात् । यथायुक्तं नियुक्ताश्च वाणिज्यं | विविधं व्यधुः ॥ ३२९ ॥ व्याधिभिर्वार्द्धकेऽन्येद्युरवाध्यत धनोऽधिकम् । जरा ज्वरादिरोगाणां यतः सङ्केतदूतिका ॥ ३३० ॥ | अथाकार्य सुतानार्यश्चतुरश्चतुरोऽप्ययम् । द्राक्षासदृक्षया वाचा शिक्षयामास तानिति ॥ ३३१ ॥ वत्साः ! स्वच्छाशयाः ! यूयं स्वयं यद्यपि कोविदाः । तथाऽपि कानिचिच्छिक्षापदानि शृणुत क्षणम् ॥ ३३२ ॥ प्राज्यं त्रैलोक्यसाम्राज्यं सृजतो धर्मभूभुजः । सकलाः किंकरीभावं कमलाः कलयन्त्यमूः ॥ ३३३ ॥ धर्मः समग्रदुष्कर्मद्रुमनिर्मूलनद्विपः । तत्तन्निस्तुल्यकल्याणवल्लिपल्लवनाम्बुदः ॥ ३३४ ॥ सर्वेऽप्यत्रैव तिष्ठन्ति सहायधनबन्धवः । धर्म एव तु जीवस्य परलोकेऽनुगामुकः ॥ ३३५ ॥ जीवितव्यं यथा देहे गार्हस्थ्ये च यथा धनम् । तथा कारुण्यमेवैकं पुण्ये प्राधान्यमश्नुते ॥ ३३६ ॥ सूनृता
Page #66
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥२९॥
भारती पुंसः सत्यं कामदुघायते । धर्मदुग्धं स्रवन्ती या दत्तेऽभीष्टफलावलीः ॥ ३३७ ॥ शुद्धये व्यवहारस्य यतनीयमह- द्वितीयः निशम् । अर्थाहारवपुर्धर्मा यां विना मलिनाः क्रमात् ॥३३८॥ काऽपि स्वदारसंतोषविद्या त्रिजगदद्भुता । वृण्वते सिद्धयः प्रकाशः। सर्वाः सुभगं भावुकं यथा ॥ ३३९ ॥ सन्तोषः खलु पीयूषयूषतोऽपि विशिष्यते । अजरामरतां दत्ते यः सम्यक् परिशीलितः॥ ३४०॥ कुर्यान्न सहसा कार्य यद्विमृश्य विधायिनम् । श्रयन्ति संपदः सर्वाः सरस्वन्तमिवापगाः॥३४१॥धननाशे तनुक्लेशे जीवितव्यात्ययेऽपि वा । महान्तो नहि मुञ्चन्ति प्रतिपन्नं यशोधनाः॥ ३४२॥ दुर्जनो दूरतस्त्याज्यो भुजङ्ग इव भीषणः । हरते यः स्वसंगेन परस्य गुणजीवितम् ॥ ३४३॥ सङ्गतिः साधुभिः सार्धं विधेया सुधियाऽन्वहम् । शरदेव जलं जीवो विमलीक्रियते यया ॥ ३४४ ॥ विवेकः स्वजनप्रीतिदानं व्यसनवर्जनम् । व्यवहारविशुद्धिश्च पञ्च प्रति-18 भुवः श्रियः ॥ ३४५ ॥ सारैरपि मणिस्वर्णाभरणैर्न पुमांस्तथा। शोभां बिभर्ति गाम्भीर्यविनयाद्यैर्गुणैर्यथा ॥ ३४६ ॥ हेयोपादेयमित्यादि सम्यग् निश्चित्य चेतसि । तद्विवेकविधौ राजहंसायध्वमहर्निशम् ॥ ३४७॥ तथा प्रेत्य मयि प्राप्ते मिथः सौभ्रात्रभासुरैः । युष्माभिः स्थेयमेकत्र प्रतिष्ठा हि तथा जने ॥३४८॥ मिथो न जातु कर्तव्यः स्वस्वौचित्यव्यतिक्रमः। अनेन हीयते येन स्नेहः सुचिरसंचितः॥ ३४९॥ नान्तर्मनसमानेयं प्रेयसीनां वचः क्वचित् । यतस्तद्भातृसौहार्द
॥२९॥ दुग्धविध्वंसकाञ्जिकम् ॥ ३५० ॥ केनापि हेतुना जातु भवतां भिन्नता भवेत् । तदाऽपि न कलिः कार्यः सर्वथा रिक्त्थ हेतवे ॥ ३५१॥ कलहः खलु बन्धूनां वर्धमानः परस्परम् । गृहे विषद्रुमः स्वस्य परस्य तु सुरद्रुमः ॥ ३५२ ॥ पूर्वादिदिक्ष कोणेषु चतई गृहमन्तरा। निखाता निधयः सन्ति युष्माकं कलहच्छिदे ॥ ३५३ ॥ ग्रहीतव्याः क्रमादेते भवद्भिर्में
Page #67
--------------------------------------------------------------------------
________________
5-ॐASEARCASS
दसंभवे । प्रतिपाद्येति तान् श्रेष्ठी परलोकमवाप सः॥ ३५४ ॥ विधाय तेऽपि तस्योछेदेहिकं पैतृकीर्गिरः। स्मरन्तश्चिरमेकत्र सौभ्रात्रेणावतस्थिरे ॥ ३५५ ॥ बभूव भूयसी तेषां क्रमापुत्रादिसन्ततिः । शतशोऽपि हि शाखाः स्युरेकस्मादपि शाखिनः॥ ३५६ ॥ अथ यत्तन्निमित्तेन मत्सरच्छुरिताः कलिम् । कान्ताः प्रचक्रिरे तेषां न स्त्रीषु स हि दुर्लभः॥३५७॥ न्यवर्तन्त ततो नैव वारिता अपि ताः प्रियैः। रोद्धं कूलंकषाः कूलमुद्भुजाः कः प्रगल्भते ॥ ३५८ ॥ ततो विमृश्य ते प्रीतिपूर्व विभिदिरे स्वयम् । यथा प्रस्तावयोगं हि प्रवर्तन्ते विपश्चितः॥ ३५९ ॥ निज निजं निधिं ते च साक्षीकृत्य पर
स्परम् । पित्रादेशमिवान्तःस्थं हर्षादाचकृषुः स्वयम् ॥ ३६० ॥ तत्रादिमस्य कुम्भान्ताला वाजिगवादिजाः। द्वितीयस्य * पुनर्मुत्स्ना तृतीयस्य तु कागदाः॥३६१॥ तुरीयस्य पुनः प्रादुरासन स्वर्णमणिव्रजाः। त्रयस्ताहक्स्वकुम्भान्तदृष्टा खिद्यन्त
हृद्यलम् ॥ ३६२ ॥ सुवर्णादि तु निर्वर्ण्य तुरीयो मुमुदेतमाम् । प्रतिभा सुलभा प्रायः पुंसां बाह्यार्थदृश्वरी ॥ ३६३ ॥ ततोऽवदंस्त्रयोऽप्याद्या अमनाग दुर्मनायिताः । पित्रा तुल्येऽपि पुत्रत्वे चक्रे नः कीदृगन्तरम् ॥३६४॥ अयं निवेशयामास केशादि कलशेषु नः । लघोः पुनः सुवर्णादि स एवास्य हि वल्लभः॥ ३६५ ॥ हहा ! कनिष्ठवात्सल्यपिच्छिलीकृतचेतसा । वयं दम्भवता तेन कथंकारं प्रतारिताः ॥ ३६५ ॥ भ्रान्तैराराध्यतास्माभिरयं गुरुधिया मुधा । रत्नबुद्ध्या यथा काचः स्वर्णभ्रान्त्या च पित्तलम् ॥ ३६७ ॥ न च प्रमाणमस्माकं व्यवस्थाऽस्य स्थवीयसः । मध्यस्थस्यैव यत्पुंसः प्रामाण्यं मन्यते गिराम् ॥ ३६८ ॥ ततो विभज्य गृहीमः स्वस्वांशं कलशाल्लघोः । अस्मत्कलशतोऽप्यंशान्कनीयान् स्वीकरोत्वयम् ॥३६९ ॥ अथ तान् सावडोऽवादीद्यूयं निर्भाग्यपुङ्गवाः। ततो युष्मन्निधानानामभूदीदृशरूपता ॥ ३७० ॥ यावजीवम
Page #68
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥३०॥
भूत्सर्वजनीनो जनको हि नः । नहि वश्चयते कश्चिक्कि पुनर्वस्तनूभुवः॥ ३७१ ॥ किं विधत्थ मुधात्मानं मलिनं पितृ-ता द्वितीयः निन्दया । गुरूणां गर्हणा येन लोकद्वयविरोधिनी ॥ ३७२ ॥ न च स्वभोग्यकुम्भस्थं रिक्थं किञ्चिदहं ददे । जिघृक्षाऽपि प्रकाशः। च वस्तस्य पितृदत्तस्य नोचिता ॥ ३७३ ॥ व्यवस्था नान्यथा कार्या परेणापि हि निर्मिता। हितेन विहिता पित्रा वहस्ते-18 नैव किं पुनः॥ ३७४ ॥ एवं विरुद्धचित्तास्ते प्राक्रमन्त कलिं मिथः । अर्थो मूलमनर्थानामत एव मतः सताम् ॥ ३७५ ॥ भकं कलहमेतेषां स्वजनाः पूर्जना अपि । धीमन्तोऽप्यभवन्मूढा गूढार्थे को न गुप्यति ॥ ३७६ ॥ ततो विवदमानास्ते नृपसंसदमासदन् । नत्वा च तं स्ववृत्तान्तमादितोऽपि व्यजिज्ञपत् ॥ ३७७ ॥ तमाकर्ण्य नृपः स्मेरविस्मयस्तद्विनिश्चयम् । निर्मातुं मतिसारादिमन्त्रिणस्तूर्णमादिशत् ॥ ३७८ ॥ स्वस्वमत्यनुसारेण चिरं तेऽप्यमृशन्मिथः । परं न कोऽपि तद्वादे विधेयं निरदीधरत् ॥ ३७९ ॥ ततश्चिन्ताञ्चितस्वान्तो महीकान्तोऽभवत्तमाम् । यदि नो भज्यते वादस्तदा लज्जा हि भूभुजः॥ ३८० ॥ तदाजगाम धीधामसुबुद्धिस्तत्र मन्त्रिसूः । नत्वा च नृपमासीनः सचिन्तं सर्वमैक्षत ॥ ३८१ ॥ जगाद चाद्य किं नेतश्चिन्ताक्रान्तमदः सदः । नृपोऽप्युवाच चिन्तायास्तवैवोक्तिः फलेग्रहिः ॥ ३८२ ॥ ततो धूसंज्ञया राज्ञा ज्ञापितः सचिवोत्तमः । सर्वमूचे चतुोतृवृत्तान्तं स्वसुताग्रतः॥ ३८३ ॥ तन्निशम्य हृदि न्यस्य प्रत्युत्पन्नमतिः क्षणम् । अन्तर्मनसमामृश्य तद्रहस्यमबुद्ध सः॥ ३८४ ॥ अभ्यधत्त च धात्रीशं यद्यादिशसि देव! माम् । विवादं सद्य एवामुं तदा निर्धारयाम्यहम् ॥ ३८५ ॥ शीघ्र निर्धारयेत्युक्ते नृपेण सचिवाङ्गजः। रहस्याकार्य चातुर्यसुराचार्य उवाच तान् ॥३८६॥ दीर्घदर्शी स वस्तातो युक्तायुक्तविचारवित् । नहि वश्चयते युष्मानेकान्तहितकारकः ॥ ३८७ ॥ हितायैव च युष्माकमेषा
Page #69
--------------------------------------------------------------------------
________________
द्वेषापनुत्तये । व्यवस्था प्रथयाञ्चके तेनावक्रेण तद्यथा ॥ ३८८ ॥ आद्यस्तुरगदासेरगवादिक्रयविक्रये । कुशलस्तेन तद्भागे सन्तु सर्वचतुष्पदाः ॥ ३८९ ॥ द्वितीयस्य तु निस्तुल्यं कौशलं कृषिकर्मसु । अतस्तदीयभागेऽस्तु वास्तुक्षेत्रकणादिकम् ॥ ३९० ॥ नैपुण्यं पण्यशालायां तृतीयः श्रयतेऽधिकम् । तस्यांशेऽस्तु ततः शेषवस्तुलभ्यादिलेख्यकम् ॥ ३९१॥ इत्यर्थज्ञापनार्थ च त्रयाणां निधिषुक्रमात् । पिता न्यधत्त रोमाणि मृत्तिका कागदांस्तथा ॥ ३९२ ॥ तुरीयस्तु लघुत्वेन वाणिज्यादिषु न क्षमः । अतः स्वर्णादिकं तस्य निधानान्तरयं न्यधात् ॥ ३९३ ॥ स्वर्णादि च कियद्रव्यमिति पृष्टाः सुबुद्धिना। भ्रातरः प्रत्यभाषन्त लक्षसंख्यमिदं धनम् ॥ ३९४ ॥ सोऽप्यभाषत युष्माकमप्यशेषु निरीक्ष्यताम् । प्रत्येक प्रायशो लक्षधनमस्तीति निर्णयः॥ ३९५ ॥ यद्यस्य फलदं पित्रा ददृशे दीर्घदर्शिना हितेनादेशि तत्तस्मै भैषज्यं भिषजा यथा ॥ ३९६ ॥ किं मुधा मत्सरः स्वच्छे बीजिन्यवरजे च वः। त्याज्यं सर्वत्र मात्सर्य किं पुनः स्वे गुणाधिके ॥ ३९७ ॥ अतः स्वीकृत्य ताताज्ञां यतध्वं स्वस्वकर्मसु । सुखं कीर्तिः प्रतिष्ठा च यथा वः स्फायतेऽन्वहम् ॥ ३९८॥ एवं तदुपदेशाम्बुशुद्धया स्वधियाऽपि ते । स्वस्वांशेष्वपि लक्षस्वं समीक्ष्य जहषुस्तमाम् ॥ ३९९ ॥ अहो ! नः पितुरौचित्यं य इत्थं तथ्यवत्सलः । जीविकोपायमस्माकं यथार्ह स समादिशत् ॥ ४०० ॥ अहो! मतिरसीमा ते यज्ज्ञानीव त्वमञ्जसा। तस्यातिगूढमप्येनमभिसन्धिमबुध्यथाः॥४०१॥ त्वं पिता जीवितव्यं च भीषणात्कलिरक्षसः । सर्वव्यसनदादस्माद्यदस्मान् द्रागमूमुचः ॥ ४०२ ॥ इत्युक्त्वा ते कुमारोक्तं यथावत्प्रतिपेदिरे। मार्गमुन्मार्गगः सम्यग् दर्शितं कः श्रयेत न | ॥४०३ ॥ सुबुद्धिस्तानथाकार्य कार्यविज्जगतीपतेः । पुरः प्रकाशयामास सर्व बुद्धिविजृम्भितम् ॥ ४०४॥ राजाथ
23.AAAIG45
Page #70
--------------------------------------------------------------------------
________________
दानप्रदीपे
15
द्वितीयः
9
विस्मितः स्माह सुबुद्धिस्त्वं मुधा नहि । दुश्छेदमपि यद्वादम, सद्यस्त्वमच्छिदः ॥४०५॥ अहो ! ते प्रतिभा काऽपि सर्वत्रास्खलितकमा। दुर्भेदानपि या भावान् भिन्ते भिदुरकोटिवत् ॥ ४०६ ॥ सीमाभाजः समे भावा भूनभःसागरा
प्रकाश। दयः।नास्तिनुते तु सीमानं प्रज्ञोन्मेषो मनीषिणाम् ॥ ४०७ ॥ अथ ते भ्रातरः स्वस्वकर्मकर्मठमानसाः। कुमारस्तुतिवा-8 चालाः प्रीति भेजुः परस्परम् ॥ ४०८॥ कुमारोऽप्येवमुर्वीशपौरादीनां स्वबुद्धिभिः। विस्मयं स्फोरयन् स्वैरं यशःपूरमपुस्फुरत् ॥ ४०९ ॥ द्वितीयस्तु यथार्थाख्यो दुर्बुद्धि(सखात्मजः । भेजे तरुणतां पित्रोरुद्वेग इव मूर्तिमान् ॥ ४१०॥ आस्तां शास्त्रमयं लोकव्यवहारमपि स्फुटम् । अजानानो जने हास्यभाजनं समजायत ॥ ४११ ॥ मूर्त पुण्यमिव ज्येष्ठं 21 कनिष्ठं पुनरन्यथा । दृष्ट्वा दृष्ट्वा सुतं मन्त्री मुमुदे चिखिदेऽपि च ॥ ४१२ ॥ नगरोद्यानमन्येधुर्विद्यानामेकमास्पदम् । कश्चिन्मुनिरलञ्चके चक्रबन्धुरिवाम्बरम् ॥ ४१३ ॥ तच्चाकर्ण्य नृपामात्यसुबुद्धिप्रमुखा जनाः । तत्रागम्य मुनि नेमुनिषेदुश्च तदग्रतः ॥ ४१४ ॥ मुनिस्तेषां पुरस्तेने देशनामघनाशिनीम् । तां निपीय च ते प्रीताश्चकोराश्चन्द्रिकामिव ॥ ४१५ ॥ अथावसरमासाद्य मतिसारोऽब्रवीन्मुनिम् । प्रभो! सुबुद्धिनिर्बुद्धी कर्मणा केन मे सुतौ ? ॥ ४१६ ॥ जगाद गुरुरत्रैव नगरे निगमाङ्गजौ । विमलाचलनामानौ भ्रातरौ द्वौ बभूवतः॥४१७ ॥ तत्राद्यः प्रियवार दाता विनीतः। सरलाशयः । पुण्यनैपुण्यरोचिष्णुर्विपरीतोऽपरः पुनः॥ ४१८ ॥ भिन्नभिन्नस्वभावौ तौ निजे वंशे विरेजतुः । पयोनिधौ सुधाधामकालकूटाविव स्फुटम् ॥४१९॥ विमलस्यान्यदा साधुवन्दनार्थमुपेयुषः । विज्ञाय योग्यतां धर्मदेशनां विदधे गुरुः ॥ ४२०॥
526155*
३॥
**
Page #71
--------------------------------------------------------------------------
________________
दुष्प्रापं प्राप्य मानुष्यं धर्मः सम्यग् विधीयताम् । यतः स एव सर्वासां प्रतिभूः सुखसंपदाम् ॥ ४२१ ॥ सम्यग् ज्ञान क्रियारूपः स च सिद्धिनिबन्धनम् । यदुपेयस्य सम्पत्तिः शुद्धोपायं विना नहि ॥ ४२२ ॥ तत्रापि ज्ञानमेवाहुः प्रधानं सिद्धिसाधनम् । सम्यग्ज्ञानाविनाभावि साफल्यं यत्क्रियास्वपि ॥ ४२३ ॥ अतः सुखैषिणाऽऽराध्यं सम्यग्ज्ञानं मनीषिणा । दानाध्ययनसान्निध्यबहुमानाद्युपायतः ॥ ४२४ ॥ यः सम्यग्ज्ञानमन्यस्मै दत्ते चित्तेन निर्मलः । स्वस्मै तस्मै च सोऽविघ्नं ददौ केवलसंविदम् ॥ ४२५ ॥ महाम्भोधिमिवागाधं गाहते यो जिनागमम् । पुरुषोत्तमतां प्राप्य स वृणोत्यद्भुतां रमाम् ॥ ४२६ ॥ पुस्तकान्नवसत्यादिदानेन ज्ञानिनां सुधीः । सान्निध्यं विदधत् स्वस्य तनोत्यासन्न सिद्धिताम् ॥ ४२७ ॥ ज्ञाने ज्ञानिषु चामानं संमानं वितनोति यः । भवे भवेऽद्भुता ज्ञानलक्ष्मीस्तं वृणुते स्वयम् ॥ ४२८ ॥
इति धर्मगुरोर्वाणी पुण्यकाननसारणिः । ज्ञानभक्तिलतां तस्य हृदि पल्लवितां व्यधात् ॥ ४२९ ॥ अथायं कारयामास पुस्तिकाः स्वस्तिकाम्यया । प्रदीपिका इव स्वस्य मुक्तिवर्त्मप्रकाशने ॥ ४३० ॥ ज्ञानिनामेषणीयान्नभैषज्योपाश्रयाद्ययम् । ददौ ज्ञानमुपादातुं सत्यंकारमिव स्वयम् ॥ ४३१ ॥ अन्येद्युरनुजोऽवादीज्ज्ञानभक्ता तमुद्यतम् । जीवनस्य धनस्यैवं किं विधत्से मुधा व्ययम् ॥ ४३२ ॥ दत्ते चित्तेप्सितं ज्ञानमाराद्धं नहि नाकिवत् । न देशं नापि सीमानं प्रसन्न इव भूपतिः ॥ ४३३ ॥ मोदकेनेव न क्वापि तृप्तिर्ज्ञानेन जायते । न शीतलजलेनेव पिपासाऽप्युपशाम्यति ॥ ४३४ ॥ न सुवर्ण न दुर्वर्ण न रलं नापि गोधनम् । ज्ञानस्याराधनं दत्ते वाणिज्यमिव देहिनाम् ॥ ४३५ ॥ प्रकृत्यैव सरस्वत्याः सापत्न्यं श्रयते रमा । अतः स्वस्य सुखान्वेषी सेवते कः सरस्वतीम् ॥ ४३६ ॥ ततो धूर्तेन मूर्तेन दम्भेनेव प्रलम्भितः । वृथा कदर्थय
Page #72
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वितीयः प्रकाशः।
॥३२॥
4%94%ASIROHI
स्यर्थमात्मानं च किमग्रज !॥ ४३७ ॥ इत्याद्यवरजोक्ताभिर्बिभिदे न कुयुक्तिभिः । ज्येष्ठस्य हृदयं तं तु प्रत्युत प्रत्युवाच सः॥ ४३८ ॥ सिद्धौ सर्वपुमर्थानां समर्थस्य न सर्वथा। युज्यते विश्वमान्यस्य प्राज्ञ ! ज्ञानस्य निन्दना ॥४३९॥ वत्स ! स्वच्छीभवत्यात्मा मलिनोऽप्यान्तरैर्मलैः । सम्यग्ज्ञानेन कतकक्षोदेनेवोदधिर्घटः ॥४४॥ ज्ञानं नित्योदितो भानुर्ज्ञानं मित्रमकृत्रिमम् । दीपो ज्ञानमसंदीनो ज्ञानं नयनमान्तरम् ॥ ४४१॥ प्रकृत्या चपलत्वेन मार्गमुल्लङ्घय गच्छतः। ज्ञानं मनस्तुरङ्गस्य वल्गुवलगायतेऽङ्गिनाम् ॥ ४४२॥ तनोत्यवज्ञामज्ञात्मा ज्ञानस्य ज्ञानिनां च यः । तस्य दौर्गत्यमौव्याद्या विपदः स्युः पदे पदे ॥ ४४३॥ तस्मान्मा स्मापमानेन ज्ञानमाशीशतः सखे !। भवाय यदनन्ताय तस्याशातनमङ्गिनाम् ॥ ४४४ ॥ इत्यग्रजन्मना वाचोयुक्त्या प्रज्ञापितोऽपि सः । ज्ञानावज्ञामविज्ञात्मा जातु तत्याज नानुजः ॥ ४४५ ॥ किमु धौतोऽपि दुग्धौषैः काकस्त्यजति कृष्णताम् । कटुतां यदि वा निम्बः सुसिक्तोऽपि सिताजलैः॥४४६॥ | अयं तन्निन्दनोद्भूतप्रभूततमकर्मणा। सर्वतो वेष्टितात्मानं लूतेव निजलालया॥४४७॥ अन्येदुहृद्यथो दध्यौ विमलो विमला|शयः। अपारकार्यप्राग्भारव्यग्रस्य गृहमेधिनः ॥ ४४८॥ न जातु जायते सम्यग् ज्ञानस्याराधनं खलु । निकामं कामसक्तस्य विभवोपार्जनं यथा ॥४४९॥ युग्मम् ॥ त एव पुण्यजन्मानोऽध्ययनाध्यापनादिना । श्रुतज्ञानमविश्रान्तं सम्यगाराधयन्ति ये ॥४५०॥ इत्युदीक्ष्याऽऽददे दीक्षामयं संवेगभावितः । तृप्ता न जातु जायन्ते तत्त्वज्ञा धर्मकर्मणि ॥ ४५१॥ अयं सोद्यममध्यष्ट सिद्धान्तं गुरुसन्निधौ । एकादशाङ्गीमप्यङ्गीचकाराचिरकालतः ॥४५२॥ चक्रे भक्तिं यथाशक्ति गुर्वादीनामयं मुदा । विद्यानामादिमं बीजं विदुस्तामेव यद्वधाः ॥ ४५३ ॥ तपस्क्रियादौ न वापि प्रमादमयमादधे ।
Page #73
--------------------------------------------------------------------------
________________
||प्रमाणं तस्य हि ज्ञानं यतते यः क्रियास्वपि ॥ ४५४ ॥ क्रमाद्विमलमाचार्यपदे गुरुरतिष्ठिपत् । योग्यं सून विनेयं वा नियन्ति गुरवः श्रियम् ॥ ४५५ ॥ धाराधरः पयोधारा इव पुण्याङ्कुरावहाः । अयं विस्तारयामास सर्वतः शुद्धदेशनाःाद
॥ ४५६॥ निरवद्या ददौ विद्या विनेयेभ्यः स सादरम् । कलाचार्यः क्षमापालकुमारेभ्यः कला इव ॥ ४५७ ॥ वाचनादिप्रदानादौ श्राम्यति स्म न जातु सः। रणकण्डूलदोर्दण्ड इव संग्रामकर्मणि ॥ ४५८ ॥ इति स ज्ञानमाराध्य साधितानशनः सुधीः । ईशानेन्द्रसमानर्द्धिरीशाने त्रिदशोऽजनि ॥ ४५९ ॥ ततो दिवश्च्युतः सोऽयं सुबुद्धिस्ते सुतोऽजनि । ज्ञानाराधनया चास्य शेमुषी सर्वतोमुखी ॥ ४६०॥ अपलः स तु दुष्कर्म मर्माविज्ञाननिन्दनम् । सृजन्नाजीवितं मृत्वा द्वितीयं निरयं ययौ ॥ ४६१ ॥ तस्मादुद्धृत्य सोऽयं ते दुर्बुद्धिस्तनयोऽजनि । ज्ञानाशातनपापेन जज्ञे चाज्ञेषु शेखरः । ॥ ४६२ ॥ इत्याकर्ण्य नृपामात्यसुबुद्धयाद्याः ससंमदाः । निर्भरं बिभरामासुानस्याराधने धियम् ॥ ४६३ ॥ जनकेन समं श्राद्धधर्म स्वीकृत्य कृत्यवित् । सुबुद्धिर्भूधवाद्याश्च गुरुं नत्वा गृहं ययुः ॥ ४६४ ॥ जैन मतं कुलं च स्वं सुबुद्धिरुदभासयत् । शुद्धाभिर्बुद्धिभियोम भानुमानिव भानुभिः ॥ ४६५ ॥ क्रमात्तपस्यामासाद्य ज्ञानं चाराध्य नैकधा। सुबुद्धिः शुद्धधीर्मृत्वा ब्रह्मलोके सुरोऽजनि ॥ ४६६ ॥ ततश्चयुत्वा पुनः प्राप्य मर्त्यतां स तपस्यया। निर्मूल्याशेषकर्माणि प्रपेदे परमं पदम् ॥ ४६७ ॥ दुर्बुद्धिस्तु मुनेस्तस्योपदेशसलिलैरपि । नैर्मल्यं नाप दुष्कर्मा मलिनस्निग्धचीरवत् ॥४६८॥ अहो ! एभिरिदं की परिकल्प्यैव जल्प्यते । इत्यादि प्रत्युत ज्ञानिनिन्दां तेने तदाऽप्ययम् ॥४६९॥ ततस्तदुद्भवापारपापप्राग्भारभारितः । असावनन्तसंसारं भ्रमिष्यत्यतिदुःखितः ॥ ४७० ॥ धनश्रेष्ठिन्ननेनापि त्वत्सुतेनान्यजन्मनि ।
ROUGUSAMACHAR
Page #74
--------------------------------------------------------------------------
________________
दानप्रदीपे अचलेनेव ज्ञानस्य निन्दा मन्दात्मना दधे ॥ ४७१ ॥ बभूव धनशर्माऽयं दुर्मेधास्तेन कर्मणा । उप्यते यादृशं बीज लूयते द्वितीयः तादृशं फलम् ॥ ४७२ ॥ श्रुत्वेति धनशर्मान्तर्दध्यो सङ्ख्यौचितीयुतः । ह हा दुरन्तमत्यन्तं ज्ञानाशातनमङ्गिनाम् ॥
प्रकाशः। ॥ ४७३ ॥ एवं विशुद्धध्यानेन जातिस्मृतिमवाप सः । ततो मुनि मुदाऽवादीत्सत्यमेव तवोदितम् ॥४७४॥ स्वामिन्नपारसंसारभ्रमाद्रीतोऽस्मि साम्प्रतम् । प्रसद्यादिशतां ज्ञानावरणं गलिता कथम् ॥४७५ ॥ मुनिः माह विनाशः स्याज्ज्ञानावरणकर्मणः। ज्ञानदानादिदानीं तु तत्र साक्षात्त्वमक्षमः ॥ ४७६ ॥ ततस्तनुष्व सम्मानममानं ज्ञानतद्वतोः । ज्ञानिनां चान्नवस्त्राम्बुपुस्तकाद्यैरुपग्रहम् ॥४७७॥ इत्युक्तिं श्राद्धधर्म च प्रतिपद्य मुनेमुखात् । मुमुदानौ पितापुत्रौ निजं सदनमीयतुः॥४७८॥ निन्दं निन्दं स्वदुष्कर्म शर्मणे धनशर्मणा। छेदं छेदं यथा दारु तनिमानमनीयत ॥४७९॥ लेख लेखं स हर्षेण ४ ज्ञानिभ्यो विधिना ददौ । निर्वाणपण्यक्रयणे नाणकानिव पुस्तकान् ॥४८॥ प्रासुकांशुकभैषज्यभोज्याद्यैर्ज्ञानिना|मयम् । बहुमानादुपष्टम्भमतनिष्ट विशिष्टधीः॥ ४८१॥ इत्याराध्य त्रिधा शुद्धया ज्ञानमाप्यानवासनः । स्थिरबुद्धिरसी धर्मे सौधर्मे त्रिदशोऽभवत् ॥ ४८२ ॥ च्युत्वा ततः स साकेतनगरे नैगमाग्रणीः । जिनधर्मपरो जज्ञे धनमित्राभिधः| सुधीः ॥ ४८३ ॥ सविशेषमधीयानोऽप्येष तत्कर्मशेषतः। पठने क्वाप्यलंभूष्णुस्तद्भवेऽप्यभवन्न हि ॥४८४ ॥ प्रज्ञा तु
नेतुमाभोगमुद्योगममुचन्न सः। यतः प्रज्ञालतावृद्धौ स एवाभिनवाम्बुदः॥४८५ ॥ श्रीजिनागममन्यारधीयानः सुधीहरयम् । शुभध्यानपरः प्रापदपापः प्राग्भवस्मृतिम् ॥ ४८६ ॥ ततः पूर्वमिव ज्ञानोपष्टम्भमतनिष्ट सः । वैराग्येणोत्तरङ्गश्च ४
क्रमेण व्रतमग्रहीत् ॥ ४८७ ॥ ततस्तदीयमश्रान्तश्रुताभ्यासेन कर्म तत् । सद्योऽप्युच्छिन्नमुद्दामवायुनेवाभ्रमण्डलम्
Page #75
--------------------------------------------------------------------------
________________
X॥४८८ ॥ साङ्गोपाङ्गे श्रुतेऽधीती स्मरन् प्राग्भवदुष्कृतम् । ज्ञानदाने सयत्नेन प्रावर्तत ततश्चिरम् ॥ ४८९ ॥ क्रमादु
न्मूल्य कर्माणि घातीनि ध्यानपशुना । स प्राप केवलज्ञानं ज्ञानदानप्रभावतः॥ ४९० ॥ तत्र दुन्दुभिनादैा नादयन्तो
दिवौकसः। प्रसूनवृष्टिमाधाय व्यधुः पद्मं हिरण्मयम् ॥ ४९१॥ ४ निषण्णस्तत्र स ज्ञानी देशनां तेनिवानिति । इह देहभृतः सर्वे सुखमेवाभिलाषुकाः ॥ ४९२ ॥ तच्च सच्चरणादेव
तत् पुननितो भवेत् । ज्ञानं तु ज्ञानिभिः सम्यग् दीयमानमुदीयते ॥५९३ ॥ ज्ञानदाने ततो नित्यं यतवं विधिवदुधाः। अक्षयानि सुखानि स्युर्येन स्वस्य परस्य च ॥ ५९४ ॥ ज्ञानदानं च सूत्रार्थवाचनाध्यापनादिना । ज्ञानोपकरणान्नाद्यैर्जानिसाहायकादपि ॥ ५९५ ॥ ददानैराददानैश्च श्रुतमाराडुमिच्छुभिः । कालादिरष्टधाऽऽचारः पालनीयः प्रयत्नतः ॥ ५९६ ॥ तदुक्तमागमे____“काले विर्णए बहुँमाणे उहाणे तहा अनिन्हवणे । वंजण अंत्य तर्दुभये अढविहो नाणमायारो ॥१॥” इति ।
यस्य योऽङ्गप्रविष्टादेरुपदिष्टो जिनोत्तमैः । तं कालं तदधीयानः सुधीराराध्यति श्रुतम् ॥ ५९७ ॥ सेव्यमानं यथाकालं श्रुतं कृष्यौषधादिवत् । साकल्येन फलं दद्यादन्यथा तु विपर्ययः॥५९८ ॥ विकाले च श्रुताध्येतुः फलाभावो न केवलम् । जिनाज्ञालोपतो लोकद्वयेऽपाया अपि स्फुटम् ॥ ५९९ ॥ तथाहि वचन स्वच्छ गच्छे कश्चिन्मुनीश्वरः । कालिकं सान्ध्यकालेन परावर्तयति श्रुतम् ॥ ५०० ॥ पौरुष्यामप्यतीतायां न व्यरंसीच्च विस्मृतेः । स हि शास्त्ररसो यत्र न रसान्तरवेदनम् ॥ ५.१ ॥ सम्यग्दृष्टिः सुरी वीक्ष्य तं तथा काऽप्यचिन्तयत् । प्रमादिनमिमं प्रान्तदेवता मा स्म
Page #76
--------------------------------------------------------------------------
________________
G
545
दानप्रदीपे
चच्छलत् ॥ ५०२॥ कृत्वाऽथ रूपमाभीर्या मूर्ध्नि तक्रघटं च सा । गृह्यतां तक्रमित्युच्चै?षमाघोषयन्मुहुः॥ ५०३ ॥
|द्वितीयः गतागतान्यतानीच्च पौनःपुन्येन तत्पुरः। तद्घोषस्खलितश्रौतध्यानस्तामभ्यधान्मुनिः ॥ ५०४॥ तक्रविक्रयणे वेला केयं
प्रकाश मुग्धे ! तवाधुना!। साऽप्यवादीदहो! कोऽयं कालस्ते कालिकश्रुते ॥५०५॥ अथो यतिरुपायुक्त नेयं स्त्री प्राकृती किल। मध्यरात्रं च निश्चित्य द्राग मिथ्यादुष्कृतं ददौ ॥५०६॥प्रत्यक्षा सा तमाचख्यौ मुने ! मैवंविधाः पुनः । छलयन्ति यतः क्षुद्रदेवाः साधुं प्रमद्वरम् ॥ ५०७ ॥ शिक्षयित्वेति तं दक्षा देवता सा तिरोदधे । यथाकालं श्रुताध्यायी || क्रमात्सोऽप्याप सद्गतिम् ॥ ५०८॥ अतः सुधीरधीयीत यथाकालं जिनागमम् । जायन्ते येन निर्विनमिह प्रेत्य च सम्पदः॥ ५०९॥ कालः॥
तथा गृह्णन् श्रुतं कुर्यान्निर्मायं विनयं गुरोः। प्रवर्धन्ते यतो विद्यास्तत एवोत्तरोत्तरम् ॥५१०॥ जायन्ते विनयादवे विनेयास्तनयास्तथा । सकलानां कलानां च सम्पदां च पदं स्फुटम् ॥५११॥ तिर्यञ्चोऽपि विनीता ये नानाश्चर्यकरीः कलाः । वीक्ष्य ताः शिक्षिता दक्षर्लभन्ते तेऽद्भुतां श्रियम् ॥ ५१२ ॥ प्रायः सर्वाणि कार्याणि विनयादेव देहिनाम् । सिध्यन्ति किं पुनर्विद्या लोकद्वयहितावहा॥५१३ ॥ विद्या स्वभ्यस्यमानाऽपि न फलेद्विनयं विना । पाल्यमानाऽपि धान्य|श्रीरनुकूलमिवानिलम् ॥५१४ ॥ गुरोरुच्चासनं पादशौचं संवाहनादि च । स्वस्य नीचासनाधं च विनयोऽनेकधा स्मृतः
॥३४॥ ॥५१५ ॥ अप्यैहलौकिकी विद्या गृहीता विनयादृते । भवेत्फलवती नैव किं पुनः पारलौकिकी ॥ ५१६ ॥ तथाहिपुरं राजगृहं नाम श्रेणिकस्तत्र भूपतिः। अन्येाश्चिलणादेवी तमवादीदलङ्घयवाक् ॥ ५१७ ॥ स्वामिन् ! मदर्थमा.
-
RANG
94
Page #77
--------------------------------------------------------------------------
________________
वासमेकस्तम्भं विधापय । नृपाज्ञप्तास्तदर्थं च जग्मुर्वर्धकयो वनम् ॥ ५१८ ॥ पुरस्कृत्याभयामात्यमटन्तः परितोऽटवीम् । दुमं दिव्यमहोत्तुङ्ग ते व्यलोकन्त कञ्चन ॥ ५१९ ॥ प्रपूज्य धूपपुष्पाद्यैर्जगदुस्ते दुमं प्रति । पर्यग्रहीद्रमं योऽमुं स स्वं
दर्शयतां सुरः ॥ ५२० ॥ तथा च न दुमं छिद्मश्छेत्स्यामः पुनरन्यथा । प्रत्यक्षीभूय तद्यक्षस्तानाचख्यौ स्वयं ततः ४॥ ५२१॥ दुमं मे च्छत मा स्मैतमेकस्तम्भं गृहं त्वहम् । कुर्वे सर्वतुकारामरम्यमुत्तुङ्गवेदिकम् ॥५२२॥ हृष्टास्तेऽथ पुरं|
प्राप्तास्तन्नपाय व्यजिज्ञपन् । यक्षोऽप्यावासमस्राक्षीद्यथाख्यातं क्षणेन सः ॥ ५२३ ॥ दिव्यभोगान् समं राज्ञा बुभुजे तत्र चिल्लणा । किं न सम्पद्यते कान्तमुनुकूले स्वकर्मणि ॥५२४ ॥ तत्राकालेऽन्यदैकस्याः श्वपाक्याः समपद्यत । आम्राणां दोहदः सा च तमवोचन्निजं पतिम् ॥ ५२५ ॥ सोऽप्यकालतयाऽन्यत्र तदप्राप्तिं विभावयन् । रजन्यां स्तेन्य-| वृत्त्या तं नृपाराममुपागमत् ॥ ५२६ ॥ बहिःस्थितोऽवनामिन्या विद्ययाऽवनमय्य सः। प्रशाखां सहकारस्य फलान्यादत्त पाणिना ॥ ५२७ ॥ उन्नामिन्या पुनस्तां चोन्नमय्य गृहमागतः। नायासं प्रेयसीपाशविवशाः कमुपासते ॥५२८॥ प्रशाखां तां प्रगे रिक्तां विलोक्य चकितो नृपः । अपश्यंश्च पदं क्वापि चिन्तयामास विस्मितः॥ ५२९ ॥ क एष तस्करो यस्य शक्तिरत्यद्भुतद्देशी । नाप्रभूष्णुरुपद्रोतुं ममान्तःपुरमप्ययम् ॥ ५३० ॥ इत्याशङ्काकुलः शीघ्रमाकायोभयमभ्यधात्। रजन्यां हृतदिव्यानं तस्करं प्रकटीकुरु ॥ ५३१॥ अथाभयः स्वयं चौरं गवेषयितुमुद्यतः । परितः पुरमभ्राम्यत् कूपारामप्रपादिषु ॥ ५३२ ॥ पुरान्तः स विभावर्याः प्रारम्भेऽन्तश्चतुष्पथम् । क्वापि प्रेक्षणके प्रेक्षां बभूव जनपेटकम् ॥५३३॥ बमाण च जना भो ! भो! नाव्यं यावदयं नटः । प्रस्तावयति तावन्मे शृणुतावहिताः कथाम् ॥५३४ ॥ श्रेष्ठी गोव
Page #78
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशः।
दानप्रदीपे
धनः सर्वनिःस्वप्रष्ठः क्वचित्पुरे । तस्य रूपवती कन्या नामतोऽप्यर्थतोऽपि च ॥ ५३५ ॥ पितुःस्वादिना स्वान्तकान्त
कान्तमनाप्नुषी । ख्याता वृद्धकुमारी सा तमाप्तुं स्मरमार्चयत् ॥ ५३६ ॥ चौर्येण क्वचिदाराम कुर्वाणां कुसुमोच्चयम् । ॥३५॥ तामुपद्रोतुमारेभे रागादारामिकोऽन्यदा ॥ ५३७ ॥ सा जगौ मा कुमारी मां विनाशय महाशय ! । सोऽप्यवोचत मुञ्चे
त्वां तदा सुन्दरि ! सम्प्रति ॥ ५३८ ॥ यदि व्यूढा सती भोगान् प्रियेणाभुक्तपूर्विणी । सकृन्मे पार्श्वमायासि नान्यथा तु कथश्चन ॥ ५३९ ॥ ओमित्युक्तवती तेन मुक्का सा स्वपदं ययौ । उपयेमेऽनुरूपश्चान्येास्तां कश्चिदिभ्यसूः ॥५४॥ |निशि सा स्फारशृङ्गारा वासवेश्म समीयुषी । पत्युः सत्यप्रतिज्ञा सा स्वप्रतिज्ञातमाख्यत ॥ ५४१॥ विचार्य वाचि नैश्चल्यं तस्याः सोऽपि चमत्कृतः। व्यसृजत्तां तमारामं प्रति साऽप्यचलत्तदा ॥ ५४२ ॥ गृहीता पथि सा चौरैर्यथास्थं तानचीकथत् । विस्मितास्तेऽप्यमुञ्चस्तां स्वीकार्य पुनरागमम् ॥ ५४३ ॥ षण्मासी क्षुधितश्चाने राक्षसस्तामवैक्षत । मुक्ता तथैव तेनापि निर्विघ्नं प्राप मालिकम् ॥ ५४४ ॥ तां बभाण ससंभ्रान्तः सुभगे! कथमागमः । साऽप्यजल्पदुपेताऽस्मि
प्रतिज्ञापाशसंयता ॥ ५४५ ॥ विस्मितः स पुनःप्रोचे प्रियेणामुच्यथाः कथम् । ततस्तदादिवृत्तान्तं साद्यन्तं तस्य साऽवददत् ॥ ५४६ ॥ योषाऽप्येषा प्रतिज्ञायामहो ! कीदृग् दृढव्रता । स्ववचःपालनायैवं या दुःसाधमसाधयत् ॥ ५४७ ॥ शक्ति
मद्भिरपीयद्भिर्मुमुचेऽसौ कथं त्वहम् । अस्यै दुह्याम्यगायै वर्यायै निर्मलैर्गुणैः ॥ ५४८ ॥ इति तच्चरितेनान्तर्मालि-1 |कोऽपि चमत्कृतः। भगिनीमिव संमान्य व्यसृजत्तां गृहं प्रति ॥ ५४९ ॥ रजनीचरचौराभ्यामपि त्यक्ता तथैव सा । निजमावासमायासीद्वहिरन्तरविप्लता ॥ ५५० ॥ प्रियोऽपि तच्चरित्रेण चित्रीयितमना भृशम् । तां गृहस्वामिनी चक्रे गुणे
॥३५॥
Page #79
--------------------------------------------------------------------------
________________
कस्य हि नादरः १ ॥ ५५१ ॥ अहो सभासदो ! युष्मानहं पृच्छामि कथ्यताम् । भर्त्रादिषु चतुर्व्वेषु चक्रे केनात्र दुष्करम् ? ।। ५५२ ॥ आख्यनीयलवो भर्त्रा क्षुधार्त्तास्तु नृचक्षसा । कामुकास्तु मालिकेन स मातङ्गस्तु दस्युना ॥ ५५३ ॥ ततोऽवगत्य तं चौरमार्पयद्भूभुजेऽभयः । पृष्टश्चौरोऽपि भूपेन यथास्थितमवोचत ।। ५५४ ॥ राजाऽऽह चेदिमे विद्ये दत्से तर्हि तवाभयम् । ददामीत्युदिते तेन नृपोऽध्येतुमढौकत ॥ ५५५ ॥ पठिताऽपि मुहुर्विद्या नैकाऽप्यस्य हृदि स्थिता । विलक्षः क्ष्माभृदाख्यत्तं विद्या किं मे न तिष्ठति १ ।। ५५६ ॥ मातङ्गोऽपि जगौ राजन्नधीषे विनयं विना । उच्चासननिषण्णस्त्वमहं भूमीतले पुनः ॥ ५५७ ॥ अथोत्तीर्यासनाद्राज्ञस्तत्र चारोप्य तं मुदा । पठतस्ते उभे विद्ये हृद्यस्थातां सपद्यपि ॥ ५५८ ॥ अतो ब्रूमः समग्राणां विद्यानां विनयः पदम् । तत्पूर्वकमधीता हि सिद्धिं यान्त्यचिरेण ताः ॥ ५५९ ॥ विनयः ॥ २ ॥
बहुमानस्तथा कार्यो गृह्णानेन श्रुतं गुरोः । स चान्तरो बुधैर्भावप्रतिबन्धोऽभिधीयते ॥ ५६० ॥ गृहीतं बहुमानेन गुरोरन्तिषदां श्रुतम् । उत्तरोत्तरमुत्कृष्टां विधत्ते फलसम्पदम् ॥ ५६१ ॥ विनये बहुमाने च चतुर्भङ्गीति गीयते । कापि द्वौ कापि चैकैकः काऽपि द्वावपि नैव तौ ॥ ५६२ ॥ विनयो निष्फलः प्रायो बहुमानं विना पुनः । अन्तरङ्गो विधि|र्यस्माद्वलीयान् बहिरङ्गतः ॥ ५६३ ॥
श्रूयतां ज्ञातत्रार्थे क्वापि पर्वतकन्दरे । यक्षमूर्तिः शिवेत्याख्या ख्याता साऽतिशयत्वतः ॥ ५६४ ॥ तां द्विजन्मा | पुलिन्दश्च सपर्यामासतुः सदा । विनयं बहुमानस्य तानवेऽपि व्यधाद्विजः ॥ ५६५ ॥ शुचिश्वीरे शरीरे च संस्नाप्य स्वच्छवारिणा । प्रपूज्य प्राज्यपुष्पैश्च स स्तवैरस्तवीन्नवैः ॥ ५६६ ॥ पुलिन्दः पुनरुन्निन्द्रः सम्यग्भावेन तं शिवम् । प्रातः
Page #80
--------------------------------------------------------------------------
________________
दानप्रदीपे
BASANCHAR
प्रत्यहमानम्य सिषेच चुलुकाम्बुना ॥ ५६७ ॥ तस्याऽकृत्रिमया भक्त्या तुष्टस्तेन समं रहः । शुभप्रश्नादिका यक्षः प्रथया
द्वितीयः मास संकथाः ॥ ५६८ ॥ कुर्वाणं तं तथाऽऽलोक्य द्विजातिर्जातमत्सरः । शिवं पूर्वमिवाभ्यर्च्य सरोषमधिचिक्षिपे
प्रकाशः। ॥ ५६९ ॥ यादृक् ते सेवको नीचस्ताहगेव त्वमप्यसि । मुक्त्वा भक्तं द्विजातिं मां यत्त्वं मन्त्रयसेऽमुना ॥ ५७०॥ यक्षोऽप्याख्यद्यथाऽमुष्य बहुमानस्तथा न ते । ज्ञाताऽसि च स्वयं प्रातरात्मनस्तस्य चान्तरम् ॥ ५७१ ॥ अवज्ञाय गिरं तस्य द्विजः प्राप निजं गृहम् । यक्षस्तु चक्षुरुत्खाय परीक्षायै निशि स्थितः॥ ५७२ ॥ शय्योत्थायं द्विजः प्रातः प्राप्तो यक्षनिकेतनम् । निरीक्ष्य यक्षमेकाक्षं दुःखितो व्यलपन्मुहुः ॥ ५७३ ॥ भक्त्यमन्दः पुलिन्दस्तु तदा तत्र समागतः। वीक्ष्य तच्चक्षुरुत्खातं दु:खितो हृद्यखिद्यत ॥ ५७४ ॥ भक्तयुद्रेकवशात्स्वेन बाणोत्खातेन चक्षुषा । सद्यश्चानर्च तन्मति दुःशकं भाक्तिकस्य किम् ॥ ५७५ ॥ अहो ! द्विज ! त्वया दृष्टं भके स्वस्यास्य चान्तरम् । इस्युक्त्वा द्राक् शिवश्चके | पुलिन्दं चारुदृग्युगम् ॥ ५७६ ॥ ऊचे च वत्स ! तुष्टस्ते भक्त्या निर्णिक्तयाऽनया । मम प्रसादतो लक्ष्मीरक्षया ते भविव्यति ॥ ५७७ ॥ पुलिन्दस्तत्प्रसादेन परां सम्पदमाश्रितः । बभूव सुखितः सम्यग् भक्तिः किं न फलप्रदा?॥५७९॥ अतो मैं विशेषतः शास्त्रमधीयानः सुधीगुरोः। निर्मायं विनयं कुर्याद्वहुमानमनोहरम् ॥ ५७९ ॥ बहुमानः॥३॥
उपधानमथो वक्ष्ये श्रुतं येनोपधीयते । सम्यगाराधनद्वारा तच्चानेकविधं तपः॥५८०॥ यत्तपोऽध्ययने यत्र गदितं गण-18 धारिभिः। तत्पूर्वकं तदध्येयं तथैव सफलं यतः॥५८१॥तपो विना न सिध्यन्ति मन्त्रा अप्यैहिका जने। किं पुनः परलोकार्थ- ॥३६॥ साधकः श्रीजिनागमः॥५८२॥तपसा हि क्षयःप्राच्यज्ञानावरणकर्मणः। तत्क्षये च श्रुतज्ञानं सुखेनैवोपतिष्ठते ॥५८३॥ तथा हि
CHANA
Page #81
--------------------------------------------------------------------------
________________
जाह्नवीतीरवास्तव्यौ सोदरौ पुण्यसादरौ । क्वाप्यतुच्छे व्रतं गच्छे स्वच्छेनाश्रयतां हृदा ॥ ५८४ ॥ ग्रहणासेवनाशिक्षे मङ्ख मुख्यमुमुक्षवः । शैक्षौ तौ शिक्षयामासुः श्रेयान सर्वो हि शिक्षितः ॥ ५८५ ॥ पटुप्रज्ञः क्रमेणाद्यः श्रुतपारीणतां श्रितः । आचार्यपदवी प्राप पदं विद्या हि संपदाम् ॥ ५८६॥ स्वल्पमेव श्रुतं भेजे द्वितीयः पुनरल्पधीः । सरस्वत्यपि लक्ष्मीवत्कर्मान्वेति पुराकृतम् ॥ ५८७ ॥ स ददानः श्रुतं सूरिविनेयेभ्यः कदापि न । लेभे विश्राममर्थिभ्यो भुक्ति दाता यथाऽवमे ॥ ५८८ ॥ सूत्रार्थचिन्तनप्रश्नादिभिः शिष्यविनिर्मितैः । निशायां शायिकाऽप्यस्य नाजायत सुखाकरी ॥ ५८९ ॥ भ्राता तस्य पुनः स्वैरं स्वैरङ्गैरतिमांसलः । सुखं भुते सुखं शेते सुखं चास्ते स्म सन्ततम् ॥ ५९० ॥ तं च पश्यन्नयं सूरिर्दध्यौ सद्धयौचितीवियुक् । अयं मे बान्धवो धन्यः सुखी योऽस्ति दिवानिशम् ॥ ५९१॥ अजाकृपाणकल्पेन विज्ञानेनामुनान्वहम् । नीतोऽस्मि कीदृशीं दुःखदशां पशुरिवान्दुना ॥ ५९२ ॥ ज्ञानप्रद्वेषवानेष उद्विग्नो वाचनादितः । स्वाध्यायेऽपि विनेयानामस्वाध्यायिकमादधे ॥ ५९३ ॥ ज्ञानमाशातयन्नेवं ज्ञानघ्नं कर्म दुर्मतिः । अयं बबन्ध दुष्कर्म प्रमत्तः किं करोति न? ॥ ५९४ ॥ ज्ञानातीचारमित्येनमनालोच्य विपद्य च । स्थिरश्चारित्रधर्मेऽसौ सौधर्मेऽभूत्सुधाशनः ॥ ५९५ ॥ ततोऽयमजनि ग्रामे क्वचिदाभीरनन्दनः। कन्या तेनानुरूपा च यौवने पर्यणीयत ॥ ५९६ ॥ अभूदर्थानुरूपाहा सुरूपा तस्य कन्यका । स्मरमत्तद्विपक्रीडावनं यौवनमाप च ॥ ५९७ ॥ सारथ्याय रथस्याग्रे तां निवेश्य विशारदाम् । पुरं प्रति प्रतस्थेऽयं घृतं विक्रेतुमन्यदा ॥ ५९८ ॥ चेलुस्तेन समं लुब्धास्तस्या रूपनिरूपणे । घृतविक्रयदम्भेन परेऽप्याभीरदारकाः ॥ ५९९ ॥ तामग्रेतनगन्त्रीस्थामेकाग्रं पथि पश्यताम् । प्रवृत्तान्युत्पथे तेषामनांसि च
Page #82
--------------------------------------------------------------------------
________________
दानप्रदीपे
सत्वरम् ।नही
द्वितीयः प्रकाश।
॥३७॥
मगुरम् । मिनामाचख्यपन |
विरक्तिलंधक पराकटतस्याः ला
तमुपाद
से मनांसि च ॥६००॥ भग्नान्यनांसि वान्योन्यमास्फल्यास्फल्य सत्वरम् । न हानि तनुते का कामजितेन्द्रियता नृणाम् ?
॥ ६०१॥ संभूयाथ विलक्षास्ते तयोराख्यामचिख्यपन् । असावशकटैतस्याः पिता त्वशकटापिता ॥६०२॥ एवं चालोक्य |वैराग्यं तस्याऽभवदभङ्गरम् । मितेनापि निमित्तेन विरक्तिलेघुकर्मणाम् ॥ ६०३ ॥ ततो दत्ते स्म कस्मैचिदयं वित्तान्वितां
सुताम् । स्वयं च क्वचनातुच्छे गच्छे व्रतमुपाददे ॥ ६०४॥ स चाभियोगवान् योगवावहिः केशसासहिः । अध्यगीष्ट |श्रुतं यावदुत्तराध्ययनत्रयम् ॥ ६०५॥ उद्दिष्टेऽध्ययने तुर्ये प्राच्यं तस्योदियाय तत् । ज्ञानावज्ञाभवं कर्म न हि शक्यस्तदत्ययः॥६०६॥ ततो दिनद्वयं तस्य पठतोऽप्यभियोगतः । आचाम्लकारिणो नैकमपि तस्थौ पदं हृदि ॥ ६०७॥ गुरवस्तं जगुर्वत्स ! यावन्नेदमधीयते । न स्यात्तावदनुज्ञाऽस्य योगस्त्वाचाम्लरूपकः ॥६०८॥ एवमस्तु ममापीति प्रतिपद्य स उद्यतः। तस्याद्यं पद्यमध्येतुमारब्धाचाम्लकर्मठः॥६०९॥ दिवानिशमविश्रान्तमुच्चै?षं जुघोष च । नास्थात्तु पदमप्यस्य हृदि पारदवत्करे ॥ ६१० ॥ घोषं तस्य मुहुः श्रुत्वा सम्यगायाततत्पदाः । भूयांसोऽपि लघीयांसो जहसुस्तमनेकधा ॥ ६११॥ भृशं विस्मृतिशीलश्च स्मारितोऽपि मुहुर्मुहुः । पदं मिथ्योच्चरमाणः स गुरूनुदवीविजत् ॥ ६१२ ॥ अन्वशात्तं गुरुवर्णविपर्यासादिदूषितम् । पुनः पुनरधीयानो वत्साशातयसि श्रुतम् ॥ ६१३ ॥ न्यूनाधिकविपर्यस्तवर्णोच्चारा|दिना श्रुतम् । आशातयन्नवाप्नोति प्रत्यवायाननेकशः॥ ६१४ ॥ अतस्त्यक्त्वा श्रुताधीति तत्त्वभूतं जिनागमे । वत्स!! मा रुष्य मा तुष्य पदद्वयमिदं पठेः ॥ ६१५॥ ततस्तद्वयमेवैष सविशेषमघोषयत् । विनीतानां यतः सर्वा गुर्वायत्ताः प्रवृत्तयः॥ ६१६ ॥ वर्ण नूनं तदप्येष जुघोष प्राकृतं मुहुः । ततश्च तं जना मासतुसेत्यभिधमभ्यधुः ॥ ६१७ ॥ नार्थ
Page #83
--------------------------------------------------------------------------
________________
तस्त वथा चक्रे पदे द्वे अपि जातु सः। यतः स्तुत्युपहासाभ्यां न तुतोष रुरोष न ॥६१८॥ इत्याचाम्लतपस्तीनं तप्यमानस्य | तस्य तत । कर्म द्वादशवत्सर्या विशीर्ण जीर्णरजुवत् ॥ ६१९ ॥ ततः सोऽध्ययनं तुर्यमध्यगीष्ट विशिष्टधीः । क्रमेण च समग्रेऽपि श्रुते पारीणतां दधौ ॥ ६२० ॥ घातिकर्मक्षये जाते केवलज्ञानमाप्य सः । जगाम कर्मनिर्मुक्तः क्रमेण | परमां गतिम् ॥ ६२१ ॥ अतः सुधीरधीयीतोपधानेन जिनागमम् । अस्मिन् भवे परस्मिंश्च सुलभोऽयं भवेद्यथा ॥ ६२२ ॥ उपधानम् ॥ ४॥
तथा न निह्नवं कुर्याद्वरोरात्तश्रुतः सुधीः । यत्सकाशे यदध्यैष्ट तत्राचष्टे तमेव हि ॥ ६२३ ॥ आख्यानेऽन्यस्य कालुष्यं निजचित्तस्य जायते । सिद्धाऽपि यत्नतो विद्या भवेत्फलवती न च ॥ ६२४ ॥
पुरे स्तम्भपुरे कोऽपि क्षुरभाण्डेन चण्डिलः। प्रसिद्धतां दधौ विद्याबलादम्बरलम्बिना ॥ ६२५ ॥ तस्माद्विधिवदाराद्धाद्विद्यामम्बरलम्बिनीम् । परिव्राट् कोऽपि जग्राह नीचाग्राह्या कला न किम् ॥ ६२६ ॥ ततश्चम्पापुरी प्राप्तो वियमण्डलमण्डनम् । त्रिदण्डं स्वं स तन्वानः पूज्यते स्म महाजनैः ॥ ६२७ ॥ ख्यातिमाकर्ण्य राज्ञाऽपि बहुमानादमानि सः। पृष्टश्च ते तपःशक्तिर्विद्याशक्तिरुतेदृशी ॥ ६२८ ॥ सोऽप्यजल्पन्महीपाल ! विद्याशक्तिरियं मम।नृपोऽप्यूचे गुरुस्तर्हि कस्ते कुत्रास्ति ? चोच्यताम् ॥ ६२९ ॥ त्रपया निढुवानस्तं स दाण्डाजिनिको गुरुम् । कपोलकल्पनां कृत्वा प्रत्यजल्पन्महीपतिम् ॥ ६३०॥ हिमालयमहातीर्थवासिनः सुतपस्विनः । विमुक्तिदेवपादा मे विद्याया गुरवोऽभवन् ॥ ६३१ ॥ गुर्वपह्नवपापेन कुपिता देवता ततः। क्षितौ खडखडत्तस्य द्राक् त्रिदण्डमपातयत् ॥ ६३२ ॥ तादृशं तस्य
Page #84
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ३८ ॥
G
पापं च जुघोष व्योमभाषया । तच्चाकर्ण्य नरेन्द्राद्या निनिन्दुस्तं त्रिदण्डिनम् ॥ ६३३ ॥ अतो न धीमता कार्यः सर्वथा गुर्वपह्नवः । वाञ्छयते यदि विद्यायाः फलं लोकद्वये शुभम् ॥ ६३४ ॥ अनिह्नवः ॥ ५ ॥
व्यञ्जनाभयैः शुद्धं तथाऽधीते सुधीः श्रुतम् । यदशुद्धमधीयानस्तदाशातयति ध्रुवम् ॥ ६३५ ॥ तत्रोक्तं व्यञ्जनं वर्णस्तेन न्यूनाधिकं पठन् । लोकद्वयेऽप्यवाप्नोति प्रत्यवायानसंशयम् ॥ ६३६ ॥ भिद्यते वर्णभेदेऽर्थस्तद्भेदे च क्रियाभिदा । तद्भिदायामभीष्टार्थनाशोऽनर्थश्च निश्चितम् ॥ ६३७ ॥
वर्णाधिक्ये कथा तत्र कुणालस्य निशम्यताम् । अत्रैव भरतक्षेत्रे पाडलीपुरपत्तनम् || ६३८ || मौर्यवंशाम्बुधाविन्दुबिन्दुसारनृपाङ्गभूः । अशोकश्रीनृपस्तत्र पवित्रचरितोऽभवत् ॥ ६३९ ॥ कुणालस्तस्य कस्याश्चित्प्रेयस्यास्तनुभूरभूत् । बाल्येऽप्यस्मै नृपः स्नेहाद्ददावुज्जयिनीं पुरीम् ॥ ६४० ॥ नृपादिष्टैर्भटैस्तस्यां पाल्यमानः स जीववत् । जज्ञेऽष्टवर्षदेश्यस्ते तं च राज्ञे व्यजिज्ञपन् ॥ ६४१ ॥ दध्यौ भूपः कुमारोऽयमध्यापयितुमर्हति । कुमाराः शैशवाभ्यस्तकला हि कुलमण्डनम् ॥ ६४२ ॥ ' अधीय' कुमारोऽयमिति प्राकृतभाषया । लेखं सुखावबोधार्थं लिलेखाथ स्वयं नृपः ॥ ६४३ ॥ तस्मिन्नमुद्रिते राजा देहचिन्तार्थमुत्थितः । विमाता च कुमारस्य तत्रस्था तमवाचयत् ॥ ६४४ ॥ व्यमृशच्च कुमारेऽस्मिन् सर्वराजगुणाश्रये । अव्यङ्गे न हि मे राज्यवार्ताऽपि तनुजन्मनः ॥ ६४५ ॥ ततस्तत्कालधीर्बिन्दुमकारे तत्र सा ददौ । निधानं कूटबुद्धीनां हृदयं हि मृगीदृशाम् ॥ ६४६ ॥ नरेन्द्रोऽपि प्रमादेनाप्रतिवाचितमेव तम् । अमुद्रयत्स्वहस्ते नोज्जयिन्यां प्रजिघाय च ॥ ६४७ ॥ पितृवर्गाङ्कितं लेखं कुमारः प्रेक्ष्य हर्षितः । द्वाभ्यामादाय पाणिभ्यां न्यधत्त निजमूर्द्धनि ॥ ६४८ ॥
द्वितीयः प्रकाशः ।
1132 11
Page #85
--------------------------------------------------------------------------
________________
वाल्याच्च वाचयामास पार्श्वस्थसचिवेन तम् । सचिवस्तु भृशं भेजे वाचयित्वा विषण्णताम् ॥ ६४९ ॥ तस्मिन्नविमि श्राक्षे लेखार्थं वक्तुमक्षमे । कुमारस्तत्करालेखं प्रसह्य खयमाददे || ६५० ॥ स्वयं च वाचयामास चिन्तयामास चाशये । 'अंधीयड' कुमारोयमित्यक्षर निरीक्षणात् ॥ ६५१ ॥ मया दुर्विनयः कोऽपि नूनमज्ञेन निर्ममे । मदन्धीकरणे लेखं प्रैषीद्वेपीव यत्पिता ॥ ६५२ ॥ मौर्यान्वये न गुर्वाज्ञालोपकः कोप्यभूत्पुरा । तल्लोपाध्याधुनाऽन्येषां तन्मा भून्मत्प्रवर्तितः ॥ ६५३ ॥ | इत्यामृश्य परीवारवार्यमाणोऽपि धैर्यवान् । नयने स्वयमानञ्ज स तप्तायः शलाकया । ६५४ ॥ अशोकस्तं तथाऽऽकर्ण्य | शोकमस्तोकमाश्रितः । धिक्कूटलेखकोऽस्मीति निनिन्द स्वं मुहुर्मुहुः ॥ ६५५ ॥ दुर्दैवाधिष्ठितो नूनमभाग्यग्रामणीरहम् । जज्ञे यन्मे प्रमादेन कुमारस्येदृशी दशा ॥ ६५६ ॥ यौवराज्यं वितीर्यास्मै दास्ये साम्राज्यमप्यहम् । अयं मनोरथो मेऽद्य मनस्येव व्यलीयत ॥ ६५७ ॥ ततस्तस्मै ददौ भूपः समृद्धमपरं पुरम् । तत्सापत्नकुमाराय पुरीमुज्जयिनीं पुनः ॥ ६५८ ॥ कुणालोऽमंस्तदुर्मातुस्तदकृत्यं कुतश्चन । चिरं तिष्ठत्यनाम्राणं विष्ठा दुश्चेष्टितं च न ॥ ६५९ ॥ भुञ्जानस्य पुरं तस्यापरेद्युहृद्यलक्षणः । पुत्रः पवित्रयन् गोत्रं जातः पत्न्यां शरश्रियाम् ॥ ६६० ॥ वर्द्धापिनकृते दास्यै कुणालः पारितोषिकम् । वितीर्य बहुधा चक्रे पुत्रजन्ममहोत्सवम् ॥ ६६१ ॥ विमातुर्निर्ममे तस्या वृथैवाद्य मनोरथम् । इत्ययं पाटलीपुत्रं प्रययौ राज्यलिप्सया ॥ ६६२ ॥ वशीकुर्वन्नपूर्वेण गान्धर्वेण पुरीजनम् । तत्रायं स्वैरचारेण चचारान्तश्चतुष्पथम् ॥ ६६३ ॥ अगायद्यत्र यत्रायं वाग्माधुर्यातितुम्बरुः । सरङ्गास्तत्र तत्रागुः कुरङ्गा इव नागराः ॥ ६६४ ॥ तथाssकर्ण्य तमाकार्य गताक्ष इति संसदि । जवन्यन्तरितं कृत्वा गातुं नृपतिरादिशत् ॥ ६६५ ॥ यथास्थानाहितैर्मन्द्रमध्यतारैः स्वरैरयम् । षड्जा
Page #86
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥ ३९ ॥
दिभिर्जगौ गीतं चित्रीयितसभाजनम् || ६६६ ॥ गान्धर्वेणाद्भुतेनास्य विस्मितेन महीभुजा । भो ! वरं वरयेत्युक्तः सद्यः पद्यमयं जगौ ॥ ६६७ ॥ प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य पुत्रजः । अशोकनृपतेः सूनुरन्धो याचति काकिणीम् ॥ ६६८ ॥ अथोपलक्ष्य तं सूनुमुत्सार्य जननीं जवात् । क्ष्मापो हर्षविषादाश्रुमिश्राक्षः परिषस्वजे ॥ ६६९ ॥ ऊचे च काकिणीमात्रं वत्स ! किं तुच्छमर्थितम् ? । तस्मिंस्तस्थुषि तूष्णी के निष्णाता मन्त्रिणो जगुः ॥ ६७० ॥ राजन् ! राजकुमाराणां काकिणी राज्यमुच्यते । राजाऽप्युवाच हे वत्स ! राज्यं ते कथमीदृशः ॥ ६७१ ॥ आललाप कुणालोऽपि तात ! जातोऽस्ति मे सुतः । राज्येऽभिषिच्यतामेष दिष्ट्या पौत्रेण वर्धसे ॥ ६७२ ॥ महीपालस्तमप्राक्षीत्कदा तेऽजनि नन्दनः १ । कृताञ्जलिः | कुणालोऽपि सम्प्रत्येवेत्यची कथत् ॥ ६७३ ॥ तदैवानाय्य तं पौत्रममात्रप्रमदो नृपः । सम्प्रतीत्यभिधां कृत्वा तेने तस्य जनुर्महम् || ६७४ ॥ दशाहानन्तरं स्नेहादशोकश्रीरमोघवाक् । सोत्कण्ठं क्षीरकण्ठं तं निजे राज्ये न्यवीविशत् ॥ ६७५ ॥ ऋद्ध्या बुद्ध्या क्रमेणायं वयसा तेजसाऽपि च । ववृधे प्रतिपच्चन्द्र इव सम्प्रतिभूपतिः ॥ ६७६ ॥ पुण्यादेकदिनाराद्धाव्यक्तसामायिकात्मकात् । स त्रिखण्डमखण्डाज्ञो भरतार्धमसाधयत् ॥ ६७७ ॥ सुहस्तिगुरुयोगेन जातजातिस्मृतिर्नृपः । श्राद्धधर्म श्रितः सम्यक् सोऽभवत् परमार्हतः ॥ ६७८ ॥ रथयात्रादिकैः पुण्यैर्जेनं मतमदिद्युतत् । अयं चैत्यैरलञ्चक्रे भरतार्थं च सर्वतः ॥ ६७९ || अशोकनृपलेखेऽत्र बिन्दुनाऽप्यधिके सति । विनाशः पाठरूपस्य कार्यस्यैव न केवलम् ॥ ६८० ॥ ग्ध्वंसराज्यवैधुर्य सपत्नाभिभवादयः । अपाया अप्यजायन्त कुणालस्य प्रभूतशः ॥ ६८१ ॥ जिनोक्तस्य तु वर्णाद्याधिक्येनाध्ययनेऽधिकाम् । कार्यासिद्धिरपायाञ्च स्युस्तदाशातनोद्भवाः ॥ ६८२ ॥ अतो जिनागमं वर्णादिभिरभ्य
द्वितीयः प्रकाशः ।
॥ ३९ ॥
Page #87
--------------------------------------------------------------------------
________________
95-
कि सुधीः । न कदाचिदातमच्यते । पुरे राजा प्रत्यावृत्तेन तनाथ
महावीर वृत्तान्तं खेच
A
४ाधिकं सुधीः। न कदाचिदधीयीत स्पृहयालुः शुभाय यः॥ ६८३ ॥ । अथ वर्णादिहीनत्वे विद्याभृज्ज्ञातमुच्यते । पुरे राजगृहेऽन्येद्युः श्रीवीरः समवासरत् ॥ ६८४ ॥ नमश्चक्रे महीशक्रः श्रेणिकस्तं प्रमोदतः । उत्कर्णश्च तदभ्यर्णे पुण्यमाकर्ण्य पिप्रिये ॥ ६८५ ॥ प्रत्यावृत्तेन तेनाथ पथि कश्चन खेचरः। उत्प-| तन्निपतन् प्रैक्षि क्षतपक्षतिपक्षिवत् ॥ ६८६ ॥ ततश्चित्रीयितश्चित्ते पश्चादेत्य महीपतिः। पप्रच्छ श्रीमहावीरं वृत्तान्तं खेचरस्य तम् ॥ ६८७॥ जगाद जगदीशोऽपि प्रमादादेष खेचरः। विद्याया व्योमगामिन्या व्यस्मार्षीदेकमक्षरम् ॥ ६८८॥ ततोऽयमस्फुरद्विद्यस्ताम्यत्युत्पिपतीदिवि । विद्या हि किश्चिदप्यूना न संपूर्णफलप्रदा ॥ ६८९॥ तदाकोभयो मन्त्री गत्वा प्रोवाच खेचरम् । विद्यां चेद्ददसे तत्तै वच्मि विस्मृतमक्षरम् ॥ ६९०॥ ओमित्युक्त्वा पुरस्तस्य विद्यां विद्याधरोडपठत् । पदानुसारिधीस्तस्य धीसखोऽप्याख्यदक्षरम् ॥ ६९१ ॥ स्फुरन्त्यामथ विद्यायां मुदितः सचिवाय सः । अदत्त विधिपूर्व तां दिवि च स्वयमुद्ययौ ॥ ६९२ ॥ हीनकेनापि वर्णेन विद्या नास्यास्फुरद्यथा । तथा श्रुतमपि न्यूनं वर्णाद्यैर्नेष्टसिद्धिदम् ॥ ६९३ ॥ अतो वर्णादिभिः शुद्धमध्येयं धीधनैः श्रुतम् । यतो भैषज्यवत्पथ्यमहीनाधिकमेव | तत् ॥ ६९४ ॥ व्यञ्जनम् ॥ ६॥ म यथार्थमेव मेधावी व्याकुति श्रुतं तथा । यतस्तस्यान्यथाव्याख्या स्यादसंख्यातदुःखदा ॥ ६९५ ॥ व्याख्यानय
न्मृषाऽनन्तं भवावर्ते न केवलम् । स्वमेव नयते किन्तु सर्वामप्यात्मसन्ततिम् ॥ ६९६ ॥ दृश्यन्ते साम्प्रतं पूर्वैश्चिरातीतैः ४ प्रवर्तिताः। स्वान्यशासनगानानाः कुमार्गा दुर्गतिप्रदाः ॥ ६९७ ॥ तदुक्तमुपदेशमालायाम्
A-SAGAR
Page #88
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥४०॥
ACCORRECrs
__“जह सरणमुवगयाणं जीवाण निकितई सिरे जो उ । एवं आयरिओऽवि हु उस्सुत्तं पन्नवितो अ॥१॥” इति । द्वितीयः न तपो न जपो नापि ज्ञानं नापि च सक्रिया । सफलं तस्य सिद्धान्तमापयति योऽन्यथा ॥ ६९८ ॥ श्रूयते सक्रि
प्रकाशा याज्ञानसंपन्नोऽप्यन्यथार्हतम् । व्याकुर्वनेकमप्युक्तं जमालिः प्राप दुर्गतिम् ॥ ६९९ ॥ मिथ्यार्थापयतामन्यदपि स्यान्नरका-17 दिका । दुर्गतिः किं पुनर्जेनं वचनं विश्वपावनम् ॥ ७००॥ है| वसुपर्वतकाख्यानमस्मिन्नर्थे निशम्यताम् । अस्ति शुक्तिमती नाम नगरी श्रीगरीयसी ॥७०१॥ अभूत्तस्यां नमस्यांहिभक्तिप्रबनरेश्वरैः । निस्तन्द्रः समरे श्रीमानभिचन्द्रमहीपतिः ॥७०२ ॥ अजायत कुमारोऽस्य वसुनामा महामतिः।। शैशवादपि यः सत्यवादसादरतां दधौ ॥७०३ ॥ ख्यातः क्षीरकदम्बाख्यः सर्वविद्यावदातधीः । उपाध्यायोऽभवत्तत्र पुत्रपर्वतकान्वितः॥ ७०४ ॥ वसुः पर्वतकश्चान्यो नारदश्च त्रयोऽप्यमी। सोत्कण्ठमुपकण्ठेऽस्याऽपठन्नशठमानसाः॥७०५॥ सौधमूर्द्धन्यधीयाना जाग्रत्येवान्यदा गुरौ । अन्वभूवन्नमी पाठश्रान्ता निद्रासुखं क्षणम् ॥ ७०६ ॥ तदा च वीक्ष्य तान् भिन्नगतीनेकगुरूनपि । चारणश्रमणौ व्योम्नि यान्तावन्योऽन्यमूचतुः॥७०७॥ एषामेकतमः स्वर्गमपरौ नरकं पुनः । गमिष्यन्ति गतिर्भिन्ना जन्मिनां हि स्वकर्मतः ॥ ७०८॥ तत् श्रुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः। मयाऽप्यध्यापिती शिष्यौ हा हा निरयमेष्यतः॥ ७०९ ॥ अमीषां कतमः स्वर्ग कतमौ नरकं पुनः । यास्यन्तीति स जिज्ञासुराहत्रीनपि तान् समम् ॥ ७१० ॥ पिष्टकुक्कुटमेकैकं समप्यैषां गुरुर्जगौ । अमी तत्र निहन्तव्या यत्र कोऽपि न पश्यति ॥ ७११॥ वसुपर्वतको तत्र गत्वा विजनदेशयोः। तौ कुक्कुटावहिंसिष्टां विशिष्टां तु गतिं निजाम् ॥ ७१२॥ पुराहरतरं
॥४०॥
Page #89
--------------------------------------------------------------------------
________________
गत्वा नारदस्तु विशारदः । स्थित्वा च विजने देशे दिशः पश्यन् परामृशत् ॥ ७१३ ॥ गुरुपादैरिदं तावदादिष्टं यत्र कश्चन । न पश्यति त्वया तत्र पेष्टव्यः पिष्टकुक्कुटः॥ ७१४ ॥ पश्याम्यत्राप्यहं पूर्व पश्यन्त्येते च पक्षिणः । लोकपालाश्च |
पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ ७१५ ॥ तत् स्थानमिह नास्त्येव यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरूक्तीनां ६ हन्तव्यो नैव कुक्कुरः ॥ ७१६ ॥ गुरुपादाः सदा हिंसाभीरवः करुणाकराः । इदमस्माकमादिक्षन् प्रेक्षामेव परीक्षि-31
तुम् ॥ ७१७ ॥ इत्यामृश्याविनाश्यैव कुक्कुटं स समाययौ । तस्याविनाशने हेतुं गुरोस्तं च व्यजिज्ञपत् ॥ ७१८॥ स्वर्ग| यास्यत्ययं नूनमिति निश्चित्य तं गुरुः । साधु साध्विति वाचालः सस्नेहं परिषस्वजे ॥ ७१९ ॥ स्वकीये परकीये वा न ह्यपेक्षा महात्मनाम् । यत्रैव गुणमीक्षन्ते तत्त्वतस्तत्र ते रताः॥ ७२० ॥ वसुपर्वतको पश्चादागत्येति जजल्पतुः । निहतौ
कुक्कटौ तत्र यत्र कोऽपि न पश्यति ॥ ७२१॥ गुरुस्तावशपत् पापौ युवां पूर्वमपश्यतम् । अपश्यन् पक्षिमुख्याश्च कथं भरे कुक्कुटौ हतौ ॥ ७२२ ॥ अथ दध्यावुपाध्यायो विध्याताध्यापनामतिः। धिम् ज्ञानं मम धिग् बुद्धिं धिक् चाध्यापन-2
चातुरीम् ॥ ७२३ ॥ उपदेश इवाभव्ये बीजवाप इवौषरे । गीतगानमिवाकर्णेऽरण्यान्यामिव रोदनम् ॥ ७२४ ॥ वसौ च निजसूनौ च दिनानीयन्ति हा मया। दिवानिशं मुधैवायं व्यधाय्यध्यापनोद्यमः ॥७२५॥ युग्मम् ॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः। तयोर्विद्यार्पणं सर्पपयःपायनमेव हा ॥ ७२६ ॥ यथापात्रं परीणामो जायते हि गुरोगिराम् । स्थानभेदाद्धनाम्बूनां मुक्ता लवणता न किम् ? ॥ ७२७ ॥ अनयोरपि चेद्विद्या मदीया नरकप्रदा । तदेनसां निवासेन | गृहवासेन मे सृतम् ॥ ७२८ ॥ निर्वेदादित्युपाध्यायस्तपस्यामाददे तदा । सतां ह्युद्विग्नता पुण्यविशेषप्रतिपत्तये ॥७२९॥
Page #90
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥४१॥
HASSASSHOSHUSSEISTIGHESIS
सर्वविद्याविदीभूय गुरोस्तस्य प्रसादतः । नारदः शारदीनेन्दुशुद्धधीः स्वपदं ययौ ॥ ७३० ॥ नृपचन्द्रोऽभिचन्द्रोपि प्रपेदे | द्वितीयः समये व्रतम् । निपुणास्ते हि ये कर्म कुर्वन्त्यवसरोचितम् ॥ ७३१॥ आसीत्तस्य पदे राजा वसुर्वसुमतीपतिः। यस्याधिक है। प्रकाशः। जने जज्ञे प्रसिद्धिः सत्यवाक्तया ॥ ७३२॥ तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः। प्रसिद्धिादशी यस्य तल्लेश्यः प्रायशो हि सः ॥ ७३३ ॥ अन्येधुर्मंगयुः कोऽपि मृगयायां मृगं प्रति । इषू चिक्षेप विन्ध्योामिषुश्चास्खलदन्तरा ॥ ७३४ ॥ ज्ञातुं तत्स्खलने हेतुं सोऽपि तत्र गतोऽस्खलत् । जज्ञौ च पाणिनाकाशस्फटिकस्य शिलां स्पृशन् ॥ ७३५॥ स दध्यौ ध्रुवमेतस्यां संक्रान्तः परतश्चरन् । मयाऽदर्शि मृगश्चित्रमिवादशेऽभितो मुखे ॥ ७३६ ॥ लक्ष्यते कथमप्येषा न पाणिस्पर्शनं विना । तद्योग्या रत्नभूतेयं वसोर्वसुमतीपतेः ॥ ७३७ ॥ गत्वा व्यजिज्ञपद्राज्ञे रहस्तां लुब्धकः शिलाम् । वित्तैः सन्तोष्य तं हर्षाद्राजाऽप्यानीनयत्ततः ॥ ७३८ ॥ घटयामास च छन्नं तया स्वासनवेदिकाम् । अघातयच्च तत्कर्तृन् निस्तूंशा हि नरेश्वराः॥ ७३९ ॥ तस्यां सिंहासनं वेदौ नरेन्द्रः स्वं न्यवीविशत् । सत्यप्रभावतो व्योम्नि स्थितमित्यबुधन् जनाः॥ ७४०॥ तस्याहो ! सत्यतस्तुष्टाः सान्निध्यं कुर्वते सुराः। एवं सार्वत्रिकी ख्यातिस्तस्याऽमुखरयद्दिशः ॥७४१॥ ततो भीताः स्वयं भूपाः सीमालास्तमुपासत । नृणां सत्या ह्यसत्या वा ख्यातिः खलु विजित्वरी ॥ ७४२ ॥ अन्येधुनारदस्तत्र समागाद्वसुपर्वतौ । तं च सच्चक्रतुःप्रीत्या सतीर्थ्या हि मिथस्त्रयः॥ ७४३ ॥ तदा च पर्वतः स्वेषां शिष्याणां शेमुषीजुषाम् । व्याख्यानयदनिर्वेदमाद्यघदममन्दधीः ॥ ७४४ ॥ अजैर्यष्टव्यमित्यत्र मेषैरित्यर्थभाषिणम् । तं प्रोचे नारदो भ्रातर्धान्त्या व्याख्यासि किं वृथा? ॥ ७४५ ॥ गुरुाख्यन्न जायन्त इति व्युत्पत्तितो ह्यजान् । त्रिवार्षिकाणि धान्यानि
Page #91
--------------------------------------------------------------------------
________________
व्यस्मार्षीस्त्वमिदं किमु ? || ७४६ ॥ जजल्प पर्वतोऽखर्वगर्वतः पर्वतस्ततः । व्याजगार गुरुनैवं छगलानेव किं त्वजान् ।। ७४७ ॥ कुरुषे किं मृषावादं मेषार्थत्वमजध्वनेः । निघण्टुषु मुनिप्रष्ठैः स्पष्टं निष्टङ्कितं यतः ॥ ७४८ ॥ जगाद नारदो देधा शब्दानामर्थ कल्पना । मुख्या गौणी च वाक्यं तु गौण्येदं व्यागृणाद्गुरुः ॥ ७४९ ॥ श्रुतिर्धर्मात्मिकैवेयं गुरुश्च करुणाकरः । द्वयोरप्यनयोर्नैव जीवहिंसोपदेशिता ।। ७५० ॥ मृषा व्याख्यानयनेवं भवानभिनिवेशतः । तौ द्वावप्यन्यथा कुर्वन् मा भूर्नरकदुःखभाक् ॥ ७५१ ॥ साक्षेपं पर्वतोऽप्याख्यत्साक्षाद्वयाख्याद्गुरुरगान् । गुरुव्याख्यां मृषा कुर्वस्त्वमेव स्वर्गमाप्स्यसि ॥ ७५२ ॥ मदुक्तस्यान्यथाभावे जिह्वाच्छेदः पणोऽस्तु मे । त्वमप्येनं प्रपद्यस्व यदि ते दृढता हृदि ॥ ७५३ ॥ प्रमाणमावयोरत्र सतीर्थ्यः पार्थिवो वसुः । सत्यवादं प्रपन्नस्य न शङ्का क्वापि काऽपि मे ॥ ७५४ ॥ नारदोऽपि कुमार्गोऽयमग्रतो मा स्म भूदिति । सत्योऽस्मीति च निःशङ्कं तं पणं प्रत्यपद्यत ॥ ७५५ ।। रहोऽम्बा पर्वतं प्रोचे सद्मकर्मरताऽप्यहम् । अश्रौषं नारदाख्यातं व्याख्यानं ते पितुर्मुखात् ॥ ७५६ ॥ त्वमयुक्तं व्यधा जिह्वा यद्दर्पादपणाय्यत । मुश्च वादमिमं येनानर्थस्तेऽयमुपस्थितः ॥ ७५७ ॥ जजल्प पर्वतश्चक्रे मातस्तावदिदं मया । प्राणात्ययैsप्यमुं वादं न मुचे मानखण्डनात् ॥ ७५८ ॥ पुत्रापायात्ययोपायमाशंसुरथ सा रहः । वसुभूपमुपेयाय पुत्रार्थं क्रियते न किम् ॥ ७५९ ॥ दृष्ट्वा नृपोऽपि हृष्टस्तामभ्युत्थानासनादिना । जननीमिव सम्मान्य सगौरवमवोचत ॥ ७६० ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब ! त्वं विलोकिता । किं करोमि ददे किंवा किं विलक्षेव लक्ष्यसे ? ॥ ७६१ ॥ साऽऽचख्यौ पुत्रभिक्षा मे दीयतां मेदिनीपते ! । अलमन्यैर्हिरण्याद्यैरप्यगण्यैः सुतं विना ॥ ७६२ ॥ जजल्प नृपतिर्मातर्जल्प्यते किमिदं
Page #92
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ४२ ॥
त्वया । गुरुवद्गुरुपुत्रो मे पाल्यः पूज्यश्च पर्वतः ॥ ७६३ || अद्याकालकरालकुकालः कमकटाक्षयत् । को हि दुह्यति मात्रे ब्रूहि मातः ! किमातुरा || ७६४ ॥ नारदेन समं वादं स्वपुत्रस्य पणं च तम् । ताभ्यां कृतं च तत्साक्ष्यं निवेद्यार्थयते स्म सा ॥ ७६५ ॥ भ्रातुर्जीवितदानार्थमजान् मेषानुदीरयेः । रक्षतश्च गुरोः पुत्रं न ते पापमसत्यजम् ॥ ७६६ ॥ सन्तो मृषाऽपि भाषन्ते परस्य त्राणहेतवे । गुरुत्वेन प्रपन्नस्य गुरुपुत्रस्य किं पुनः ? ॥ ७६७ ॥ अथाजल्पन्नृपो मातः ! कथमाजन्मपालितम् । अद्य लुम्पाम्यहं सत्यव्रतं जीवादपि प्रियम् ॥ ७६८ ॥ नान्यदप्यभिधातव्यमसत्यं पापभीरुणा । गुर्वाख्यातश्रुतिव्याख्याकूटसाक्ष्ये तु का कथा ? ॥ ७६९ ॥ रक्ष्याः स्वभ्रातरं यद्वा सत्यत्रतकदाग्रहम् । तया सरोषमि - त्युक्तस्तद्वचोऽमंस्त भूपतिः ॥ ७७० ॥ ततः प्रमुदितस्वान्ता जगाम निजधाम सा । नृपतेस्तां प्रपत्तिं च ज्ञापयामास पर्वतम् ॥ ७७१ ॥ ततो द्विगुणितस्फूर्तिः पर्वतो गर्वपर्वतः । नारदेन समं प्राप वादाय नृपसंसदि ॥ ७७२ ॥ सभ्याश्च सदसद्वादक्षीरनीरसितच्छदाः । समगंसत संपन्ना गुणैर्मध्यस्थतादिभिः ॥ ७७३ ॥ स्फटिकोपलवेदिस्थं तेजस्वी वसुभूपतिः । सिंहासनमलञ्चक्रे व्योमाङ्गणमिवार्यमा ॥ ७७४ ॥ ततो निजनिजव्याख्यापक्षं नारदपर्वतौ । आचख्यतुः क्षितीशाय सत्यं ब्रूहीति भाषिणौ ।। ७७५ || अभ्यधुश्च नृपं वृद्धा विवादस्त्वयि तिष्ठते । रोदस्योः कर्मसाक्षीव साक्षी त्वमेनयोः खलु ॥ ७७६ ॥ जायन्ते देव ! दिव्यानि ज्वलनादीनि सत्यतः । सत्याद्वर्षन्ति जीमूताः सत्यात्तुष्यन्ति देवताः ॥ ७७७ ॥ निराधारा धराप्येऽषा सत्यादेवावतिष्ठते । धर्मश्चायं समग्रोऽपि सत्यादेव प्रतिष्ठते ॥ ७७८ ॥ इदं मन्त्रैरिव स्तब्धं तव सिंहासनं दिवि । सत्यादेव निरालम्बं स्थेष्ठमेवावतिष्ठते ॥ ७७९ ॥ सत्यमेव स्थिरं विश्वे सर्वमन्यद्विनश्वरम् । सत्य -
द्वितीयः प्रकाशः ।
॥ ४२ ॥
Page #93
--------------------------------------------------------------------------
________________
वादीति ते ख्यातिः सुतरां च धरान्तरे ॥ ७.०॥ सत्ये लोकस्त्वयैवायं स्थाप्यते पृथिवीपते !। त्वामिहार्थे किमु बमो हि सत्यव्रतोचितम् ॥ ७८१ ॥ अदृष्टाः सिद्धगन्धर्वा राज्याधिष्ठातृदेवताः । लोकपालाश्च शृण्वन्ति सत्यं वद विदांवर ! ॥ ७८२ ॥ अश्रुत्वेव वचस्तेषां ख्यातिं स्वामवमत्य च । अजान मेषान् गुरुयाख्यादित्याख्यत् साक्ष्यक वसुः ॥ ७८३ ॥2 असत्यवचसा तेन क्रुद्धा राज्याधिदेवताः । खण्डशः खण्डयामासुस्तस्य स्फाटिकमासनम् ॥ ७८४ ॥ ततो गुरुरिवांहोभिवसुर्वसुमतीतले । पपात झगिति श्वभ्रपातं प्रस्तावयन्निव ॥ ७८५ ॥ मलिनस्य गुरुव्याख्याकूटसाक्ष्योत्थपाप्मभिः । राज्य च जीवितव्यं च नास्य सम्प्रति साम्प्रतम् ॥ ७८६ ॥ इत्युच्चैरुच्चरन्तीभिर्देवताभिर्निपातितः । स प्राप नरकं व्याख्यामृषासाक्ष्यजदुष्कृतः॥७८७ ॥ यो यः सूनुरुपाविक्षद्राज्ये तस्यापराधिनः । जघ्नुस्ताः कुपितास्तं तं यावदष्टौ निपातिताः। ॥ ७८८ ॥ पर्वतस्तु मृषाव्याख्याजातासंख्यातदुष्कृतः । जनधिक्कारादिकं सोदुमिव ताभिरघातितः ॥ ७८९ ॥ सर्वेषामप्यनर्थानामयमेव निबन्धनम् । धिगेनं धिक् च वैदग्धीमस्य धिग् बुद्धिजृम्भितम् ॥ ७९०॥ इति धिक्कारिभि-2 लोकैः खरमारोप्य दुर्मुखः । लिप्ताङ्गः कर्दमैः पापैरन्यथार्थोक्तिजैरिव ॥ ७९१ ॥ शिरःस्थच्छत्रकेणेव वार्यमाणोचेसद्गतिः । काहलादिकुवाद्यौरिवोद्घोषितदुर्यशाः ॥ ७९२ ॥ दुर्गत्यङ्गनया रङ्गाश्यस्तयेव वरस्रजा । कपालमालया| श्लिष्टकण्ठः पुर्या भ्रम भ्रमम् ॥ ७९३ ॥ यष्टिमुष्ट्यादिभिर्बाद ताब्यमानः पदे पदे । श्वपाक इव पापात्मा नगरान्निरवास्थत ॥ ७९४ ॥ षद्भिः कुलकम् ॥ महाकालासुरं चाप्य स विधायान्यथा श्रुतीः । स्थापयामास होमादिकुमागान् दुर्गतिप्रदान् ॥ ७९५ ॥ इत्यन्यथोक्तिजैः पापैरापूर्य स्वं विपद्य सः। जगाम दुर्गतिं घोरामनन्तं च भवं भ्रमी ॥ ७९६ ॥
RECOMMAR
दा०८
Page #94
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥४३॥
द्वितीयः प्रकाश।
सर्वत्रापि परां पूजां नारदस्तु यथार्थया । व्याख्यया प्राप्नुवन् पाप क्रमेण परमां गतिम् ॥ ७९७ ॥ इत्थं मिथ्येतरार्थोक्तिफलमाकर्ण्य धीधनाः। न व्याख्येयं मृषा किश्चिजिनोक्तं तु विशेषतः॥ ७९८ ॥ अर्थः ॥७॥
बुधैरनन्यथाभूतं व्यञ्जनार्थोभयं तथा । श्रुतमध्येयमिष्टार्थसिद्धिश्चेदीप्स्यते ततः॥ ७९९ ॥ दोषास्तदुभयान्यत्वे पूर्वोक्ता एव साधिकाः । प्रत्येकं यद्भवेत्तद्धि द्वियोगे द्विगुणी भवेत् ॥ ८०० ॥ श्रुते तद्यमिथ्यात्वं प्रथयन् रोहगुप्तवत् ।। दुष्कीर्त्यादीनिहामोति परत्र कुगतिं पुनः ॥ ८०१॥ तथाहि- . | पुरीं स्वर्गाभिमानस्य भञ्जिकामन्तरञ्जिकाम् । भूपालः पालयामास बलश्रीरिति विश्रुतः॥ ८०२ ॥ तत्र भूतगुहोद्यानं |
विद्यानां केलिमन्दिरम् । पुनन्ति स्म त्रिगुप्ताः श्रीगुप्ताचार्या जितेन्द्रियाः॥ ८०३ ॥ रोहगुप्ताभिधः ख्यातः शिष्यस्तेषामM दूष्यगी। शेमुषी यस्य सर्वेषु शास्त्रेष्वव्याहतकमा ॥ ८०४ ॥ वादे येन समं स्वस्य संभाव्येव पराभवम् । भयभ्रान्त
तयाऽश्रान्तमयं भ्राम्यति गीष्पतिः॥ ८०५॥ गुरून् वन्दितुमासन्नग्रामस्थस्तां पुरीमयम् । प्रायेणान्वहमायासीदसीमा हि गुरौ रतिः॥ ८०६॥ परिवाद कोऽपि वादीन्द्रस्तत्रोन्निद्रधियां निधिः । अन्येधुराययौ गर्वाद्गणयंस्तृणवजगत्
॥ ८०७॥ पोट्टे स्फुटति विद्याभिरमान्तीभिरिदं मम । इत्यबध्नादयं पोट्टे पट्टमायसमायतम् ॥ ८०८ ॥ जम्बूद्वीपे समग्रे सामे न समः कोऽपि विद्यया । इति ज्ञापयितुं जम्बूशालां च स्वकरेऽकरोत् ॥ ८०९॥ ततोऽसौ पोदृशालेति सर्वत्र प्रथि
तोऽभवत् । यो यथा चेष्टते प्रायस्तं तथा ब्रुवते जनाः ॥ ८१० ॥ पटहं वादयामास स तत्रान्तश्चतुष्पथम् । वादी| कोऽप्यस्ति यः साकं मया वादे प्रगल्भते ॥ ८११॥ रोहगुप्तस्तमाकर्ण्य पटहं प्रत्यषेधयत् । अहमेव प्रभूष्णुस्त्वं । जेतुं
ROCRACAN
पतिः व्याहतकमा मताचार्या जित
Page #95
--------------------------------------------------------------------------
________________
विद्या गृहाव भोः
सिंह इव द्विपम् ॥ ८१२ ॥ तच्चाऽऽगत्य गुरूनाख्यदयं तं गुरवोऽवदन् । न साधु विदधे वत्स ! विद्याभिः स बली यतः॥ ८१३ ॥ अलिव्यालाखुसारङ्गकोलकाकशकुन्तिकाः। विद्याभिः शतशोऽप्येष विकरोति भयङ्करीः ॥८१४॥ अथा-131 चख्यौ गुरु शिष्यः किं नंष्टुं शक्यतेऽधुना । ततोऽनन्यगतिः सूरिः सप्रसादमुवाद तम् ॥ ८१५॥ आदत्स्व वत्स ! दुर्वादिप्रयुक्तोपद्रवापहाः । पाठसिद्धा इमाः सप्त विद्या हृद्यार्थसाधिकाः ॥ ८१६ ॥ केकिबभ्रोतुशार्दूलसिंहोलूकशशादनाः। याभिः परतिरस्कृत्यैर्विक्रियन्ते पर शताः॥८१७॥ किञ्चित्सोऽन्यत्प्रयुङ्क्ते चेत् स्वमूर्ध्नि भ्रमयेस्तदा । रजोहृतिमिमां येन शक्रेणापि न जीयसे ॥८१८॥ रोहगुप्तस्ततो विद्या गृहीत्वा सरजोहृतीः । सरस्वतीव पुंरूपा नृपसंसदमासदत् ॥ ८१९॥ आचचक्षे च साक्षेपं तं प्रति प्रतिवादिनम् । कक्षीकुरुष्व भोः पूर्वपक्षं दक्ष ! निजेच्छया ॥ ८२०॥ पर्षदध्यक्षमेषा तु प्रतिज्ञा क्रियते मया । यत्किञ्चिद्भाषते वादी स्थापयामि तदन्यथा ॥ ८२१ ॥ इत्याक्षिप्तः परो वादी सद्यः शङ्काकुलोऽजनि । सम्यगज्ञातशास्त्राणां सर्वत्रापि सशकता॥ ८२२ ॥ पुण्यं प्रमाणनैपुण्यं वर्ण्यते जैनवादिषु ।। एषोऽपि स्वमतस्थायी विजेतुं दुःशको मया ॥ ८२३॥ जैनीभूयाहमेवातः पूर्वपक्षमुपाददे । यथाऽऽदितोऽप्ययं वादे व्याह-17 |तप्रतिभो भवेत् ॥ ८२४॥ इत्यामृश्याहतीभूय सोऽभ्यधत्त जगत्युभो। जीवाजीवाभिधौ राशी तदन्यानुपलम्भतः॥८२५॥ प्रत्यवोचत्ततो रोहगुप्तस्तं दृप्तमानसः । मातृशासित ! जानासि न सम्यग्मतमार्हतम् ॥ ८२६ ॥ जीवा अजीवा नो जीवा |
राशित्रितयमस्ति नः । जीवास्तत्र सचैतन्या अजीवास्तद्विलक्षणाः ॥ ८२७ ॥ नो जीवास्तु धनुर्मुक्तबाणाद्याः किल | M सक्रियाः। चैतन्याभाववत्त्वेन नहि जीवा भवन्त्यमी ॥ ८२८ ॥ गत्यादिकक्रियायोगादजीवा अपि नैव ते । पारिशेष्या
८२१॥इल
ASSAGAR
जैनवा
Page #96
--------------------------------------------------------------------------
________________
दानप्रदीपेत्ततस्तेषु भवेन्नो जीवराशिता ॥ ८२९ ॥ स्वर्भूर्भुवस्त्रिधा विश्वं वेदाः स्त्रीपुंनपुंसकाः । स्थित्युत्पत्तिव्यया धर्मा गुणाः द्वितीयः
सत्त्वं रजस्तमः ॥ ८३० ॥ मध्याद्यन्ता यथा चांशास्तथा राशिरपि त्रिधा । यदस्ति भुवने वस्तु तत्सर्वं हि त्रयात्मकम् प्रकाशः। ॥४४॥
॥ ८३१ ॥ युग्मम् ॥ इत्थं सोऽस्फोरयद्वाचोयुक्तीर्गणतिथीस्तथा । यथा सद्यो दधौ वादी प्रतिवक्तुमशक्तताम् ॥ ८३२॥ वीक्षापन्नस्ततो वादी विचक्रे वृश्चिकादिकान् । रोहगुप्तोऽपि तान् हन्तुं मयूरादीन् प्रयुक्तवान् ॥ ८३३ ॥ तत्सप्तके प्रति| क्षिप्ते वादी प्रायुत रासभीम् । स्वमूर्ध्नि रोहगुप्तोऽथ रजोहृतिमबिभ्रमत् ॥ ८३४ ॥ ततस्तं प्रत्यशक्ता सा क्रुद्धा मूर्द्धनि वादिनः। कृत्वा प्रस्रवणोच्चारौ रसन्ती दिवमुद्ययौ ॥ ८३५ ॥ प्रविविक्षुरिव क्षोणी मन्दाक्षन्यग्मुखोऽथ सः । निन्द्यमानो जनैः पुर्या निर्यातः श्यामिताननः ॥ ८३६ ॥ रोहगुप्तस्तु दीप्तश्रीः स्तूयमानो मुहुर्जनः । दर्पोक्षुरपरीणामः प्रणनाम निर्ज गुरुम् ॥ ८३७॥ सर्वं च वादिवृत्तान्तं सप्रमोदमुवाद सः। गुरुर्जगाद सूत्रार्थविरुद्धमिदमभ्यधाः॥८३८ ॥ न वक्तुमपि3 युक्तं हि बुधस्यागमबाधकम् । किं पुनः स्थापनं तस्य युक्तिभिर्भूपपर्षदि ॥ ८३९॥ द्राग्गत्वा देहि तन्मिथ्यादुष्कृतं वत्स! तत्समे । अन्यथा ते दुरन्तायां भविता दुर्गतौ गतिः ॥ ८४०॥ शिष्योऽप्याख्यत तद्दाने ब्रीडा पीडाकरी मम । यद-18 स्थापि नृपास्थाने तन्मिथ्या कथ्यते कथम् ॥ ८४१॥ गुरुणा मुहुरुक्तोऽपि नायं तत्प्रत्यपद्यत । न मन्यते हि गुर्वाज्ञां गर्वादन्धंभविष्णुधीः ॥ ८४२ ॥ ततः स्वयं गुरुर्गत्वा पर्षदध्यक्षमाख्यत । विनेयो मेऽभिमानेनापसिद्धान्तमतिष्ठिपत् ॥४४॥ ॥ ८४३ ॥ जीवाजीवौ हि जैनेन्द्रे राशी द्वावेव शासने । खपुष्पवत्तृतीयस्तु राशि वास्ति वास्तवः ॥ ८४४ ॥ मत्वाऽथ है लाघवं रोहगुप्तः क्षमापतिसाक्षिकम् । गुरुणाऽपि समं वादमारब्ध दुग्धमानसः ॥ ८४५ ॥ उपभूपमभूद्वादः षण्मासी
Page #97
--------------------------------------------------------------------------
________________
गुरुशिष्ययोः । शक्यो मोचयितुं केन वैतण्डिककदाग्रहः ॥ ८४६ ॥ राज्यकार्यान्तरायेण निर्विण्णेऽथावनीपतौ । गुरुशिष्यौ नृपाद्याश्च कुत्रिकापणमैयरुः ॥ ८४७ ॥ दिव्यानुभावयोगेन भुवनत्रयवर्तिनाम् । पूरकः सकलार्थानां प्रथितः कुत्रिकापणः ॥ ८४८ ॥ तत्र जीवस्य याच्यायां प्राणिनं कुक्कुटादिकम् । अजीवस्य पुनर्लेष्टुमदृटा देवता ददौ ॥ ८४९ ॥ याव्ययोरपि नोजीवनोअजीवनिमित्तयोः । तदेव देवतादत्तद्वितयं वैपरीत्यतः ॥ ८५० ॥ नव द्रव्या गुणाः सप्तदशधा कर्म पञ्चकम् । समवायस्त्रिसामान्यविशेषश्चान्य कल्पिताः ॥ ८५१ ॥ भावा भवन्ति पत्रिंशच्चतुर्धा पूर्ववत्कृताः । तेषां पृच्छाः किल चतुश्चत्वारिंशं शतं पुनः ॥ ८५२ ॥ युग्मम् ॥ तावद्धा याचिता देवी ददौ सर्वत्र तद्वयम् । धिक् चक्रे तं कुशिष्यं च नास्त्यन्यदिति वादिनी ॥ ८५३ ॥ गुरवोऽपि च तन्मूर्ध्नि बभञ्जः श्लेष्म मल्लकम् । कुर्वते दुर्विनीता हि मृदुमध्यमृदुं गुरुम् ॥ ८५४ ॥ भर्त्यमानो जनै राज्ञा स्वदेशान्निरवासि सः । श्रेयस्करी न देशेऽपि तादृशानां ह्यवस्थितिः ॥ ८५५ ॥ अघोषि च पुरे जैनं मतं विजयते भुवि । आकरः सर्वविद्यानां गुरुर्यस्यायमीशिता ॥ ८५६ ॥ इह निन्दादिदुःखानि विषह्य स च शिष्यकः । विपद्य दुर्गतिं प्रापदनन्तं च भवं भ्रमी ॥ ८५७ ॥ अतः स्वहितमाशंसुः सूत्रार्थोभयमन्यथा । नाददानो ददानो वा विदधीत सुधीः श्रुते ॥ ८५८ ॥ तदुभयम् ॥ ८ ॥
एवं विशिष्टमष्टाभिराचारैरार्हतं श्रुतम् । अधीते यः सुधीस्तस्य केवलश्रीः स्वयंवरा ॥ ८५९ ॥ यस्त्ववज्ञाप्रमादाद्यैविराध्यत्यपधीः श्रुतम् । दुरन्तमयमाप्नोति दुःखं पूर्वमहं यथा ॥ ८६० ॥ नरामरैस्तदाकर्ण्य सभासीनैर्मुनीश्वरः । पृष्टो भवचतुष्कं स्वं प्राक्तनं व्यक्तमुक्तवान् ॥ ८६१ ॥
Page #98
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥४५॥
द्वितीयः प्रकाशः।
तस्योपदेशमिति भव्यजना निशम्य सम्यक् प्रबुद्धमनसः सुविशुद्धलेश्याः। ज्ञानं निषेव्य विधिना बहवः क्रमेण मुक्ति लाययुर्मुनिवरस्तु भवे स तस्मिन् ॥ ८६२॥ ज्ञानस्य दानादिति दुःखराशेरसौ स्वमन्यांश्च समुद्दधार । जज्ञे चिरस्थायि च
तत्समेषां दानेषु तद्दानमतः प्रधानम् ॥ ८६३ ॥ श्रुत्वा पवित्रधनमित्रचरित्रमेवं श्रीज्ञानदानफलवर्णनयाऽभिरामम् । तद्दातुमुद्यमममन्दतया विधत्त भव्याः ! यथाशु वृणते शिवसंपदो वः॥८६४ ॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे ज्ञानदानफलप्रकाशनो
द्वितीयः प्रकाशः॥ ग्रन्थाग्रम् ॥ ८७३ अक्षर २१॥ श्रीरस्तु ॥
SEISOSASSASAS
॥४५॥
Page #99
--------------------------------------------------------------------------
________________
25555
॥ अथ तृतीयः प्रकाशः॥ श्रियं स शान्तिर्जिनचक्रिलक्ष्मीभर्ताऽद्भुतां भावभृतां बिभर्तु ।
अद्यापि यस्याभयदानभम्भा जगन्निनादाद्वयमातनोति ॥१॥ वक्ष्येऽथाभयदानस्य किञ्चिन्माहात्म्यमद्भुतम् । तत्राभयं विदुधा देशतः सर्वतोऽपि च ॥१॥ त्रसानां स्थावराणां च कृतानुमतिकारितैः । अवधो यस्त्रिधा योगैस्तत्सर्वाभयमभ्यधुः ॥२॥ तदानं त्यक्तसङ्गानां यतीनामुपपद्यते । यतस्त एव षड्जीवप्राणत्राणकृतव्रताः ॥३॥ संकल्पात्रसजन्तूनाममन्तूनामघातनम् । द्वैधत्रैधादिभेदैर्यत्तत्तु देशाभयं भवेत् ॥४॥ तदानेऽधिकृताः शुद्धदर्शना गृहमेधिनः । यतः स्थूलाङ्गिहिंसाया विरतिं व्रतयन्ति ते ॥५॥ साक्षीभवति यत्साक्षादक्षग्यसुखसंपदाम् । तस्मिन्नभयदाने कः पुमान्नोद्यच्छतेऽच्छधीः॥६॥ दौर्भाग्यमङ्गवैगुण्यं दुर्गति रोगितादि च । हिंसायाः फलमालोक्य कः सुधीविदधीत ताम् ॥७॥ विना प्रयोजनं प्राज्ञः प्राणिषु स्थावरेष्वपि । वधं न जातु कुर्वीत गुर्वी| मिच्छुः सुखश्रियम् ॥ ८॥ प्राज्येनापि न राज्येन प्रीयन्ते प्राणिनस्तथा । यथा जीवितदानेन मृत्यावन्तिकवर्तिनि ॥९॥
आकीटादानरेन्द्राच्च सर्वे जीवितमिच्छवः । अतस्तद्दानतो नान्यो मान्यो धर्मः सचेतसाम् ॥१०॥ यदुक्तमाचाराङ्गे| “से बेमि जे अ अईआ जे अ पडुप्पन्ना जे अ आगमिस्सा अरिहंता भगवंतो ते सबे एवमाइक्खंति एवं भासंति एवंद
पन्नविंति एवं परूविंति-सचे पाणा सबे भूआ सवे जीवा सवे सत्ता न हतवा न अजवेअवा न उद्दवेयवा एस धम्मे ४ाधुवे नियए सासए समिच्च लोयं खे अन्ने हिं परूविए" इति ॥
SOURCR-CHAMASANG
अन्ने हिं परुविच सत्ता न ताव एवमाइक्खंति
Page #100
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ४६ ॥
पुराणस्मृतिवेदादिपरशास्त्राण्यपि स्फुटम् । वदन्त्यभयदानस्य प्राधान्यमविगानतः ॥ ११ ॥ कपिलोऽपि ऋषिर्लक्षग्रन्थं निर्मथ्य पार्थिवम् । धर्मे सारं दयामेव पदैकेन न्यदीदृशत् ॥ १२ ॥ यदुक्तमावश्यकनिर्युक्तौ —
1
“जिन्ने भोअणमत्तेओ कविलो पाणिणं दया । विहस्सई अविस्सासो पंचालो थीसु मद्दवम् ॥ १ ॥” त्राणे कपोतमात्रस्य शान्तिः पूर्वभवे जिनः । कर्त्त कर्त्त ददौ मांसखण्डानि निजसक्थितः ॥ १३ ॥ अहो ! तुरङ्गमं त्रातुमेरात्रेण सुव्रतः । भृगुकच्छं प्रतिष्ठानादाययौ पष्टियोजनीम् ॥ १४ ॥ जनानामभयं दातुं पृथ्वीर्गणतिथीर्न्यधाः । शूलपाणिकृतारात्रिं वीरः सेहे सुदुःसहाः ॥ १५ ॥ येतिरेऽभयदानार्थमित्थं तीर्थङ्करा अपि । यथाशक्ति परेणातः कार्यस्त - त्रोद्यमः सदा ॥ १६ ॥ चिरायुः स्थिरमारोग्यं सौभाग्यं मधुरा गिरः । श्लाध्यता च कृपाकल्पलतायाः सकलं फलम् ॥ १७ ॥ एकस्याप्यभयं जन्तोर्यः प्रदत्ते तदेकधीः । प्रहर्षुलेव तं मोक्षलक्ष्मीराश्लिष्यति क्षणात् ॥ १८ ॥ तथाहि - श्रेणि| केन जिनाचयै कारितान् काञ्चनान् यवान् । विहर्तुमागतः पक्षिभक्षितान् दृष्टपूर्व्यपि ॥ १९ ॥ नीतोऽप्यन्त्यां कलादेन दशां क्रौञ्चाभयैकधीः । अवदन्मुनिमेतार्यः शिश्रिये निर्वृतिश्रिया ॥ २० ॥ युग्मम् ॥ कटुतुम्बं परिष्ठाप्यं कीटिकाद्यभयैकदृग् । स्वयमास्वाद्य सर्वार्थसिद्धिं धर्मरुचिर्ययौ ॥ २१ ॥ कुमारपालं स्तुमहे तमेकं यः सर्वजीवाभयदानरूपाम् । अमारिमष्टादशदेशवृत्तिं कृत्वा गमी मुक्तिमभूद्भवाभ्याम् ॥ २२ ॥ संपदामापदां हेत्वोस्तद्दानादानयोः क्रमात् । शङ्खस्य सुहृदां चास्य त्रयाणां प्रथयते कथा ॥ २३ ॥ तथाहि
श्रीभृते भरते जम्बूद्वीपस्य तिलकायिते । धत्ते मुक्ताफलौपम्यं पुरं विजयवर्धनम् ॥ २४ ॥ रामाभिश्च रमाभिश्च यत्र
तृतीयः प्रकाशः ।
॥ ४६ ॥
Page #101
--------------------------------------------------------------------------
________________
चञ्चलतोज्झिताः। पताकाश्चैत्यशृङ्गस्थाः शिश्रियेऽनन्यसंश्रया ॥ २५॥ दासीकृतारिस्तत्रासीदसीमभुजविक्रमः । भूपतिः सर्वतः प्राप्तविजयो जयसुन्दरः॥ २६ ॥ तस्यालवालतां कीर्तिवल्याः कुल्या वरा अमी। चत्वारो दधिरे व्योममण्डलं मण्डपोपमाम् ॥ २७ ॥ तस्यासीद्विजयवती पत्नी गुणवती सती । देवीर्विजित्य या कान्त्या सत्यार्थ नाम निर्ममे ॥२८॥ तयोर्भुवनचन्द्राह्वः सूनुरन्यूनसाहसः। विनाऽपि यौवनं यौवराज्यसंपदमाप यः॥ २९ ॥ जजुः सेनापतिश्रेष्ठिपुरोहित| सुताः क्रमात् । वयस्याः शैशवात्तस्य सोमशङ्खार्जुनाह्वयाः॥३०॥ क्रीडाक्रीडादिषु क्रीडां स्वच्छन्दं यौवनोन्मदः। वितेने तैः परीतोऽयं कलभः कलभैरिव ॥ ३१॥ तेषां सदा सहाहारविहाराद्यनुयोगतः। प्रीतिः पल्लविताऽत्यन्तं वल्लरीव वसन्ततः॥ ३२ ॥ बहिर्वृत्त्याऽभवत्तेषु मुख्यता क्षितिपात्मजे । शङ्के दाक्षिण्यदाक्ष्यादिगुणकीती तु तात्त्विकी ॥ ३३ ॥ कीर्तिर्विशिष्य शङ्खस्य प्रोन्मिमेष लघोरपि । अन्तरङ्गो विधिर्यस्माद्बलीयान् बहिरङ्गतः ॥ ३४ ॥ नगरोद्यानमन्येधुर्विन्दुविद्या विनोदिनीः । तत्र कापालिकः प्राप नाम्ना ज्ञानकरण्डकः॥ ३५॥ क्रीडनाय तमाक्रीडं प्रापुषा सवयोजुषा । भक्त्या कापालिकस्तेन प्रणेमे नृपसूनुना ॥ ३६ ॥ भूयाः पातालकन्यानामाज्ञादायी त्वमञ्जसा । इति तस्याशिषा हृष्टस्तमाचष्ट निविश्य सः॥ ३७॥ भगवन्निह पातालकन्यानां कुत्र संभवः । कथं च प्राप्तिरेतासां प्रसद्यादिश्यतामिदम् ॥ ३८ ॥ कापालिको जजल्पाथ मूले विन्ध्यमहीभृतः । कुडङ्गविजयं नाम काननं भाजनं रतेः ॥ ३९ ॥ अन्तस्तस्य सुवेलाख्ययक्षायतनसंनिधौ । अस्ति दक्षिणतो दक्ष ! पद्माकारवती शिला ॥४०॥ तस्यां ततोऽपनीतायां बिले केयूरनामनि । कोशमात्रमतिक्रान्ते तासामस्ति निवासभूः॥४१॥ तत्र नेत्रश्रिया त्रस्तसारङ्गीपरिभूष्णवः । दास्यं निजास्यसौन्दर्या
Page #102
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ४७ ॥
त्पूर्णेन्दोरपि दित्सवः ॥ ४२ ॥ सर्वाङ्गसुभगा यूनां मनोमोहनवल्लयः । सन्ति कन्याः स्वलावण्यावज्ञातत्रिदिवस्त्रियः ॥ ४३ ॥ युग्मम् ॥ ताश्च युष्मादृशान् सत्त्ववशीकृतजयश्रियः । उद्दण्डनिजदोर्दण्डखण्डिताखण्ड विद्विषः ॥ ४४ ॥ सर्वाङ्गासंगिसौभाग्यान् न्यक्षलक्षणलक्षितान् । पुण्याकृष्टाः स्वयं हस्ते कुर्वते दृक्पथंगतान् ॥ ४५ ॥ युग्मम् ॥ निशम्येति समं मित्रैरचित्रीयत भूपभूः । चकार सुतरां चेतो द्रष्टुमुत्कण्ठुलं च ताः ॥ ४६ ॥ गाम्भीर्येण च तद्भावं संवृण्वानः कथान्तरैः । क्षणं गोष्ठीमनुष्ठाय निजधाम जगाम सः ॥ ४७ ॥ गतोऽपि तत्र तच्चिन्तापिशाचीग्रस्तचेतनः भोजनादिषु कार्येषु स जज्ञे शून्यमानसः ॥ ४८ ॥ सखायस्ते तथा वीक्ष्य तमाचख्युर्विचक्षणाः । किमद्य दृश्यते नेतनितान्तं ते सचिन्तता ॥ ४९ ॥ किन्तु स्मरसि तेनोक्तं कन्यावृत्तान्तमुन्मनाः । प्रलापैरप्यमूह क्षैस्त्वमप्याक्षिप्यसेऽद्भुतम् ॥ ५० ॥ मुखे पीयूषमीदृक्षा विषं तु | हृदि विभ्रते । तदेषां वाचि विश्वासः सर्वथा नोचितः सताम् ॥ ५१ ॥ कुमारस्तानथावादीदनादीनवजीविनः । साध्यं भगवतस्तस्य किं मृषाभाषणेन भोः ! ॥ ५२ ॥ विभवादिषु लुब्धानां मृषाभाषा हि संभवेत् । संतोषामृततृप्तानां दूरापास्तैव सा | पुनः ॥ ५३ ॥ अहो ! मुग्धधियः केऽपि परैः साक्षादपीक्षितम् । आरोपयन्ति संशीतिं कल्पनाकल्पितोक्तिभिः ॥ ५४ ॥ अथावगत तच्चित्तास्तूष्णीमास्थाय ते स्थिताः । विदग्धाः सुहृदः प्रायो मिथभ्छन्दानुवर्तिनः ॥ ५५ ॥ राजसूः पुनरन्येद्युः | प्राप कापालिकान्तिकम् । सुधावृष्टिमयी गोष्ठी प्रावर्तिष्ट तयोर्मिथः ॥ ५६ ॥ पप्रच्छ च कुमारस्तं गमनं विवरे कथम् । कथं पातालकन्यानां प्रभो ! लाभश्च संभवी ॥ ५७ ॥ एतत्कौतूहलोत्तालकल्लोलैराकुलं मनः । न मे रतिमवाप्नोति क्षणम यत्र तिष्ठतः ॥ ५८ ॥ कापलिकस्तमाला पीत्किमालापेन भूयसा । यदि ते साधये नार्थ वृथा तन्नाम मामकम् ॥ ५९ ॥
तृतीयः प्रकाशः ।
॥ ४७ ॥
Page #103
--------------------------------------------------------------------------
________________
श्रेयांसि बहुविघ्नानि परमित्यविलम्बतः। आगच्छ प्रगुणीभूय न भूयः प्रश्नमर्हसि ॥ ६०॥ ओमित्युक्त्वा गृहं गत्वा रहस्याकार्य राजसूः । सखीनाख्यदविश्वासः क्रियते किं मुधा बुधाः!॥ ६१॥ विमुच्य सकलाः शङ्काः संनिधत्त द्रुतं मम । अहं | पातालयात्रायै पदैरेभिरुपस्थितः॥ ६२ ॥ तैरप्यगण्यदाक्षिण्यप्रणुनैस्तदुपैयत । सा कि मैत्री हि नो यस्यामन्योन्यमनुवतना ॥ ६३ ॥ वेषान्तरजुषस्तेऽथ कापालिकपुरस्सराः। राजादीननिवेद्यैव प्रचेलुनिभृतं निशि ॥ ६४ ॥ तदेत्य शकुना है जजुः पिशुनास्तत्तदापदाम् । खलितोऽभिः समेऽप्येषामायुःस्खलनसूचकः ॥ ६५ ॥ वामं नयनमेतेषामरपन्दत मुहुर्मुहुः । निवेदयदिव स्पष्टमदृष्टप्रतिलोमताम् ॥ ६६ ॥ मा यातेति जुघोषे च तेषां दक्षिणतः खरः। ववौ बातः प्रतीपश्च प्रयाणं वारयन्निव ॥ ६७ ॥ उत्ततार पुरस्तेषां करालः कालपन्नगः। क्षिप्तेव शुभदैवेन रोढुं प्रस्थानमर्गला ॥ ६८॥ रजोभिः | सर्वतो व्याप्ता मलिना जज्ञिरे दिशः। कापालिकस्य मालिन्यं दर्शयन्त्य इवान्तरम् ॥ ६९ ॥ ततो भूपाङ्गजं प्रोचुः सुहृदः | सौहृदेरिताः । पदमप्यग्रतो गन्तुं शकुना नानुमन्वते ॥ ७० ॥ प्रस्थानं सर्वथा नाथ ! साम्प्रतं तन्न साम्प्रतम् । निमित्ता| ननुमत्या हि कृत्यारम्भः शुभाय न ॥ ७१॥ कापालिको जजल्पाथ किमेवं भवथाकुलाः । परमार्थ न जानीथ यूयं हि स्थूलबुद्धयः॥७२॥ ईदृशा एव पातालयात्रायै शकुनाः शुभाः। विचारो हि निमित्तानां कार्यः कार्यव्यपेक्षया ॥७३॥ | यद्येवमपि वस्तेषामाशङ्का न निवर्तते । तन्ममैव भवन्त्वेते यूयमायात निर्भयाः॥७४ ॥ एवं विश्वासितस्तेन सत्याभासा|भिरुक्तिभिः । कुमारः प्राचलत्तस्यानुवृत्त्या तु सुहृत्रयम् ॥ ७५ ॥ चमूरुचित्रकव्याघ्रमृगेन्द्राष्टापदादिभिः । स्वजनैः शमनस्येव क्रुरसत्त्वैर्भयंकरम् ॥ ७६ ॥ क्रीडावेश्म यमस्येवादृश्यमानदिनेश्वरम् । कियद्भिस्ते दिनैः प्रापुर्विन्ध्याद्रिस्थास्तु
460-6CN-OCALSGARGCRECHARGANGACANCIES
Page #104
--------------------------------------------------------------------------
________________
दानप्रदीपे
1182 11
तद्वनम् ॥ ७७ ॥ युग्मम् ॥ ते पूर्वाख्यातमैक्षन्त तत्र यक्षनिकेतनम् । हर्षाच्च यक्षमानर्चुः शुचयश्चम्पकादिभिः ॥ ७८ ॥ कापालिको विकालेऽथ गोकुलाच्चतुरश्छगान् । आनीय प्रगुणीच प्राज्यं पूजाद्युपस्करम् ॥ ७९ ॥ अयं तांश्चतुरश्छागैः समं स्वयमसिस्नपत् । कटाक्षैरन्तकस्येवाचर्चयच्च कुचन्दनैः ॥ ८० ॥ तानादिक्षच्च युष्माभिरेकैको मार्यतामजः । विधाय बलिमेतैस्तद्वारमुद्घाट्यते यथा ॥ ८१ ॥ अथानवेत्य तद्भावं स्वस्यानुद्भावं चापदम् | अविदित्वा चतुर्देवं यथादिष्टं व्यस्त्रयः ॥ ८२ ॥ श्रेष्ठिसूनुः पुनः पुण्यसंपन्नस्तन्न निर्ममे । तत्कालस्फुरितापार करुणापरिणामतः ॥ ८३ ॥ प्रज्ञप्तोऽपि पुनस्तेन स मेने नैव तद्वचः । महान्तो हि परप्राणान् स्वप्राणानिव मन्वते ॥ ८४ ॥ ततः स्वमन्त्रसिद्ध्यै तांश्चलितांछागघाततः । पापी व्यापीपदद्योगी धिगहो ! कूटपाटवम् ॥ ८५ ॥ तदुत्तमाङ्गपद्मश्च पूजयामास देवताम् । देवा दुष्टा हि सन्तुष्टा जायन्ते तादृशार्चया ॥ ८६ ॥ प्रसह्याथ स्वयं हन्तुमुद्येमे स यमानुजः । मिषं विनाऽपि तं शङ्खं किमकृत्यं दुरात्मनाम् ॥ ८७ ॥ अस्मिंश्चावसरे यक्षः प्रत्यक्षस्तमभाषत । रे रे निकृष्ट ! पापिष्ट ! किं दुष्टमनुतिष्ठसि ॥ ८८ ॥ यद्येनं छागघातेनाछलितं घातयिष्यसि । तदा ध्रुवं भवानेव न भविष्यति सम्प्रति ॥ ८९ ॥ ततः कापालिकेनायं तत्यजे भीतचेतसा । व्याघ्रेणेव मृगः सिंहनादश्रवणभीरुणा ॥ ९० ॥ हा वयस्याः ! गुणैः शस्याः सर्वस्यापि प्रियङ्कराः । कथं नीता दशामेतां योगिनाऽनेन पापिना ॥ ९१ ॥ विना वः कथमेकाकी वर्त्म गन्ताऽस्मि दुर्गमम् । कथं वा गमयिष्यामि कालं शोकेन विक्लवः ॥ ९२ ॥ इत्यमन्दतमाक्रन्दं रोदितश्वापदत्रजः । पलायत ततः शङ्खः साक्षादिव यमालयात् ॥ ९३ ॥ पुनर्जन्मानमात्मानं मन्वानः काननात्यये । स्मरन्निजवयस्यानां कञ्चिद्रामं जगाम सः ॥ ९४ ॥ शनेवाय मस्तोक शोका
तृतीयः प्रकाशः ।
॥ ४८ ॥
Page #105
--------------------------------------------------------------------------
________________
तातडून विक्लवः । तदौर्द्धदेहिक चक्रे तत्र द्वित्रदिनी स्थितः ॥ ९५॥ कथं स्वमित्रपित्रादिपौराणां साम्प्रतं पुरे । गत्वा।
प्रदर्शयिष्यामि मुखं वक्ष्यामि वा किमु ॥९६ ॥ इत्यामृश्यायमन्यस्यां दिशि प्रास्थित दुःस्थितः। हिया महान्तः शङ्कन्ते स्तोकेऽप्यनुचिते यतः॥९७॥ अथ संयममादित्सुर्गच्छन् सद्गुरुसंनिधौ। सुमेघः श्रावकस्तस्य संजग्मे भाग्यतः पथि॥९८॥ ४ तयोः प्रत्यहमालापा मार्गलाघवहेतवः । प्रावर्तन्त मिथः स्नेहभूरुहस्याङ्करा इव ॥ ९९ ॥ अचिरादप्यभूत्प्रीतिस्तयोर्बान्धवयोरिव । सुसाधा दुनिरोधा च मैत्री शुद्धात्मनां यतः॥ १०॥ श्राद्धोऽभ्यधात्तमन्येद्यर्विषादीव किमीक्ष्यसे । न चेदवाच्यमत्यन्तं तदा वद मदग्रतः ॥ १०१॥ अथाख्यदश्रुपूर्णाक्षः शङ्खस्तद्वृत्तमादितः । क्षीयते हि क्षणं दुःखं सुहृदादे-18| निवेदितम् ॥ १०२॥ तन्निशम्य सुमेघोऽपि विस्मितस्तमवोचत । अहो ! तव मतिः प्राणिपरित्राणपरायणा ॥ १०३ ॥ अहो ! ते साहसं प्राणसंदेहेऽप्यभिदेलिमम् । पवित्रेण चरित्रेण तव चित्रीयते न कः॥ १०४ ॥ न शोकः सुहृदां कर्तुमुचितस्ते विपश्चितः। यतस्तैः प्राणिघातेन स्वयमापदुदैर्यत ॥ १०५ ॥ जीवहिंसा हि सर्वासामापदामाद्यमास्पदम् । सुखानामप्यशेषाणां क्षये प्रत्यक्षराक्षसी ॥१०६॥ पङ्गुता न्यङ्गता कुष्ठं कुणिता बहुधापदः । प्रत्यक्षं लक्ष्यतामत्र हिंसाविषलताफलम् ॥ १०७ ॥ अहिंसा खलु संसारपारावारमहातरी । निःशेषदुःखदावाग्नौ नव्यकादम्बिनीयते ॥ १०८ ॥ फलितोऽत्रैव ते जीवाभयदानसुरद्रुमः । व्यसनाद्यदनायासमीदृशादप्यमुच्यथाः ॥ १०९ ॥ प्रधानं सर्वदानानां जीवदानं विदुर्बुधाः।18 प्रतिभाति यतः सर्वं सुन्दरं सति जीविते ॥ ११०॥ नाहारः सरसो न गीतललितं न स्मेरनेत्रास्मितं न स्वर्णाभरणं न । हारि शयनं स्नानं न कोष्णाम्बुभिः । नो चीरं रुचिरं न चर्चनविधिर्न प्राज्यराज्यं तथा प्राणान्ते हि सुखाकरोत्यसुमतः
TUSHUSHKAKO RSA
Page #106
--------------------------------------------------------------------------
________________
दानप्रदीपे
तृतीया प्रकाशा
॥४९॥
किश्चित्योचे चौरः खश सर्वपुमर्थप्रथनक्षम
दुदैवता वसुदत्तस्य तनयो
प्राणप्रदानं यथा॥११॥अत्रार्थे तस्कराख्यांनं ख्यापयन्ति विचक्षणाः। किंतदाख्यानमित्युक्तः शङ्कन स पुनर्जगौ॥११२॥
श्रीवसन्तपुरे जज्ञे जितशत्रुर्महीपतिः। तस्य प्रियङ्करापत्नी राज्ञी पश्चशतीवरा ॥११३ ॥ गवाक्षमीयुषः पत्नीजुषस्तस्यान्यदा पुरः। सलोत्रः पुररक्षेण चौरः कश्चिदमुच्यत ॥ ११४॥ नृपतिश्चौर्यतः क्रौर्यवत्या सौन्दर्यतः पुनः। प्रसन्नया दृशा पश्यन् दस्युं प्रोवाच सस्मितम् ॥ ११५॥ कस्त्वं किमीदृशे सर्वपुमर्थप्रथनक्षमे । तारुण्ये पुण्यलावण्ये कुरुषे कर्म निन्दितम् ॥११६ ॥ अथाश्वस्तमनाः किश्चित्प्रोचे चौरः स्खलद्वचाः । देव ! विन्ध्यपुरे विन्ध्यभूपतिप्रीतिशालिनः॥११७॥ श्रेष्ठिनो वसुदत्तस्य तनयोऽहं वसन्तकः । पितृभ्यां पालितः पाणौ कारितः सुखितोऽभवम् ॥ ११८ ॥ युग्मम् ॥ परं दुर्दैवतो छूतव्यसनं प्रादुरास मे । आशु निर्वासनद्वारमिव सर्वगुणश्रियाम् ॥ ११९ ॥ स्वजनैर्वार्यमाणोऽपि विपदासत्तियोगतः । मर्तुकाम इवापथ्यं न द्यूतमहमत्यजम् ॥१२०॥ प्रतार्य चार्यवप्तारं द्यूतेनाहं बहिर्ग्रहात् । निन्ये स्वं निर्गमे स्वस्य प्रस्थानं प्रथयन्निव ॥ १२१॥ ततोऽतिकुपितो वप्ता नृपाद्युक्तिपुरस्सरम् । दुदासमिव मां सद्यः स्वावासान्निरवासयत् ॥ १२२ ॥ ततः स्वैरविहारेण भ्राम्यन्नत्र समागमम् । जनं च भोगिनं दृष्ट्वा भोगेच्छा मेऽप्यभूभृशम् ॥ १२३ ॥ वित्तं विना न पूर्येत साऽनन्यगतिकस्ततः । तस्मै स्तैन्ये प्रवृत्तोऽहं तलारक्षरधारिषि ॥ १२४ ॥ इत्युक्ता स्वकथा नाथ ! कुर्वीथास्त्वमथोचितम् । तन्निशम्य नृपः किञ्चिद्दयार्द्रहृदयोऽजनि ॥ १२५॥ परं चौरो न मोच्यः स्यादिति नीतिप्रणीतितः। शूलारोपे तमादिक्षत्तलारक्षमिलापतिः ॥ १२६ ॥ अथ प्रियङ्करा राज्ञी हा! वराकः कृपास्पदम्। निराशोऽन्त्यदशामागादिति जातदयारसा ॥१२७॥ व्यजिज्ञपन्नृपं स्वामिन्नर्प्यतामयमद्य मे। यथानुभावयाम्येनमद्य सौख्यं यथेप्सितम् ॥१२८॥
॥४९॥
Page #107
--------------------------------------------------------------------------
________________
युग्मम् । एकाहं पूर्यतामस्य वराकस्याप्यभीप्सितम् । ततः परं तु कर्तव्यं प्रजानाथ ! यथोचितम् ॥ १२९ ॥ अनुज्ञाताऽथ सा राज्ञा मान्यानीय स्वधाम्नि तम् । शतपाका दिभिस्तैलैर्जवादभ्याञ्जिजज्जनैः ॥ १३० ॥ चूण्यैश्च सौरभापूर्णैर्मुदा तमुदवीवृतत् । कवोष्णैरम्बुभिश्चासौ स्वदासीभिर सिष्णपत् ॥ १३१ ॥ दूष्येणारूक्ष्य तं दिव्यदुकुलैः पर्यदीधपत् । विधाप्य मूर्ध्नि धम्मिल्लं माल्यैः पर्यस्करोच्च सा ॥ १३२ ॥ चतुःसमेन सर्वाङ्गं चर्चयामास सा च तम् । उष्णीषप्रमुखैः स्वर्णभूपणैरप्यभूषयत् ॥ १३३ ॥ सुधावधीरिणीं चारुरसां रसवतीं च सा । वीजयन्ती जनैः स्वर्णभाजनैस्तमबूभुजत् ॥ १३४ ॥ तस्मै कर्पूर संपूर्ण ताम्बूलं सा व्यशिश्रणत् । खद्वां चारोप्य नाव्यादिविनोदांस्तमदीदृशत् ॥ १३५ ॥ अथापराह्ने मायूरातपवारणशोभितः । पुरः प्रवृत्तसङ्गीतः परीतः स पदातिभिः ॥ १३६ ॥ वरं तुरङ्गमारोप्य सभां नीतोऽनमन्नृपम् । वितकैराकुलास्तैस्तैर्लोका आलोकयश्च तम् ॥ १३७ ॥ युग्मम् ॥ ततः सौधवरे स्वर्णशयने शायितस्तया । स वारस्त्रीकृतोपा स्तिस्त्रियामामत्यवाहयत् ॥ १३८ ॥ प्रातस्तु कारितप्राच्यवेषः प्रैषि नृपान्तिके । जज्ञे राइयाश्च तद्भक्तौ द्रव्यपञ्चशतीव्ययः ॥ १३९ ॥ अथ द्वितीयया राझ्या तथैव प्रार्थ्य पार्थिवात् । द्वितीयस्मिन् दिने स्पर्द्धादुपाचर्यत सोऽधिकम् ॥ १४० ॥ अन्या अप्येवमन्यान्यदिवसेषु विशेषतः । तस्योपचारमा चेरुर्बद्धस्पर्द्धा हि ता मिथः ॥ १४१ ॥ इत्थं तदर्थमत्यर्थं प्रथयित्वा पृथून् महान् । अपूरि कौतुकं ताभिः स्वचित्तस्य न तस्य तु ॥ १४२ ॥ अथ शीलवती राज्ञी राज्ञा पाणिग्रहादनु । दृष्ट्याऽपि न हि दृष्टा या स्वल्पर्द्धिः शीलशालिनी ॥ १४३ ॥ नृपं व्यजिज्ञपत्साऽपि जीवितेश ! स्मरस्यदः । जितारिनृपतेः पुत्रीं तदा मामुपयंस्यसे ॥ १४४ ॥ त्वद्विस्मृता च संतोषपीयूषसुहितानिशम् । सस्था समयाकुर्वे शीलैकविभवा
Page #108
--------------------------------------------------------------------------
________________
दानप्रदीपे
तृतीयः प्रकाश
विभो ! ॥१४५ ॥ निष्पुण्याया ममान्याभिः सार्द्ध स्पर्धा न काचन । किन्तु पतिक्रमायातमपीदं यदि नादधे ॥ १४६॥
तदा मे गणनाऽप्याशु न स्यादित्यहमर्थये । अद्यास्य तस्करस्यार्थे मह्यमप्यनुगृह्यताम् ॥ १४७ ॥ इत्यूचानामभिज्ञाय नृप४ तिस्तत्र तामपि । अन्वमस्त हृतस्वान्तस्तदा त्वज्ञाततद्गुणैः ॥ १४८॥ ततः सा सौधमाकार्य न परं देयमस्ति मे। भणित्वे
त्यभयं तस्मै ददौ स्वल्पोपचारकृत् ॥ १४९ ॥ अवादीच्च मया धर्मपुत्रस्त्वं प्रतिपेदिरे । अहं तवाङ्गजस्येव रक्षादक्षाऽस्मि निश्चिनु ॥ १५०॥ अथाप्तजगदैश्वर्यलक्ष्मीरिव स हर्षितः। स्वल्पोपचारमप्यस्या मेने कोटिगुणं ततः॥१५१॥ प्रातः शीलवती धर्मनन्दनं हसदाननम् । उत्फुल्ललोचनं फुल्लगल्लमुल्लसदंसकम् ॥१५२॥ आक्षिपन्तमशेषायाः क्षणाच्चभृषि पर्षदः। तमार्यमतिराकार्य राजसंसदमाययौ ॥ १५३ ॥ युग्मम् ॥ सभालोके तदालोककौतुकोत्तानलोचने । याचिष्यति किमेषाऽद्य पुनरित्युन्मिषेय॑या ॥ १५४ ॥ तस्थुषीषून्मुखीष्वन्यसुमुखीष्वखिलास्वपि । मापतिर्वीक्ष्य तादृक्षं हर्षितस्तमभाषत ॥ १५५ ॥ युग्मम् ॥ सम्मानितोऽप्यलं ताभिर्हतसर्व इवाभवः । अनया पुनरत्यल्पं प्राप्तराज्य इवेश्यसे ॥ १५६ ॥ किमत्र कारणं ब्रूहि विस्मयो हृदये हि नः । सोऽप्युवाच नृपं शीलवतीधीरितमानसः॥ १५७ ॥ त्वदुक्तैः शूलिकारोपवणेकर्णैककण्टकैः। वाचिकैरन्तकस्येवाभवमुद्भान्तमानसः॥ १५८ ॥ ततो गोभक्तवद्भक्तमम्बु निम्बरसोपमम् । खरवत्तुरगं मेने क्रीडावेश्म श्मशानवत् ॥ १५९ ॥ माला व्यालावली यक्षकर्दमः पूतिकर्दमः । शल्यं मेऽजनि पल्यङ्कः सूर्पमातपवारणम् ॥ १६० ॥ स्वर्णाभरणसंभारः शृङ्खलाभारवत् प्रभो ! । परिधापनिका श्राद्धदेवस्येवांशुकावली ॥ १६१ ॥ गीत रुदितवज्जज्ञे वाद्यं वनप्रहारवत् । शाकिन्य इव कामिन्यः पत्तयो यमदूतवत् ॥ १६२॥ बहुना किं समासन्नमृत्युशङ्का
५० ॥
Page #109
--------------------------------------------------------------------------
________________
कुलात्मनः। शुलामेकां मम ध्यातुर्जातं शूलामयं जगत् ॥ १६३ ॥ अद्य श्रीशीलवत्या तु गङ्गयेवावतीर्णया । ददे भुवनपाविन्या जनन्येव ममाभयम् ॥ १६४ ॥ अतोऽधुना स्वस्थमनाः प्रमना अमनागहम् । पुनः संजातजन्मेव सर्व पश्यामि सुस्थितम् ॥ १६५ ॥ तेनाल्पोऽप्युपचारोऽस्या ययौ मे दिव्यभोगताम् । यतस्तृणमपि प्राणप्रदं चिन्तामणीयते । ॥ १६६ ॥ मेरुसर्षपयोर्यावान् यावान् स्वर्णारकूटयोः। भेदस्तावानभूदस्याः परासां चोपकारयोः॥ १६७ ॥ अथैक्षिष्ट भृशं हृष्टः मापस्तस्या मुखाम्बुजम् । साऽऽचख्यौ श्रीमुखेनास्मै दीयतामभयं प्रभो !॥१६८॥ दत्तमेवेदमन्यत्तु याचस्वेति नृपोदिता । साऽवादीत्त्वत्प्रसादेन न मे न्यूनं किमर्थये ॥ १६९ ॥ अहो ! गाम्भीर्यमेतस्या अहो ! धैर्यमहो ! दया । अहो ! शीलमहो! सत्यमहो ! निःस्पृहचित्तता ॥१७०॥ इत्याकृष्टो गुणैः पट्टराज्ञी तेनेऽथ तां नृपः। दयाधर्मप्रभावाच्च क्रमात्सुगतिमाप सा ॥ १७१॥ वसन्तकोऽपि तत्पुत्रः ख्यातः क्षमापप्रसादवान् । जातशुद्धदयाधर्मः क्रमेण त्रिदिवं ययौ ॥ १७२॥ । ततो भद्रङ्करं भद्र ! परं नाभयदानतः । त्वया दृष्टफले चास्मिन् विधेयः सम्यगुद्यमः ॥ १७३ ॥ शङ्खः सहर्षमुन्मेषि-है संवेगः समगीष्ट तत् । यतो वृष्टिरिव क्षेत्रे पात्रे फल्गुर्ने देशना ॥१७४॥ श्रेयःप्रपञ्चकं पञ्चनमस्कारमशिक्षयत् । सुमेघः शङ्खमन्येधुः सतां धा हि संकथाः॥१७५॥ उपादिक्षच्च तं दक्ष ! निकारः सकलापदाम् । अयं पञ्चनमस्कारः स्वीकारः सर्वसंपदाम् ॥ १७६ ॥ न स्युर्भूतानि भीत्यै विरचयितुमलं व्यन्तरा नान्तरायं यक्षाः पुष्णन्ति रक्षां विदधति विविधा व्याधयो नापि बाधाम् । शक्ता नैवापकर्तुं ज्वलनजलगराधुत्थदुर्गोपसर्गाः सम्यक्कण्ठोपकण्ठे लुठति तनुमतां श्रीनमस्कारमन्त्रे ॥ १७७ ॥ तदमुं हृदये सारहारवद्धारयान्वहम् । येनाशेषसुखनीणां सुभगंभावुको भवेः ॥ १७८ ॥ शङ्खनोन्मेषि-13
Page #110
--------------------------------------------------------------------------
________________
दानप्रदीपे
तृतीयः प्रकाशः।
॥५१॥
हर्षेण स्वीचक्रे तद्वचस्तथा । सचेतनः परेणोक्तं न कः स्वीकुरुते हितम् ॥१७९ ॥ एवं पुण्यमयालापयाप्ययानोपविष्टयोः। प्रथीयानप्ययं पन्थाः सुखोलव-यस्तयोरभूत् ॥१८८ ॥ अथ बन्धुमिवाभीष्टं शङ्खमाभाष्य हर्षतः । सुमेधः स्वाघघातार्थी प्रापदास्पदमीप्सितम् ॥१८१॥ अनारतं नमस्कारं स्मरन्निजपुरं प्रति। शङ्खः केनापि सार्थेन समं प्रास्थित सुस्थितः॥१८२॥ कुण्डलीकृतकोदण्डाः प्रचण्डाः क्वाप्यरण्यके । केऽपि भिल्लभटाः प्रेतपतेरिव पदातयः॥१८३॥ भोः! भोः! गृहीत गृहीत यान्ति यान्तीति वादिनः। श्येनप्रपातमापेतुस्तं च सार्थममन्दिषुः ॥१८४ ॥ युग्मम् ॥ सहान्यैर्नवभिः पान्थैः क्रौञ्चबन्धं निबध्य तम् । पल्यामानीय पापास्ते पल्लीशाय समार्पयन् ॥ १८५ ॥ जगाद मेघनादस्तान् पल्लीशोऽमी सुरक्षिताः। क्रियतां लभ्यते यावदीहगेकादशो नरः॥१८६ ॥ यतो भूताभिभूतस्य ज्येष्ठसूनोरनामये । प्रपेदे चण्डिकादेव्या एकादशनरो बलिः॥१८७॥ ततो गाढं न्यरौत्सुस्तांस्ते पशुनिव सौनिकाः । अन्येद्युः पुनरानिन्ये भिल्लैरेकादशः पुमान् ॥१८८॥ अथ ते स्नपिताः श्वेतवासांसि परिधापिताः । नीतास्तैश्चण्डिकावासं यमावासमिवापरम् ॥ १८९॥ अरे ! कुरुत यत्कृत्यं स्मर्सव्यं स्मरत द्रुतम् । चण्डिकायै बलिं कुर्वे सर्वेषामपि वस्तनूः ॥ १९०॥ इत्युक्त्वा हन्तुकामस्तान् कृपाणं पाणिनाऽकृपः । पल्लीन्द्र आददे तावद्भुत्येनागत्य पूत्कृतम् ॥ १९१ ॥ हा धाव धाव भूतेनात्यर्थ ते व्यथ्यते सुतः । मुक्त्वा तानथ भूनाथः पुत्रोपान्तमगाद्रुतम् ॥ १९२ ॥ नृपेण कारितैरास्ता तैस्तैस्तस्यौषधैर्गुणः । ववृधे प्रत्युत व्याधिरुषर्बुध इवेन्धनैः
१९३ ॥ कारं कारं प्रतीकारं निर्विण्णस्यावनीभुजः। किं भविष्यत्तया चिन्ताकान्तं स्वान्तमजायत ॥ १९४ ॥ अथ पञ्चनमस्कारमाहात्म्यमसमं स्मरन् । प्रधानपुरुषं शङ्खस्तत्राभाषत कञ्चन ॥ १९५॥ दयतां राजसूनुर्मे यथा तद्दोषमो
Page #111
--------------------------------------------------------------------------
________________
I
क्षणे । निजं किञ्चन वैदुष्यं प्रत्यक्षं प्रेक्षयामि वः ॥ १९६ ॥ तस्योक्तमाशु तेनाऽपि विज्ञप्तः पल्लिनायकः । शङ्खमाकार्य कार्यज्ञमभ्यधत्त ससंभ्रमम् ॥ १९७ ॥ कलासु कौशलं विज्ञ ! तवाकृत्यैव कीर्त्यते । दीप्तिरेवाह बाहीकी महिमानं मणेर्न किम् ॥ १९८ ॥ प्रगुणीकुरु मे सूनुं न्यूनं किञ्चिन्न ते तथा । यदत्र मृग्यते मार्गमदभोगादि तद्वद ॥ १९९ ॥ अथाभाषत शङ्खस्तं संभ्रमेणामुना सृतम् । बाह्योपकरणापेक्षा दोषस्यामुष्य न क्षये ॥ २०० ॥ इत्युक्त्वा स नमस्कारमपारमहिमार्णविम् । परावर्तयितुं सम्यक् प्रावर्तत पवित्रधीः ॥ २०१ ॥ नासाग्रजाग्रदति मन्थरतारदृष्टिर्नाभिस्थपद्म रममाणमनोमरालः । प्रत्यक्षरक्षरद पारसुधाप्रवाहण्यालुप्ततत्तदुरुदोषविषातिवेगः ॥ २०२ ॥ योगीव यावदभयं त्रिरयं जजाप दीप्रप्रतापमपपापममुं महात्मा । कृत्वा विरावमुरुभीविवशः पिशाचस्तावन्ननाश शशनाशमतो दुराशः ॥ २०३ ॥ युग्मम् ॥ स्वस्थीभूतस| मस्ताङ्गस्तन्मुक्तः पल्लिराजसूः । पुनर्जात इवाराजद्राजेव तमसोज्झितः ॥ २०४ ॥ तं तथा वीक्ष्य हर्षाश्रुपल्वलायितलोचनः । जगाद मेघनादस्तं श्रेष्ठिसूनुमन्नमुद् ॥ २०५ ॥ अहो ! ते शक्तिरुन्मुक्ततुलना भुवनाद्भुता । अहो ! परोपकारैकफला ते | सकलाकला ॥ २०६ ॥ चरित्रेण पवित्रेण दत्तचित्रेण तेऽमुना । कुरङ्ग इव गीतेन काममाक्रामि मे मनः ॥ २०७ ॥ प्रार्थयस्व तवाभीष्टमर्थ संपादयामि कम् । शङ्खोऽपि तमभाषिष्ट सुष्ठु तुष्टोऽसि मे यदि ॥ २०८ ॥ तदिमान् जीवितं दत्त्वा संमान्य स्वजनानिव । वैदेशिकान् दशाप्येतान् गृहान् प्रति विसर्जय ॥ २०९ ॥ ओमिति प्रतिपेदानः पल्लीन्द्रः शम्बलादिना । | सत्कृत्य कृत्यवेदी तान् विससर्ज स्वबन्धुवत् ॥ २१० ॥ शङ्खं चात्यर्थमभ्यर्थ्य पृथुप्रथितगौरवः । स स्वसद्मनि निश्छद्मा दिनान् कत्यप्यतिष्ठिपत् ॥ २११ ॥ स्फीतायामन्यदा प्रीतौ श्रेष्ठिसूस्तमुपादिशत् । प्राणिघातः किमापातः पातकानां
Page #112
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥५२॥
प्रतन्यते ॥२१२॥ निस्तूंशैरात्तनिस्त्रिंशेरशस्त्रागतमन्तवः । निःशरण्यानि हन्यन्ते ही महापापमशिनः ॥ २१३ ॥ तृतीयः विदन् कण्टकवेधेऽपि दुःखं दुःसहमात्मनः । प्राणिनां वधमाधत्ते कः सुधीनिशितायुधैः ॥ २१४ ॥ दीर्घायुर्वपुरारोग्यं प्रकाश। सौभाग्यं विश्वमान्यता । राजन्निदं फलं सर्वमहिंसाया महीतले ॥२१५ ॥ भूतानां भयभीतानामभयं यः प्रयच्छति । अकुतोभयतामेष भजत्यभयसिंहवत् ॥ २१६ ॥ को भद्राभयसिंहोऽयमिति पल्लीभुजोदितः । श्रेष्ठिपुत्रः पुरस्तस्य कथ-13 यामास तत्कथाम् ॥२१७ ॥ __ अत्रैव भरते रम्यारामे ग्रामे कुशस्थले । नामोक्त्या च प्रकृत्या च भद्रकः कुलपुत्रकः ॥२१८॥ नृणां काले सदुष्काले कराले भुवि सर्पति । निर्वेदमेदुरोऽन्येधुरन्नाभावादचिन्तयत् ॥ २१९ ॥ वृत्तिं कुर्वे कुरङ्गादीन् निहन्यारण्यवासिनः। धर्मबाहीकचित्तानां न हि मार्गानुगा मतिः॥ २२०॥ ततो मुद्गरमादाय वनं प्राप स पापधीः । शशकं प्रति निःशवं निःशूकस्तं मुमोच च ॥२२१॥ दृष्ट्वा शशस्तमायान्तं मृत्युभीतः पलायत । मुद्गरं पृष्ठतश्चास्य चिक्षेप स पुनः पुनः॥२२२॥ अनन्यशरणस्थानः शशो नश्यन्नितस्ततः। प्रतिमास्थयतीन्द्रस्य चरणान्तन्येलीयत ॥ २२३ ॥ अत्रान्तरे पुरः साधोस्तपोमाहात्म्यरञ्जिता । स्फटिकाइममयीं भित्तिं वितेने वनदेवता ॥२२४ ॥ तन्मुक्तो मुद्गरस्तस्यामास्फल्य विनिवृत्त्य च । भद्रस्य सहसा भालस्थले वज्र इवास्फलत् ॥ २२५ ॥ तद्धातव्यथितो रक्तभरै रक्तः स सर्वतः। पपात मूर्छितःक्ष्मायां वाताहत ॥५२॥ इव दुमः ॥ २२६ ॥ शीतेन वन्यवातेन सुहृदेवोपसेवितः । भद्रः प्रोन्निद्रचैतन्यः पश्यति स्म यतिं पुरः॥ २२७ ॥ दध्यौ च श्रमणं शान्तं पश्यन्नस्यदसन्मतिः । हहा! दुष्कर्म मे जज्ञे जन्मन्यत्रैव दुःखदम् ॥ २२८ ॥ यद्वा मे विद्यतेऽद्यापि
Page #113
--------------------------------------------------------------------------
________________
पण्यं किसपचेलिमम् । ऋषिः केनाप्यलक्ष्येण यदरक्ष्यत मुद्गरात् ॥ २२९ ॥ अन्यथा प्रतिमास्थायियतिघातजपातकैः।।
वेबसिम स्थानं नरके सप्तमेऽपि हि ॥ २३० ॥ प्रतिमा पारयित्वाऽथ यतिः प्राह कृपानिधिः। भद्र ! सर्वापदापातं प्राणिघातं करोषि किम् ॥ २३१॥ मांसैकलालसः प्राणिहिंसां यः कुरुते कुधीः । नानादुर्गतिदुःखानां स भवेद्भाजनं जनः॥२३२॥ कृपां सर्वेषु जीवेषु यः कुयोदायधीः पुनः। स सर्वा विपदोऽतीत्य संपदो भजतेऽद्भुताः॥२३३ ॥ अथ भद्रस्तमुन्निद्रविवेकः प्रोचिवान् प्रभो! यावज्जीवमहं जीवघातं कर्तास्मि जातु नो॥२३४ ॥ निःसङ्गोऽपि यतिधर्मे दृढीकतं शशंस तम् । भद्र ! धन्योऽसि मान्योऽसि मुनीनामपि सम्प्रति ॥ २३५ ॥ बीजं धर्मतरोजीवदयां यत्प्रत्यपद्यथाः। तवानया च भाविन्यः सुलभाः सर्वसंपदः॥२३६ ॥ अथ भत्त्या यति नत्वा भद्रः सद्म स्वमागमत् । मन्वानो धन्यमा-18
मानं दयाधर्माप्तियोगतः॥ २३७ ॥ सम्यग्धर्मानुभावाच्च व्यवहृत्यैव शुद्धया । जीविकासुखमेवास्य परिवारस्य चाभवत् WI॥ २३८॥ भद्रः सम्यकृपाधर्ममाराध्य विधिवन्मृतः। यथा प्रेत्य समुत्पेदे राजन्नाकर्ण्यतां तथा ॥ २३९॥
| अत्रैव भरतक्षेत्रे पुरी श्वेतबिकाया । यस्यां सदा सदाचाराः सुजना दुर्जना अपि ॥ २४०॥ असीमसेनस्तत्रासीद्वी४ रसेननरेश्वरः । सुखं यस्यासिशय्यायां व्यश्रम्यत जयश्रिया ॥ २४१॥ पुण्यस्फुरदभिप्राया प्रिया वप्रास्य भूपतेः । शीलं
वप्रायते यस्या रक्षितुं सुकृतश्रियम् ॥ २४२॥ भद्रस्तदङ्गजो जज्ञे स्वप्ने सिंहेन सूचितः। रेजे स्थानमिव श्रीणां यः पुञ्ज इव तेजसाम् ॥ २४३ ॥ गते तज्जन्मनो मासे वीरसेनमहीपतिम् । नृपोऽभिषेणयामास मानभङ्गाह्रयो रिपुः॥२४४ ॥ रेणुभिस्तुङ्गदुत्तुङ्गतुरङ्गमखुरोद्धतैः । दिवसेऽपि निशां सर्वजनानां जनयन्निव ॥२४५ ॥ मत्तदन्ताबलवातमदवारिप्रवा
Page #114
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ५३ ॥
हतः । कुर्वन्नवर्षकालेऽपि सकलान् पङ्किलान् पथः ॥ २४६ ॥ तन्वन्निवाभितः पत्तिकृपाणैर्दिवि विद्युतः । स प्राप तत्पुरः| सीमामसीमानीकिनीवृतः ॥ २४७ ॥ त्रिभिर्विशेषकम् ॥ समं चमूसमूहेन वीरसेनोऽपि भूपतिः । पारीन्द्र इव दन्तीन्द्रं | सद्यस्तमभिजग्मिवान् ॥ २४८ ॥ द्वयानामप्यभूत्तत्र योधानां युद्धमुद्धतम् । कुन्ताकुन्ति क्वचित् खङ्गाखनि क्वापि शराशरि ॥ २४९ ॥ वीरसेनस्य सेनान्या सेनानीः प्रत्यनीकगः । महस्विना महीपीठे द्रुमपातमपात्यत ॥ २५० ॥ ततस्ताम्राननो मानधनो माननृपः क्रुधा । वीरसेनमहीशेन सार्द्ध योद्धुमधावत ॥ २५९ ॥ रणं भीषणमुद्वीक्ष्य तयोस्त्रस्तसुरासुरम् भीतयेव क्षणं कोऽपि न वत्रे विजयश्रिया ॥ २५२ ॥ अथ दैववशाद्वीरसेने राज्ञि विनाशिते । राज्यं तस्यात्मसाच्चक्रे |मानभङ्गमहीपतिः ॥ २५३ ॥ वप्रा तु भयकम्प्रात्मा शीललोपभियाकुला । पुण्यालवालं तं बालं समादाय पलायत ॥ २५४ ॥ कान्तारे राजकान्ता सा भ्राम्यन्ती भ्रान्तलोचना । लुब्धकेन कुरङ्गीव केनाप्यालोकि पत्तिना ॥ २५५ ॥ चित्ते चाचिन्ति मे पुण्यमगण्यं यदियं मया । अवापि रूपसौन्दर्यतर्जितस्वर्वधूर्वधूः ॥ २५६ ॥ बालं व्यालं मिथःस्नेहनाशे प्राक् त्याजयेऽनया । इयं मयि यथा कुर्यादनुरागमनर्गलम् ॥ २५७ ॥ ततोऽभ्यधत्त पत्तिस्तां त्यजेमं भारमर्भकम् । कार्याकार्यविवेके हि न च्छेकः कामदुर्मदः ॥ २५८ ॥ सा त्वजल्पदनल्पश्रीनिर्जिताङ्गजमङ्गजम् । कथं त्यजामि निर्व्याजं जीविताधिकमात्मनः | ॥ २५९ ॥ मयि प्राणप्रिये चित्तनन्दनास्तव नन्दनाः । भाविनो बहवोऽपीति तेनोक्का साऽप्यवक् पुनः ॥ २६० ॥ भवितारः परे पुत्राः परत्रैवेति निर्णयः । रोदितुं च प्रवृत्तेयमबलानां हि तद्बलम् ॥ २६९ ॥ स शठस्तु हठात्पुत्रं त्याजयित्वा करेण ताम् । परिगृह्याग्रतों गच्छन् पूर्णकाम इवाब्रवीत् ॥ २६२ ॥ मा रोदीर्मा च खिद्यस्व प्रतिपद्यस्व मां पतिम् । वृथा
तृतीयः प्रकाशः ।
॥ ५३ ॥
Page #115
--------------------------------------------------------------------------
________________
मा स्म कृथा वन्यप्रसूनमिव यौवनम् ॥ २६३ ॥ इति तद्वाक्यमाकर्ण्य कर्णयोः क्रकचोपमम् । दुःखातेयमुपालब्धदैवं पर्यवलोचना ॥ २६४ ॥रे! पूर्व ते मया दैव ! किमपराधि दुधिया । ददासि निर्दयं यन्मे व्यसनं व्यसनोपरि ॥ २६५ ॥
प्रथमं किल यस्याहं प्राणेभ्योऽपि प्रियाऽभवम् । मरणं जीवितेशस्य तस्य शस्यगुणाम्बुधेः॥ २६६ ॥ द्वितीयं सर्वसौख्याजङ्गप्राज्यतो राज्यतश्च्युतिः। तृतीयं ज्ञातिवर्गेण वियोगो युगपन्मम ॥२६७॥ तुरीयं निःशरण्यायाः शून्येऽरण्ये परिभ्रमः । | पञ्चमं चास्य पापस्य पिशाचस्याचटं शये ॥२६८ ॥ किमन्यद्वाऽधिकं भावि व्यसनं यन्ममाङ्कतः। पातनं पुत्ररत्नस्य
यमस्येवानने वने ॥ २६९ ॥ दत्त्वापीदृक्षदुःखानि धातर्धाणोऽसि नाधम ! ? । यन्मे प्राणप्रियं शीलं साम्प्रतं ही जिहीजापसि ॥ २७० ॥ सत्यं परस्य सर्वस्यापहारे त्वमभूः प्रभुः । ज्ञास्यते त्वधुना शीलविनाशे तव कौशलम् ॥ २७१ ॥ धृष्ट ! | त्वमपि रे चित्त ! वज्रेण किमसृजथाः। यतो विदीर्यसे नाशु वैशसं पश्यदीदृशम् ॥ २७२ ॥ इत्यार्तिसजुषोऽमुष्या दुःखावर्तः स कोऽप्यभूत् । प्राणा दृष्टेव यं भीता हृद्विदार्य विनिर्ययुः ॥ २७३ ॥ शीलानुभावतः सा च बभूव व्यन्तरी सुरी । विभूतेः प्रतिभूः कस्या न स्यादमलशीलता ॥ २७४ ॥ जन्मन्यवेतिनी पूर्वेऽवधिज्ञानेन सा वने । सुतं वातच्युतं जम्बूफलमश्नन्तमैक्षत ॥ २७५॥ ततो गोरूपमाकल्प्य प्रेमगर्भ तमर्भकम् । अपीप्यत्सा पयः सर्वोपद्रवेभ्योऽप्यपीपलत ॥ २७६ ॥ अन्येद्युः प्रियमित्राख्यस्तत्र श्वेतबिकापुरः। सार्थवाहः समायासीत्तस्य पुण्यैरिवेरितः ॥ २७७ ॥ तमद्राक्षीच्च वृक्षाधः शुभलक्षणलक्षितम् । अमंस्ताद्भुतभाग्यं च तरुच्छायास्थिरत्वतः ॥ २७८ ॥ ततो रत्नमिवादाय सार्थवाहस्तमकम् । रहोवृत्त्याऽनपत्यायाः स्वप्रियायाः समार्पयत् ॥ २७९ ॥ भार्याया गूढगर्भायास्तनयोऽद्य ममाजनि । इति ज्ञापयता
Page #116
--------------------------------------------------------------------------
________________
दानप्रदीपे
तृतीयः प्रकाशः।
॥५४॥
055
तेन तेने तज्जन्मनो महः॥ २८ ॥ विजनेऽयं वनेऽदार्श सिंहवन्निर्भयो मया । इत्यामृश्य व्यधात्तस्याभयसिंहेति नाम |सः॥ २८१॥ पालयामासतुस्तौ च पितराविव तं मुदा । शुभकमैव सर्वत्र स्वाजन्यं जनयेद्यतः ॥ २८२ ॥ समये कलयामास सकलाः सकलाः कलाः। विलासिनीमनोलीलावनं यौवनमाप च ॥ २८३ ॥ तं सुखं शयने सुप्तमन्यदा क्षणदाभरे । अवादीजननी देवी प्रेमपूरकिरा गिरा ॥ २८४ ॥ सवित्री वत्स! ते पूर्वमस्यां पुरि महीपतेः। प्रियाऽहं वीरसेनस्य वप्रा त्वं च सुतोऽसि मे ॥ २८५ ॥ पिता तेऽघात्यतानेन मानभङ्गेन सङ्गरे । नष्टा चाहं वने मृत्वा व्यन्तरी देवताऽभवम् ॥२८६ ॥ तदेष मापतिषी शत्रुपुत्रस्य ते ध्रुवम् । अतो रक्षाकृते विद्यां गृहाणादृश्यताकरीम् ॥ २८७ ॥ महान् प्रसाद इत्युक्त्वा नत्वा च जननी ततः। पाठसिद्धामयं विद्यां प्रतीयेष प्रहर्षुलः ॥२८८ ॥ संनिधास्ये पुनः सद्यः स्मृता कार्यविधौ तव । इत्युक्त्वा साऽपि संपावत्प्रापदास्पदमात्मनः ॥२८९॥ जानानोऽप्यवनीकान्तं प्रत्यनीक विमुक्तभीः। अभयः
स्वैरमाक्रीडादिषु चिक्रीड सात्त्विकः ॥ २९०॥ मानभङ्गस्तु भूजानिर्व्यसनी पललाशने । अन्नं मनोज्ञमप्यन्यदमन्यत लापलालवत् ॥ २९१॥ अन्येद्युःसूपनिवृत्तो मांस्पाकस्तत्प्रमादतः। अभक्षि वृषदंशेन तादृशामशनं हि तत् ॥ २९२॥ ततः
करतया भर्तुभीरुः कालविलम्बतः । अप्राप्तान्यपलः सूपः कान्दिशीक इवाभवत् ॥ २९३ ॥ पश्यन्नितस्ततः कश्चिद्वालमा-| लोक्य निष्कृपः। निहत्य तत्पलं पक्त्वा नृपाय द्रागुपानयत् ॥ २९४ ॥ तदपूर्वतयाऽतीवस्वाद्यमास्वादयन्नृपः। जजल्प सूपकस्येदं मञ्जलं वद जङ्गलम् ॥ २९५ ॥ सम्यग् भूपतये सूपस्तत्स्वरूपं व्यजिज्ञपत् । भूपोऽपि तत्पलास्वादलोलुपः सूपमालापत् ॥ २९६ ॥ अरे ! वरेण्यमेकैकं निहत्य प्रत्यहं शिशुम् । उपस्कृत्य च तन्मांसमानेयं भोजनाय मे ॥ २९७ ॥ तन्नि
॥५४॥
Page #117
--------------------------------------------------------------------------
________________
देशात्स निस्तंशस्तथाकत प्रचक्रमे । पापशीले हि भूपाले सेवका अपि तादृशाः॥ २९८ ॥ एवं विधीयमाने च तेन भूमिभुजा प्रजाः। अगोपायनपत्यानि वित्तानीव मितंपचाः॥ २९९ ॥ कदा कुकर्मनिर्माणकर्मठस्यास्य भूपतेः । विनाशो भवितेत्यतिपराः पौरास्तदाभवन् ॥ ३०० ॥ अन्येधुर्लुब्धधीर्दध्यौ भूधवः कोऽपि मा स्म माम् । राज्यभ्रंशं बलान्नैषीदोषी 3 प्रायो हि शङ्कितः॥ ३०१॥ अत्रान्तरे तरुवातं मूलादुन्मूलयन् रयात् । कल्पान्तपवनोर्जस्वी स्फूर्जति स्म समीरणः ॥३०२॥ जज्ञे तेनोद्धतै लिपूरैरापूरितेऽम्बरे । मार्तण्डमण्डलं राहुनिगीर्णमिव सर्वतः॥३०३ ॥ दिशोऽप्यासंस्तमःस्तोमैः सर्वतः श्यामतां गताः । अमानैर्मानभङ्गस्य मूतैः पापभरैरिव ॥ ३०४ ॥ अद्यश्वीना नरेन्द्रस्य दुर्मतेरस्य यन्मृतिः। अतो मुदेव पर्जन्या जगजुर्जगतीहिताः ॥ ३०५ ॥ दुरात्मानं नृपं हन्तुं स्फोर्यमाणा मुहुर्मुहुः । कर्तरीव कृतान्तस्य दिद्युते विद्युदम्बरे ॥ ३०६ ॥ तदा च व्योमगं भूतमिथुनं संकथाकरम् । संभ्रान्तमवनीकान्तः शृणोति स्म गवाक्षगः ॥३०७॥ जल्पति स्म प्रियां भूतं ब्रुवे भावि किमप्यहम् । साऽप्यूचे सोपयोगाऽस्मि देव ! सद्यो निवेद्यताम् ॥ ३०८॥ निर्मन्तुजन्तुसङ्घातघातपातकभारितः। विनिपातमुपेतायं स्वल्पकालेन भूपतिः॥ ३०९ ॥ इत्याचक्षाणमाचख्यौ भूतमुद्भूतकौतुका । दयिता भविता कोऽत्र नृपस्तेनाप्यजलप्यत ॥३१०॥ यो नृपाज्ञामवज्ञाता वशीकर्ता मतङ्गजम् । स्वीकर्ता च सुतां राज्ञः प्रभुः स भविता भुवः॥ ३११॥ इत्युदित्वा मिथो भूतमिथुनं तत्तिरोदधे । व्यलीयत समस्तोऽपि विप्लवः पवनादिभूः॥ ३१२ ॥ अथ मृत्युभयोद्धान्तस्वान्तः क्ष्माकान्त उन्मदः । अक्षेपेण पुरारक्षमित्यादिक्षत रूक्षधीः ॥३१३ ॥ दुष्टात्मा यो भटमन्यो ममाज्ञामवमन्यते । त्वया नेयः स कीनाशदासभूयमशङ्कितम् ॥ ३१४ ॥ जगाम
दा.
.
Page #118
--------------------------------------------------------------------------
________________
दानप्रदीपे
तृतीयः प्रकाश।
कामदेवस्य धाम निश्यन्यदा महे । अभयः प्रेक्षणं प्रेक्ष्य प्रतस्थे च गृहान् प्रति ॥ ३१५ ॥ निरीक्ष्य पुररक्षस्तमरूक्षाक्ष- रमाख्यत । शिष्ट ! विष्ठ क्षणं गम्यं निवेद्यात्मानमग्रतः॥ ३१६ ॥ तस्थौ नहि तथाऽप्येष नदीपूर इव ब्रजन् । स कोपेन नृपाज्ञास्मै ततस्तेन व्यतीर्यत ॥ ३१७ ॥ देहि स्वपितुरेवाज्ञामेवमुद्गीर्य धैर्यवान् । अग्रतो गन्तुमारेभेऽभयसिंहस्तु निर्भयः॥ ३१८ ॥ भो भो योधाः ! धृतकोधा बध्यतां बध्यतामयम् । इति जल्पन भटान सोऽपि क्रुधा तं प्रत्यधावत ॥ ३१९ ॥ विद्ययाऽथ तिरोभूय वीरभूनिर्भयस्ततः। जगाम क्षेमवान् धाम क नाम विपदः सताम् ॥ ३२०॥ प्रातस्तदाचचक्षाणं पुररक्षं रुषारुणः। जगाद मानभङ्गस्तं मानभङ्गकरं वचः॥ ३२१ ॥ध्रुवं क्लीबोऽसि रे रङ्क ! यदेकमपि तं रिपुम् । निहन्तुं नहि शक्तोऽभूर्युक्तः पत्तिशतैरपि ॥ ३२२ ॥ मदोडुरोऽन्यदा राजसिन्धुरः क्रोधदुर्धरः। उन्मूल्यालानमुद्दामस्थाम बभ्राम कामतः॥ ३२३ ॥ उत्पातयंस्तरुवातं महावात इव क्वचित् । प्रतीप इव पृथ्वीपः | प्रासादान क्वापि पातयन् ॥ ३२४ ॥ पौरांश्चौरानिवारक्षस्त्रासयन् सर्वतः पुरे । अकालमपि कल्पान्तमवतारयति स्म सः॥ ३२५ ॥ युग्मम् ॥ इतश्च काममभ्यर्च्य काननान्नपनन्दनी । व्यावृत्ता कनकवती तस्यागतवती दृशोः॥ ३२६ ॥ |स दधाव क्रुधा मातः कृतान्त इव तां प्रति । पूच्चकार परीवारस्तस्यास्तारस्वरं ततः॥ ३२७ ॥ भो भो वीराः! रणे धीराः! दुतं धावत धावत । अस्माकं स्वामिनीमेनां ग्रसते हतकद्विपः॥ ३२८ ॥ कोऽप्यस्ति वीरकोटीरस्त्रायते यो नृपा- गजाम् । यदि वा किमु निर्वीरमुर्वीतलमिदं हहा ! ॥ ३२९ ॥ आरावमिति शुश्राव पश्चादिव स वीरसूः। स स्थामग्रा-५ मणीः पूर्वमाजगाम गजान्तिकम् ॥ ३३०॥ अरे न केवलं नाम्नो मातङ्गः कर्मणाऽप्यसि । यदेवमबलां बालामुपद्रोतु
॥५५॥
Page #119
--------------------------------------------------------------------------
________________
मुपस्थितः ॥ ३३१ ॥ इत्युदीर्य महावीर्यः प्रजहारातिवज्रया । तन्मारणोद्यतं मुष्ट्या दुर्वारं तं स वारणम् ॥ ३३२ ॥ अथ राजाङ्गजां त्यक्त्वाऽभ्यधावत्तं कुधा द्विपः । मण्डल्याऽभयसिंहोऽपि निर्भयस्तमविभ्रमत् ॥ ३३३ ॥ अचीखिदत्तथा तं च क्षरत्स्वेदाम्बुनिर्झरः । यथास्थिरः क्षणं भेजे वर्षाक्षोणीधरश्रियम् ॥ ३३४ ॥ अथायं द्रुतमुत्पत्य सत्यस्तुत्यपराक्रमः । द्विपस्य स्कन्धमध्यास्त पौराणां हृदयं पुनः ॥ ३३५ ॥ वशीकृत्य वशाकान्तं सृणिना मसृणेन सः । हेलया खेलयामास वासवः स्वर्गजं यथा ॥ ३३६ ॥ तदीयोपकृतिक्रीती तद्गुणावर्जिताशया । तदा मुदा हृदा कन्या वरयामास तं वरम् ॥ ३३७ ॥ अहो ! अस्याद्भुता शक्तिरयं जीयाच्चिराय च । इति तस्य स्तुतिं तेनुः पूर्जना गायना इव ॥ ३३८ ॥ खेलयित्वा क्षणं पौरपुरन्ध्रीनयनोत्सवः । निनाय द्विपमालानं ख्यातिं वीरव्रतं च सः ॥ ३३९ ॥ अथ दध्यौ धराधीशो वणिकसूनुरयं नहि । अस्याकृत्या प्रकृत्या च सूत्र्यते क्षत्रगोत्रता ॥ ३४० ॥ किमेष एव तां दिव्यभाषां सत्यापयिष्यति । तदस्य द्विषतः क्षिप्रमपायोपायमादधे ॥ ३४१ ॥ यतः कार्ये न धीरेण मोक्तव्यं क्वापि पौरुषम् । इति निष्टय दुष्टात्मा भटानादिष्टवान्नृपः ॥ ३४२ ॥ वीरेषु रणदक्षेषु पुरोलक्षेषु सत्स्वपि । अयं नियन्त्रयामास वाणिजस्याङ्गजो गजम् ॥ ३४३ ॥ मालिन्यं तनुते राज्येऽपवादोऽयं निषादवत् । अधिकं वर्धते चायं जीवत्यस्मिन् वणिक्सुते ॥ ३४४ ॥ अतोऽतर्कितमेवायमवरोहन्मतङ्गजात् । भवद्भिरतिथीकार्यो निकाय्ये समवर्तिनः ॥ ३४५ ॥ ततः क्रोधोडुरा योधाः सन्नद्धा विविधा - युधाः । प्रहन्तुं परिवनुस्तं शूकराः करिणं यथा ॥ ३४६ || तान्मत्वाऽभयसिंहस्तु घातकानन्तकानिव । तिरोभूय घुसझेव द्रुतं सद्म स्वमासदत् ॥ ३४७ ॥ तेऽथ विज्ञपयामासुर्वीक्षापन्नमुखा नृपम् । यावदाहन्महे राजन्नयं तावत्तिरोदधे ॥ ३४८ ॥
Page #120
--------------------------------------------------------------------------
________________
दानप्रदीपे
वीक्ष्यमाणोऽपि साक्षेप क्वाप्ययं नैक्षि यक्षवत् । ततस्ताँस्तर्जयामास हताशः क्षितिवासवः ॥ ३४९ ॥ अथ क्षणान्तरे क्षीण- तृतीयः कोपं भूपं व्यजिज्ञपत् । धात्री वसन्तसेनाख्या नियुक्ता राजकन्यया ॥ ३५० ॥ देव ! वेत्स्येव वत्साया वरारोचकितां | प्रकाशः। स्वयम् । सौन्दर्यजितमाराणां कुमाराणां हि मूर्तयः॥ ३५१ ॥ दर्शिता लिखिताश्चित्रफलकेऽस्याः सहस्रशः । परं सा क्वापि नारक्त कलहंसीव पङ्किले ॥ ३५२ ॥ युग्मम् ॥ साम्प्रतं सा पुनर्येन त्राता दुर्दान्तदन्तिनः । तमेवोपकृतिक्रीति है वरीतुं स्वयमैहत ॥ ३५३ ॥ अहं पुनरवोचं तामयं वाणिजवंशजः । न युक्तः सर्वथा प्रेयान् क्षत्रगोत्रभुवस्तव ॥ ३५४॥3 | साऽप्यवोचत मा वोचस्त्वमेवं कोऽप्ययं यतः । शौर्यादिभिर्गुणैरेभिर्नृपवंश्यः प्रकाश्यते ॥ ३५५ ॥ अयं च यदि राजन्यतनयो न नयोज्वलः । अहार्य्यमपरैश्चित्तं न हरेदेव मे तदा ॥ ३५६ ॥ अन्यच्च येन मे प्राणास्त्राणा यमनिभादि|भात् । ततोऽन्यं चेत्पतीयामि तदा का मे कृतज्ञता ॥ ३५७ ॥ इत्याकर्ण्य नृपो दध्यौ सद्ध्यौचित्यविनाकृतः । हहा! दुरात्मा जामाता ममाप्येष भविष्यति ॥ ३५८ ॥ उन्मूलयामि निर्मूलमेतां च भवितव्यताम् । दैवो हि भज्यते तत्र विघ्नैरुद्विजते न यः॥ ३५९॥इति निश्चित्य दुश्चेता धात्र्याः प्रत्यक्षमाख्यत । पुरपालमिलापालः कूटवल्यालवालवाक् ॥३६०॥ प्रियमित्रस्य पुत्रेण द्विपेन्द्रोपद्रवादतः । येनाऽमोचि तनूजा मे संमान्यः स महान् मया ॥ ३६१ ॥ तदाकारय तं तूर्ण-15 मित्युक्तः पुररक्षकः । उद्दिश्य नृपसंदेशमाजुहाव तमञ्जसा ॥३६२ ॥ दुनिरोधं विरोधं मे धत्तेऽयं वसुधाधवः । सर्वत्र जन-6॥५६॥ |यित्री तु जनयित्री ममावनम् ॥ ३६३ ॥ इत्यामृश्य कुमारोऽपि समारोपितसाहसः । समं तेन यमस्येव राज्ञः संसदमासदत् ॥ ३६४ ॥ निहन्तव्यो मयैवायं निशायामिति दुधिया । स्थाप्योऽयं रात्रिमत्रेति भटानादिष्टवान् नृपः॥३६५ ॥
Page #121
--------------------------------------------------------------------------
________________
कुमारोऽपि तदात्मानं रक्ष्यमाणमवेक्ष्य तैः। तत्र देव इवादृश्यस्तस्थावस्थानमापदाम् ॥ ३६६ ॥ विलक्षास्तद वीक्षायामाचख्यस्ते भटा मिथः । अस्माकमानने धूलिमाधाय स पलायत ॥ ३६७ ॥ तच्चाकर्ण्य नृपो मा स्म दुरात्माऽयं ममात्म-| जाम् । गृहीत्वानेशदित्यन्तश्चिन्ताचान्तोऽभवन्निशि ॥ ३६८॥ ततः सुष्वाप गत्वाऽयं सुप्तकन्यामधित्यकाम् । प्रायः पापप्रसक्तानामनवस्थितचित्तता ॥ ३६९ ॥ हियमाणां सुतां तेन नृपः स्वप्ने व्यलोक्यत । निद्रा घटयति स्पष्टं प्रायः पूर्व हि चिन्तितम् ॥ ३७० ॥ अपहृत्य सुतामेतां रे व यासि दुराशय ! ? । इत्यालपन्नृपः खङ्गपाणिस्तं प्रत्यधावत ॥ ३७१ ॥ क्रोधावेशवशाद्धावन् पेतिवानू भूमितः । भङ्गभीतैरिव प्राणैर्मुक्तः स नरकं ययौ ॥ ३७२ ॥ मृतं लोकस्तमालोक्य 8 सकलः पिप्रिये प्रगे। तादृशस्य दुराशस्य कस्य न स्यान्मुदे मृतिः॥ ३७३ ॥ नयैकगामी स्वामी कोऽस्माकं स्यादिति चिन्तिषु । धीसखादिषु पौरेषु दिविष्ठा देव्युवाद सा ॥ ३७४ ॥ भो भोः ख्यातावदाताय वीरसेननरेशितुः। सुतायाभयसिंहाय राज्यमस्मै वितीर्यताम् ॥ ३७५ ॥ कान्तारप्राप्तिदेवीत्वपुत्रत्राणादिकं च सा । वृत्तान्तं सकलं स्वस्य प्रकाश्यागाददृश्यताम् ॥ ३७६ ॥ अथ तैर्मुदितस्वान्तः संभ्रान्तैरद्भुतोत्सवैः । अभ्यषिच्यत साम्राज्ये वीरसेनसुतोऽभयः॥३७७॥ दिशः प्रसादमासेदुर्ने दुर्दुन्दुभयो दिवि । रत्तस्वर्णमयी वृष्टिः स्पष्टं दियाऽजनिष्ट च ॥ ३७८ ॥ कन्या च पुण्यलावण्या सा राज्ञा पर्यणीयत । कः परो वृणुते लक्ष्मी विहाय पुरुषोत्तमम् ॥ ३७९ ॥ पित्रीयन् प्रियमित्राख्यश्रेष्ठिनि श्रेष्ठधीनृपः । न्यायन पालयामास भुवं द्यामिव वासवः ॥ ३८०॥ नृपमन्येधुरुद्यानपालः प्रातर्व्यजिज्ञपत् । देवाद्यागात्तवो.
* ORE RISICOLOGIA
Page #122
--------------------------------------------------------------------------
________________
दानप्रदीपे
सद्याने ज्ञानसूराभिधो गुरुः॥ ३८१॥ अथ तं प्रीतिदानेन परितोष्य क्षितीश्वरः । सूरि भूरिपरिवारः सानन्दस्तमवन्दत
तृतीयः ॥ ३८२ ॥ सोऽपि धर्माशिषा श्रेयःपुषा नृपमतूतुषत् । पुण्यकाननसारण्या धर्मदेशनयाऽपि च ॥ ३८३ ॥ तथा हि
प्रकाश | गतसारेऽत्र संसारे धर्मः सारं जिनोदितः। दत्ते चित्तेप्सितानर्थान् सर्वत्रापि पितेव यः॥ ३८४ ॥ तत्तन्निस्तुल्यक|ल्याणसंपदर्पणकर्मणि । प्रतिभूभवितुं पुंसां धर्म एव प्रगल्भते ॥ ३८५ ॥ स च दानादिभेदेन बहुधाऽभिदधे बुधैः ।। | सर्वेष्वपि च धर्मेषु परमं जीवनं कृपा ॥ ३८६ ॥ येनारोपि हृदावापे कृपाकल्पलता निजे । तस्य पाणिमुपाजग्मुः स्वर्गा|दिफलसंपदः ॥ ३८७ ॥ सौभाग्यारोग्यदीर्घायुः साम्राज्यादिसुखश्रियाम् । कृपैव खानिराख्याता दुःखानामकृपा पुनः ॥ ३८८ ॥ त्वयाऽपि प्रापि साम्राज्यमिदमस्याः प्रभावतः। तदाराधयतां राजन्नधुनाऽप्यधिकाधिकाम् ॥ ३८९ ॥ अत्रान्तरे जगौ राजा चक्रे प्राक्कर्म किं मया। संपदः सापदो यस्मादिदानीमहमासदम् ॥ ३९० ॥ गुरुरप्यमलालोकावलोकितजगत्रयः। जगाद पुरतस्तस्य यथावत्प्राक्तनं भवम् ॥ ३९१ ॥ त्वया दयाव्रतं पूर्व यदतुल्यमपाल्यत । तेन प्राज्यमिदं राज्यं विनाऽप्यायासमासदः॥ ३९२ ॥ मुद्गरं यावतो वारानमुञ्चस्तं शशं प्रति । सम्प्रत्यवाप्तवाँस्तेन विपत्तीरपि तावतीः ॥ ३९३ ॥ मानभङ्गनृपः प्राणिघातपातकयोगतः। निरयं सम्प्रति प्राप्तः संसारान्तश्चिरंभ्रमी ॥ ३९४ ॥ राजन्नभयदानस्य प्रत्यक्षसुरशाखिनः । संसारसंपदः पुष्पं कैवल्यश्रीः फलं पुनः ॥ ३९५ ॥ इत्याकर्ण्य गुरोर्वाणी जातजातिस्मृति- ५७॥ नृपः । उपाददे मुदा यावज्जीवं जीवदयाव्रतम् ॥ ३९६ ॥ अथ धर्मगुरुं नत्वा भूधवः सौधमाप सः। अकारयदमारीश्च8 वारी१रितदन्तिनाम् ॥ ३९७ ॥ दिने दिने जिनेशानां शासने परमोन्नतिम् । वितन्वानश्चिरं राज्यं बुभुजे भूभुजांवरः
Page #123
--------------------------------------------------------------------------
________________
॥ ३९८ ॥ धर्म विशुद्धमाराध्य क्रमात्प्राप दिवं नृपः । क्रमेण कर्मनिर्मुक्तो मुक्तिकान्तामभुक्त च ॥ ३९९ ॥ अतः प्राणिवधं मुञ्च प्रपद्यस्व दयाव्रतम् । तवापि संपदो येन जायन्तेऽभयसिंहवत् ॥ ४०० ॥
इति शङ्खोपदेशोक्तिदीपिकादीपितात्मना । प्रपेदे मेघनादेन सानन्देन दयावतम् ॥ ४०१ ॥ धर्माङ्गीकारतस्तस्य मुदि तस्तद्द्दढीकृते । कियन्तं समयं तस्थौ शङ्खस्तत्र विशेषवित् ॥ ४०२ ॥ प्रतिष्ठासुः प्रतिस्थानमथ रिक्थादिदानतः । स पल्लीशेन च सच्चक्रे सच्चक्रे चक्रययं यतः ॥ ४०३ ॥ कियतीं भुवमन्वीतः पल्लीशेन स भक्तितः । समं केनापि सार्थेन प्रास्थि - तावसथोत्सुकः ॥ ४०४ ॥ अथास्य पथि सार्थस्य दस्यवः समगंसत । द्रुतं हत हतेत्युक्तिपराः शस्त्रभयङ्कराः ॥ ४०५ ॥ तानभ्यधादसंभ्रान्तः शङ्खः किं रे प्रहण्यते । युष्माकमस्ति येनार्थः स एवार्थः प्रगृह्यताम् ॥ ४०६ ॥ इत्युक्तास्तस्कराः | केऽपि प्रावृतन् सार्थलुण्टने । तावत्तं प्रत्यभिज्ञाय परे तान् प्रत्यषेधयन् ॥ ४०७ ॥ महासत्त्वः स एवायमस्माकं जीवि - तप्रदम् । वयं यमोचिताद्येन मोचिता बन्धतस्तदा ॥ ४०८ ॥ पितेव पूजनीयोऽयं योजनीयस्तु नासुखे । इत्युक्त्वा ते गृहं निन्युः सञ्चक्रुर्भक्तितश्च तम् ॥ ४०९ ॥ प्रत्यपीपदेतांश्च स दयामुपदेशतः । धर्मोपकारमाधातुं न भ्राताः कापि धीधनाः ॥ ४१० ॥ अथ तैर्मुदितैः क्लृप्तवर्त्मसंप्रेषणः सुखम् । शङ्खः संख्यावतां मुख्यः क्षेमेण स्वं पुरं ययौ ॥ ४११ ॥ मुमुदातेतमां मातापितरौ तस्य सङ्गमे । प्रीणाति सङ्गतिः कं न नन्दनस्य धनस्य च १ ॥ ४९२ ॥ शङ्खनाख्यातमाकर्ण्य वृत्तं स्वतनुजन्मनाम् । अखिद्यन्त भृशं भूपसेनापतिपुरोहिताः ॥ ४१३ ॥ प्राणिहिंसादिदुष्कर्मकर्मठो दुर्मतिः सुतः । दुःखाय न परं स्वस्य पित्रादीनामपि स्फुटम् ॥ ४१४ ॥ अथाशेषकलादक्षं शङ्खं स्वगृहकर्मसु । निवेश्य श्रेष्ठधीः श्रेष्ठी पर -
11
Page #124
--------------------------------------------------------------------------
________________
दानप्रदीपे
11 46 11
| लोकमसाधयत् ॥ ४१५ ॥ स निश्छद्मदयाधर्मवर्धमानमहोदयः । सर्वत्र मुख्यतामाप गुणैरेव हि गौरवम् ॥ ४१६ ॥ उद्भासयन् दिशः कीर्त्या शङ्खः शङ्खवलक्षया । त्रिवर्ग साधयामास परस्परमबाधया ॥ ४१७ ॥ एवमाराध्य स श्राद्धधर्म सद्विधिना मृतः । पल्यायुर्भवनाधीशनिकाये त्रिदशोऽजनि ॥ ४१८ ॥ नृपादीनां सुतास्ते तु रौद्रध्यानवशात्रयः । विपन्ना दुःखमापन्नास्तदाद्यनरकोद्भवम् ॥ ४१९ ॥ शङ्खदेवोऽन्यदा प्राच्यजातिं सस्मार सारधीः । विवेद च दयाकल्पलतायाः फलमात्मनः ॥ ४२० ॥ सम्प्रत्यपि तथा कुर्वे भवेऽप्यागामिनि ध्रुवम् । संपद्यते दयाया मे सम्यगाराधानं यथा ॥ ४२१ ॥ इति निश्चित्य पप्रच्छ स केवलिनमन्यदा । इतश्युत्वा क्व गन्ताऽस्मि भगवानपि तं जगौ ॥ ४२२ ॥ विजयाख्ये पुरे | देवी विजयाकुक्षिसंभवः । राज्ञो विजयसेनस्य तनयो भविता भवान् ॥ ४२३ ॥ इत्याकर्ण्य सकर्णोऽयं प्रतिबोधार्थमा| त्मनः । स्वप्ने विजयसिंहस्य कथयामासिवानिदम् ॥ ४२४ ॥ नृपादीनां त्रयः पुत्रा नीता यक्षालये मिषात् । कापालिकेन संज्ञप्ताः पशुसंज्ञप्तिकैतवात् ॥ ४२५ ॥ तुर्यस्तु श्रेष्ठसूर्हिसामनाशंसुर्ननाश सः । यावत्सुखेन वेश्म स्वं प्राप पुण्यप्रभा - वतः ॥ ४२६ || चित्रकृद्भिरिदं वृत्तमास्थाने लेख्यतामिति । इमं च स्वप्नमालोक्य प्रबुद्धो ध्यातवान्नृपः ॥ ४२७ ॥ किमेतदश्रुतं पूर्वमदृष्टमविकारजम् । द्राघीयस्त्वेन मन्ये च वृथेदं स्वप्नदर्शनम् ॥ ४२८ ॥ इत्युदासीनमुवशं द्वितीयस्यां पुननिशि । तमेव स्वप्नमस्वप्नः स्फुटं दर्शयति स्म सः ॥ ४२९ ॥ केनापि कारणेनात्र भाव्यमित्यवनीपतिः । अथास्थानं | यथाख्याततच्चरित्रैरचित्रयत् ॥ ४३० ॥ अन्येद्युः स ततश्च्युत्वा देवस्तस्य नरेशितुः । उत्पेदे विजयादेव्याः कुक्षावक्षामभाग्यवान् ॥ ४३१ ॥ जिनार्चाभयदानाद्याः पूर्यन्ते स्म महीभुजा । तस्या गर्भोद्भवाः पाप्मद्रोहदा दोहदा मुदा ॥ ४३२ ॥
तृतीयः प्रकाशः ।
।। ५८ ।।
Page #125
--------------------------------------------------------------------------
________________
सुलग्नेऽसूत सा सूनुमन्यूनगुणवैभवम् । उत्सवं च नृपश्चक्रे प्रमोदाद्वैतदं नृणाम् ॥ ४३३ ॥ दुर्जया अप्यजीयन्त गर्भस्थे|ऽस्मिन्नरातयः । इत्यस्य वसुधाभा जय इत्यभिधां व्यधात् ॥ ४३४ ॥ वर्धमानः क्रमेणायं वयसा तेजसाऽपि च । न-| वेन्दुरिव शिश्राय निर्मलाः सकलाः कलाः ॥ ४३५ ॥ धनपालस्तथा वेलंधरोऽथ धरणीधरः। जजुः प्रीतिपदं तस्य शैश-| वादपि सेवकाः॥४३६ ॥ यौवनोद्भुतसौभाग्यः सोत्सवं पितुराज्ञया । परिणिन्ये स राजन्यकन्या लावण्यशालिनीः ॥ ४३७ ॥ अन्येधुरथ दुःस्वप्नज्ञातासन्नमृतिर्नृपः। सोत्सवं स्थापयामास जयराजं निजे पदे ॥ ४३८ ॥ स्वयं तूदग्रवैराग्यस्तपस्यामाददे मुदा । यथाऽवसरकृत्ये हि नियोक्ता स्वपरौ सुधीः ॥ ४३९ ॥ व्यराजदथ राजेव जयराजः कलानिधिः । सर्व कुवलयं निन्ये येनोल्लासमुदीयुषा ॥ ४४० ॥ अस्य प्राच्यकृपाधर्मकार्मणेनोपवर्मिताः । परश्शताः परे
भूपाः स्वयमाज्ञाममंस तत् ॥ ४४१॥ राज्ये तस्य कुतो वैरिपराभूतिविभावरी । यस्मिन्नविश्रमं धर्मधर्मद्युतिरुदित्वरः M॥४४२ ॥ अन्येयुः संसदं चित्रकृतनेत्रनियन्त्रणाम् । सुधर्मायाः सुधर्माणमप्युवास नृवासवः॥ ४४३ ॥ सभामभासय-12
तस्य स्वर्णाभरणभाभरः । अमानिवान्तः प्रसृतः पुण्योद्योतस्तनोर्बहिः॥ ४४४ ॥ निर्वर्तितमिवावर्त्य कीर्तिवातमराजितम् । शिरसि श्वेतमेतस्य न्यस्यतातपवारणम् ॥ ४४५ ॥ अस्य चामरधारिण्यः पुण्यस्फूर्ति पुरातनीम् । स्वं कङ्कणरणत्कारैर्गायन्ति स्मेव विस्मिताः॥ ४४६ ॥ रत्नकोटीरसंक्रान्त्या धृतं भक्त्येव मूर्द्धनि । नत्वा क्रमाम्बुजं तस्य पुरो भूपा उपाविशन् ॥ ४४७ ॥ मूर्तिमद्भिरिवामात्रैर्नीतिशास्त्रैर्विनिर्मितम् । तस्य पार्श्वमलञ्चके चक्र सचिवचक्रिणाम् ॥ ४४८॥3 मूर्तिगेणेव शृङ्गाररसेन परिकर्मिताः। पर्यवृण्वत तं वारनार्यः सौन्दर्यभाजनम् ॥ ४४९॥ परेऽपि स्थायुकानीकाधिप
Page #126
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ५९ ॥
सौवस्तिकादयः । यथास्वस्थानमास्थानं निषेदुस्तन्मुखोन्मुखाः ॥ ४५० ॥ अथोश्चैरुच्चरन्ते स्म प्रचुरा बिरुदावलीः । तत्कीर्त्तिकीर्त्तिनीः कर्णानन्दिनीर्बन्दिनो मुदा ॥ ४५१ ॥ श्रवःपुटेषु पीयूषमिव वर्षन्ति पर्षदः । रसस्फीतानि गीतानि तस्याऽगायंश्च गायनाः || ४५२ ॥ अभङ्गरसभङ्गीभिरुत्तरङ्गीकृतानि च । कवीन्द्राः सूक्तिनिस्तन्द्रा नानाकाव्यान्यकीर्त - यन् ॥ ४५३ ॥ भरतादिनरेन्द्राणां पृथुपुण्यप्रथाः कथाः । पण्डिताः प्रथयामासुस्तथ्या मथितकापथाः ॥ ४५४ ॥ इत्याधैरद्भुतैस्तैस्तैः सुधास्पन्दानुवादिभिः । तस्य व्यभात् सभा चित्रलिखितेवाखिला तदा ॥ ४५५ ॥ अत्र चावसरे तत्र तुमुलः कोऽप्यजायत । किमिति क्ष्माभृता ख्यातः प्रत्याख्यन्मुख्यधीसखः ॥ ४५६ ॥ धनपालादयो देव ! सेवकास्ते त्रयोऽधुना । भित्तौ चित्राणि पश्यन्तः प्रपेतुर्भुवि मूर्छिताः ॥ ४५७ ॥ नृपोऽथ विस्मितस्वान्तः संभ्रान्तस्तानुपागमत् । प्रारेभे सोऽपि चित्राणि कौतुकेन विलोकितुम् ॥ ४५८ ॥ पश्यन् नृपसुतादीनां प्राच्यं वृत्तं तथाऽऽत्मनः । ईहापोहपरः प्राप नृपोऽपि प्राग्भवस्मृतिम् ॥ ४५९ ॥ मूर्च्छाच्छादितचैतन्यः पपात च भुवस्तले । शीतोपचारमा चेरुः सेवकास्तस्य चाकुलाः ॥ ४६० ॥ क्षणेन प्राप्तचैतन्या नृपतिस्ते च पत्तयः । उन्मेष्य चक्षुरुत्तस्थुः स्वस्थाः सुप्तप्रबुद्धवत् ॥ ४६१ ॥ राजन् ! किमेतदित्युक्तः सामन्तैर्नृपतिर्जगौ । सर्व पूर्वभवं जीवदयाविस्फूर्जिताद्भुतम् ॥ ४६२ ॥ तेऽपि पृष्टा जगु छागवधपापेन ते वयम् । नरकं प्रथमं प्राप्तास्ततश्च भवमेतकम् ॥ ४६३ ॥ अथ पूर्वभवप्रेमप्रमोदाश्रुप्लुताननः । तानालिलिङ्ग रङ्गेण जगतीशः ससंभ्रमम् ॥ ४६४ ॥ नत्वा व्यजिज्ञपंस्तेऽपि पाणी संयोज्य भूभुजम् । दयापुण्येन दिव्याद्धि राज्यं चेदं त्वमासदः ॥ ४६५ ॥ वयं तु निरयप्राप्तिप्रेष्यत्वप्रमुखामिमाम् । प्राणिहिंसानुभावेन प्राप्ता दुःखपरंपराम् ॥ ४६६ ॥
तृतीयः
प्रकाशः ।
॥ ५९ ॥
Page #127
--------------------------------------------------------------------------
________________
अतः साम्प्रतमस्माभिरपि जीवदयाव्रतम् । प्रपेदे संपदो येन संपद्यन्ते पदे पदे ॥ ४६७ ॥ अमुं चाकर्ण्य वृत्तान्तं नितान्तं हितमात्मनः । प्रभूताः प्रावृतन् जीवाभयदानविधौ जनाः ॥ ४६८ ॥ नृपश्च सुगुरोः पार्श्वे द्वादशव्रतसुन्दरम् । अमात्यादियुतः शुद्धं श्राद्धधर्ममुपाददे ॥ ४६९ ॥ अथायं घोषयामास निजनीवृति सर्वतः। घातयिष्यति यः सत्त्वं दण्ड्यः सर्वस्वमप्यसौ ॥ ४७० ॥ चैत्यानि दत्तशैत्यानि दृशां सम्यग्दृशामसौ। विमानितविमानानि निर्मायं निरमीमपत् ॥४७१॥ स स्वर्णादिमयीजैनीः प्रतिमा निरमापयत् । महानन्दसुखश्रीणामिवाकारणदूतिकाः॥ ४७२ ॥ दीनादीनामयं दानमनिदानमदान्मुदा।न याञ्चालाघवं भेजुः पुनराजन्म ते यथा॥४७३॥ कृपापुण्यार्जितं राज्यं भुञ्जानःप्राज्यमूर्जितम् । समाः सहस्रशः सम्यग्धर्ममाराध्यदित्ययम् ॥ ४७४ ॥ अन्याः पूर्ववत्प्रौढ्या निविष्टः सिंहविष्टरे । विषमं जन्मिनां कर्म परीणाम परामृशन् ॥ ४७५ ॥ राज्यं प्राज्यमपि त्याज्यं विषभोज्यमिवामृशन् । सभामभाषतोत्तुङ्गवैराग्येणोत्तरङ्गितः ॥ ४७६ ॥ भो भो जनाः ! पश्यत तुच्छमायुरमी च भोगा विरसावसानाः । विभूतयोऽपि क्षणदृष्टनष्टा रोगाद्यपायप्रचुरश्च कायः ॥ ४७७ ॥ स्वार्थैकलुब्धः स्वजनादिवर्गः प्रभूतविघ्ना स्वहितार्थसिद्धिः। मृत्युनृणां मस्तकदत्तहस्तो भोक्तव्यमेव स्वकृतं । च कर्म ॥ ४७८ ॥ तदप्यविद्यामदिरोन्मदिष्णुर्जनः प्रमत्तः स्वहितेऽपि धर्मे । स्वस्याहिते जन्तुविधातनाद्ये पापे त्वहंपू|र्विकया प्रवृत्तः ॥ ४७९ ॥ हहा ! जना नारकतिर्यगादिदुःखान्यसंख्यान्यनवेक्षमाणाः । अनेकधा जीववधाद्यधर्म वितन्वते स्वल्पसुखाय मूर्खाः॥४८० ॥ आत्मानभीष्टां कथमिष्टधर्मा परस्य हिंसां विदधीत धीमान् । स्वस्य प्रियं यत्क्रियते परस्य तदेव धर्मस्य हि जीवितव्यम् ॥ ४८१॥ किं वा परं प्रत्युपदेशनेन ममैव हा मोहविमोहितत्वम् । यजन्तुसङ्घात
ज्यं प्राज्यमपि त्या अन्याः पूर्ववत्प्रौढ्या नाण्यार्जितं राज्यं भुञ्जान पादानामयं दानम-3
ACANCRECACANCARNA
Page #128
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ६० ॥
विघातहेतुं राज्यं विजानन्नपि न त्यजामि ॥ ४८२ ॥ धन्या दयेकरतयो यतयस्त एव ये सर्वजन्तुवधतः सततं निवृत्ताः । निष्पीड्यमानतनवोऽपि दुरात्मसत्त्वैरन्ते मनागपि न जातु भजन्ति कोपम् ॥ ४८३ || आत्मन्नमीषु विषयेषु सुखाभिलाषी निःसंख्यजन्तुवधहेतुषु रज्यसे किम् । नो वेत्स्यमीभिरमितं भवताऽनुभूतं दुःखं भवेषु नरकादिषु लक्षशोsपि ॥ ४८४ ॥ प्रपालितं पापमयैरुपायैरिदं शरीरं सफलं तदीयम् । शरारुणानेन महोदयश्रीफलं तपोऽतप्यत दुस्तपं यैः ॥ ४८५ ॥ इत्यन्तः स्फुरदुत्तरङ्गितशुभध्यानाम्बुधारोत्करैर्निधौ ताखिलघातिकश्मलमलः श्रीकेवलं लब्धवान् । तत्कालं यतिवेषमेष भरतश्चक्रीव देवार्पितं भेजे बोधितभव्यजीवनिवहो मुक्तिं ययौ च क्रमात् ॥ ४८६ ॥ साश्चर्यमित्यभयदानमयावदातैराकर्ण्य कर्णसुखकृज्जयराजवृत्तम् । भव्याः प्रदातुमभयं सततं यतध्वं येनाभयं पदमविघ्नमुपेथ सद्यः ॥ ४८७ ॥ ॥ इति श्रीतपागच्छनायक श्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरि पट्टालङ्करणश्री सोमसुन्दर सूरिशिष्यश्रीमहोपाध्यायश्री चारित्ररलगणिविरचिते दानाङ्के श्रीदानप्रदीपनानि ग्रन्थेऽभयदानफलप्रकाशनस्तृतीयः प्रकाशः ॥ ग्रन्थाग्रम् ५०४ अक्षर १५ ॥ श्रीरस्तु ॥
1
तृतीयः प्रकाशः ।
॥ ६० ॥
Page #129
--------------------------------------------------------------------------
________________
**
*****
॥अथ चतुर्थः प्रकाशः॥ श्रीयुगादिप्रभोः पौत्रश्रेयांसः श्रेयसेऽस्तु वः। पात्रदानव्यवस्थेयं पप्रथे यदुपक्रमम् ॥१॥ धर्मोपष्टम्भदानस्य स्वरूपमथ कथ्यते । येनोपष्टभ्यते धर्मः सम्यक् स्वस्य परस्य च ॥२॥ जघन्यमध्यमोत्कृष्टं पात्रं तत्र त्रिधा विदुः । सम्यक्त्वमात्रवान् देशसर्वाभ्यां विरताविति ॥ ३॥ सम्यक्त्वादिगुणोपेताः पूज्याः श्राद्धा अपि स्फुटम् । त एव बन्धवः सम्यक सधर्मत्वेन यत्सताम् ॥४॥ धर्मस्नेहं वहन्नन्तर्भोजनाच्छादनादिना । सम्यक्कुर्वीत बन्धूनामिव भक्तिं सधर्मणाम् ॥५॥ श्रूयते भरतश्चक्री चक्रे भक्तिं सधर्मणाम् । सोदराणामिवाहारैः पीयूपरसपाकिमैः ॥६॥ दण्डवीर्यनृपस्तस्य वंश्यः शस्यः स कस्य न । बुभुजे भोजयित्वा यः प्रत्यहं कोटिमास्तिकान् ॥ ७॥ विधुरं च सधर्माणं सुधीबन्धुमिवोद्धरेत् । समुद्धरत्नमुं स्वान्यधर्ममुद्धरते यतः॥८॥ स्तुत्यः कुमारभूपालः सर्वकालमबालधीः । प्रत्यब्दमास्तिकोद्धारे द्रव्यकोटि न्ययुत यः
९॥ महतां ग्रामणी म श्रीरामः स्तूयते न कैः । उद्दधार सुधर्मा यः सधर्माणमरण्यगः ॥ १०॥ पुरा दशपुरस्वामी ४ वज्रकर्णनरेश्वरः । मृगयार्थ वने प्राप्तो मुनिं जैनमवन्दत ॥ ११॥ तस्योपदेशतः सम्यकू श्राद्धधर्ममवाप सः । देवं गुरुं
च मुक्त्वाऽन्यं न नमामीत्यभिग्रही ॥१२॥ ततः स मुद्रिकारत्नजिना नतिकैतवात् । पुरासेव्यमवन्तीश सिंहोदरमसेवत ॥ १३ ॥ अन्येद्युः पिशुनो कोऽपि तं प्रपञ्चं नृपं जगौ । अदंश्यमिव सर्पस्य नावाच्यं किञ्चिदस्य च ॥ १४ ॥ ततोऽन्तर्मनसं वज्रकर्णाय दुह्यति स्म सः। निशि चिन्ताभराक्रान्तस्वान्तश्चान्तःपुरं ययौ ॥ १५॥ पृष्टः स विज्ञया | राज्या चिन्ताहेतुमवोचत । न किञ्चिद्गोपनीयं हि कामिनां कामिनी प्रति ॥१६॥ तदानीं तत्र चायातः कुतोऽप्युत्प
*****
*
*
Page #130
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ६१ ॥
नदुर्मतिः । श्राद्धः कश्चन चौर्यार्थी शुश्रावोक्तिमिमां तयोः ॥ १७ ॥ दध्यौ च हा ! दुरात्माऽयं निर्माता मे सधर्मणः । प्रातः श्रीवज्रकर्णस्य बन्धनाद्या विडम्बनाः ॥ १८ ॥ इदानीमेव तद्गत्वा तं नृपं ज्ञापयाम्यदः । यथा निश्येव निर्विघ्नं स प्रयाति निजं पुरम् ॥ १९ ॥ ततः स चौर्यमुत्सृज्य तदैव तमजिज्ञपत् । सधर्मा ह्यधिको धर्मवतां बन्धुधनादितः ॥ २० ॥ तं सत्कृत्यामितैर्वित्तैर्वज्र कर्णोऽथ तन्निशि । तद्गुणैरञ्जितस्वान्तः प्रतस्थे स्वपुरं प्रति ॥ २१ ॥ क्षेमेण तत्र स प्राप्तो दुर्गान्तः सकलं जनम् । निवेश्य स्नेहधान्यादिसामग्री निरमापयत् ॥ २२ ॥ तच्चाकर्ण्यानवच्छिन्नप्रयाणः पृतनावृतः । सिंहोदरो दशपुरं रुरोध क्रोधदुर्धरः ॥ २३ ॥ तदा च वनवासस्थः परोपकरणत्रतः । रामस्तत्रागमत्सीतासौमित्रिपरिवारितः ॥ २४ ॥ व्यषीदच्चापदं श्रुत्वा वज्रकर्णसधर्मणः । स किं धर्मा न मर्माविद् यस्य बाधा सधर्मणाम् ॥ २५ ॥ आदिदेश स सौमित्रिं सद्यः सिंहोदरग्रहे । कः संघर्मा सधर्मार्तिहृतौ चिरयति क्षमः ॥ २६ ॥ सोऽपि तं समरे बद्धा श्रीरामाय समार्पिर्पत् । वज्रकर्णस्तदाकर्ण्य द्रुतं तत्रागमन्मुदा ॥ २७ ॥ वज्रकर्णाय राज्यार्द्ध प्रदाप्य रघुपुङ्गवः । यावज्जीवमवन्तीन्द्रं तदाज्ञां प्रत्यपीपदत् ॥ २८ ॥ अहो ! साधर्मिके भक्तिः श्रीरामस्य महीयसी । अदृष्टमप्यमुं यस्मादकस्मादित्युपाकृत ॥ २९ ॥ वैधुर्ये यः सधर्माणमुदास्ते शक्तिमानपि । धर्म धर्माधिराजं च दुर्बुद्धिः स विराध्यति ॥ ३० ॥ यः पुनर्विपदं स्फातपातकः पातयत्यमुम् । अनन्ते स भवावर्ते पतिता विततासुखे ॥ ३१ ॥ बन्धुमानी सधर्मातः सधर्माणं यथाविधि । यथाशक्त्युपकुर्वीत राया कायादिनाऽपि च ॥ ३२ ॥ येनोपगृह्यते देहसाधनत्वेन संयमः । तदेवाशनपानादिमुनीन्द्राय तु दीयते ॥ ३३ ॥ नहि रत्नसुवर्णादिप्रदानं साधु साधये । रागद्वेषादयो दोषाः प्रोन्मिषन्ति ततो यतः ॥ ३४ ॥ यो धर्मविध्वं
चतुर्थः
प्रकाश :
॥ ६२ ॥
Page #131
--------------------------------------------------------------------------
________________
CCCCCCCCCCCCESCR
सनिवन्धनं धनं तपोधनाय प्रददात्यधीधनः। सहिष्यते तदूतलोपपातकैस्त तुदानादनुमन्तृभावतः ॥ ३५॥ ततोऽशसानादीनि ददीत साधवे धर्मोपकारीणि सुरीतिरास्तिकः । तपस्क्रियाज्ञानगुणेषु भक्तिमांस्तानेव येनाचिरमेव विन्दते ॥३६॥
न संयमो बिना देहं स च नान्नादिना विना । अतः संयमिनेऽन्नादिदानमाहुर्मनीषिणः ॥ ३७॥ तदपि प्रासुकं देयमेपोषणीयं च साधवे । हितं स्वस्मै परस्मै च तत्र दानं हि तादृशम् ॥ ३८॥ प्रयच्छति स्वस्य हितेच्छुरच्छधीस्तपस्विने प्रासु
कमेषणीयकम् । तथाविधस्यैव भवन्ति दानतः परे भवे दीर्घशुभायुषो यतः॥ ३९॥ तथा चोक्तं श्रीपञ्चमाङ्गे| "कहण्णं भंते ! जीवा दीहाउअत्ताए कम्मं पकरंति ? गोयमा ! नो पाणे अइवाइत्ता नो मुसं वइत्ता तहारूवं समणं है। वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं खलु जीवा दीहाउअत्ताए कम्मर पकरंति । कहण्णं भंते ! जीवा अप्पाउअत्ताए कर्म पकरंति ? गोयमा! पाणे अइवाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेण असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं खलु जीवा अप्पाउअत्ताए कम्मं पकरन्ति ॥" ___ भवे परस्मिन्न हिताय जायते न केवलं दातुरनेषणीयकम् । तस्य ग्रहीताऽपि यतोऽष्टकर्मणामुपार्जनादुर्गतिमङ्गति 61 ध्रुवम् ॥ ४०॥ तदुक्तं पञ्चमाङ्गे
"आहाकम्म णं भुञ्जमाणे कइ कम्मप्पगडीओ बंधइ ? गोयमा ! आउअवजाओ सत्तकम्मप्पगडीओ बंधइ ॥" मुनिना वचनाशुद्धं जगृहेऽनुपयोगतः। विधिना तत्तरिष्ठाप्यं तथैवाराधना यतः॥४१॥ तथाहि
Page #132
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१२॥
स्वश्रीकृतालकाकम्पा चम्पा नाम महापुरी। स्वकल्याणजगत्पूज्यां वासुपूज्यश्चकार याम् ॥४२॥ तत्रोद्यानमलश्चक्रुः सुव्रता चतुर्थः नाम सूरयः।शिष्याणामप्यहो! येषां गुणानामिव नो मितिः॥४३॥ पौराःसानन्दपूरास्तान् वन्दकाः सर्वदैयरुः।गुरवोऽपि प्रकाशः। गिरा पुण्यकिरा पौरानपिप्रिणन्॥४४॥अन्येद्युःप्रावृतत्तस्यामतुच्छः कश्चिदुत्सवः। अन्योन्यं धनिनो यस्मिन् दिव्यभोज्यान्यबूभुजन्॥४५॥तंचाकर्ण्य ऋजुः कोऽपिक्षपकः पर्यचिन्तयन् । अद्य मे पारणं दिष्ट्या नगरे चगुरुर्महः॥४६॥जनश्च ऋद्धिमान् श्राद्धसमृद्धः साधुसाधुधीः तदन्या निखिला भिक्षाः प्रतिषिध्याद्य मोदकाः॥४७॥ विहर्तव्या मया सिंहकेसरा एव |भासुराः। इति निश्चित्य पुर्यन्तः संचचार स गोचरे॥४८॥घृतपूरान् क्वचित् क्वापि मण्डकान् खण्डकान् क्षुधः। क्वाप्यन्यमो|दकाल्लोकास्तस्मै दातुमुपानयन् ॥४९॥ अरोचकीव सर्वत्र निषेधं विदधे स तु । वचनाभिग्रही नायं गृह्णातीत्यबुधजनः
५०॥ परितोऽप्यटतस्तस्य ताननामुवतः क्वचित् । अरतिः कामुकस्येव कामान् काममजायत ॥५१॥ नश्यति स्म। ततश्चित्तं ततश्चानुपयुक्तता । अभूत्तस्य तथा रात्रिं दिनं वा न व्यनग् यथा ॥५२॥ बभूव बहिरन्तश्च तस्य दोषोदय-18 स्तदा । भवत्यनुपयुक्तानां कस्को मलिनिमा नहि ॥५३ ॥ गुरुस्तु बहुशिष्यत्वान्नावागात्तमनागतम् । अकारयिष्यनिर्ग्रन्थैरन्यथा तद्गवेषणम् ॥ ५४॥ प्रविवेश निशीथेऽयं गृहं सागरगेहिनः । धर्मलाभपदे सिंहकेसरेति बभाण च X॥ ५५॥ तच्चाकर्ण्य जजागार सागरस्तं निभाल्य च । दध्यौ कथमकालेऽयं हहा! भ्राम्यति संयतः॥ ५६ ॥ अनेनो
चरितं सिंहकेसरेति स्फुटाक्षरम् । तन्नूनं चित्तचालोऽस्य कोऽप्यभूत्तन्निमित्तकः ॥ ५७॥ तदस्मै दर्शये सिंहकेसरानेव निश्यपि । यथा तदर्शनेनास्य स्वस्थतां चित्तमश्चति ॥ ५८ ॥ध्यात्वेत्ययमुपानिन्ये स्थालं तैर्मोदकैभृतम् । जगाद चानु
SOCHAMACROCOCCAM
॥ ५५॥
Page #133
--------------------------------------------------------------------------
________________
गृह्णीवं मोदकान् मोदकानमून् ॥ ५९॥ इमान् समीक्ष्य पूर्णेन्दुकरसंपर्कतः स्फुटान् । उल्ललास मुनेदृष्टिः पद्मिनीव रवेः करान् ॥६०॥ पुरः पात्रं दधौ साधुः श्रेष्ठिना तदपूरि तैः। आत्मानं चासमैः पुण्यैर्भुवनं च यशश्चयैः॥ ६१॥श्रेष्ठिप्रष्टस्तमाचष्ट पुनरेतान् समानये । अथाभ्यधत्त साधुस्तं पर्याप्तमियता मम ॥ ६२॥ अभ्यौहिष्ट ततः श्रेष्ठी स्वाभाविक-Ik मिदं वचः। तत्किं कमप्ययं हेतुं भिक्षार्थमधुनाऽगमत् ॥ ६३ ॥ यदि वा चित्तचालेन भ्राम्यन् स्वास्थ्यं गतोऽधुना। इति ध्यात्वा जगादायं न प्रत्याख्यमहं पुरा ॥ ६४ ॥ तत्प्रत्याख्यापय त्वं मे पूर्वार्द्ध साधुरप्यथ । समयं प्रत्युपायुक्त हाऽधुना वर्तते निशा ॥६५॥ उदक्षतान्तरिक्षं च ऋशलक्षोपलक्षितम् । शिरःस्थपूर्णिमाचन्द्रं निशीथं निश्चिकाय च ॥६६॥ ततश्चागतसंवेगः स मिथ्यादुष्कृतं ददौ । धिग्मां प्रमत्तमत्यन्तं धिगिमां रसगृभुताम् ॥ ६७॥श्रेष्ठिस्त्वं मे गुरुस्त्राणं शरणं जीवितं गतिः। प्रमादान्धौ यदन्धे मां मजन्तमुददीधरः॥ ६८॥ अमी पुनस्तमीभक्तमित्यकल्प्या यतेमम । दिवा गृहीतमाहारं दिवैवाश्नन्ति साधवः॥ ६९ ॥ इत्युदित्वा स्वयं गत्वा स तस्यावस्करौकसि । विषदुष्टानिवोत्स्रष्टुं 8 तानैहिष्ट विशिष्टधीः॥ ७० ॥ तदा संपेदिरे तस्य मोदका अप्यमोदकाः । सर्वमिष्टमनिष्टं हि निजचित्तानुसारतः॥७१॥ खण्डशः खण्डयामास स तानेव न केवलम् । चत्वारि घनघातीनि कर्माण्यपि शुभाशयः॥७२॥ तत्क्षये चाक्षयो बोधस्तस्य प्रादुरभूद्रुतम् । विनाशेऽभ्रवितानेऽस्य प्रकाश इव भास्वतः॥७३ ॥ दिव्यदुन्दुभिनिहादपुष्पवृष्ट्यादिरद्भुतः। केवलश्रीमहस्तस्य चक्रे संनिहितैः सुरैः ॥ ७४ ॥ ते चोपश्लोकयामासुः सागरश्रेष्ठिनं मुदा । धन्योऽसि श्लाघ्यजन्मासि धर्मतत्त्वैकवेद्यसि ॥ ७५ ॥ मुनि कष्टदशापन्नं निद्राणं मौढ्यनिद्रया। यदजागरयः सम्यग् निजबुद्धिप्रयोगतः॥७६ ॥ ततः
Page #134
--------------------------------------------------------------------------
________________
RICS
चतुर्थः
प्रकाशः।
दानप्रदीपे केवलिनं नत्वा यथास्थानं ययुः सुराः । केवल्यपि गुरोः पार्श्व प्राप मुक्तिं क्रमेण च ॥७७ ॥ तथैहिकप्रत्युपकारलि
प्सया यतीश्वरेभ्यो नहि देयमुत्तमैः । नैवोपकृत्याऽऽददते यतीश्वरास्तेभ्यः सदाऽभ्यस्तजिनोदितागमाः ॥७८॥ ज्योतिर्निमित्ताक्षरमन्त्रकामणप्रतिक्रियाकौतुकशान्तिकादिकम् । प्रयुञ्जते ये यतयः स्वजीवने ते दुर्गतिं यान्ति विराधितव्रताः॥ ७९ ॥ यदुक्तम् ( उपदेशमालायाम् । )
"जोइसनिमित्त अक्खरकोउआएसभूइकम्मेहिं । करणाणुमोअणाहिअ साहुस्स तवक्खओ होइ ॥११५॥" __ मुधाप्रदातुः परमः फलोदयश्चरित्रशुद्धिश्च मुधोपजीविनः । दाने ततो ग्राहकदायको मुधाप्रवर्तमानौ भजतः शुभां गतिम् ॥ ८॥ यदुक्तं श्रीदशवैकालिके
“दुल्लहा उ मुहादाई मुहाजीवी वि दुलहा । मुहादाई मुहाजीवी दो वि गच्छंति सुग्गई ॥" मुधाप्रदाने शृणुतावधानतो निदर्शनं वापि पुरे प्रशान्तधीः। कश्चिजगी भागवतं स्वभावतो दानोद्यतं कश्चन तापसाग्रणीः ॥ ८१॥ यद्यन्वहं वृत्तिधुरां दधासि मे घनागमं तद्गमयामि ते गृहे । सोऽप्याह तप्तिं यदि मे तनोषि नो तदाऽस्तु तेनापि च तत्प्रतिश्रुतम् ॥ ८२॥ दया ततो भागवतो निकेतनं तस्यासनाच्छादनभोजनादिकाम् । चकार वृत्ति
सततं समाधिमान् निजं व्यधाद्धर्मविधिं तपस्व्यपि ॥ ८३ ॥ अथैकदा भागवतस्य गेहतश्चौरा हरन्ति स्म वरं तुरङ्गमम् ।। शक्षणाद्विभाता च विभावरी ततस्तमग्रतो लातुमलं न तेऽभवन् ॥ ८४॥ ययुश्च नद्या गहने निबध्य तं तां चापगामाप
स तापसः प्रगे । तं हेपमाणं च निशम्य बुद्धवानयं हयस्तस्य ममोपकारिणः ॥ ८५॥ ततः स तूर्ण सवनादिकाः क्रिया
SHARE
***
*
2*
Page #135
--------------------------------------------------------------------------
________________
ROSAGAR
विधाय धाम स्वमुपेयिवान् सुधीः । आकारितो भागवतेन भुक्तये जगाद सोद्वेगमिदं स दम्भतः ॥८६॥ नद्यां मया स्नातुमितः समीयुषा व्यस्मारि वासस्तदुपैमि तत्कृते । भक्त्या ततो भागवतस्तदाहृतौ निषिध्य तं प्रैपत पूरुषं निजम् ॥ ८७ ॥ प्राप्तः स तत्राश्वमवेक्ष्य हर्षितः समानयत्तं वसनं च तद्गृहे । श्रेष्ठी च दध्यौ विदधावुपाधिना हाहाऽमुना प्रत्युपकारमेष मे ॥ ८८ ॥ तत्साम्प्रतं नास्य कृतोपकारिणो भक्तिप्रयुक्तिर्मम युक्तिमञ्चति । दानं यतः प्रत्युपकारकारिणे |
सुवहपि स्वल्पफलाय जायते ॥ ८९॥ अथ त्वया प्रत्युपकारिणा न मे कार्य किलेति व्यसृजत्स तापसम् । ततो जिना-5 जाज्ञाविदुरैविधीयतां यत्नो मुधादानविधी विशेषतः॥९॥ | मुधोपजीवित्वमथो निदर्यते धराधरं नाम पुरं प्रसिद्धिभाक् । तत्राभवत् पात्रममावतेजसां यथार्थनामा जितशत्रुभूपतिः ॥९१ ॥ स कर्मणां लाघवतोऽन्यदा नृपः ससार संसारविरागतां स्वयम् । अमूढधीधर्मपथे प्रवर्तने परोपदेशं न खलु व्यपेक्षते ॥ ९२ ॥ अनेकधा दर्शनिभिनिवेदितं निशम्य धर्म विचिकित्सिताशयः । परीक्षितुं क्षोणिपतिः प्रचक्रमे परीक्ष्य धर्मो विदुषा हि गृह्यते ॥ ९३ ॥ भो भोः ! समागच्छत मोदकान्मनःप्रमोदकान् यच्छति मेदिनीपतिः । निशम्य भूमीपतिघोषणामिमां समाययुः कार्पटिकादयो द्रुतम् ॥ ९४ ॥ अथैकशः प्रश्नयति स्म तान्नृपः कथं कथं जीवथ कथ्य-15 तामिदम् । तेष्वेक आख्यद्वदनप्रसादतः परोऽभणत् पाणिगुणादहं पुनः ॥९५ ॥ उवाच कश्चिच्चलनानुभावतः परो ब्रवीति स्म नृणामनुग्रहात् । अन्योऽवदद्वैद्यकविद्यया त्वहं कोऽप्यालपज्योतिषकौशलादहम् ॥९६॥ कश्चिद्वभाषेऽद्धतचूर्णयोगतः परस्तथाऽभाषत मन्त्रतन्त्रतः । क्षुल्लस्तु जैनागमवासिताशयो मुधव जीवाम्यहमित्यवोचत ॥ ९७ ॥ अथाह
Page #136
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ६४ ॥
| राजा कथमित्थमुच्यतां तत्रादिमोऽवक्कथकः कथानकैः । विस्मापिताद्रव्यमुपाददे जनादवेहि तन्मे मुखमेव जीवनम् ॥ ९८ ॥ | जगौ द्वितीयोऽक्षरकृलिखाम्यहं लेखादिकं प्राणिमि पाणिना ततः । परोऽब्रवीज्जीवनमंहिरेव मे यतो घटीयोजनगोऽस्मि | लेखहत् ॥ ९९ ॥ भिक्षुर्जगौ प्रब्रजितो यतोऽस्म्यहं ततो जना मामनुगृह्णतेतमाम् । चत्वार आचक्षत वैद्यकादिकं प्रयुज्य कुर्वीमहि जीविकां वयम् ॥ १०० ॥ अथाख्यत क्षुल्लवर ः क्षमापतिं जनुर्जर/रोगवियोगमुख्यकैः । दुःखैरसंख्यैरतिभीषणं भवं निरीक्ष्य दीक्षामहमाददे मुदा ॥ १०१ ॥ ततो विमुक्तोऽखिललोकयात्रया स्वयं यथा लब्धमदीनवृत्तितः । भुञ्जे| शनं संयमयापनाकृते मुधैव जीवाम्यत एव भूपते ! ॥ १०२ ॥ निशम्य तस्येति गिरं नरेश्वरः समग्रदुःखक्षयसिद्धिसा| धनम् । धर्मोऽयमेवार्हति तत्त्ववेदिनां मुक्त्यर्थमासेवितुमित्यमंस्त सः ॥ १०३ ॥ ततो गुरूणामधिगम्य संनिधिं विधाय तत्त्वेष्वखिलेषु निर्णयम् । निवेश्य राज्ये सुतमार्हतं व्रतं नृपः प्रपेदे सुगतिं च जग्मिवान् ॥ १०४ ॥ इत्थं मुधाजीवि - तयैव साधवः स्वदेहवृत्त्यै प्रयतध्वमन्वहम् । तपस्क्रियाज्ञानचरित्रशुद्धयो भवन्त्यभिप्रेतफलाय वो यथा ॥ १०५ ॥ अथास्य पात्रदानस्य भेदा अष्टौ यथाक्रमम् । वर्ण्यन्ते श्रुतविख्याता वसतिः शयनासने ॥ १०६ ॥ भक्तं पानं च भैषज्यं वस्त्रं पात्रं तथाSष्टमम् । देयभेदादिकं दानं बुधैरभिदधेऽष्टधा ॥ १०७ ॥ युग्मम् ॥ यदुक्तमुपदेशमालायाम् —
"वसही सयणासणभत्तपाणभेसज्जवत्थपत्ताई ।” इति ॥
युक्ता सर्वेषु दानेषु शय्यादानस्य धुर्यता । ज्ञानचारित्रयोगा हि तदाधारास्तपस्विनाम् ॥ १०८ ॥ शय्यादानानुभावातधर्माभिमुखता गुणः । चौराणामवचूलोऽपि वङ्कचूलो दिवं ययौ ॥ १०९ ॥ यः शय्यां यतये दत्ते संसारं स तरेत्तराम् ।
चतुर्थः प्रकाशः ।
॥ ६४ ॥
Page #137
--------------------------------------------------------------------------
________________
अत एवागमे तस्या दाता शय्यातरः स्मृतः ॥ ११० ॥ वसतिं स्थूलभद्राय ददाना पापसंपदाम् । कोशायिताऽप्यहो ! कोशा प्रकाशं प्रापदान्तरम् ॥ १११ ॥ साधूपाश्रययोगेन जातसंवेगसङ्गतेः । अवन्तीसुकुमालस्य दिव्यर्द्धिरभवत् क्षणात् ॥ ११२ ॥ वा सनावान्निजावासे यः स्थापयति संयतम् । नूनमारोपयत्येष जङ्गमं त्रिदशद्रुमम् ॥ ११३ ॥ प्रयच्छति यतिभ्यो यः शय्यामज्या निभावतः । तारचन्द्र इवाप्नोति स सद्यः संपदोऽहताः ॥ ११४ ॥ यस्तु दाक्षिण्यतोऽप्येतां दत्ते तेभ्यः शुभायतिः । सोऽश्रुतेताविलम्बेन तन्मित्रकुरुचन्द्रवत् ॥ ११५ ॥ तथाहि
पूर्व नाभेय देवस्याभूवन्नङ्गभुवः शतम् । कुणालनामा तत्रैकः पवित्रगुणभूरभूत् ॥ ११६ ॥ निवेशः पेशलश्रीणां देशस्तेन निवेशितः । कुणाल इति तन्नाम्ना ख्यातोऽस्ति भरतक्षितौ ॥ ११७ ॥ अस्ति स्वस्तिमती तत्र श्रावस्ती विश्रुता पुरी । प्राप्ता पातभियेवोवींमनाधाराऽमरावती ॥ ११८ ॥ कस्य न स्यान्नमस्या सा तीर्थभूता मनस्विनः । श्रीशम्भवोऽवतारेण पवित्रयतियां पुरा ॥ ११९ ॥ निरोद्धुमिव दुर्नीतीः कपिशीर्षमिषैः करैः । प्राकारपरितस्तस्थौ यां सदाऽप्यकुतोभयाम् ॥ १२० ॥ तस्यामादिवराहोऽभूद्भूपतिर्भूरिधामभूः । राजन्वती वसुमती चिरं येन व्यधीयत ॥ १२१ ॥ अपारवसुधाभारसमुद्धारधुरन्धरः । व्यधत्त नार्थतो वामं यः स्वनाम महामहाः ॥ १२२ ॥ नश्यद्वैरिवधूवारहारतः परितश्युताः । मुक्ता यस्य यशोवल्या रेजुर्बीजकणा इव ॥ १२३ ॥ अभूदमुष्य महिषी कमला कमलानना । जिगाय बालेन्दुकलां यस्याः शीलकलामला ॥ १२४ ॥ स्वर्वधूनां विधानेन वैदग्धं यदभूद्विधेः । सीमा बभूव सा तस्य रमणीनां शिरोमणी ॥ १२५ ॥ सैव सर्वासु कान्तासु जाता कान्ता क्षितीशितुः । तारासु किमु नो सारा रोहिणी रोहिणीपतेः ॥ १२६ ॥ अनयोस्तनयो
Page #138
--------------------------------------------------------------------------
________________
चतुर्थः प्रकाशन
दानप्रदीप जज्ञे तारचन्द्रः कलानिधिः। अलञ्चकार तेजोभिर्यः स्वकीयकुलाम्बरम् ।। १२७ ॥ न केवलं शरीरेण ववृधे स बुधेश्वरः। ॥६५॥
18 विवेकविनयौदार्यगाम्भीर्यादिगुणैरपि ॥ १२८ ॥ विशेषयन्ति स्म गुणास्तस्य सौभाग्यसंपदम् । मणयः प्रेसद्धणयः सौवलालङ्कृतिं यथा ॥ १२९ ॥ पितुः स एव मान्योऽभूत्पभूतेषु सुतेष्वपि । मणिषु श्रयते चिन्तामणिरेव हि पूज्यताम् दि |॥ १३०॥ चक्रचापाङ्कशादीनि लक्षणानि विचक्षणाः । वीक्ष्याचचक्षिरे तस्य भावि प्राभववैभवम् ॥ १३१ ॥ ज्योतिविदो वदन्ति स्म ग्रहाणामुच्चतादिना । बलेनास्य जनुर्लग्नं लग्नकं राज्यलब्धये ॥ १३२ ॥ यथा यथा तस्य वृद्धिं दधार गुणधोरणी । जनानामनुरागोऽपि स्पर्द्धयेव तथा तथा ॥ १३३ ॥ तं विधिर्विदधे सर्वोपकारिपरमाणुभिः । परार्थैकपरा तस्य प्रवृत्तिः कथमन्यथा ॥ १३४ ॥ तस्य मित्रमभून्मन्त्रिपुत्रोऽकृत्रिममैत्र्यभाक । कुरुचन्द्रः सदोन्निन्द्रप्रज्ञावज्ञातवा
पतिः ॥ १३५॥ सहैव विहिताहारविहारादिकयोस्तयोः। दिनापरार्द्धच्छायेव प्रीतिः स्फीततमाऽभवत् ॥ १३६ ॥ विशिष्य हर्षयामास कुरुचन्द्रनरेन्द्रसूः। कुमुदं कौमुदीस्वामी जगदानन्दनो यथा ॥ १३७ ॥ जनानुरागं सौभाग्यं तेजस्वितां यशस्विताम् । विभाव्य प्रभुतां तस्य प्रतीयुः प्राकृता अपि ॥ १३८ ॥ तस्मिन् सर्वगुणासे विमाता काऽपि पापिनी । पुपोष द्वेषमीय॑न्ती कौशिकीव दिवाकरे ।। १६९॥ निजाङ्गजस्य राज्यद्धिमिच्छन्ती कुत्सिताशया। सा स्वस्य | निरयोपायं तस्यापायं व्यचिन्तयत् ॥ १४० ॥ अन्यदाऽवसरं लब्ध्वा चूर्ण दुर्मन्त्रसूत्रितम् । तस्य भक्तेन साकं सा ददौ कपटपण्डिताः॥१४१॥ ततश्चूर्णानुभावेन संचक्राम महामयः । शनैः शनैस्तनौ तस्य दवाग्निरिव कानने ॥ १४२॥ सर्वाङ्गसङ्गता तस्य चाङ्गताऽनेन सर्पता । देहे देहे ततस्तस्य जाताऽत्यन्तं विरूपता ॥ १४३ ॥ तस्य प्रतिक्रियास्तास्ताः
aseas
GAAR-505
॥६५ ।।
Page #139
--------------------------------------------------------------------------
________________
ॐॐॐ0
कारयामास पार्थिवः । खलानामिव चित्तस्य नाजायत गुणः पुनः॥१४४ ॥ कलङ्केनेव देहेन लजमानः समानवान् । मुखं दर्शयितुं केषामपि न क्षमते क्षणम् ॥ १४५ ॥ तद्विषादनिषादस्य सङ्गेन मलिनीकृतः । निर्जगाम पितृभ्यामप्यज्ञातः स निशान्ततः॥ १४६॥ विषमो ही परीणामः कर्मणामिति चिन्तयन् । बभ्राम ग्रामतो ग्राममयं प्रम्लानमानसः॥१४७॥ प्राचालीदथ स प्राच्यां प्राच्यपुण्यैः पचेलिमैः । प्राप चापापताहेतुसम्मेतगिरिसंनिधिम् ॥ १४८ ॥ तत्र सम्मेततीर्थस्य श्रोत्रामृतरसायनम् । माहात्म्यं स शृणोति स्म तद्दिशोपासकादिति ॥ १४९ ॥ अत्र वित्रस्तवृजिनाः श्रीजिना अजि-2 तादयः। विंशतिः स्वपरीवारपरीता मुक्तिमैयरुः॥१५० ॥ ततो मणिमयाः स्तूपा भक्तितस्त्रिदशेश्वरैः । चक्रिरे विंशतिस्तत्र रत्नाहत्यतिमान्विताः॥१५१॥ भक्त्या तीर्थकृतस्तत्र यो नमस्यति शस्यधीः । आसन्नसिद्धितां तस्य बुधाः प्राहुरसंशयम् ॥ १५२॥ इत्याकर्ण्य स पुण्यात्मा श्रीजिनानन्तुमुद्यतः। समारुरोह सम्मेतपर्वतं मुदिताशयः ॥ १५३ ॥ तत्र वापीकृतस्नानः संवीतविशदांशुकः । सर्वर्तुपुष्पितोद्यानादादाय कुसुमोत्करम् ॥ १५४ ॥ स त्रिष्प्रदक्षिणीकृत्य कृत्यवि-18 जिनविंशतिम् । प्रपूज्य जगतीपूज्यामिति तुष्टाव भावतः ॥ १५५ ॥ जयाजितजिनाधीश ! भव शम्भव ! भूतये ।। नन्दाभिनन्दनस्वामिन् ! सुमते ! सुमतिं तनु ॥ १५६ ॥ पद्मप्रभ ! प्रभां देहि प्रभो ! पश्य सुपार्श्व! माम् । चन्द्र-1 प्रभ ! चिरं जीयाः सुविधे ! संनिधेहि मे ॥ १५७ ॥ प्रीतये शीतलस्वामी श्रेयांसः श्रेयसेऽस्तु मे । विमलः कश्मलं हन्यादनन्तोऽनन्तसंपदे ॥ १५८ ॥ नमः श्रीधर्मनाथाय श्रीशान्तिः शान्तयेऽस्तु मे। श्रीकुन्थुः पृथुराज्याय लक्ष्म्यै श्रीमानरः प्रभुः ॥१५९ ॥ तनोतु मल्लिः कल्याणं सुव्रतः सुव्रताय मे । नर्मि नमामि निच्छद्मः श्रीपार्श्वः शाश्वत
AAAACARRORECAR
+
Page #140
--------------------------------------------------------------------------
________________
दानप्रदीपे
प्रकाशः।
*
*
*
श्रिये ॥ १६० ॥ इति विंशतिरहन्तः स्तुताः सम्मेतपर्वते । तन्यासुः सुप्रसन्ना मे सौभाग्यारोग्यसंपदः ॥ १६१॥ ततोऽपसृत्य स्तूपेभ्यो मन्वानः स्वकृतार्थताम् । चित्ते स चिन्तयामास वैराग्याहुःखगर्भतः॥ १६२ ॥ अद्य जन्मफलं लेभे गता दुर्गतिपातभीः। कुत्सितस्यापि देहस्य जाता च चरितार्थता ॥ १६३ ॥ अतः परं किमेतेन विडम्बनकरण मे। तत्सद्यस्त्याग एवास्य प्रशस्यो नीरसेक्षुवत् ॥ १६४ ॥ ध्यात्वेति मर्तुमुत्तुङ्गं शृङ्गमारूढवानयम् । ददर्श काननस्यान्तः कायोत्सस्थितं मुनिम् ॥ १६५॥ अहो ! अस्य प्रशान्तत्वमहो! निःसङ्गचित्तता । अहो ! ध्यानकतानत्वमहो! भवविरक्तता ॥ १६६ ॥ तदस्य दर्शनादेव दर्शने सफले मम । वन्दनेनापि विदधे फलेग्रहिमिमां तनुम् ॥ १६७ ॥ मृतिस्त्वात्मवशैवेति विचिन्त्य चतुराशयः । उत्ततार ततस्तारचन्द्रः पुण्यवितन्द्रधीः ॥१६८॥ वनान्तस्तमुपागम्य सम्यग्भक्तिः स नेमिवान् । पर्युपास्य च शुद्धात्मा यावत्प्रतिनिवर्तते ॥ १६९ ॥ तावत्खेचरमिथुनं कुतोऽप्यागत्य भक्तितः। मुनि नत्वा पुरस्तस्यो-| पविवेश विशेषवित् ॥ १७०॥ तदृष्ट्वा विस्मितस्तारचन्द्रःप्रोवाच खेचरम् । को युवांव निवासो वां किमर्थ वामिहागमः ॥ १७१ ॥ कश्चायं यतिरित्युक्तः प्राह विद्याधरेश्वरः। वैताब्यशैलवास्तव्यावावां खेचरदम्पती ॥ १७२ ॥ नन्तुमेनं महात्मानमत्रागच्छाव भावतः। यतेरस्य चरित्रं तु चमत्कारकरं शृणु ॥ १७३ ॥ तथाहि
पालयनुत्तरश्रेणी वैतादयगिरिसङ्गताम् । वज्रवेगाभिधो राजा विद्याभृत्कुलकौस्तुभः॥ १७४॥ सिद्धानेकमहाविद्यः सौन्दर्यविजितस्मरः । रूपश्रिया धुरमणीस्तरुणीः परिणीतवान् ॥ १७५ ॥ बाल्येऽपि प्रेमतः पित्रा दत्तं रत्नपुरे पुरे। भुञ्जानः प्राज्यसाम्राज्यमेकच्छत्रं सुसूत्रितम् ॥ १७६ ॥ असीमविक्रमाक्रान्तप्रौढप्रत्यर्थिपार्थिवः । सद्यो विद्याभृतां चके
*
**
*
*
Page #141
--------------------------------------------------------------------------
________________
स्वीचके चक्रवर्तिताम् ॥ १७७ ॥ चतुर्भिः कलापकम् ॥ अन्यदा भवदावाग्निप्रावृषेण्यपयोमुचम् । गुरूपदेशमाकर्ण्य वैराग्येण तरङ्गितः॥ १७८ ॥ बिभ्यद्गुरभोगेभ्यो भीषणेभ्यो भुजङ्गवत् । मन्वानः सौख्यदमनीः कामिनीः शाकिनीरिव ॥ १७९ ॥ जानानो जनितोन्मादामिन्दिरां मदिरामिव । बन्धून् बन्धनवद्वोधन विषयान् विषवद्विदन ॥ १८॥ यौवनेऽपि परित्यज्य रजोवद्राज्यसंपदम् । आददे संयमैश्वर्य सज्जा हि स्वहिते बुधाः॥१८१॥ चतुर्भिः कलापकम् ॥ यतः
"प्रशस्याः खलु ते भोगांस्तारुण्येऽपि त्यजन्ति ये । जरसा परिभूतस्तु मुच्यते तैः स्वयं न कः॥१॥" .. | ग्रहणासेवनाशिक्षे ग्राहितो गुरुणाऽथ सः। सिंहत्वेन विनिष्क्रान्तः सिंहत्वेन तपस्यति ॥ १८२ ॥ तप्यमानमविश्रान्तं दुस्तपानि तपांसि तम् । विविधा लब्धयो भेजुरापगा इव सागरम् ॥ १८३ ॥ दधुरौषधितां तस्य कफविग्रण्मलादयः। यदेषामनुषङ्गेण क्षीयन्ते व्याधयोऽखिलाः॥१८४ ॥ स चारणाभिधां लब्धि बभार भुवनाद्भुताम् । यया जिना नमस्यन्ते गत्वा नन्दीश्वरादिषु ॥ १८५ ॥ क्षीरास्रवमध्वास्रवबीजबुद्ध्यादयोऽपि तम् । परस्परस्पर्द्धयेव श्रयन्ति स्म समृद्धयः॥ १८६ ॥ स एव वज्रवेगाख्यः प्रत्यक्षो लक्ष्यतां सखे !। अस्यां हिरेणुसङ्गेन नीरोगी भविता भवान् ॥ १८७ ॥ इत्यसीमानमाकर्ण्य महिमानमयं मुनेः। विस्मयानन्दनिस्यन्दमाससाद विशारदः॥ १८८ ॥ ततो मुनीन्द्रमानम्य तदंहिकमलोद्भुवा । रजसाऽमृशदङ्ग स्वमुत्तरङ्गः स भक्तितः॥ १८९ ॥ स्पर्शादस्य तनुस्तस्य रुग्विकारनिकारतः । सद्यः सुवर्णतां प्रापदयःसिद्धरसादिव ॥ १९०॥ अथो मुनीश्वरः पश्यस्तस्य धर्मस्य योग्यताम् । उपविश्य शिलापीठे धर्म तं प्रत्युपादिशत् ॥१९१॥पारावार इवापारे संसारे मा विशारद ! चिन्तारत्नमिवासाद्य धर्मयोग मुधा विधाः ॥१९२॥ कार्मणे
Page #142
--------------------------------------------------------------------------
________________
चतुर्थः
प्रकाश
दानप्रदीपेशर्मलक्ष्मीणां मर्माविधि कुकर्मणाम् । धीमन् ! निर्माहि निर्मायमुखमं धर्मकर्मणि ॥ १९३ ॥ काष्ठं कल्पद्रुमः सोऽपि
दृषद्दिविषदां मणिः । पशुः कामगवी साऽपि धर्मस्य ध्रुवमग्रतः॥ १९४ ॥ धर्मेण ऋद्धिमासाद्य धर्ममाराधयेदुधः । यत-| ॥६७॥
|स्तस्यान्यथापातः स्वामिद्रोहकपातकैः॥ १९५ ॥ धर्म एवास्ति सर्वेषां सुखानां खानिरक्षया। तदेषिणा ततस्तत्र यतनीय| महर्निशम् ॥ १९६ ॥ धर्मश्चाभिदधे द्वेधा साधुश्राद्धविभेदतः । श्राद्धधर्म प्रपद्यस्व योग्यता हि तवेदशी ॥ १९७॥
इति तगिरमाकर्ण्य सकर्णस्तस्य संनिधौ । श्राद्धधर्ममुपादत्त श्रद्धाबन्धुरधीरयम् ॥ १९८ ॥ कुमारो धर्ममासाद्य कल्पदुमिव दुर्लभम् । आससाद तमानन्दं यो वाचां नैव गोचरः ॥ १९९ ॥ चरितार्थस्ततस्तस्थौ कायोत्सर्गे पुनर्मुनिः।। स्वहिते नहि तेजस्वी प्रमाद्यति मनागपि ॥२०॥ स्वीकारं श्राद्धधर्मस्य दृष्ट्वा हृष्टाशयो भृशम् । साधर्मिकतया तस्मिन् परमं स्नेहमुद्वहन ॥ २०१॥ विषकार्मणभूतादिप्रभूतादीनवच्छिदम् । स्फुटप्रभावां गुटिकां तस्मै विद्याधरो ददौ ॥२०२॥ युग्मम् ॥ अहो! धर्मस्य माहात्म्यमहो! अस्योपकारिता । इति विस्मयविस्मेरः सोऽग्रहीत्तां तदाग्रहात् ॥२०३ ॥ कृत्वा, धर्ममयालापं समं तेन सधर्मणा । खेचरः सह खेचर्या जगाम निजधामनि ॥२०४॥ अथानम्य मुनिं तस्मादुत्तीर्णस्तीर्थराजतः । विलोकमानो वसुधां विविधाश्चर्यबन्धुराम् ॥ २०५॥ पश्चिमार्णवतीरोर्वीभामिनीभालभूषणम् । कुमारः | स्फाररूपश्रीः प्राप रत्नपुरं पुरम् ॥२०६॥ नाम्ना मदनमञ्जषा मञ्जषा रूपसंपदः। तृणीकृतसुरस्त्रैणा पणस्त्री तत्र वर्तते |॥ २०७ ॥ उदारस्फारशृङ्गारं चरन्तमुपमन्दिरम् । मूर्त मारमिवालोक्य कुमारं विममर्श सा ॥ २०८ ॥ आस्यं दत्तेऽस्य 2 पूर्णेन्दोर्दास्यं सौन्दर्यसंपदाम् । निभाल्यते च निर्माल्यमिव नीलोत्पलं दृशोः ॥२०९॥ वक्षः पक्ष्मलनेत्राणां क्रीडायै
॥६७॥
Page #143
--------------------------------------------------------------------------
________________
काञ्चनी शिला । सौवर्णकलशौ स्कन्धौ कण्ठः कम्बुविडम्बकः॥२१०॥ भुजौ शौर्यगजालानस्तम्भौ भ्रूः स्मरकार्मुकम् ।। चिकुरप्रकरः केकिकलापप्रतिबिम्बकम् ॥ २११॥ अहो! काऽप्यस्य सौभाग्यभङ्गिसर्वाङ्गसङ्गिनी । तदयं जरतः स्रष्टः सृष्टि व विभाव्यते ॥ २१२ ॥ चतुर्भिः कलापकम् ॥ इति ध्यानकतानायास्तस्या दर्शनमात्रतः। तस्मिन्नदृष्टपूर्वेऽपि प्रेम | प्रादुरभूत्परम् ॥ २१३ ॥ सौभाग्यस्वानुरागादिगुणराशिवशंवदः । अतन्द्रां तारचन्द्रोऽपि तामालोक्य मुदं दधौ ॥२१४॥ सा तं निमन्त्रयामास सदने मदनेरिता । ततः प्रहस्य स प्राह यतीवाहमकिञ्चनः ॥ २१५ ॥ उवाच सस्मितं साऽपि त्वत्तो नास्मि धनार्थिनी । सौभाग्यादेव देव ! त्वां कामये कामकेलये ॥ २१६ ॥ धनं मे धनदस्येव पुराऽपि गणनातिगम् । तत्प्रसद्य मदावासं स्वनिवासादलङ्कर ॥ २१७ ॥ एवमत्यर्थमभ्यर्थ्य प्रथितान्तरगौरवा । सा तं निवासयामास स्वावासे स्नेहलाशया ॥ २१८ ॥ अयं तया तथा बहुमानि स्नानाशनादिना । यथा वशंवदां स्वस्य विदुरःस विवेद ताम् ॥२१९ ॥
अहो ! सौभाग्यमेतस्य वर्णयामः किमद्भुतम् । पण्याङ्गनाऽपि निष्पण्यं यदेनं बहु मन्यते ॥२२०॥तत्र भोगान् महाभोगान् । | भुञ्जानो निजगेहवत् । स तया पूर्यमाणर्द्धिरुदयास्ते विवेद न ॥२२१॥ एतस्य भाग्यमहिमा न सीमामवलम्बते । प्रत्युतास्मै
धनं दत्ते गणिका यदनर्गलम् ॥२२२॥ यथेच्छ स्वेच्छया तस्मै यच्छन्ती धनमन्वहम् । तामालोक्य क्रुधाविद्धान्यदा वृद्धाCऽभ्यधादिति ॥ २२३ ॥ दुर्गतैकपुरोगाय भुजङ्गाय ददानया । मुधामुग्धे किमु धनं निधनं नीयते त्वया ॥ २२४॥नवेसि |
स्वकुलाचारं वत्से ! तुच्छमते ! किमु । न जातु जातौ नः काऽपि कामुकाय धनं ददौ ॥ २२५ ॥न सौभाग्यं न वैदग्ध्यं न प्रेम न पराक्रमः। वित्तैकदत्तचित्तत्वाद्गण्यते पण्ययोषिता ॥ २२६ ॥ कुष्ठिनोऽपि वपुःप्रष्ठान मूर्खानपि मनीषिणः । पण्या
Page #144
--------------------------------------------------------------------------
________________
चतुर्थः प्रकाश
दानप्रदीपे
लगना हि मन्यन्ते धनिनो धनगृनवः ॥ २२७ ॥ तस्मादसमरूपोऽपि गुणश्रीपात्रमप्ययम् । पुत्रि ! निर्धनमूर्धन्यस्त्यज्यतां|
सत्वरं त्वया ॥ २२८ ॥ इत्युक्त्वा व्यक्तवाचा सा प्रत्युवाच वचस्विनी । मातर्मातुमशक्या नः पुराऽपि धनसंपदः॥२२९॥ अनेन निर्धनेनापि सौन्दर्यधनशालिना । चेतः केतक शुक्लैमें नियेमे स्वगुणैस्तथा ॥२३०॥ क्षणमप्येतदन्यत्र गन्तुं न क्षमते यथा । मातर्मोक्तुमहं शक्ता जीवन्ती नैव तं ततः॥२३१ ॥ इत्येकचित्ततां तस्मिंस्तस्या मनसिकृत्य सा । हृदि दुष्टाऽपि पापिष्ठा वाचा तद्वाक्यमन्ववक् ॥ २३२ ॥ अथास्य निर्गमोपायमपायं चिन्तयत्यसौ । दासीभिर्दापयामास
सहान्नेन हलाहलम् ॥ २३३ ॥ परं तस्यापकाराय नालंभूष्णु बभूव तत् । गुटिकायाः प्रभावेन भास्करस्यान्धकारवत् M॥२३४ ॥ पुनस्तया प्रयुक्तानि गुप्तं तस्य महौजसः । कार्मणादिकुकर्माणि प्राभवंस्तत एव न ॥ २३५ ॥ ततः सा विफ
लायासा दुर्मरोऽयं गरादिभिः । शस्त्रादिना हते त्वस्मिन्नपवादः सुदुःसहः ॥ २३६ ॥ अस्य चात्र स्थितावर्थव्ययस्य तदवस्थता । इति चिन्ताचिताचान्तचित्ता नाप रतिं गृहे ॥ २३७ ॥ युग्मम् ॥ साऽथ दासीवृता वेलां नेतुं वेलावनं ययौ। बोहित्थं तत्र पाथोधितीरस्थं च व्यलोकत ॥ २३८ ॥ कुतः प्राप्तं व गन्तेदं तथा प्रस्थास्यते कदा । इति स्पष्टं तया पृष्टा * नाविकाः प्रत्यवादिषुः॥२३९ ॥ रत्नद्वीपादिदं प्राप्तं रात्रौ तत्र चलिष्यति । इति प्रतिवचः श्रुत्वा दुष्टा तुष्टाऽजनिष्ट सा ॥ २४०॥ अथैत्य निकटे नैककपटैकपटीयसी । प्राह पोतपतिं चित्तेकृत्योपायं विचिन्त्य सा ॥ २४१॥श्रेष्ठिन्नहं प्रतिष्ठासुस्त्वया सह सनन्दना । श्रेष्ट्यप्याचष्ट मातश्चेदायियासुर्मया समम् ॥ २४२ ॥ मध्यरात्रे समागम्यं पुत्रमादाय तत्त्वया । तदा येनास्ति नः शस्तः पोतप्रस्थापनक्षणः॥२४शाओमित्युक्त्वा गृहंसाऽगात् कुमारं पायितासवम् । निशीथे सुर
जसः। कार्मणापतत् । गुलिचन्तयत्यसो
॥६॥
Page #145
--------------------------------------------------------------------------
________________
ACCAUSA
तश्रान्तं सुप्तं प्रेक्ष्य जहर्ष च ॥ २४४ ॥ ततश्चेटीभिरुत्पाव्य पोतान्तस्तं निनाय सा। दर्शयामास चात्मानं कुमारं च वणिक
पतेः॥ २४५॥ अथ तत्र जनान् पोतव्यापारव्यग्रतावतः । वञ्चयित्वा गृहं साऽगादहो ! छद्म मृगीदृशाम् ॥ २४६॥ ४ मुक्तामयं तनूजाया हारं क्वापि जुगोप च । महाम्भोधिरिवागाधं चरितं खलु योषिताम् ॥ २४७॥ इतो मदनमञ्जषा
जागरामासुषी प्रगे। जीवितेशं स्ववेश्मान्तरवीक्ष्य व्यपदत्तमाम् ॥ २४८॥ सा तं गवेषयामास सखीभिः सर्वतः पुरे। न त्वापि क्वाप्ययं ताभिरम्भोधिच्युतरत्नवत् ॥ २४९ ॥ ततो नेत्रपतद्बाष्पमलिनीभवदानना । चक्रे मदनमञ्जषा विलापानतिविह्वला ॥२५० ॥ हा सारगुणशृङ्गार ! हा सौभाग्यरमानिधे !। मां विमुच्य गतः क्वाऽसि जानन् स्वायत्तजीविताम् ॥ २५१ ॥ मया नाविनयः क्वापि चक्रे नाज्ञाऽप्यलुप्यत । तन्मामनागसं स्वामिन्नहासीः सहसा कुतः ॥२५२ ॥ इयं लक्ष्मीरियं भूषा क्रीडास दमद्भुतम् । इदं जीवितमप्यद्य त्वां विनाऽरण्यसूनवत् ॥ २५३ ॥ एवं विलापविकला। नाभुक्त न पपौ च सा । परं शून्यमनस्कैव तस्थौ विरहदुःस्थिता ॥ २५४ ॥ अथ तामभ्यधादुद्धा शोकः कोऽयं तवापदे । अलक्ष्मीनिर्गता गेहादुर्गतः स गतो यदि ॥ २५५ ॥ गृहीत्वा मा गमत् किञ्चिदित्युक्त्वा सा ससंभ्रमम् । संभालयितुमारेभे भवनं दम्भभाजनम् ॥ २५६ ॥ इतो मञ्जषया भूषामञ्जूषां वीक्षमाणया । लक्षमूल्यं निजं वीक्षांचके मौक्तिकदाम मानो ॥२५७ ॥ ततः कोपस्फटाटोपं जल्पन्ती पश्य पापिनि ! । दुष्टेन त्वममोषिष्ठास्तेन हारापहारतः ॥ २५८ ॥ ईदृशस्यैव
योग्या त्वमिति निर्भय॑ निर्भरम् । प्रावीवृतत्सुतामक्का भक्तपानादिकर्मसु ॥ २५९ ॥ युग्मम् ॥ तथाविधं च वृद्धायाः कुमारस्य प्रतारणम् । अन्यदाऽऽकर्ण्य दासीभ्यस्तामुपालब्ध सा क्रुधा ॥ २६० ॥ मातस्त्वयैव मे भर्ता प्रतार्य निरका
Page #146
--------------------------------------------------------------------------
________________
दानप्रदीपे
चतुर्थः
प्रकाशः।
65555555555
स्थत । यदयं नान्यथा याति नियमाणोऽपि मां विना ॥ २६१ ॥ यावन्न माति वेश्मान्तर्मातस्तावत्स्वमार्जिजम् । तथापि तव नो तृप्तिरहो ! लोभाभिभूतता ॥ २६२॥ तोयेन वारिधिरुषर्बुध इन्धनेन दानेन याचकजनस्तनुभृत् सुखेन । कोशेन भूपतिरुपैति कदाऽपि तृप्तिं पण्याङ्गना नहि पुनविणेन नूनम् ॥ २६३ ॥ इमं च दुरभिप्रायं मा स्वप्नेऽपि वृथा कृथाः। धर्म साधारणस्त्रीणां यदियं धास्यते सुता ॥ २६४ ॥ यथा तथा मयाऽचेष्टि दिनानीयन्ति ते गिरा । साम्प्रतं तु प्रतिज्ञा मे मातस्त्वमवधारय ॥ २६५ ॥ अपि भुङ्गे विषं मातरपि वह्नौ विशाम्यहम् । तारचन्द्रं विनाऽन्यस्य नाङ्गं मेऽङ्गति सङ्गतिम् ॥ २६६ ॥ इत्युक्त्वा विमलं शीलं पालयन्ती सतीव सा । सम्यक्प्रतिव्रताचारमाचचार सुदुश्चरम् ॥ २६६ ॥ तद्यथा-शोभायै नहि सा नाति नानाति मधुराशनम् । करोति नाङ्गसंस्कारं न वस्ते शस्तमंशुकम् ॥ २६७ ॥ अनक्ति नयने नापि न वक्ति सह केनचित् । न निरेति . निजागारान्नाङ्गरागेऽनुरागिणी ॥ २६८ ॥ न कारयति सङ्गीतं गीतं नाकर्णयत्यपि । वेश्याऽप्यहो ! कुलस्त्रीवत्तस्थौ तल्लीनमानसा ॥ २६९ ॥ त्रिभिः कुलकम् ॥ अपि च-हारं दधार हृदि नो तिलकं न भाले पाणी न कङ्कणयुगं न भुजेऽङ्गदं सा। नो नूपुरं चरणयोरपि सर्वतोऽङ्गे शीलं तु केवलमलङ्करणं |बभार ॥ २७० ॥ इतश्च
पोते सञ्चारिते तस्मिंस्तारचन्द्रो विनिद्रताम् । प्राप्तः प्रभाते परितस्तोयं दृष्ट्वा विमृष्टवान् ॥ २७१॥ किमयं दृश्यते | स्वप्नः किन्तु मे मतिविभ्रमः । किमिन्द्रजालं कस्यापि किं वा दृग्बन्ध एप मे ॥ २७२ ॥ किं वायं मम संमोहः किं सुपर्वविकुर्वितम् । अनल्पाः कल्पना एताः प्रथयाम्यथवा वृथा ॥ २७३ ॥ अयं प्रत्यक्षतः पोतो लक्ष्यते चैष तोयधिः । अत्रा
**
*
॥६९॥
**
Page #147
--------------------------------------------------------------------------
________________
नायिषि केनापि कौतुकादथ कैतवात् ॥ २७४ ॥ आज्ञातं चेष्टितं तस्या जरत्या दुष्टताभृतः। प्रमातिगं पणस्त्रीणां यतः कपटपाटवम् ॥ २७५ ॥ इति चिन्तातुरं तारचन्द्रं पोतपतिस्तदा । तत्रातर्कितमालोक्य प्रत्यभिज्ञाय पिप्रिये ॥२७६॥ ससंभ्रमं समुत्थाय नत्वा तं परिषस्वजे । विदित्वा कुरुचन्द्रं तं तारचन्द्रोऽप्यमोदत ॥ २७७ ॥ उवाच कुरुचन्द्रस्तं तवाकस्मिकमद्य मे । बभूव दर्शनं मित्र ! च्युतचिन्तामणेरिव ॥ २७८ ॥ भ्रान्तोऽसि कुत्र कुत्र त्वं कथं नीरोगता च ते । कथं चात्रागमो मित्र ! सर्वमेतन्निवेद्यताम् ॥ २७९ ॥ इति पृष्टस्तमाचष्ट वृत्तं भूपतिभूनिजम् । सम्मेतगमनारोग्यजरतीवञ्चनादिकम् ॥ २८०॥ एतन्निशम्य निःसीमविस्मयस्मेरलोचनः । भाग्यमुजागरं तस्य मन्त्रिसूः प्रशशंस सः ॥ २८१॥ जगौ नृपाङ्गभूमित्र ! कथमत्रागमस्तव । इति पर्यनुयुङ्गस्तमुवाच सचिवाङ्गजः॥२८२॥ श्रावस्त्यास्त्वयि निष्क्रान्ते त्वद्वियोगेन दुःखितः। भूपः प्राप रतिं क्वापि भवनेऽपि वनेऽपि नो ॥ २८३ ॥ त्वां गवेषयितुं सर्वदिक्षु प्रैष्यन्त पूरुषाः। |कुतोऽप्यानायि केनापि प्रवृत्तिस्तव नो पुनः॥ २८४ ॥ त्वां विना दुःस्थितः स्थातुं नाहं क्षणमपि क्षमे । तदादाय नृपा-11 देशं प्राचलं त्वां विलोकितुम् ॥ २८५ ॥ बभ्राम नीवृतोऽनेकास्त्वदीयविरहाकुलः । निधानमिव निष्पुण्यो न वापि त्वामवाप्नुवम् ॥ २८६ ॥ ततः पोतपतीभूय परद्वीपेषु वीक्षितुम् । गच्छतोऽतर्कितं जातं ममाद्य तव दर्शनम् ॥ २८७ ॥
श्रमो मे सफलो जज्ञे फलिता देवताशिषः । भाग्यं जागरितं चाद्य यत्त्वं दृक्पथमागमः ॥ २८८ ॥श्रावस्त्यामस्ति सर्वेषां & कुशलं किन्तु संततम् । त्वद्वियोगमहाव्याधिर्बाधते भूधवादिकान् ॥ २८९ ॥ ततः स्वदर्शनानन्दपीयूषरससेकतः।
पित्रादीनां मनस्तापं निर्वापय कृपार्णव !॥ २९० ॥ इत्युक्ते कुरुचन्द्रेण तारचन्द्रो विनिद्रधीः। पितरौ दृष्टुमुत्कण्ठाम
RECASSA
Page #148
--------------------------------------------------------------------------
________________
दानप्रदीपे
चतुर्थः प्रकाशा
कुण्ठामकरोत्तमाम् ॥ २९१॥ ततोऽर्णवात्समुत्तीर्णस्तूर्णमेष विशेषवित् । प्रतस्थे कुरुचन्द्रेण परीतः स्वपुरी प्रति ॥२९॥ |पुरीपरिसरे प्राप प्रयाणैस्त्वरितैरयम् । समं समस्तसामन्तैर्भूभर्ताऽपि तमभ्यगात् ॥ २९३ ॥ दूरादपि निजं सूनुं निभाल्य सुभगं दृशोः। उल्लासमासदद्भूपः पूर्णेन्दुमिव वारिधिः॥२९४ ॥ कुमारोऽपि तमालोक्य तमानन्दमविन्दत । विवेद सर्ववेदीयं स्वसंवेदनमेव वा ॥ २९५ ॥ स ननाम क्रमाम्भोज विनयावनतः पितुः। पिताऽपि गाढमालिङ्गय चुम्वति स्म शिरस्यमुम् ॥ २९६ ॥ उच्छलत्स्वच्छवात्सल्यो विदधे वसुधेश्वरः। जनुमहमिवातुच्छमङ्गजस्यागमोत्सवम् ॥२९७ ॥ अमानगायनस्तोमगीयमानगुणावलिम् । अहो ! सौभाग्यमस्येति स्तूयमानं पुरीजनैः ॥ २९८ ॥ अमन्दवाद्यनिर्घोषमुखरीकृतदिग्मुखम् । पुरःपरिस्फुरन्नैकनटीपेटकनाटकम् ॥ २९९ ॥ गंजेन्द्रस्कन्धमध्यास्य धारितातपवारणम् । प्रावीविशद्विशामीशः
कुमारं मन्दिरं मुदा ॥ ३०० ॥ त्रिभिर्विशेषकम् ॥ अगण्यपुण्यलावण्यावज्ञातत्रिदिवाङ्गनाः। परिणिन्ये स राजन्यकन्याः है स्वजनकाज्ञया ॥ ३०१॥ अन्यदा क्षणदाशेषे विशेषज्ञेषु शेखरः। वसुधाधिपतिर्दृधा प्रबुद्धो ध्यातवानिति ॥ ३०२॥
राज्यर्द्धिर्भुज्यमानेयं पूर्वपुण्यैरुपार्जिता । दीपश्रीरिव तैलानि तानि निष्ठापयत्यलम् ॥ ३०३ ॥ निष्ठां न यावदायान्ति तावदेतानि सत्वरम् । नूतनानि विधातु मे साम्प्रतं साम्प्रतं पुनः॥३०४ ॥ अपि सर्वकलोपेतं पुण्यहीनं हि जन्मिनम् ।। निद्रव्यं पण्ययोषेव लक्ष्मीस्त्यजति दूरतः॥३०५॥ पुण्यैरेव प्ररोहन्ति संपदः सर्वतोऽङ्गिनाम् । वीरुधोऽन्तर्धरं धाराधरैरभिनवैरिव ॥ ३०६ ॥ परे भवे भवेज्जीवः सुखी पुण्येन नापरैः। नहि तत्रानुगच्छन्ति जीवं पुण्यमिवापरे ॥३०७॥ कुमारस्यापि साम्राज्यभारोद्धारे धुरीणता । तदस्मै राज्यमुत्सृज्य प्रव्रज्या युज्यते मम ॥३०८॥ इति ध्यानानुबन्धेन
॥७०॥
Page #149
--------------------------------------------------------------------------
________________
प्रकाशस्तस्य मानसे । प्रादुरास सहस्रांशुतेजसा च भुवस्तले ॥ ३०९ ॥ ततः प्रातर्जिनार्चादि कृत्वा कृत्यं स कृत्यवित् ।। आकार्यामात्यसामन्तान् स्वाभिप्रायमजिज्ञपत् ॥ ३१ ॥ प्रसह्यानुमतिं तेषामादाय नरनायकः । तारचन्द्राय साम्राज्यमतुच्छरुत्सवैरदात् ॥ ३११ ॥ अथाभङ्गुरवैराग्यरसरङ्गतरङ्गितः । सर्वेष्वाहतचैत्येषु विहिताष्टाहिकामहः ॥ ३१२ ॥ तपस्यामाददे सूरिसविधे वसुधेश्वरः। यथाऽवसरकर्माणः सर्वदा हि विशारदाः॥ ३१३ ॥ युग्मम् ॥ प्रपाल्य चारुचारित्रं स तत्त्वा दुस्तपं तपः । सुपर्वसंपदं प्राप दुष्प्रापं किं तपस्यताम् ॥ ३१४ ॥ नरेन्द्रस्तारचन्द्रोऽथ नवार्क इव दिद्यते ।। उदिते शत्रवो यत्र तमोवत्तत्रसुः क्षणात् ॥ ३१५ ॥ महीन्द्रः कुरुचन्द्राय महामात्यपदं ददौ । महात्मभिः समं प्रीतिः कल्पवल्ली हि देहिनाम् ॥ ३१६ ॥ अन्यदाऽऽकर्णेयामास राजा रत्नपुरागतात् । जनान्मदनमञ्जषां वियोगार्ता पतिव्र-15 ताम् ॥ ३१७ ॥ निःसीमप्रेमतां तस्याः स्मृत्वा स्नेहातिरेकतः । भृत्यैराकारयद्राक् तां क्षमाशक्रः साकमक्कया ॥ ३१८॥ | निदेशान्मेदिनीशस्य तस्याः संमुखमैयरुः । समस्तामात्यसामन्ताः शीलस्य हि नमस्यता ॥ ३१९ ॥ अमात्यप्रमुखास्तस्याः सतीत्वेनातिविस्मिताः। तामानिन्युनृपावासं महामहपुरस्सरम् ॥ ३२०॥ प्रहीयमाणलावण्यरसां विगतहंसकाम् । विलासोर्मिविनिर्मुक्तां मलपङ्कमलीमसाम् ॥ ३२१ ॥ स्तोकस्वर्णस्थितिं जीर्णमलिनांशुकसेवलाम् । सर्वतो म्लानपाण्यहिनयनानननीरजाम् ॥ ३२२ ॥ भृशं विसिष्मिये वीक्ष्य ग्रीष्मसिन्धुसधर्मिणीम् । सधर्मिणी धराधीशः पण्यस्त्रीमपि तां सतीम्। ॥ ३२२ ॥ त्रिभिर्विशेषकम् ॥ अपिपृणन्नृपस्तां प्राक् प्रीतिवाक्यैरकृत्रिमैः । पश्चाच्चारुदुकूलैश्च सौवर्णाभरणैस्तथा॥ ३२४ ॥ साऽपि प्रियतमप्राप्तिप्रमोदामृतपूरतः । विरहातपसंतप्तमात्मानं निरवीवपत् ॥ ३२५ ॥ अकार्षीन्महिषीमेष तां सतीषु
Page #150
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ७१ ॥
धुरि स्थिताम् । गौरवाय गुणा एव न तूत्तमकुलादिकम् ॥ ३२६ ॥ अक्कां धिक्कारयामास हारचौर्यकलङ्कदाम् । तस्याश्च नासिकाकर्णविनाशायादिशन्नृपः ॥ ३२७ ॥ यतः —
“वधबन्धच्छिदाद्यं हि प्ररूढः पापपादपः । इह लोके फलं दत्ते परलोके तु दुर्गतीः ॥ १ ॥”
राज्ञ मदनमञ्जूषा मोचयामास तां नृपात् । सतां कृपा हि सर्वत्र समाना घनवृष्टिवत् ॥ ३२८ ॥ जवादानाय्य तं हारं नृपस्तस्यै मुदाऽर्पयत् । पत्यौ प्रीतिः परा स्त्रीणां यतः कल्पलतायते ॥ ३२९ ॥ तत्रान्यदा पुरोद्याने गुणसागरसूरयः । मुनीन्द्राः समवासार्षुरशेषागमवेदिनः ॥ ३३० ॥ उद्यानपालकेनाथ गुरोरागमने नृपः । विज्ञप्ते पिप्रियेऽतीव के | कीव जलदागमे ॥ ३३१ ॥ विनोष्णीषं ददौ तस्मै सर्वाङ्गालङ्कृतीर्नृपः । अहो ! भाग्यवतां भक्तिर्गुरौ काऽप्यतिशायिनी ॥ ३३२ ॥ ततः समस्तसामन्तमन्त्र्यादिपरिवारितः । वन्दितुं गुरुमुद्यानमासदन्मेदिनीपतिः ॥ ३३३ ॥ प्रणम्य विधिना सूरिं निषण्णेषु नृपादिषु । गुरुश्चकार दुष्कर्मनाशिनीं पुण्यदेशनाम् ॥ ३३४ ॥ तां निपीय नृपः प्रीतश्ञ्चकोर इव चन्द्रकाम् । सपौरः प्रगुणीभूतधर्मरङ्गो गृहानगात् ॥ ३३५ ॥ कृतस्नानजिनेन्द्रार्चा भोजनादिविधिर्नृपः । आसने सुखमासीनो हृदि दध्यौ विशुद्धधीः ॥ ३३६ ॥ धन्यास्ते कृतपुण्यास्ते तेषां च सफलं जनुः । श्रीगुरूणां गिरो नित्यं कणेहत्य पिबन्ति | ये ॥ ३३७ ॥ धन्येभ्योऽपि च ते धन्याः कुर्वते विधिपूर्वकम् । सर्वदा पुण्यकृत्यं ये गुरूणामुपदेशतः ॥ ३३८ ॥ अस्माकं तु सदा राज्यशृङ्खलास्खलितात्मनाम् । आयान्ति यान्ति दिवसाः पशूनामिव निष्फलाः ॥ ३३९ ॥ गुरुन्निवेश्य स्वावासे तदुपास्यापरायणः । तदुक्तविधिना धर्म भाग्यवानेव सेवते ॥ ३४० ॥ वसतिं यतिराजाय स्वच्छधीर्यः प्रच्छति ।
चतुर्थः
प्रकाशः ।
॥ ७१ ॥
Page #151
--------------------------------------------------------------------------
________________
1
| विधत्ते वसतिं स्वस्य सद्यः सिद्धिपदे हि सः ॥ ३४९ ॥ गुरुभ्यो वसतिं दत्त्वा तीर्यते भववारिधेः । न परं सुधिया स्वात्मा श्रीसङ्घोऽपि चतुर्विधः ॥ ३४२ ॥ श्लाघास्तु हस्तिपालस्य श्रीवीरस्थापनेन यः । शुल्कशाले चतुर्मासीं पुण्यसत्रमसूत्रयत् ॥ ३४३ ॥ अहं च राज्यवैयग्र्यादुद्याने वन्दितुं गुरून् । न शक्तः सततं गन्तुं समस्तोऽपि जनस्तथा ॥ ३४४ ॥ तदुद्यानादिहाकार्य निवेश्य स्वगृहे गुरुम् । धर्म शृणोमि सेवे च कुर्वे च सफलं जनुः ॥ ३४५ ॥ ध्यात्वेति जनलक्षेषु दक्षेष्वपि नृपः स्वयम् । ययौ तत्र तमाह्वातुमहो ! तस्य विवेकिता ॥ ३४६ ॥ अतुच्छैरुत्सवस्तोमैर्निरवद्ये स्वसद्मनि । | स्थापयामास भूमीन्द्रः कल्पद्रुमिव तं गुरुम् ॥ ३४७ ॥ अथासौ सर्वसामन्तपौरादिपरिवारितः । शुश्राव सर्वदा तस्य | सादरं धर्मदेशनाम् ॥ ३४८ ॥ तदीयदेशना दीपदलितान्तरतामसाः । प्रपेदिरे जनाः सम्यग्धर्ममार्गमभङ्गरम् ॥ ३४९ ॥ | तथाहि - त्यक्त्वा मिथ्यात्वमत्युग्रं प्रत्यपद्यन्त केचन । सम्यक्त्वं मुक्तिकान्तायाः सङ्केतमिव निश्चितम् ॥ ३५० ॥ स्वर्गसौधाधिरोहाय सोपानानीव केचन । स्वीचक्रुर्द्वादश श्राद्धव्रतानि विधिवज्जनाः ॥ ३५१ ॥ प्राज्यसंपदमुत्सृज्य चङ्गसंवेगरङ्गतः । मुदा श्रामण्यसाम्राज्यमुपायंसत केचन ॥ ३५२ || सामायिकजिनाचदिनियमानमितान् मुदा । भेजुः स्वर्गा| पवर्गश्रीसत्यङ्कारानिवापरे ॥ ३५३ ॥ इत्यपारेषु पौरेषु नानापुण्यपरेष्वपि । कुरुचन्द्रस्तु नो धर्म प्रपेदे गुरुकर्मकः ॥ ३५४ ॥ यतः - "जगती नयनानन्दसंपादनपरायणा । चन्द्रिका नहि चौराय रोचते रुचिराऽप्यहो ! ॥ १ ॥ " तारचन्द्रनरेन्द्रस्य दाक्षिण्यादेव सेवकः । वन्दनाभिगमादीनि स गुरोरकरोत्पुनः || ३५५ ॥ दृष्ट्वा पुण्यपरान् पौरान् धर्मारोचकिनं पुनः । कुरुचन्द्रं महीचन्द्रो जहर्ष विषसाद च ॥ ३५६ ॥ दध्यौ च वसुधाधीशः शृण्वन्नपि मया समम् ।
Page #152
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥७२॥
धर्म प्रत्यहमेवैष प्रत्यबुध्यत नाल्पधीः ॥ ३५७ ॥ अस्यातिकुशलस्यापि कलासु सकलास्वपि । अभून्न कौशलं धर्मे ही प्रकाशः। विपाकः कुकर्मणः॥ ३५८ ॥ अस्मै धिगस्तु विश्वान्धंकरणाय कुकर्मणे । सर्वोपकारपारीणे श्रीधर्मेऽप्यरुचिर्यतः॥३५९॥ अयं मन्त्री मया मैत्रीमाश्रितः शैशवादपि । महामात्यपदं चास्मै मैत्र्यादेव ददे मया ॥ ३६०॥ परं यावदमुं धर्मकर्मठं निर्मिमे नहि । सुहृदस्तावदेतस्य किं नामोपकृतं मया ॥ ३६१ ॥ यतः
"उपकारो ह्यनल्पोऽपि प्रयाति व्ययमैहिकः । स्वल्पोऽप्यनल्पतामेति स पुनः पारलौकिकः॥१॥" मुनीनामयमाचारं निरतीचारमन्वहम् । प्रत्यक्षं वीक्षमाणः सन् कदाचित् प्रतिबुध्यते ॥ ३६२ ॥ तदस्यैव गृहे युक्त गुरूणां स्थापनं मम । विचिन्त्येति नृपश्चित्ते प्रोवाच सचिवं प्रति ॥ ३६३ ॥ अपारकार्यप्राग्भारव्यापारव्यग्रताऽस्ति ते । गुरूणामन्तिके गन्तुं पर्याप्तिस्तव नो ततः॥ ३६४ ॥ तस्माद्वेश्मनि मन्त्रीश ! स्वस्मिन्नेव मुनीश्वरान् । निधेहि सविधे । चैषां धर्म शृणु यथाविधि ॥ ३६५ ॥ धर्म एव यतः सेतुरपारभववारिधौ । केतुः सर्वापदां हेतुः समस्तसुखसंपदाम् ॥ ३६६ ॥ धनस्वजनदेहाद्यमपि पुण्यविनाकृतम् । दुरन्तदुर्गतौ पातनिमित्तं हि तनूमताम् ॥ ३६७ ॥ इत्यादिष्टे नरेन्द्रेण तदादेशवशंवदः । गुरूनिमानमात्येशो निजावासे न्यवीविशत् ॥ ३६८ ॥ धर्म चाकर्णयामास तदभ्यर्णे दिने | दिने । राज्ञो दाक्षिण्यतः पुंसां गुणस्तदपि न ह्यणुः॥३६९ ॥ सरसैरुपदेशैश्च तेषामेष विसिष्मिये । शर्करा किमु न स्वादुःप्रसह्याप्याहिता मुखे ॥ ३७० ॥ दशै दर्श क्रियास्तेषामशेषा अप्यदूषणाः । अमी जितेन्द्रियाः शान्ताः सम्यगाचारचारवः ॥ ३७१॥ अहो ! सदाऽपि निःसङ्गाः संवेगामृतसागराः । स्वाध्यायध्याननिष्णाता यथोक्तविधिकारिणः ॥३७२॥
॥७२॥
Page #153
--------------------------------------------------------------------------
________________
पूर्वापराविसंवादी धर्मश्चैषामदूषणः । इति धर्मानुरागेण बोधिबीजं स आर्जिजत् ॥ ३७३ ॥ युग्मम् ॥ स परं भाग्यहीनत्वाद्धर्म न प्रतिपन्नवान् । किं पङ्गः कम्रमाम्रस्य फलमादातुमीश्वरः॥ ३७४ ॥ निष्पुण्यास्ते जना जैन धर्म ये नहि | जानते । ते निष्पुण्यतमा ये तु जानन्तोऽपि न तन्वते ॥ ३७५ ॥ धर्ममप्रतिपेदानमुपायैरपरैरपि । निरीक्ष्य धीसखं ४ दक्षः परामृक्षत्क्षितीश्वरः ॥ ३७६ ॥ प्रपेदे यद्ययं नैव धर्म मयि सुहृद्यपि । चारित्रावरणीयस्यानणीयोऽस्य बलं ततः
॥ ३७७ ॥ तन्मुधाऽस्मिन् प्रतीबोधप्रयासः किं विधीयते । ऊपरे शुद्धबीजस्य वापः किमुपयुज्यते ॥ ३७८ ॥ अहो!
धर्माङ्गसामग्री दुर्लभा खलु देहिनाम् । धर्म विशिष्य तद्बहे गुरूणामन्तिके पुनः॥ ३७९ ॥ मूढा धर्मे प्रमाद्यन्तो दृश्यन्ते || हि यथा यथा । दृढीभवति भव्यानां धर्मरङ्गस्तथा तथा ॥ ३८० ॥ एवं विमृश्य निःसीमसंवेगरसभावितः। भूपस्तदि-18
तरोऽमात्यसामन्तादिसमन्वितः ॥ ३८१॥ स्वर्णरत्नादिरोचिष्णुदुकूलादिप्रदानतः । संमानितसमस्तोवर्तिसङ्घजनवजैः ॥ ३८२ ॥ अतुच्छरुत्सवैजैनशासनोद्भासनापरैः। जगृहे गृहिणां धर्म द्वादशव्रतबन्धुरम् ॥ ३८३ ॥ त्रिमिर्विशेषकम् ॥ त्रिलोक्या इव साम्राज्यं सम्यग्धर्ममवाप्य सः। प्रमोदमेदुरश्चक्रे चैत्येष्वष्टाहिकामहम् ॥ ३८४ ॥ व्यहरन् सूरयोऽन्यत्र मासकल्पसमाप्तितः । मुनीनां शकुनीनां च नैकत्रावस्थितिर्यतः ॥ ३८५ ॥ भूपः सकलकल्याणवल्लीनव्यघनावलिम् ।
अमारिं कारयामास सर्वस्यां निजनीवृति ॥ ३८६ ॥ जगतीयुवतीवक्षस्थलालङ्कारकारिणः । विहारान् कारयामास सहाशारानिव मौक्तिकान् ॥ ३८७ ॥ मणिस्वर्णमयै नीनयनानन्ददायिनीः । अयं निष्प्रतिमा नैकाः प्रतिमा निरमीमपत् ॥३८८॥3 | शत्रुञ्जयादितीर्थेषु यात्रा मात्रातिगोत्सवाः। पवित्रा द्वैधशत्रणां जैत्रीः सूत्रयति स्म सः॥ ३८९ ॥ निर्निदानमयं दानं|
Page #154
--------------------------------------------------------------------------
________________
दानप्रदीपे
चतुर्थ: प्रकाश
॥७३॥
यथाविधि सदाऽप्यदात् । कन्याया इव यल्लक्ष्म्या दानमेवोचितं सताम् ॥ ३९० ।। व्यधात् स वसुधाधीशश्चतुर्दश्यादिपर्वसु । विधिना पौषधं कर्म व्याधीन हन्तुमिवौषधम् ॥ ३९१ ॥ इत्यगण्यानि पुण्यानि तन्वानो मतमाहतम् । भासयन् सुचिरं राज्यं बुभुजे भूभुजांवरः ॥ ३९२ ॥ अथावगम्यावसरं निजाङ्गजे नियोज्य राज्यं समतासुधौक्षितः । त्यक्त्वा चतुर्धाऽप्यशनं वशीकृतेन्द्रियश्चतुर्णा शरणं समाश्रितः ॥ ३९३ ॥ अजस्रवर्धिष्णुशुभानुबन्धिध्यानाम्बुशुद्धीभवदन्तरात्मा । सम्यगूनमस्कारजपे वितन्द्रः श्रीतारचन्द्रः प्रतिपद्यमृत्युम् ॥ ३९४ ॥ शय्यादानजपुण्यराशिभिरिव प्रेडन्मणिज्योतिषां प्राग्भारैः प्ररितः प्रभास्वरतरं दिव्यद्धिभिर्बन्धुरम् । सर्वाङ्गीणसुखश्रियां विलसनस्थानं विमानं गतः स्वर्गी स्वःपतिना समानविभवः स्वर्गेऽजनि द्वादशे ॥ ३९५ ॥ चतुर्भिः कलापकम् ॥ ततश्चयुत्वा विदेहेषु सुकुलं प्राप्य संश्रितः। तपस्याक्षीणनिःशेषकर्मा मोक्षमयं गमी ॥ ३९६ ॥ सचिवः कुरुचन्द्रस्तु धर्मकर्मपराङ्मुखः। अभीक्ष्णं विषयाकाशनकलुषीभवदाशयः॥ ३९७ ॥ विपद्य पर्वते कापि कपित्वेनोदपद्यत । जिनधर्मविहीनानां स्थानं दुर्गतिरेव हि ॥ ३९८॥ युग्मम् ॥ अन्यदा भूभृदासत्तौ सार्थेन पथि गच्छतः। मुनीश्वरानसौ दिष्ट्या दृष्ट्वा दृष्ट्वा विमृष्टवान् ॥ ३९९ ॥ अमूनमूदृशाकारान् पुरा क्वापि व्यलोकयम् । इत्यूहं कुर्वतस्तस्य जातिस्मृतिरजायत ॥ ४०॥ स्मृत्वा पूर्वभवं सौवं सुहृदं मेदिनीश्वरम् । गुरूंस्तदुपदेशांश्च स दध्यौ खेदमेदुरः ॥ ४०१॥ अहो ! मे गुरुभिः सर्वजनीनैः स्वामिनाऽपि च । उपदेशा अदी| यन्त तदायतिहितावहाः ॥ ४०२॥ परं ते नाद्रियन्ते स्म मया खात्मैकवैरिणा । भिषग्वरोदिता मर्तुकामेनेव प्रतिक्रियाः ॥४०३ ॥ मद्वेश्मनि न्यवेश्यन्त धर्मोपकृतये मम । गुरवो मेदिनीशेन हादसौहार्दशालिना ॥४०४॥ प्ररुरोह महा
Page #155
--------------------------------------------------------------------------
________________
*
*
मोहग्रस्ते तदपि मे हृदि । हीनधर्माकुरोऽम्भोदैरुक्षितेऽपि यथोपरे ॥ ४०५ ॥ अधुना सर्वधर्माङ्गप्रहीणः करवाणि किम् ।। समूलोन्मूलितानल्पकल्पद्रुम इवाधनः॥ ४०६ ॥ हहा ! क्षणिकसौख्याय मूर्खाः पुण्यानपेक्षिणः । दुःखायन्ते कथङ्कारमपारभवसागरे ॥ ४०७॥ अद्यापि स्मृतिमानीय तदीयवचनानि मे । यथार्हधर्मकर्तव्ये प्रवृत्तिः खलु युज्यते ॥४०८।। यदि वा मे कुतो धर्मो जीवहिंसैकजीविनः । ततस्तनुपरित्यागं विदधे विधिनाऽधुना ॥ ४०९ ॥ एवं विचिन्त्य कृत्यज्ञः सत्यसम्यक्त्ववासितः । विधिनानशनं प्रायवैराग्यादग्रहीदयम् ॥ ४१०॥ तस्य क्षितीन्दोः सुहृदोऽनुमोदनाविनिद्रधीनिन्दितसौवदुष्कृतः। स्मरन्नमस्कारमपारभाववान् दिनानि सप्तानशनं प्रपाल्य सः ॥ ४११॥ बभूव पूर्वत्रिदिवे सुराग्रणीस्तृणीकृतान्यत्रिदशः स्वसंपदा । धर्मो विधत्ते विधिना विनिर्मितः स्वल्पोऽप्यनल्पाः किल दिव्यसंपदः ॥ ४१२ ॥ युग्मम् ॥ ततश्च्युतो मनुष्यादिसुगतीरुत्तरोत्तराः। आसादयन् क्रमेणायं मुक्तिलक्ष्मी वरिष्यति ॥४१३ ॥ जातिस्मृतिस्वर्गिभवादिकं फलं जज्ञेऽस्य दाक्षिण्यनिवासदानतः। विशुद्धबीजं हि परोपरोधतोऽप्युप्तं स्वकाले फलसंपदे भवेत्॥४१४॥ श्रीतारचन्द्रस्य पुनः स्वभक्तितो विनिर्मितादाश्रयदानपुण्यतः। प्रेत्याभवन्नच्युतसंपदोऽद्भुता भवे तृतीयेच महोदयश्रियः
॥ ४१५ ॥ इति श्रुतिसुखावहं नृपतिमन्त्रिदृष्टान्ततो निशम्य सुमनो जना वसतिदानपुण्यं परम् । विधत्त शुभभावतः सततकामेव तत्रादरं वृणोति भवतो यथा सपदि सिद्धिसीमन्तिनी ॥ ४१६ ॥
॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानाङ्के श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रशय्यादानफलप्रकाशनश्चतुर्थः प्रकाशः॥४४८॥
रस्कारमपारभाववादग्रहीदयम् ॥ ४१० ॥ तस्य ना! ४०९ ॥ एवं विचिन्त्य काय पदा । धर्मो विधत्ते वान सप्तानशनं प्रपाल्य सः ॥ सुहृदोऽनुमोदनाविनिद्रा
*
तश्युतो माया दाक्षिण्यनिवाश्रयदानपुण्यतः ।
*
*
*
Page #156
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥७४॥
॥अथ पञ्चमः प्रकाशः॥
पश्चम: जयत्यसीममाहात्म्यः पात्रदानसुरदुमः । यस्य लीलायितं शालिभद्रादीनां विभूतयः॥१॥ अथो तृतीयदानस्य भेदः प्रकाश सुकृतमेदुरः । द्वैतीयीकः शयनीयदानरूपः प्ररूप्यते ॥२॥ द्विधा हि शयनं वर्षाशेषकालव्यपेक्षया । तत्राद्यमनवद्येन81 निर्मितं सारदारुणा ॥३॥ द्वितीयं पुनरूर्णादिजनितं कम्बलादिकम् । कल्पतेऽनल्पकल्पानां मुनीनामीहगेव हि ॥४॥ सामान्यस्याप्यगण्यं हि पुण्यं शयनदानतः । स्वाध्यायध्यानलीनस्य किं पुनस्त्यक्तवेश्मनः॥५॥ विश्रामाय मुनीशानां शयनं यः प्रयच्छति । तस्य संसारखिन्नस्य विश्रामः सुलभः शिवे ॥६॥ यतः संयमयोगेषु शिवसिद्धिविधायिषु । तेषां शयनदानेन साहाय्यं सृज्यतेऽमुना ॥७॥ अर्थतो युग्मम् ॥ प्रमादाङ्गतया तेभ्यस्तद्दानं न च नोचितम् । यथाविधि स्वपन्तस्ते भावतो जाग्रतो यतः॥ ८॥ ततो विशुद्धभावेन दानीयमतनीयसा । शयनीयमनीहेन मुनीन्द्रेभ्यो मनीषिणा ॥९॥ आसादयति शय्याया दायकः कृतिनायकः । पद्माकर इवासीमा: संपदोऽनापदोऽभूताः॥१०॥ तथाहि| इहास्ति भरतक्षोणीपक्ष्मलाक्षीविशेषकम् । स्वःपुरस्पर्द्धिवर्द्धिश्रीभरं पुष्पपुरं पुरम् ॥ ११॥ तस्मिन् सर्वसुखावासे निवा-16 सैकसमीया । भारत्या सह तत्याज कमला कलहायितम् ॥ १२॥ तत्र वित्रासितामात्रशात्रवः पात्रमोजसाम् । क्षोणीशः ॥७४ ॥ शेखरो नाम निःशेषनृपशेखरः॥ १३ ॥ अनीतिभावं नीताऽपि सर्वकालं समन्ततः। चित्रं वसुमती तेन वितेने नीतिशालिनी ॥ १४ ॥ प्रसादपात्रं तस्यासीदसीमगुणशेवधिः । विख्यातस्तिलकः श्रेष्ठी तिलकः पुण्यकारिणाम् ॥१५॥ यशांसि भुवने तस्य धनानि भवने पुनः । बद्धस्पर्धतयेवोच्चैरवर्धन्त परस्परम् ॥ १६ ॥ शीलसिंहदरी तस्य सुन्दरी रति-|
Page #157
--------------------------------------------------------------------------
________________
सुन्दरी । गेहश्रीरिव या मूर्ता चकासामास जङ्गमा ॥ १७॥ सर्वाङ्गेष्वपि सौन्दर्यमसौ रतिरिवाद्भुतम् । दधाना स्वाभिधानस्य यथार्थत्वमपप्रथत् ॥ १८॥ जैनधर्मेण रागेण हृदयं सदयं तयोः। अहार्य रञ्जयामासे माञ्जिष्ठेनांशुकं यथा ॥१९॥ धर्मकर्मपरत्वेन सकलाऽपि कला तयोः । भजते स्म परां शोभां मुखश्रीरिव चक्षुषा ॥ २०॥ वत्सराः प्रचुरा जग्मुः प्रेम-18 स्थेमभृतोस्तयोः । अभङ्गसुखसंभोगभासुरा वासरा इव ॥२१॥ अन्यदा यामिनीयामे चरमे परमेष्ठिनः । स्मृत्वा स्वरूपमात्मीयं श्रेष्ठी स्पष्टं विमृष्टवान् ॥ २२॥ सुशीला कोमलालापा भक्ता चित्तानुवर्तिनी । मनोविश्रामभूमि, गृहिणी गृहभूषणम् ॥ २३ ॥ स्वर्णदुर्वर्णरत्नानां गणा मम गृहाङ्गणे । गणनामपि नो यान्ति कणानां निकरा यथा ॥ २४॥ चीरकर्पूरकस्तूरीप्रभृतीनां गृहे मम । वस्तूनां किल नो पारः पारावार इवाम्भसाम् ॥२५॥ तुरङ्गास्तरलास्तुङ्गाश्चङ्गाः पवनगामिनः । भीषयन्त इवालक्ष्मी हेषमाणा ममालये ॥ २६ ॥ परेऽपि सौरभेयोष्ट्रसुरभीकरभीमुखाः । चतुष्पदा मदावासे श्वापदा इव कानने ॥ २७ ॥ अपारः परिवारोऽयं मदा कपरायणः । बन्धुवर्गः समग्रोऽपि मयि गाढानुरागवान ॥ २८ ॥ कल्पपादपसंवादः प्रसादः पार्थिवस्य मे। पौरा अपि परप्रीतिप्रतिपत्तिपरा मयि ॥ २९ ॥ परं गृहस्थतावल्लिर्भोगैः। पल्लविताऽप्यसौ । मनो दुनोति मे नूनमपत्यफलवर्जिता ॥३०॥ इयं मम प्रभूताऽपि विभूतिस्तनयं विना । अरण्यारामलक्ष्मीवदफला सकलाऽपि ही ॥३१॥ समृद्धमपि नो भाति सुतेन विकलं कुलम् । शाखाशतसमेतोऽपि फलेनेव महीरुहः ॥ ३२॥ रजनी रजनीकरं विना दिननाथं च विना यथा दिनम् । सुकृतं च विना मनुष्यता न कुलं भाति तथा
१ "रजयामासे” इत्यत्र मतान्तरे हकारोऽपि भवति, यथा-"रजयामाहे" इति ।
Page #158
--------------------------------------------------------------------------
________________
दानप्रदीपे
पञ्चमः प्रकाश
॥७५ ॥
सुतं विना ॥ ३३ ॥ ऋते पुत्रं च निश्चिन्तं निर्मिती धर्मकर्मणाम् । मनोरथोऽवकेशीव भविता मे चिरन्तनः ॥ ३४ ॥ ततो मदन्वयव्योम्नि भानुमानिव भास्वरः । दुष्कर्मदोषापगमादुदेतां कथमात्मजः ॥ ३५ ॥ इति चिन्तातुरः शय्योत्थायं 8 विच्छायिताननः । स्नानपूजादिकं चक्रे प्रातःकृत्यं स सत्यगीः ॥ ३६॥ अथासननिषण्णस्य भृशं तस्य विषण्णताम् । वीक्ष्य दक्षा तमाचख्यौ सदुःखा रतिसुन्दरी ॥ ३७॥ त्वदङ्गमङ्ग! किं रोगसंगमेनाद्य पीड्यते । किं वा तवार्थनाशेन दैन्यं मानसमानशे ॥ ३८ ॥ किंवा भूपापमानेन म्लानिमोनातिगाऽस्ति ते । मयानभिज्ञया किंवा तवाज्ञा काऽप्यलुप्यत ॥ ३९ ॥ अन्या वा काऽपि ते चिन्ता संतापं तनुतेतमाम् । अजातपूर्व मालिन्यमानने तेऽधुना यतः॥४०॥ प्रसद्य कान्त ! चिन्ताया निमित्तमभिधेहि मे । सद्यः पिधेहि संदेहं समाधानं विधेहि च ॥४१॥ ततोऽभाषिष्ट तां श्रेष्ठी पूर्वपुण्यप्रभावतः। अमी रोगादयो देवि ! सन्ति संतापका न मे ॥४२॥ किन्तु प्रेयसि ! मे सूनुन्यूनता शून्यताकरी। विधत्ते चित्तसंतापं शल्यमन्तर्गतं यथा ॥ ४३ ॥ तदुक्तम्
"दारियं जनकस्य नापनयते व्याधीन विध्वंसते नैकान्तेन हितो भवेदिह भवे नो सद्गुणश्चाङ्गजः।
जन्तूनां गतयः पुनः परभवे भिन्नाः स्वकर्मानुगाः पुत्रार्तिस्तुदते तदप्यसुमतो ही मोहविस्फूर्जितम् ॥१॥" अथ प्रज्ञापयामास प्राज्ञा प्रणयिनी प्रियम् । स्वामिन् ! ममाप्यसौ चिन्ता न स्तोका नाल्पकालिकी ॥४४॥ पर
G पुराकृतं कर्म जन्मिनां फलति स्वकम् । न कोऽपि तत्परीपाकमन्यथा कर्तुमीश्वरः॥ ४५ ॥ तदप्युपक्रमाधीना सिद्धिः सर्वत्र देहिनाम् । धर्म एव च सर्वार्थसिद्ध्यै तत्तत्र यत्यते ॥ ४६ ॥ पुत्रार्थ ननु सम्यक्त्वं मिथ्यात्वेन कदर्थ्यते । कः
॥७५॥
Page #159
--------------------------------------------------------------------------
________________
सुधीः सौधमात्मीयं ध्वंसते कीलिकाकृते ॥ ४७ ॥ इहापि पुत्रतः शर्म जायते वा न जायते । भवे भवे तु सम्यक्त्वादसंख्याः सौख्यसंपदः ॥ ४८ ॥ ततोऽनन्यमनाः प्राज्ञ ! श्रीजिनाज्ञापरायणः । विधेहि धर्मकर्तव्ये यलमप्रलभावतः ॥ ४९ ॥ यदि पुण्यवशाज्जज्ञे नन्दनस्ते तदा वरम् । बलवत्तदभावे तु कृतं स्यात् प्रेत्यशम्बलम् ॥ ५० ॥ इति कान्तो कमाकर्ण्य कर्णयोरमृतायितम् । अहो ! अस्या न कस्यास्तु प्रशस्या दृढधर्मता ॥ ५१ ॥ कटरे मतिरेतस्याः परिणामहितावहा । इत्यन्तविस्मयाविष्टः श्रेष्ठी हृष्टः प्रकृष्टधीः ॥ ५२ ॥ मेने तस्या वचो मन्त्रमिव स्वाभीष्टसिद्धिदम् । दुर्गाया अपि मान्यः स्यादनुकूलः स्वरो न किम् ॥ ५३ ॥ त्रिभिर्विशेषकम् ॥ अथायं गृहकर्त्तव्ये भर्तव्येषु निवेशिते । विशिष्य धर्ममाराद्धुमारेभे शुभभावनः ॥ ५४ ॥ तद्यथा — उद्दण्डमण्डप श्रेणिमण्डितं खण्डिताशुभम् । अचीकरदयं चैत्यं शैत्यदं सुदृशां दृशाम् ॥ ५५ ॥ | हरिण्मयीर्मणिमयीर्नानाजैनेश्वरीरयम् । आनन्दिनीरप्रतिमाः प्रतिमा निरमापयत् ॥ ५६ ॥ चन्दनागुरुकर्पूरकस्तुरीकुसुमादिभिः । अपूपुजदपव्याजमयं संध्यात्रयेऽर्हतः ॥ ५७ ॥ पुण्योपदेशपीयूषपाणप्रवणमानसः । गुरूणां चरणाम्भोजमुपासामास सोऽनिशम् ॥ ५८ ॥ वन्दिनां द्रव्यदानेन निगडानि स पण्डितः । आत्मनो दुष्कृतानीव भञ्जयामास नैकशः ॥ ५९ ॥ अयमाईत सिद्धान्तबन्धुरा मधुराशयः । हर्षेण लेखयामास पुस्तिकाः स्वस्तिकाम्यया ॥ ६० ॥ अमारिं स नृपा| देशादजूघुपदखण्डिताम् । पूर्वदुष्कर्मशत्रूणां जैत्रभेरीमिवाभितः ॥ ६१ ॥ यथाविधि सुपात्रादौ ददौ सौवधनान्यसौ । अनन्तगुणलाभार्थं न्यस्यन्निव कलान्तरे ॥ ६२ ॥ पौषधावश्यकादीनि विधिना श्रद्धयोद्धुरः । आरराध सुधीश्चिन्तार - लानीव स यत्नतः ॥ ६३ ॥ इत्यगण्यानि तत्त्वज्ञा तदीया प्रणयिन्यपि । तन्तन्यते स्म पुण्यानि सर्वज्ञाज्ञाविशारदा
Page #160
--------------------------------------------------------------------------
________________
दानप्रदीपे
पंश्चमः
प्रकाश
६४॥ ततः पुण्यानुभावेन व्यलीयन्त तयोर्द्वयोः। दुरन्ता विनसङ्खाता ध्वान्ता इव विवस्वता ॥ ६५ ॥ अथान्यदा निशाशेषे गङ्गापुलिनकोमले । शयने शयिता स्वमे सरोलक्ष्मीविभूषणम् ॥ ६६ ॥ अपारसारसौरभ्यलुभ्यद्भमरबन्धुरम् ।। पद्मं ददर्श सा हंसीचतुष्केन परिष्कृतम् ॥ ६७ ॥ युग्मम् ॥ भृशं सा मुदिता प्रातः पत्युः स्वप्नमजिज्ञपत् । सोऽषि तुष्टः फलं तस्य व्याचष्ट स्पष्टया धिया ॥६८॥ कुलोद्योतकरः कन्याचतुष्टयविराजितः। स्वप्नानुसारतो देवि! तनयो भविताss-1 वयोः॥ ६९॥ अस्तु त्वदुक्तमेवेति पतिवाक्यानुवादिनी । बिभरामास सा गर्भ रत्नगर्भव शेवधिम् ॥ ७॥ शुभा गर्भानुभावेन पूजादानादिदोहदाः । सद्योऽप्यस्या अपूर्यन्त पत्या सत्यानुरागतः॥७१॥ सुषुवे शुभवेलायामसौ नन्दनमद्भुतम् । रोहणोर्वीधरस्योर्वी जात्यरत्नमिवोज्वलम् ॥ ७२ ॥ आनन्दो नन्दनोत्पत्त्या तदाऽजायत यस्तयोः । ध्रुवं गोष्पदतामेति समुद्रोऽपि तदग्रतः॥ ७३ ॥ भूभृदादेशमादाय मुदा सूनुजनुर्महम् । तिलकः कारयामास विस्मापितपुरीजनम् ॥ ७४ ॥ पद्मं स्वप्ने प्रसूरस्य ददर्शति विमर्शतः । तनयस्य पिता नाम पद्माकर इति व्यधात् ॥ ७५ ॥ धात्रीभिः प्रेमपात्रीभिः पाल्यमानः प्रयत्नतः । अयं प्रववृधे पित्रोः प्रमोद इव मूर्तिमान् ॥७६ ॥ साक्षीकृत्य गुरुं शुद्धपक्षं दक्षशिरोमणिः। कलयामास बालेन्दुरिवासौ सकलाः कलाः॥७७॥न केवलं स्मरक्रीडावनं यौवनमाप सः। अपि गाम्भीर्यधैर्यादिगुणसंपदमद्भुताम् ॥ ७८ ॥ चतस्रः पुण्यलावण्याः कन्याः पाणावचीकरत् । महेभ्यकुलसंभूताः 'प्रभूतैस्तं पितोत्सवैः। |॥ ७९ ॥ स धर्म निर्ममे सद्मभारमारोप्य नन्दने । यथोचितविधाने किं सावधाना न धीधनाः ॥८०॥ सम्यक् स धर्ममाराध्य शुभध्यानविशुद्धधीः । समाधिसाधितमृतिः सौधर्मेऽभूत्सुधाशनः ॥ ८१॥ अथ पद्माकरो वप्तुश्चकृवानौ -
Page #161
--------------------------------------------------------------------------
________________
-
देहिकम् । संभूय बन्धुभिवृद्धः पदे तस्य न्यवेश्यत ॥ ८२॥ न परं गृहभारं स बभार स्फारवैभवः । सर्वाङ्गीणां जिनोपज्ञधर्मकर्मधुरामपि ॥ ८३ ॥ अन्यदा सदनासन्नं स्फुटस्फाटिकभित्तिकम् । शातकुम्भमयस्तम्भभारपट्टप्रतिष्ठितम् ॥४॥ प्रवेशे रत्ननिवृत्ततोरणत्रयशालितम् । विमानितविमानाभिश्चित्रशालाभिरद्भुतम् ॥ ८५॥ क्वचित्सारकणाधारकोष्ठागारमनोहरम् । वचन स्वर्णदुर्वर्णरत्नप्रकरसंकुलम् ॥८६॥ क्वचिच्चारुदुकूलादिसिचयोच्चयरोचितम् । क्वचिद्राजततावादिविचित्रामत्रमण्डितम् ॥ ८७॥ दिव्यसौवर्णपल्यङ्कभद्रासनसमन्वितैः। मणिस्वर्णमयापारसारालङ्कारपूरितैः॥८८॥ मुक्तावचूलरोचिष्णुचन्द्रोदयविरोचिभिः। सुगन्ध्युद्धरधूपेन विष्वग् मघमघायितैः॥८९॥ लक्ष्म्या इव निवासाहेश्चतुर्भिर्वासवेश्मभिः । अलङ्कृतान्तरं नित्यप्रदीप्रमणिदीपकैः ॥९० ॥ अदृष्टपूर्वमालोक्य प्रातर्धवलमन्दिरम् । जज्ञे पद्माकरः |स्फारविस्मयस्मेरमानसः॥ ९१ ॥ अष्टभिः कुलकम् ॥ तन्निशम्य नृपोऽप्येत्य निरूप्यापारपौरयुक् । बभूव विस्मयावेश-1 वशोत्फुल्लविलोचनः॥ ९२॥ किमिन्द्रजालं किमु वा मतिभ्रमः कोऽप्यत्र दृग्बन्धमुत व्यधत्त किम् । विजृम्भितं वा| किमिदं सुपर्वणां किं वा विमानं त्रिदिवादवातरत् ॥ ९३ ॥ इत्यागृहपरे पौरपद्माकरयुते नृपे । दिव्या वाणी तदा प्रादुबभूव नभसि स्फुटा ॥९४ ॥ वत्स ! पद्माकर ! स्वच्छवात्सल्यरसशालिना । जनकेन तवागण्यपुण्यप्रेरितचेतसा ॥१५॥ चक्रे तवायमावासो देवभूयमुपेयुषा । भुङ्ग भोगानिह वैरं सर्वकालं सुपर्ववत् ॥९६॥ युग्मम् ॥ ततश्चित्रीयितश्चित्ते | मुदितो मेदिनीपतिः। तस्य तत्र निवासायानुज्ञां विज्ञाग्रणीर्ददौ ॥ ९७ ॥ अहो ! धर्मस्य महिमा महीयानिति विस्मितः। पद्माकरस्तुतिपरः सपौरः प्रत्यगान्नृपः॥९८ ॥ ततः स वासगेहेषु निदधौ स्ववधूः क्रमात् । तत्र ताभिः समं भोगान्
Page #162
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥ ७७ ॥
महाभोगानभुक्त च ॥ ९९ ॥ तस्यान्यत्रगतस्यापि तादृशं दिव्यशक्तितः । तादृक्शय्यादियुक् सौधं सद्योऽपि समपद्यत
॥ १०० ॥ यतः ―
"नवं नवं सद्म नवा नवा रतिर्नवं नवं शर्म नवा नवा धृतिः ।
नवा नवा कान्तिरहो ! नवा नवा प्रभुत्वलक्ष्मीः सुकृतप्रभावतः ॥ १ ॥”
सुतास्तस्य चतुर्वर्गसंसर्गसुभगात्मकाः । जाताश्चतसृणां तासां चत्वारश्चतुराशयाः ॥ १०१ ॥ धर्मकल्पदुराराधि ध्रुवं सम्यक् पुराऽमुना । संपद्यन्तेऽस्य सद्योऽपि यतो दुष्प्रापसंपदः ॥ १०२ ॥ असौ पद्माकरः स्फारसुकृतस्याकरः खलु । नरस्यापि सुरस्येव यस्याभीप्सितसिद्धयः ॥ १०३ ॥ सर्वेषामपि लोकानामिति जिह्वाग्रमण्डपे । ताण्डवाडम्बरं तस्य व्यत - नोत्कीर्तिनर्तकी ॥ १०४ ॥ त्रिभिर्विशेषकमर्थतः । अन्येद्युः समवासार्षीन्निस्तुपज्ञानभूषितः । श्रीमानमरसूरीन्द्रस्तत्र चारित्रिसंयुतः ॥ १०५ ॥ पौरलोकपरीवारः शेखरः स नरेश्वरः । गुरुं नन्तुमगात्पद्माकरोऽपि सपरिच्छदः ॥ १०६ ॥ त्रिः परीय गुरुं भक्त्या प्रणेमुर्भूधवादयः । सोऽपि धर्माशिषा श्रेयः पुषा तान् पर्यतूतुषत् ॥ १०७ ॥ अथारेभे नृपादीनां पुरः श्रीगु रुपुङ्गवः । प्रगुणीकृतसंवेगवासनां धर्मदेशनाम् ॥ १०८ ॥ तथाहि
द्वीपमिव प्राप्य दुष्प्रापं मानुषं भवम् । पुण्यरलान्युपादातुं प्रयतध्वं सुबुद्धयः ॥ १०९ ॥ आसतां तानि भूयांसि तस्मादेकमपि ध्रुवम् । आत्तं तद्विधिनाऽऽराद्धं विधत्ते विविधाः श्रियः ॥ ११० ॥ रत्नसारकुमारस्य वृत्तमन्त्र निशम्यताम् । इहैव भरतक्षेत्रे पुरं रत्नपुराह्वयम् ॥ १११ ॥ तस्य रत्नमयैश्चैत्यैर्नररलैश्च
पञ्चमः प्रकाशः ।
॥ ७७ ॥
Page #163
--------------------------------------------------------------------------
________________
सर्वतः। शोभितस्याभिधा पृथ्व्यां यथार्था पप्रथेतमाम् ॥ ११२॥ तत्र रत्नाङ्गदो राजा बहिरङ्गान्तरङ्गयोः । निग्रहानु
ग्रही दुष्टशिष्टयोरतनिष्ट यः॥ ११३ ॥ तस्य रत्नप्रभा पत्नी न रत्नाभरणैः परम् । भूषयामास यात्मानमप्रत्नैरपि सद्गुणैः ४॥ ११४ ॥ तयोस्त्रिवर्गसंसर्गसुभगंभावुकात्मनोः । शर्मकिर्मीरिता जग्मुर्वासरा इव वत्सराः॥ ११५ ॥ अन्यदा वन्यदावांशुरत्नौघस्वमसूचितम् । सा बभार शुभं गर्भ रत्नं रोहणभूरिव ॥ ११६ ॥ नवमास्यामतीतायां सुषुवे सा शुभे क्षणे। सुतं प्राचीव भास्वन्तं भासयन्तं धुता दिशः॥११७ ॥ प्रियंवदा नृपं दासी प्रमोदादित्यवर्धयत् । देव ! देवकुमाराणां प्रतिरूपमिवागतम् ॥ ११८ ॥ रत्नप्रभामहादेवी पुत्ररत्नमसूयत । भूपोऽप्यभूत्तदाकर्ण्य प्रमोदभरमेदुरः॥ ११९॥ युग्मम् ॥ सारतत्तदलङ्कारदुकूलादि यथेप्सितम् । वितीर्य स व्यधादासीमदासीमिव तां श्रिया ॥ १२० ॥ ततः प्रातरमर्त्यानामपि विस्मापकं नृपः । हर्षाजनुर्महं सूनोरनूनं समपीपदत् ॥ १२१ ॥ निवृत्ते सूतिकृत्येऽथ संमान्य स्वजनान्नृपः । स्वमानुसार
तस्तस्य रत्नसाराभिधां व्यधात् ॥ १२२ ॥ पाल्यमानः स धात्रीभिः पात्रीभिः प्रेमपाथसाम् । क्रमेण ववृधे सार्द्ध पित्रो&स्तैस्तैमनोरथैः ॥ १२३ ॥ तस्मिंश्चाष्टाब्ददेशीये दध्यतुः पितराविति । गुणरत्नखनीविद्याः कुमारोऽध्याप्यतेऽधुना ॥१२४॥
न राजते विना विद्यां भूषितोऽपि विभूषणैः । प्रसून सौरभन्यूनं सद्वर्णमपि भाति किम् ॥ १२५ ॥ कुलं नालङ्करिष्णुः स्यात् कलाभ्यासं विना पुमान् । किमलङ्कारतां स्वर्णमुपैत्यपरिकर्मितम् ॥ १२६ ॥ विद्या हि रूपमसमं मनुजस्य विद्या गुप्तं धनं परमदैवतमेव विद्या । सर्वत्र गौरवमहो! वितनोति विद्या विद्यां विना तु पुरुषः पशुरेव नूनम् ॥ १२७॥ पुष्यार्के शुक्लपञ्चम्यां ततो मार्गामतिष्ठिपत् । नृपः पाठयितुं पुत्रमुपश्रीकण्ठपाठकम् ॥ १२८ ॥ सद्योऽप्यध्यापयामास
Page #164
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥७८॥
सोऽपि तं सकलाः कलाः । सुक्षेत्रे बीजवापो हि सपद्यपि फलेग्रहि ॥१२९॥ मत्वा सर्वकलासारं कुमारं स कलागुरु:।समा-1
पञ्चमः सीनस्य भूपस्य समीपे समुपानयत् ॥ १३० ॥ वीक्ष्य न्यक्षकलादक्षमहृष्यत् क्ष्मापतिः सुतम् । गुरु द्रव्यैश्च दारिद्यविद्रावि
प्रकाशः। भिरमूमुदत् ॥ १३१ ॥ तावद्वेगादुपागत्य वनपालः कृताञ्जलिः । उरःस्थल लुलत्पुष्पमालः मापालमालपत् ॥ १३२॥15 |स्वामिन्नुदग्रवदनो रदनैश्चतुर्भिःश्वेतद्युतिःस्रवदमन्दमदोन्मदिष्णुः। प्राप्तः कुतोऽपि कुसुमाकरनाम युष्मदुद्यानमद्य तदुपद्रवति द्विपेन्द्रः॥१३३ ॥ अभ्रंलिहान्महावातैरप्यभग्नस्थितीन पुरा । पादपान् मोटयत्यजनालमोट झटित्ययम् ॥ १३४॥ मल्लीमुखा महावल्लीरुत्फुल्लीभूतपल्लवाः मृणालिनीरिवामूलं लीलयोन्मूलयत्ययम् ॥ १३५ ॥ अतस्तस्य ग्रहे कश्चिदुपाय|श्चिन्त्यतां द्रुतम् । प्रभो ! चिरयितुं नात्र युक्तं ते क्षितिरक्षिणः॥ १३६ ॥ ततः स्वयं वने गन्तुं यावदुद्यच्छते नृपः।। तावद्विक्रमसारेण कुमारेण न्यगद्यत ॥ १३७॥ देव ! श्रीतातपादानां पशौ तस्मिन् महौजसाम् । विक्रमोपक्रमः कोऽयं | मृगे केसरिणामिव ॥ १३८ ॥ कृत्वा प्रसादमत्रार्थे ममादेशः प्रदीयताम् । येनाशु तं वशीकृत्य त्वत्समीपमुपानये ॥१३९॥ नृपोऽप्युवाच साधूक्तं न परं वीरताऽद्भुता । निर्व्याजं व्यञ्जितेत्युक्त्या पितृभक्तिरपि त्वया ॥ १४०॥ एवमस्त्विति | राज्ञोक्ते कुमारः सपरिच्छदः । आरूढस्तुरगं प्रौढप्रतापः प्राप तद्वनम् ॥ १४१ ॥ तत्राजनालवद्यालं तरुनालं समन्ततः। उन्मूलयन्तमालोक्य तर्जयामास राजसूः ॥ १४२॥ आः! किमुन्मूलितैरेभिरपारैः पाप ! पादपैः। यदि ते शूरता काऽपि
। ७८॥ समं युध्यस्व तन्मया ॥ १४३ ॥ इत्याक्षिप्तः कुमारेण प्रसार्य स्वकरं करी। दन्तानुत्तानयन् क्रोधाध्मातस्तं प्रत्यधावत ॥ १४४ ॥ तुरङ्गमात्कुमारोऽपि सपद्युत्तीर्य धैर्यवान् । पिण्डीकृत्योत्तरीयं स्वं चिक्षेप करिणः पुरः ॥ १४५॥ जज्ञे परि
XE
Page #165
--------------------------------------------------------------------------
________________
आणतस्तत्र कोपेनानेकपोऽपि सः। कुमारस्तु मृगारातिरिव निस्सीमविक्रमः॥ १४६ ॥ दन्तमूले पदं दत्त्वा यावदारोहति स्म। तम । तावत्पतिवान् व्योम्नि स सर्वस्यापि पश्यतः ॥ १४७॥ युग्मम् ॥ विधुदुन्मेषवन्मङ्घ सोऽगाच्चक्षुरलक्ष्यताम् । प्राप चाप्रत्नरत्नश्रीधरं वैताढ्यभूधरम् ॥ १४८॥ तस्थौ च श्रीपुराह्वानपुरोपान्तविभूषणे । स्फारशोभाभिरारामेऽभिरामे दुमराजिभिः॥ १४९ ॥ ततस्त्यक्त्वा स तद्रूपं विद्याभृन्मूर्तिमद्भुताम् । प्रादुष्कृत्य गिरा स्माह कुमारं सुकुमारया ॥१५०॥ क्षणं स्वामिनिहाशोकतले तिष्ठ तवागमम् । यावदावेदयामि श्रीवर्यविद्याधरेश्वरम् ॥ १५१ ॥ इत्युक्त्वाऽस्मिन् गते दध्यौ कुमारः खेचरेण किम् । अनेन कैतवेनाहमिहानायिषि पर्वते ॥१५२ ॥ अस्तु वा चिन्तया कर्म प्राक्तनं हि शुभाशुभम् । संपदे विपदे चापि संपनीपद्यतेऽङ्गिनाम् ॥ १५३ ॥ पश्यामि तावदस्याहमारामस्याभिरामताम् । जनतानेत्रचित्तानां सर्वतः पश्यतोहरीम् ॥ १५४ ॥ ततस्तत्र भ्रमन रम्भागृहगां सुभगाकृतिम् । स लतान्तरितो दध्यौ कन्यां वीक्ष्य सखीयुताम् ॥ १५५ ॥ आस्यं दास्यमहो ! ददाति शशिनो वर्णः सुवर्णश्रियं जिष्णुर्वेणिरपाकरिष्णुरलिनीमस्याः प्रशस्याकृतेः। नेत्रे नीलसरोजयोर्विजयिनी किं वय॑ते वाऽपरं सर्वाङ्गीणमियं बिभर्ति वपुरे ! सौभाग्यमुज्जागरम् ॥ १५६ ॥ मन्येऽधुना || पुनरियं तन्वङ्गी विरहासहा । व्यक्तं व्यनक्ति कस्यापि सौभाग्यं जगदद्भुतम् ॥ १५७ ॥ इतिचिन्ताञ्चिते तस्मिन्नसौ पल्यडगा कनी । स्वां चम्पकलतामालीमाललाप विलापिनी ॥ १५८ ॥ परित्यज्य निजं सझ तादृशं विरहार्दिता । यद्यप्यासदमुद्यानं वसन्तश्रीविशेषितम् ॥ १५९ ॥ तदप्यहो ! दह्यमानं दहनेनेव मे वपुः । न स्मरज्वरसंतप्तं मनागप्येति निर्वतिम् ॥ १६० ॥ माल्यं मे ज्वलनायते मम कृता माक्रन्दसंवादिनो झङ्काराः कलयन्ति कोकिलकुलालापा विलापायितम् ।
RSMSSACREC4
दा० ३५
Page #166
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ७९ ॥
ज्वालेवाम्रजमञ्जरी समजनि व्यापल्लवाः पल्लवाः कङ्केलेः सखि ! तं विना किमपरं शृङ्गारमङ्गारवत् ॥ १६१ ॥ प्राप्तुं च कामदेवादिदेवतास्तं परःशताः । मया सम्यगापूज्यन्त प्राज्यपुष्पादिपूजया ॥ १६२ ॥ तथाऽपि मन्दभाग्यायाः सङ्गम - स्तस्य मे नहि । अथान्यदशरण्यायाः शरणं मरणान्न मे ॥ १६३ ॥ श्रुत्वेत्यचिन्तयत् सोऽपि तस्याहो ! भाग्यमद्भुतम् । यत्रानुरक्तचित्तेयं ताम्यत्येवं तनूदरी ॥ १६४ ॥ अथाचख्यौ सखी कन्यां मा ताम्य स्वस्थतां भज । तवायं सफलो भावी सपद्यपि मनोरथः ॥ १६५ ॥ यतस्तातेन ते रत्नपुरे रत्नाङ्गदाङ्गजम् । रत्नसारं तमानेतुं सुवेगः प्रैषि खेचरः ॥ १६६ ॥ सोऽपि साम्प्रतमायातः पृथ्वीपतिमवोचत । कुमारः स मयाऽनायि त्वद्वने हस्तिरूपिणा ॥ १६७ ॥ श्रुत्वेति मुदिता सद्यस्त्वत्पार्श्वमहमागमम् । तद्भजामन्दमानन्दं विषादं चाखिलं त्यज ॥ १६८ ॥ इत्याकर्ण्य तयोरुक्तिप्रत्युक्तिप्रीतमानसः । प्राप्तः पुनरशोकद्धुं चिन्तयामास राजसूः ॥ १६९ ॥ जानेऽमुष्याः सरोजाक्ष्याः पाणिग्रहणहेतवे । अत्रानायिषि तत्पित्रा चित्त ! नृत्य ततस्तराम् ॥ १७० ॥ अथ विद्याधराधीशप्रेषितास्तत्क्षणादमुम् । सुसेवका इवोवशं खेचराः परिवत्रिरे ॥ १७१ ॥ तैर्निवेश्य स उत्तुङ्गं तुरङ्गं रङ्गतः पुरे । प्रवेश्य पृथगस्थापि मन्दिरे प्रचुरेन्दिरे ॥ १७२ ॥ विद्याधराधिराजोऽपि तत्र द्रुतमुपेयिवान् । अवोचत स्मराकारं कुमारं वीक्ष्य हर्षितः ॥ १७३ ॥ कुमार ! स्फारसौभाग्य ! यदर्थमहमञ्जसा । त्वामिहानाययामास तदाकर्णय कारणम् ॥ १७४ ॥ अस्त्यभ्यस्तचतुःषष्टिकला मे रत्नमञ्जरी । दुहिता श्रीमतीकुक्षिशुक्तिमुक्तागुणाद्भुता ॥ १७५ ॥ मम प्रणाममाधातुमन्यदा संसदि प्रगे । जनन्या प्रैषि सा नम्रां तां च स्वाङ्के न्यवीविशम् ॥ १७६ ॥ ५ दृष्ट्वा तस्याश्च सौन्दर्य हृष्टः सभ्यानभाषिषि । राजसूरनुरूपोऽस्या वरः कोऽप्यवगम्यते ॥ १७७ ॥ कोऽप्यवादीदथो
॥ ७९ ॥
पञ्चमः प्रकाशः
Page #167
--------------------------------------------------------------------------
________________
बन्दी देव ! रत्नपुरेशितुः । रत्नाङ्गदनरेन्द्रस्य सूनुरन्यूनविक्रमः ॥ १७८ ॥ रत्नसारः कुमारोऽस्ति स्फारसौभाग्यभाग्यवान् । स एवास्या वरो योग्यः श्रिया इव नरायणः ॥ १७९ ॥ युग्मम् ॥ तच्चाकर्ण्य तदैवेयं रज्यति स्म तथा त्वयि । विद्याधरकुमाराहामपि नो सहते यथा ॥ १८०॥ किन्तु सा निर्वृति काप्यलभमाना मनागपि । ध्यायन्ती त्वद्गुणग्रामानेव तिष्ठति कष्टतः ॥ १८१ ॥ अतः प्रसद्य सद्यस्तामुदूह्यास्मान् प्रमोदय । सन्तः सर्वसमाधानसावधानधियो यतः॥१८२॥ अथ धीमान् कुमारोऽपि प्रोचे खेचरचक्रिणम् । अहं राजंस्त्वदादेशवश एवास्मि सम्प्रति ॥ १८३ ॥ खेचरेन्द्रस्ततस्तत्र खेचरान् खेचरीरपि । प्रीतो यथार्हकार्येषु नियोज्यावासमासदत् ॥ १८४ ॥ प्रारभ्यन्तोभयत्रापि रङ्गन्मङ्गलसङ्गताः । वेलायां शुभवेलायां वैवाहिकमहामहाः ॥१८५ ॥ शातकुम्भमयैः कुम्भैरानीतैस्तीर्थवारिभिः । सस्नेहं स्नपयामासुः सुवासिन्यो वधूवरौ ॥ १८६॥ चान्दनै रसनिःस्यन्दैश्चर्चितौ तौ व्यराजताम् । पुण्यलक्ष्मीकटाक्षौघव्याप्ताविव समन्ततः ॥ १८७ ॥ पारिणेत्रैरलङ्कारैर्वस्त्रैर्माल्यैश्च भूषितौ । तौ तदा रेजतुः कल्पदुवड्याविव जङ्गमौ ॥१८८ ॥ अथ प्रौढहयारूढः सर्वा निजसौधतः । वाद्यमानेषु वाद्येषु पुरोऽनृत्यन्नटीगणः ॥ १८९ ॥ श्वश्रूभिर्विहिते द्वारि लवणोत्तारणादिके । प्रवि. |वेश विशांपत्युः सूनुर्विवाहमण्डपम् ॥ १९० ॥ युग्मम् ॥ ततोऽग्निसाक्षिकं लग्ने शुभे मङ्गलगीतिभिः । तं पाणौ कारया* मास स्वाङ्गजां खेचराग्रणीः ॥ १९१॥ तस्मै सारमलङ्कारवस्त्राद्यं पाणिमोचने । विविधाः पाठसिद्धाश्च विद्या विद्याधरो *
ददौ ॥ १९२ ॥ अथ वध्वा समं सौधं महा स स्वमागमत् । अभूच्च परमं प्रेम तयोः कृष्णश्रियोरिव ॥ १९३ ॥ तस्यान्येधुनुहोद्याने क्रीडतः सह कान्तया। शुकः कोऽपि कराम्भोज नभसा सहसाऽगमत् ॥ १९४ ॥ कुमारः प्रत्यभि-
Page #168
--------------------------------------------------------------------------
________________
दानप्रदीपे
ज्ञासीदमुं क्रीडाशुकं निजम् । प्रीत्याऽऽलिङ्गय च सौत्सुक्यं प्रश्नयामास हर्षतः ॥ १९५ ॥ शुकराज ! समाख्याहि पित्रोः पञ्चमः पौरजनस्य च । कुशलं तच्छ्रतौ बाढं सोत्कण्ठं मे मनो यतः॥ १९६ ॥ शुकोऽप्याह द्विपारब्धेऽपहारे ते तदा श्रुते ।। प्रकाशः। अमन्दं खेदमासेदुः सर्वे पित्रादयो जनाः ॥ १९७॥ किश्च त्वदीयविरहार्तिवशप्रसर्पिबाष्पाम्बुविप्लतहशो गतचेतनास्ते । अस्तोकशोकविधुरीभवनेन कष्टं तिष्ठन्ति चित्रलिखिता इव सर्वकालम् ॥ १९८ ॥ अहमप्यासदं मूर्छा त्वद्वियोगाति-|| दुःखतः । तव पुण्योदयादेव परमुज्जीवितस्तदा ॥ १९९ ॥ पुरस्तेषामवोचं च भो भोः ! शृणुत मद्गिरम् । मासान्ते यदि तं तस्योदन्तं वा न समानये ॥ २००॥ तदा ज्वालावलीचण्डे वह्निकुण्डे विशाम्यहम् । तद्विषादं परित्यज्य भजत स्वस्थचित्तताम् ॥ २०१॥ प्रतिज्ञामिति निर्माय निर्गतो नगरादहम् । ग्रामारामादिषु भ्रामं भ्रामं स्थानेष्वनेकशः ॥२०२॥ भवन्तं क्वापि न प्रापमपुण्य इव शेवधिम् । भाग्यैरद्य पुनर्दिष्ट्या दृष्टस्त्वं दृष्टितुष्टिदः ॥२०३ ॥ युग्मम् ॥ तस्मादलं विलम्बेन पित्रादिजनतुष्टये । सद्यः समेहि यन्मेऽभूत्समाप्तप्रायतावधेः॥ २०४॥ कुमारोऽप्येवमाकर्ण्य बाष्पाविलविलोचनः। चिन्तयामास धिर धिग् मां मूढं वैषयिके सुखे ॥ २०५॥ मयात्रस्थेन नीतो हि दुधिया तादृशी दशाम्। पितृवर्गः समग्रोऽपि निसर्गेणातिवत्सलः॥ २०६॥ तनयाः श्लाघनीयास्ते पर्युपास्तिमनारतम् । विनयेन वितन्वानाः ॥ ८ ॥ पितरौ प्रीणयन्ति ये ॥२०७ ॥ तदेतद्यपि गत्वा तौ सेवया प्रीणयाम्यहम् । अतः परं स्थितिस्तत्र सर्वथा मे न युज्यते ॥२०८ ॥ ततः साकं शुकेनायं नृपमेत्य व्यजिज्ञपत् । राजन् ! रत्नपुरादद्य शुकराजोऽयमाययौ ॥ २०९ ॥ वृत्तान्तो-15 ऽभाणि चैतेन पित्रोमद्विरहार्तयोः । तदादि मन्मनः पित्रोदर्शनोत्कमभूद्धशम् ॥ २१०॥ तत्तत्र गमनाथै मामनुजानीहि
CROCOGNOUSAMACSCRoo
Page #169
--------------------------------------------------------------------------
________________
सत्वरम् । तदाकर्ण्य नृपः प्राज्ञस्तं जगाद सगद्गदम् ॥ २११ ॥ वत्स ! व्रजेति वचनं नहि चारु तिष्ठेत्युक्तिः शुभाय नहि मौनमुदासवृत्तिः । तत्किं ब्रवीमि यदि वा किमिमैर्विमशैर्वेगाद्वियोगविधुरौ पितरौ धिनु स्त्रौ ॥ २१२ ॥ इत्यनुज्ञां कुमारस्य दत्त्वा विद्याधराधिपः । आकार्य तनयां कार्यविशेषानित्यशिक्षत ॥ २९३ ॥ अभ्युत्थानमुपागते निजपतौ तद्भापणे नम्रता तत्यादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो मुश्चेच्च शय्यामिति प्राच्यैः पुत्रि ! निवेदिताः कुलवधूशुद्धान्तधर्मा अमी ॥ २१४ ॥ इत्येतां रत्नमञ्जर्याः शिक्षामाख्याय भूपतिः । तं कुमारं तया साकं विससर्ज गृहान् प्रति ॥ २१५ ॥ कुमारोऽपि प्रियाकीरसुहृद्विद्याधरैः समम् । विमानं प्रौढमारूढः प्रतस्थे गगनाध्वना ॥ २१६ ॥ समीरण इव व्योम लङ्घमानो विमानगः । आससाद क्षणाद्रलपुरोपान्तं नृपाङ्गभूः ॥ २१७ ॥ उत्क्षिप्तः पवनेन रत्ननिकरो रत्नाकरोद्भूः किमु ज्योतिश्चक्रमुत भ्रमश्रमभिया व्योम्नः समेति क्षमाम् । स्वर्गो वा समुपैति पुण्यजफलप्रत्यायनाय स्वयं पौराणामिति कल्पनां विदधती रेजे विमानावली ॥ २१८ ॥ अथाभ्येत्य शुकः पूर्व निविष्टं सिंहविष्टरे । सकष्टं सूनुशोकेन भूपमेवं व्यजिज्ञपत् ॥ २१९ ॥ विषादस्त्यज्यतां देव ! प्रमोदश्च विधीयताम् । यदेत्ययं सपलीकः पुत्रस्तेऽद्भुतया श्रिया ॥ २२० ॥ नृपोऽथ तनयप्रात्या प्रमोदाद्वैतमापिवान् । पुरान्तरुत्सवश्रेणिमित्य तुच्छामका रयत् ॥ २२९ ॥ तथाहि - मञ्चाः प्रपञ्चिताश्चर्याः प्रपञ्चयन्ते पदे पदे । प्रतिद्वारं निधीयन्ते रम्भास्तम्भाः सतोरणाः ॥ २२२ ॥ मौक्तिकाः पथि कार्यन्ते स्वस्तिकाः स्वस्तिकारिणः । उच्छ्रीयन्ते ध्वजाः कीर्तिपुजा इव कुमारजाः ॥ २२३ ॥ राजमार्गाश्च सिच्यन्ते श्रीखण्डघुसृणद्रवैः । नृत्यं जनितदृकशैत्यं कार्यन्ते पणयोषितः ॥ २२४ ॥ राजसूनोरनूनं हि पुण्य
Page #170
--------------------------------------------------------------------------
________________
दानप्रदीपे मुच्चैर्जनान् प्रति।वदन्तीव मृदङ्गादिवाद्याली वाद्यतेतमाम् ॥२२५॥ गीयते सधवावगैः कलं धवलमङ्गलम् । भट्टघट्टैश्च पठ्यन्ते पञ्चमः
बिरुदावलयः स्फुटम् ॥ २२६ ॥ इत्युत्सवेष्वपारेषु कुमारः परिवारयुक् । विस्मापितपुरीलोकं विमानादवतीर्णवान्॥२२७॥ प्रकाशः। ॥८१॥
प्रविश्य च स्वमावासं पित्रोः पादानवन्दत । तावपि प्रोद्यदानन्दमभिनन्द्य तमूचतुः॥ २२८ ॥ वत्स! त्वदीयविरहानलयोगजातं यत्तापदुःखमनिशं भृशमन्वभावि । तत्साम्प्रतं त्वदवलोकसुधारसोऽयं सर्व व्यनीनशदथो कथय स्ववृत्तम् ॥ २२९ ॥ न नामापि निजं सन्तो गृहन्तीति विमर्शिनः । भ्रूसंज्ञया कुमारस्य शुकस्तच्चरितं जगौ ॥ २३०॥ नृपस्तच्छ्र
वणप्रोद्यदानन्दो निजनन्दनम् । सर्वराज्यधुराधुर्यमवधार्य सुधीर्जगौ ॥ २३१ ॥ वत्सैषा पालिता लोकख्याता सम्यक् पक्षमा मया। सम्प्रति त्वयि तद्भारमारोपयितुमुत्सहे ॥२३२ ॥ सर्वसौख्यकरी सान्या श्रूयते या जिनागमे । तद्भारं3॥
वोढुमिच्छामः स्वच्छाशय ! वयं पुनः॥२३३ ॥ शक्यते स च निर्वोढुं न विना सर्वसंवरम् । अतः स्वीकुरु राज्यं त्वं स्वीकुर्मस्तं पुनर्वयम् ॥ २३४ ॥ किश्च
"पुत्रः पितॄन जिनोपज्ञधर्ममार्गे प्रवर्तयन् । कलयत्यनृणीभावं सम्यग् न पुनरन्यथा ॥१॥" तदुक्तं श्रीस्थानाङ्गे
"तिन्हं दुप्पडिआरं समणाऊसो त मायापिउणो भट्टिस्स धम्मायरिअस्स । संपाइउवि अणं केइ पुरिसे सयपागससाहस्सपागेहिं तेल्लेहिं अभंगेहि सुरभिणा गन्धवट्टएण उविट्टित्ता तिहिं उदगेहिं मजावित्ता सवालंकारविभूसिअं करित्ता
मणुन्नं थालीपागसुद्धं अहारसवंजणाउलं भोअणं भोयावित्ता जावजीवं पिठिचडिंसिआए परिवहिजा, तेणावि
Page #171
--------------------------------------------------------------------------
________________
तस्स अम्मापि स्स दुप्पडिआरं हवइ । अहे णं से तं अम्मापिउरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परुवइत्ता ठावइत्ता भवइ । तेणामेव अभ्मापिउस्स सुप्पडिआरं हवइ ||" इत्यादि ॥
रत्नसारोऽप्यनुलच्या गुरूणां गीरिति स्मरन् । अन्वमंस्त नृपादेशं स पुत्रो यः पितुर्गिरि ॥ २३५ ॥ ततः सोत्सवमायोज्य सुनौ साम्राज्यमार्यधीः । ज्ञानभानुगुरोः पार्श्वे तपस्यामाददे नृपः ॥ २३६ ॥ शमी समासहस्राणि तपस्तप्त्वा स दुस्तपम् । अवाप्य केवलज्ञानं क्षिप्तकर्मा शिवं ययौ ॥ २३७ ॥ रत्नसारमहाराजो भुञ्जानो राज्यमन्यदा । रजन्याश्चरमे यामे दध्यौ | द्वेधा प्रबुद्धवान् ॥ २३८ ॥ जन्मनि प्राक्तने कर्म निर्ममे किमहं शुभम् । यस्मादीदृशमैश्वर्यमनायासमवाप्नुवम् ॥ २३९ ॥ गुर वश्चेत्समायान्ति ज्ञानातिशयशालिनः । तदा तद्धेतुमापृच्छय भवाम्यहमसंशयः ॥ २४० ॥ इति चिन्तयतस्तस्य विरराम तमस्विनी । प्रणाशिततमः स्तोमः प्रकाशश्चाभितोऽभवत् ॥ २४१ ॥ ततः प्रातस्त्यकृत्यानि विधाय नरनायकः । सुधर्मामित्र सुत्रामा सभां यावदभूषयत् ॥ २४२ ॥ तावद्भूपालमानम्य वनपालो व्यजिज्ञपत् । स्वामिन् ! सम्प्रति कुसुमाकरारामं समैयरुः ॥ २४३ ॥ बहुशिष्यपरीवाराः पारीणाः श्रीजिनागमे । नानालब्धिसमृद्धाः श्रीविनयन्धरसूरयः ॥ २४४ ॥ युग्मम् ॥ तन्निशम्य विशामीशश्चञ्चद्रोमाञ्चकञ्चुकः । सद्यः स्वाभीष्टसिद्ध्याप्त हर्षोत्कर्षः परामृशत् ॥ २४५ ॥ अहो ! अन
जनि मेघवृष्टिरहो ! विना पुष्पमभूत्फलर्द्धिः । पचेलिमं पुण्य महो ! मदीयमाकस्मिको यद्गुरुसङ्गमोऽद्य ॥ २४६ ॥ तत|स्तमवनीपालः प्रीतिदानैरतूतुषत् । नौचित्यव्यत्ययः क्वापि जायते हि विवेकिनाम् ॥ २४७ ॥ अथ भूजानिरारुह्य गजेन्द्रं | सपरिच्छदः । विभूत्याऽद्भुतया तूर्ण तमारामं समागमत् ॥ २४८ ॥ उत्सृज्य राज्यचिह्नानि पञ्च पञ्चाङ्गपूर्वकम् । प्रणम्य
Page #172
--------------------------------------------------------------------------
________________
दानप्रदीपे
पञ्चमः प्रकाशः।
॥८२॥
श्रीगुरूनेष न्यविक्षत यथोचितम् ॥ २४९ ॥ गुरुराजोऽपि राजादिजनं पुण्यरमापुषा । धर्मलाभाशिषानन्ध निर्ममे धम देशनाम् ॥ २५०॥
दुष्प्रापमाप्य नृभवं सुकुलाद्युपेतं भव्याः प्रमादमवधूय विधत्त धर्मम् । एकान्तपथ्यपरलोकसहायताद्यैः प्राधान्यमस्य खलु बन्धुधनादिकेभ्यः ॥ २५१॥ इत्याद्याकर्ण्य संपन्नन्नतभावोऽपि भूपतिः। प्राग्भवं स्वस्य जिज्ञासुः पप्रच्छ सुगुरूनिति ॥ २५२ ॥ प्रसद्यादिश्यतां स्वामिन् ! स्वरूपं प्राग्भवस्य मे । श्रुतज्ञानेन विज्ञाय गुरवोऽप्येवमूचिरे ॥ २५३ ॥
इहैव भरते विन्ध्यभूधरः स्वापसिन्धुरः । तदीयोपत्यकाभागे सोमपल्लीति पल्लिका ॥ २५४ ॥ तस्यां सोमाभिधः पल्लीपतिः प्रकृतिभद्रकः । तस्याभूलभा सोमा नाम्नाऽपि क्रिययाऽपि च ॥ २५५ ॥ अन्येद्युः सार्थतो भ्रष्टा दमघोषमहर्षयः। भ्रमन्तस्तत्र संप्रापुस्तत्पुण्यैः प्रेरिता इव ॥ २५६ ॥ धीदरिद्राः पुलिन्द्रास्तानतिरौद्राशया मुनीन् । उपद्रोतुमढौकन्त व्याघ्रा इव वृषोत्तमान् ॥ २५७ ॥ वीक्ष्य दक्षस्तु पल्लीन्द्रः समुन्निद्रकृपाभरः । नरकेभ्य इवात्मानं तेभ्यस्तान् पर्यमूमुचत् ॥ २५८ ॥ स्वयमेवामुना गत्वा यतयस्ते सभक्तिकम् । संप्रेष्यन्त पुरे क्वापि विवेको हि दयावताम् ॥ २५९ ॥ अथ नत्वा यतीन् प्रीतः पल्लीपतिहं प्रति। यावन्निवर्तते तावन्यगद्यत यतीश्वरैः ॥ २६० ॥ भद्र ! मुद्रितभद्राणां पुलिन्द्राणामुपद्रवात् । त्वया वरेण्यकारुण्यवता निस्तारिता वयम् ॥२६१॥ सामान्यस्यापि सत्त्वस्य त्राणं परमसंपदे । किं पुनर्निरतीचारचारित्रस्य महात्मनः ॥ २६२ ॥ तदेतेनापि पुण्येन भावी त्वं संपदा पदम् । तदप्युपचिकीर्षामस्तवायतिहितं वयम् ॥ २६३ ॥ सोऽप्यवोचत हे पूज्याः ! यदाऽऽयतिहितावहम् । तदाऽऽदिशत सद्यो मे येन तत्र यतेऽन्वहम् ॥ २६४ ॥
॥८२॥
Page #173
--------------------------------------------------------------------------
________________
ततः श्रीगुरवः पञ्चपरमेष्ठिनमस्कृतिम् । उपादिशन् पुरस्तस्य शिवश्रीदूतिकामिव ॥ २६५ ॥ अस्याश्च स्मृतिमात्रेण प्राणभाजां भवे भवे । विपदो हि विपद्यन्ते संपद्यन्ते च संपदः॥ २६६ ॥ यतः"भूताः स्यु त्यभूता विरचयितुमलं व्यन्तरा नान्तरायं यक्षा रक्षासु दक्षा विदधति विविधा व्याधयो नैव बाधाम् ।
शक्ता नैवापकर्तुं ज्वलनजलगराद्युत्थदुर्गोपसर्गाः सम्यक्कण्ठोपकण्ठे लुठति तनुमतां श्रीनमस्कारमन्त्रे ॥१॥" मङ्गलानां समग्राणामग्रिमं किल मङ्गलम् । सर्वागमोपनिषदं प्राहुरेनं मनीषिणः॥ २६७ ॥ अमुष्य लक्षजापेन जिन-18 पूजापुरस्सरम् । तीर्थकृन्नामकर्मापि बध्यते नात्र संशयः ॥२६८॥ तदमुं हृदये धेहि नयस्व स्मृतिमन्वहम् । येन त्वां | वृण्वते सर्वाः संपदः स्वयमद्भुताः ॥ २६९ ॥ ततः पल्लीपतिस्तस्माद्विधिवत्तमशिक्षत । स्वस्य श्रेयस्कर को हि नाद्रियेत सचेतनः ॥ २७० ॥ चिन्तारत्नमिव प्राप्य दुष्प्रापं तं महर्षितः । मन्वानो धन्यमात्मानं मुनीन्नत्वाऽगमगृहम् ॥ २७१ ॥ | अयमध्यापिपत् पश्चनमस्कारं प्रियामपि । स्वकण्ठाभरणं मुक्ताहारवत्तं चकार सा ॥ २७२ ॥ तपःस्तुतिजपध्यानपूजाप्रभृतिभनिभिः । तौ यावज्जीवमव्याजममुं भक्त्या रराधतुः॥२७३॥ ततः स तेन पुण्येन पल्लीशस्त्वमभूर्नृपः। तत्कान्ताऽपि बभूवैषा पत्नी ते रत्नमञ्जरी॥२७४॥ अहो! शक्तिर्नमस्काररत्नस्य भुवनाद्भुता । यदेकमपि तद्दत्ते चित्तेष्टाःसर्वसंपदः॥२७५॥ है| इत्याकर्ण्य निजं पूर्वभवं भूपः सवल्लभः । जातजातिस्मृतिश्चङ्गसंवेगस्तं गुरुं जगौ ॥ २७६ ॥ पूज्याः! क्षणं प्रतीक्षध्वं
गृहं गत्वा यथाङ्गजम् । निजे नियोज्य साम्राज्ये प्रव्रज्यामहमाददे ॥ २७७ ॥ ततः सूरीश्वरोऽप्येवमुपद्व्हयति स्म तम् ।। धन्योऽसि पुण्यजन्माऽसि तत्त्ववेद्यसि निश्चितम् ॥ २७८ ॥ तव यस्येदृशी बुद्धिः प्रतिबन्धविना कृता । शिष्टाऽत्र मा 8
PRASACARRANGANAGAR
Page #174
--------------------------------------------------------------------------
________________
दानप्रदीप
विलम्बिष्ठा यद्धर्मे बहुविघ्नता ॥ २७९ ॥ ततः प्रासादमासाद्य सोत्सवं रत्नशेखरम् । तनयं रत्नमञ्जर्या नृपो राज्ये न्यवी- पञ्चम: ४ विशत् ॥ २८० ॥ अपरं च परीवारं यथोचितममानयत् । अमारिपूर्वकं चक्रे चैत्येष्वष्टाह्निकामहम् ॥ २८१ ॥ अथ स्वपु-18
प्रकाशः। त्रभूपालकृतनिष्क्रमणोत्सवः । दीनादीनां महादानं ददानश्चरणं चिरम् ॥ २८२ ॥ पालयेरिति पौराणां गिरः कर्णपथं है नयन् । समेत्य वनमुर्वीशो गुरुमेवं व्यजिज्ञपत् ॥ २८३ ॥ युग्मम् ॥ प्रभो! प्रसादमाधाय संसारवटकोटरे । पतन्तं व्रत| रज्या मां सवधूक समुद्धर ॥ २८४ ॥ प्रावाजयत्सपत्नीकं भगवानपि तं नृपम् । अचिराच्चोभयी शिक्षा सराजर्षिरशिक्षत 8
॥ २८५॥ पवित्रेण चरित्रेण लवित्रेणेव सोऽचिरात् । कर्माण्युन्मूल्य निर्मूलं परमं पदमासदत् ॥ २८६ ॥ इत्येकरत्नमपि |धर्ममयं गृहीतं दत्ते महोदयसुखादिमहाफलानि । भव्यास्ततस्तदुपसंग्रहमातनुध्वं सद्यः समिग्रति यथाऽद्भुतसंपदोवः॥२८७॥ | इत्याकर्ण्य गुरोः पुण्यदेशनां शुभवासनाः। नृपाद्याः प्रत्यपद्यन्त सम्यक्त्वाद्यं प्रमोदतः ॥ २८८ ॥ अथावसरमासाद्य |पप्रच्छ स्वच्छधीर्गुरुम् । ज्ञानदर्पणसंक्रान्तसर्वभावं भुवः प्रभुः ॥ २८९ ॥ पद्माकरेण पूर्वस्मिन् भवे पुण्यमकारि किम् । येन देवा ददत्यस्मै संपदोऽभीप्सिताः सदा ॥२९० ॥ गुरुर्जगाद राजेन्द्र ! पुण्यं प्राच्यभवे यथा । अयं पद्माकरश्चक्रे तथा सम्यग् निशम्यताम् ॥ २९१ ॥ ___ अत्रैव भरतक्षेत्रे पुरं भोगपुराभिधम् । यत्र रत्नमयैश्चैत्यैर्निशाऽप्यदिवसायत ॥ २९२ ॥ श्रेष्ठी तत्राजनि श्रीमान्नन्दनो नन्दनोपमः । सम्यक्त्वाद्या गुणा यस्मिन् रेजुः कल्पद्रुमा इव ॥ २९३ ॥ ज्ञानसागरसूरीन्द्रास्तत्र भूरिपरिच्छदाः। अन्यदा समवासाघुवर्षाकालचिकीर्षया ॥ २९४ ॥ स्वाध्याययोगसद्ध्यानतपोवृद्धिविधायिनः । वसतौ निरवद्यायां तस्थुस्ते ४
Page #175
--------------------------------------------------------------------------
________________
प्राचीनपुण्ययोगेन म्या शुचिमासस्य शुचौ भ्राम्यनाद्राणां दारवं शयनासनम् ॥ २९७ ॥
स्वस्थचेतसः ॥ २९५ ॥ संमूर्च्छन्ति सर्वतोऽपि त्रसस्थावरजन्तवः । दुर्लक्षाश्चक्षुषा सूक्ष्मा वर्षासु प्रचुराः क्षितौ ॥ २९६॥
तेषां विशिष्य रक्षाय वर्षासु जिननायकैः । अनुमेने मुनीन्द्राणां दारवं शयनासनम् ॥ २९७ ॥ ततः श्रीगुरुनिर्देशादारभाशय्याजिघृक्षया । दशम्यां शुचिमासस्य शुचौ भ्राम्यन् पुरान्तरे ॥ २९८ ॥ साधुसङ्घाटकस्तस्य नन्दनस्य गृहेऽगमत् । प्राचीनपुण्ययोगेन कल्पद्रुरिव जङ्गमः॥ २९९ ॥ युग्मम् ॥ तमुपागतमालोक्य मूर्त धर्ममिवाङ्गणे । अभ्युत्तस्थौ ससंभ्रान्तः प्रमोदपुलकाङ्कितः ॥ ३०० ॥ सप्ताष्टानि पदान्येनमभिगम्य सुभक्तितः । प्रणम्य विधिना सम्यक् स ऊचे रचि-15 ताञ्जलिः ॥ ३०१॥ अनभ्रसंभवा वृष्टिरहो ! कल्पद्रुमो मरौ । अहो ! चिन्तामणिः प्राप दुर्गतस्य निकेतने ॥ ३०२॥ अहो ! अभ्युदयामास कुहूनिशि निशाकरः । कटरे ऊपरे सस्यसंपत्तिः समपद्यत ॥३०३॥पद्मं विस्मेरतामाप बपुरे शिखरे गिरेः । मदहस्याङ्गणे जज्ञे यदद्य भवदागमः॥ ३०४ ॥ चतुर्भिः कलापकम् ॥ प्रसद्यादिश्यतां सद्यो निजागमनकारणम्।। येन मे स्फायते प्रीतिर्वसन्तेनेव वल्लरी ॥३०५॥ ततस्तमग्रणीः साधुर्जगाद श्रीगुरोगिरा । आवां तवान्तिकं दारुशयनीयार्थमागतौ ॥ ३०६ ॥ स्फीतप्रीतिस्ततः श्रेष्ठी सुकुमारं सुनिर्मलम् । सुसन्धिबन्धुरं शुद्धकाष्ठोद्भवमभङ्गरम् ॥ ३०७॥ निश्छिद्रं निरवद्यं च शयनीयं महायतम् । स्वगुणौघमिव प्रादुश्चकार पुरतस्तयोः ॥ ३०८ ॥ युग्मम् ॥ प्रसद्य गृह्यतामेतत्सर्वदैवोपयुज्यताम् । भवदायत्तमेवास्तु हर्षादिति जगाद सः॥ ३०९ ॥ वृद्धस्तमभ्यधात्साधुर्वर्षास्वेव तपस्विनाम् । शिष्ट ! काष्ठमयी शय्या कल्पते ननु सर्वदा ॥ ३१०॥ तदेषा युष्मदीयैव कार्तिकावधि गृह्यते । एवमस्त्विति सानन्दमनूवाद च नन्दनः ॥ ३११॥ विशालं विमलं नानानुलोमगुणसङ्गतम् । स्वस्येव शम्बलं प्रेत्योपनिन्ये कम्बलं च सः॥३१२॥
Page #176
--------------------------------------------------------------------------
________________
-40
दानप्रदीपे
पञ्चमः प्रकाशा
॥८४॥
हर्षोत्कर्ष निरीक्ष्यास्य वस्तुनोश्चैपणीयताम् । द्वयमप्यग्रहीषातामनुग्रहपरी मुनी ॥ ३१३ ॥ ततस्तद्वयमादाय गुरोरन्तिकमागतौ । ईर्यापथं प्रतिक्रम्य दर्शयामासतुर्यती ॥ ३१४ ॥ संस्तरस्तत्र शय्यायां कम्बलेन प्रतन्यते । विश्रान्त्यैः सरिराजानामहो ! श्रेष्ठी हि भाग्यवान् ॥ ३१५ ॥ स्वाध्यायदेशनाध्यानवाचनाध्यापनादिना । श्रान्ताः श्रीगुरवस्तत्र श्रुतनीत्या विशश्रमुः ॥ ३१६ ॥ श्रेष्ठी विश्राम्यतस्तत्र दर्श दर्श गुरुत्तमान् । अन्वमूमुददात्मानं धन्योऽहमिति सन्ततम् ॥ ३१७ ॥ तस्योत्तरगयामास कौमुदीवानुमोदना । सर्वदा विशदा शय्यादानपुण्यमहार्णवम् ॥ ३१८ ॥ तस्यागण्यस्य पुण्यस्य प्रभावेन स नन्दनः । दिवि स्वर्गाङ्गनाभोगसुभगंभावुकोऽभवत् ॥ ३१९ ॥ अभङ्गानद्भुताभोगान् स्वभॊगाननुभूय सः। अयं पद्माकरो दिव्यशर्मणामाकरोऽभवत् ॥ ३२० ॥ अक्षयेनेव निधिना तेन पुण्येन नोदितः। जनकस्तिलकः श्रेष्ठी दिविष्ठः स्नेहनिष्ठधीः ॥ ३२१॥ यथेच्छं विविधाः स्वर्णसद्माद्यद्भुतसंपदः । दिव्यशक्त्याऽपिपर्त्यस्य गोभद्रः शालिभद्रवत् ॥ ३२२॥ युग्मम् ॥ यतः
"प्रत्यूहं हरति छिनत्ति विपदः पुष्णाति लक्ष्मीमघं मुष्णाति प्रतनोति राज्यकमलां दत्ते प्रतिष्ठोदयम् । सौख्यं पुष्पति किङ्करानिव सुरान् निर्माति सीमातिगं प्राचीनं सुकृतं हितं सुकृतिनां किं किं न तन्तन्यते ॥१॥" इत्यूचानावनूचानैरानीय श्रुतिगोचरम् । निजी पूर्वभवौ पद्माकरः कर्णसुखाकरौ ॥ ३२३ ॥ शय्याजन्यमहो! पुण्य- मिति जातशुभाशयः । प्राक्तनी जातिमस्मार्षीदूहापोहपरायणः॥ ३२४ ॥ युग्मम् ॥ ततः प्रमोदमेदस्वी प्रणम्य श्रीगुरूत्तमान् । जगाद कुङ्मलीकृत्य करी विनयवानयम् ॥ ३२५॥ प्रभो ! भवद्भिरावेदि यन्मे पूर्वभवादिकम् । भगवन् ।
८४॥
Page #177
--------------------------------------------------------------------------
________________
सम्यगेवाभूत्तदेतदखिलं खलु ॥ ३२६ ॥ वीक्षेऽहमपि तत्साक्षाजातिस्मरणतोऽधुना । अहो ! भगवतां ज्ञानं सीमानं नावलम्बते ॥ ३२७ ॥ इत्युदित्वा मुदा तेषां सन्निधौ धौतधीरयम् । द्वादशव्रतविस्तीर्ण श्राद्धधर्ममुपाददे ॥ ३२८ ॥ मुनी-1 श्वरेभ्यो दानीयं शयनीयं मयाऽनिशम् । इत्यभिग्रहमत्युग्रं रङ्गेण जगृहे च सः॥ ३२९ ॥ प्रबन्धं बन्धुरं तस्य गुरूक्तं श्रुतपूर्विणः । शय्यादानादहो ! पुण्यमिति जातशुभाशयः॥ ३३० ॥ राजादयो गुरून्नत्वा प्रापुः पद्माकरोऽपि च । स्वं स्वं वेश्म जिनोपज्ञपुण्यनैपुण्यशालिनः॥३३१॥ युग्यम् ॥ उद्द्योतयन् जिनमतं सुकृतैरमात्रैः पात्रेऽनवद्यशयनादिकदाननिष्णः। पद्माकरश्चिरमयं गृहमेधिधर्ममाराध्य शुद्धविधिना दिवमाससाद ॥ ३३२ ॥ एवं भवाष्टकमयं शयनीदानकल्पद्रुमोपनतमद्भुतभोगजातम् । भुक्त्वा सुपर्वमनुजेषु विशेषदर्शी सिद्धिं ययौ विशदसंयमयोगमाप्य ॥ ३३३ ॥ पद्माकरो-18 दाहरणादगण्यं पुण्यं मुनीनां शयनीयदाने । निशम्य सम्यग् विधिना यतध्वं सुधीजनास्तत्र पवित्र भावाः ॥ ३३४ ॥
॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानाङ्के श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रशयनदानफल
प्रकाशनः पञ्चमः प्रकाशः॥ ग्रन्थानम् ३४१॥ श्रीरस्तु ॥
दा०१५
१ "पुण्यमिति तत्र कृतादरः ।" इत्यपि पाठः ।
Page #178
--------------------------------------------------------------------------
________________
पष्ठः
दानप्रदीपे
॥ अथ षष्ठः प्रकाशः ॥ __ कुर्यादादीश्वरस्तत्र प्रकाशं विश्वपावकः । अहो ! दानप्रथादीपो यस्याद्यापि प्रदीप्यते ॥१॥ अथोपष्टम्भदानस्यान-18
प्रकाशः। ॥८५॥
वद्यासनदानतः । भेदः पुण्यभरोद्भेदस्तातीयीकः प्रकीर्त्यते ॥२॥ केवले भूतले सूक्ष्मनानाजन्तुकुलाकुले । नानुजानन्ति सर्वज्ञा मुनीनामुपवेशनम् ॥ ३॥ ततो दारुमये वर्षासमये प्रासुकासने । आस्यते मुनिभिः शेषसमये पुनरौर्णिके ॥४॥ ततः सुकृतिना नित्यं यथा समयमासनम् । मुनीश्वरेभ्यो भावेन दानीयमनणीयसा ॥ ५॥ दत्ते प्रीतेन चित्तेन मुनीशानां य आसनम् । स्वर्गापवर्गसौधेषु तस्य स्याद्धृवमासनम् ॥ ६ ॥ धन्यास्ते कृतपुण्यास्ते वाचनाध्यापनादिकाः। येषामास्तिसुखासीनैः साध्यन्ते साधुभिः क्रियाः॥७॥ मुनीनामासनं दातुः संयमः सुलभो भवेत् । यतस्तस्य विधौ ।
तेषां साहाय्यं तेन सृज्यते ॥८॥ आसनं यो मुनीन्द्राणां दत्ते तस्य भवान्तरे । सुशकं शकचक्र्यादिसिंहासन्युपवेशनम् P९॥ यतीनामासनं शुद्धवासनं यः प्रयच्छति । करिराज इव प्राज्यराज्यश्रियमुपैति सः॥ १०॥ तथाहि" बभूव काञ्चनपुरं भरतावनिभूषणम् । शोभां काञ्चन यद्देजे परां काञ्चनवेश्मभिः ॥ ११॥ पुरुषार्थास्त्रयो यत्र मिथो| बाधाविवर्जिताः। कृत्वा मैत्रीमिवामात्रां पवित्राः प्रावरीवृतः॥१२॥ तत्रापहस्तितारातिहस्तिनामा महीपतिः । नीतिवलिसमुल्लासे वारिदामास यः सदा ॥ १३ ॥ पश्चतां द्विषतां सङ्ख्ये प्रत्येकं विततान यः। कुलक्षयकरस्तेषां ख्यातश्चित्रं
तथाऽप्ययम् ॥ १४ ॥ तस्यासीत्कमला देवी देवीव भुवमागता । चक्षुर्निमेषैरेवैषा मानुषीति प्रतीयते ॥ १५ ॥ भूषणेKIनान्तरङ्गेण शीलेनैव विभूषिता । बाह्यालङ्कारवारं सा बभार व्यवहारतः ॥ १६ ॥ प्रभूतास्वपि कान्तासु तस्य कान्ता ||
Page #179
--------------------------------------------------------------------------
________________
बभूव सा। पुष्पजातिषु बह्वीषु जातरेव हि मान्यता॥१७॥ सवोङ्गसुभगं राज्यं प्राज्यं पालयतः सुखम् । वत्सराः प्रचरास्तस्य व्यतीयुः प्रहरा इव ॥ १८ ॥ परं राज्यधुराधुर्यस्तस्याजायत नात्मजः । सुतरामरतिं तेन तन्वानः स व्यचिन्तयत् ॥१९॥ पिशाचीव शरीरं मे जर्जरीकुरुते जरा । धर्मदूता इवोपेताः पलिता मे शिरस्यमी ॥२०॥ अद्यापि नहि पश्यामि सूनुमन्वयमण्डनम् । वल्लीव द्रुममालम्ब्य राज्यश्रीःस्फातिमेति यत्॥२१॥राज्यलक्ष्मीः परीवारपरीताऽपि ऋते सुतम् । द्यौरिव द्योतते नैव सताराऽपि विधु विना ॥ २२॥ कथं च चिरकालीनः प्रव्रज्याया मनोरथः। ममायं फलिता पुत्रराज्यस्थापनपूर्वकः ॥ २३ ॥ धन्यास्ते पूर्वजा नूनमवीक्ष्यैव जरामुखम् । स्वाङ्गजे राज्यमायोज्य तपस्यामासुराशु ये ॥ २४ ॥ इति |चिन्तातुरः पुत्रप्राप्युपायपरायणः। भूपतिर्गमयामास वासरान् वत्सरानिव ॥ २५ ॥ अन्येयुः प्रश्नयामास नैमित्तिकमिलापतिः । भूतभाविभवद्भावप्ररूपणपरायणम् ॥ २६॥ कदा मे नन्दनो भावी कथं वा तस्य संभवः ? । भावी च कीदृशः सर्वमिदं वद विदांवर ! ॥ २७ ॥ अथावगम्य तत्सम्यगगम्यं चर्मचक्षुषाम् । ज्योतिःशास्त्रैकनेत्रेण स जगौ जगतीपतिम् ॥ २८ ॥ भावी तवाङ्गजो राजन् ! राज्यभारधुरंधुरः । परं पुण्यानुभावेन संभवस्तस्य दृश्यते ॥ २९॥ अगण्यं पुण्यमेवैकं राजन्नातन्यतां ततः। चेतश्चिन्तितपूत् हि पुण्यं चिन्तामणीयते ॥३०॥ एतां तद्गिरमाकर्ण्य कर्णपीयूषवर्षिकाम् । प्रीतः पृथ्वीपतिर्वितैः प्रभूतैस्तमपिप्रिणत् ॥ ३१ ॥ इष्टं वैद्योपदिष्टं च मन्वानस्तद्वचो नृपः । सर्वज्ञोजापज्ञपुण्यैकतानमानसतामधात् ॥ ३२॥ तथाहि-प्रासादप्रतिमाविधापनजिनाभ्यर्चागुरूपासनादानामारिविधानदुस्तपत
पाश्रीतीर्थयात्रादिकम् । पुण्यं सञ्चिनुते स्म निर्मलमयं राझ्या समं निःसमं प्रत्यूहास्तुषनाशमाशु सकला नेशुः सुदूरं यथा
Page #180
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥८६॥
षष्ठः प्रकाशः।
॥ ३३ ॥ ततः सा कमला देवी गर्भ बभ्रे शुभाशया । द्यौरिवादभ्रशुभ्राभ्रतिरोहितमहः पतिम् ॥ ३४ ॥ अमन्दमदसौगन्ध्यलुब्धभ्रमरधोरणिम् । तस्यामेव तमस्विन्यां द्विपं स्वप्ने ददर्श सा ॥ ३५॥ प्रतिभूरङ्गभूत्यत्त्यै श्रोत्रयोरतिथी- भवन् । नृपमप्रीणयत् स्वप्नः पल्या प्रातः प्ररूपितः ॥ ३६॥ समये जनयामास तनयं दीप्रदीप्तिभिः । प्रकाशितनिशान्तं | सा रत्नं रोहणभूरिव ॥ ३७॥ सुखाकृतपुरीलोकांस्तोषिताशेषयाचकान् । यथाक्रमं महीशक्रश्चके सूनुजनुर्महान् ॥ ३८॥ तस्याभिधां व्यधाद्भूपः पूज्यपूजनपूर्वकम् । करिस्वप्नानुसारेण करिराज इति स्फुटाम् ॥ ३९ ॥ अनेन वर्द्धमानेन साई स्पर्धा कथं विधोः। कला द्वासप्ततिं भेजे यदयं स तु षोडश ॥ ४०॥ नृपतिः सोत्सवं स्वच्छलावण्यार्णस्तरङ्गिणी। रमणीः रमणीयाङ्गीः सूनुना पर्यणीणयत् ॥४१॥ अन्यदा वन्यदावाग्निमिव तापं भवोद्भवम् । शमयन्तं नवाम्भोदमिव | साम्यरसाचितम् ॥ ४२ ॥ पुण्योपदेशमासाद्य गुरूणां हस्तिभूपतिः । वैराग्यरसपूरेण पूरयामास मानसम् ॥४३॥ ततो वैषयिके सौख्ये विषप्रख्ये पराङ्मुखः । राजा न्ययुक्त साम्राज्ये करिराजं महामहैः ॥ ४४ ॥ अथ प्रौढोत्सवैः शस्यां तपस्यां शिश्रिये नृपः । स्वहितेन हि मुह्यन्ति कदाऽपि विशदाशयाः ॥ ४५ ॥ निषेव्य बहुवर्षाणि स राजर्षिः सुदुश्चरम् ।। चरणं निरतीचारं जगाम गतिमुत्तमाम् ॥ ४६ ॥ अथ स्वाराज्यवद्राज्यं भुञ्जानः प्राज्यमूर्जितम् । करिराजमहीराजो रेजे तेजस्विनां वरः॥ ४७ ॥ तत्रान्यदा रथकारदारकः कोऽप्यपारधीः । आजगाम कलाधाम सुमति म दूरतः॥४८॥ अनल्पं शिल्पकौशल्यमतुल्यं विस्मयावहम् । शिक्षयामास यं साक्षात्त्वष्टा तुष्टाशयः किल ॥ ४९ ॥ तस्मै कन्यामविज्ञातज्ञातयेऽपि कलावते । ददौ वास्तव्यरथकृत्कलायाः किल गौरवम् ॥ ५० ॥ स तत्र कृतसंवासो रममाणस्तया समम् ।
ARISSAARASAIRASIA
॥८६॥
Page #181
--------------------------------------------------------------------------
________________
| समयं गमयामास कियन्तमपि लीलया ॥ ५१ ॥ तस्य श्वशुरवगणाः स्पन्दनादिविधित्सया । आनेतुं सारदारूणि व्रजन्ति वनमन्वहम् ॥ ५२ ॥ प्रययौ सह तैः सोऽपि जग्राह न तु किञ्चिन । यत्र तत्र प्रवीणानां मतिर्न रमते यतः ॥ ५३ ॥ शावभावुक ! काष्ठानि प्रष्ठान्यपि न लासि किम् । इत्युक्तः श्यालकैः साह योग्यं पश्यामि नात्र भोः ! ॥ ५४ ॥ ततः श्याला मिथो दत्तहस्तताला हसन्ति तम् । अहो ! काष्ठान्ययं मूर्खश्चक्षुष्मानपि नेक्षते ॥ ५५ ॥ अहो ! चारूणि दारूणि मोचं मोचं व्रजत्ययम् । अपूर्वा भगिनीभर्तुरहो ! काऽपि विवेकिता ॥ ५६ ॥ यद्वा ग्रहिल एवायमास्माकीनोऽस्ति भावुकः । लभ्यते खलु भाग्येन भगिनीपतिरीदृशः ॥ ५७ ॥ इति श्यालकक्लृप्तानि हसितानि विहस्य सः । चक्रेऽपकर्णितान्येव धीरगाधा हि धीमताम् ॥ ५८ ॥ अरण्यादन्यदा गच्छन् श्यालकादिसमन्वितः । चितायामर्द्धनिर्दग्धं सारं दारु ददर्श सः ॥ ५९ ॥ श्यालैहस्यविशाला स्यैर्हस्यमानोऽप्यनेकशः । जनं तत्र स याचित्वा जगृहेऽत्याग्रहेण तत् ॥ ६० ॥ अथागत्य गृहं तेन निरपीपददद्भुताम् । स दव द्रविणव्यूहं परिवेष्टुमिवात्मनः ॥ ६१ ॥ अनया दीयमानं हि वस्तु न क्षीयते प्रिये ! । तदियं द्रव्यलक्षेण विक्रेया नान्यथा पुनः ॥ ६२ ॥ एवं वितीर्णशिक्षाया दक्षाया निजयोषितः । प्रियस्तामर्पया - मास विक्रयार्थं चतुष्पथे ॥ ६३ ॥ अथ प्रातः स्मरन्ती सा पत्युः शिक्षां विचक्षणा । ऊर्द्धाकृत्य करे दव गत्वा तस्थौ चतुष्पथे ॥ ६४ ॥ दीयते कथमेषेति पृष्टा सा ग्राहकान् जगौ । इमां स एव गृह्णाति यो दत्ते लक्षमक्षतम् ॥ ६५ ॥ ततस्ते ग्राहकाः प्राहुः सहासमविचारिणः । यदि लाक्षीजिघृक्षा ते पिष्पलेषु तदा ब्रज ॥ ६६ ॥ अप्राक्षुः केऽपि दक्षास्तां भद्रे ! मूल्यमिदं कुतः । ततः सा प्राह माहात्म्यमस्याः सम्यग् निशम्यताम् ॥ ६७ ॥ अनया दीयमानं हि हीयते वस्तु जातु
Page #182
--------------------------------------------------------------------------
________________
दानप्रदीपे
षष्ठः प्रकाशः।
नो । अमुष्या द्रम्मलक्षापि मूल्यं स्वल्पतरं ततः॥ ६८॥ गुणानामेव भो ! मूल्यमुच्यते न तु दारुणः। काष्ठरूपाऽपि किं न स्यादमूल्या कल्पवल्लरी ॥ ६९॥ एवं तया गुणोत्कर्षे घोष्यमाणेऽपि तेऽपि ताम् । कातर्येण न गृह्णन्ति धिगधैयविजृम्भितम् ॥ ७० ॥ न वेत्ति यो गुणं यस्य स तस्मिन्नहि सादरः । स्वाद्वीरपि हि मृद्धीका नालोकन्ते क्रमेलकाः ॥ ७१॥ दिनान्ते मन्त्रिराजेन पृष्टाऽऽचष्ट तथैव सा । मणिमन्त्रौषधीनां हि महिमा वागगोचरः॥७२॥ बहुरत्ना च धात्रीति विचिन्त्य चतुराग्रणीः । प्रत्याय्य मानसं तस्या मन्त्रीशस्तामुपाददे॥७३॥ युग्मम् ॥ आरोप्य रौप्यपट्टे तां कर्पूरकुसुमादिभिः । प्रपूज्य पूर्वयामिन्यां दक्षः सुष्वाप धीसखः॥७४ ॥ अमात्यः प्रातरुत्थाय प्रदत्ते वस्तु यत्तया । भवेन्म
तदक्षय्यं निधानमिव चक्रिणः॥७५ ॥ इति प्रेक्ष्य गुणोत्कर्ष तस्याः प्रत्ययिताशयः। रथकारगृहे द्रम्मलक्षं प्रैषत धीसखः M॥७६ ॥ अथ तां रथकृत्सृष्टिगुणस्पष्टनपूर्वकम् । सोऽदर्शयन्नृपं दीर्घदर्शिनः खलु धीसखाः ॥७७ ॥ नृपोऽपि कौतुकाक्षि-टू
तस्तां परीक्ष्य प्रहर्षुलः । कोशे निवेशयामास को हि कल्पलतां त्यजेत् ॥७८॥ अमुना शिल्पिना शिल्पं कृप्तं पुनरपीदृशम्। दर्शनीयं मम मनोविनोदाय सदा त्वया ॥ ७९ ॥ इत्युक्त्वा मन्त्रिणेऽमात्रप्रसादप्रवणो नृपः। कोशाध्यक्षेण हर्षेण द्रम्मलक्षमदीदपत् ॥ ८०॥ अतुल्यमस्य कौशल्यं भगिनीभर्तुरद्भुतम् । इति हर्षविशालाक्षाः श्यालाद्यास्तमशंसिषुः ॥ ८१॥सुतरां श्वशुराद्यास्तं परेऽपि बहु मेनिरे । यन्मुखं वीक्षते लक्ष्मीस्तस्य को हिन संमुखः॥ ८२ ॥ विलोक्य दलिकं दिव्यमन्यदाऽरण्यदारुषु । स हर्षी गृहमानैषीद्विशेषे विदुषां हि दृग् ॥ ८३॥ विश्वभ्रमणखिन्नायाः श्रिया इव निजालये । विश्रान्त्यै तेन पल्यत सोऽद्भुतं निरपीपदत् ॥ ८४ ॥ ततः समर्प्य पल्यत विक्रेतुं स चतुष्पथे । तथैव शिक्षामाख्याय प्रजिघाय प्रियां
Page #183
--------------------------------------------------------------------------
________________
%-CCCCESSACRECASS
निजाम् ॥ ८५॥ साऽपि पल्यङ्कमादाय स्थिता प्रातश्चतुष्पथे । वक्रय क्रयिकैः पृष्टा द्रव्यलक्षमभाषत ॥८६॥ केऽप्याययुर्न तत्पार्श्व लक्षश्रुत्यैव भापिताः। कल्पपादपसामीप्यमाप्यते किमपुण्यकैः ॥ ८७ ॥ ततो मुग्धतया लोकः पल्य कोऽपि नाददे । अपरीक्षितृणां रत्नपरीक्षा खलु दुष्करा ॥ ८८॥ नार्हता वस्तुनस्तस्य वस्तुं यत्तद्गृहेऽथवा । यस्य तस्य करे युक्ता स्थितिश्चिन्तामणेः किमु ॥ ८९ ॥ दिनान्ते मन्त्रिणा पृष्टा स्पष्टमाचष्ट सा तथा । गुणे पृष्टे पुनः प्रोचे रात्री सुप्तैः स भोत्सते ॥ ९॥ दृष्ट्वा गुणं भवद्भ्योऽयं रोचते यदि मञ्चकः । तदा मूल्यमिदं दत्थ नो चेन्मञ्चकमेव मे॥९१॥15 |स्वीकृत्य यौक्तिकं तस्या वचः सचिवपुङ्गवः। उपायनमिवानिन्ये पल्यङ्कमुपभूपति ॥ ९२॥ ऊचे च देव! मञ्चोऽयं क्लुप्तस्ते
नैव शिल्पिना । शयानैः पुनरेतस्य निशायां ज्ञायते गुणः॥९३ ॥ तदाकण्ये नृपः पुष्पादिभिरानश्च मञ्चकम् । कृतसान्ध्यसाविधेयश्च तत्राशेत सकौतुकः॥ ९४ ॥ सुप्तस्यापि सुखं तस्य तन्माहात्म्यदिदृक्षया। निद्रा नैति दरिद्रस्य यद्वदाजीवचि-13
न्तया ॥ ९५ ॥ अथ दिव्यानुभावेन पादाःपल्यवर्तिनः । चतुरा इव चत्वारो वार्तयन्तीतरेतरम्॥५६॥ तिष्ठामः किं मुनिः क्षीणकर्माण इव भो ! वयम् । प्रमीलादिप्रमादेन कालोऽत्येति ह्यधीमताम् ॥ ९७ ॥ चित्रकारिकथानृत्यसंगीतादिरसं विना । कोटियामा त्रियामाऽपि यामिनी भाविनी च नः॥ ९८॥ ततः कञ्चन साश्चर्य. प्रबन्धं रसबन्धुरम् । प्रस्तावयेम यामिन्याः सुखनिर्गमनक्षमम् ॥ ९९ ॥ नृपोऽपि दारवाः पादा वदन्तो दिव्यभाषया । कं प्रबन्धं वदन्तीति विस्मितो ऽवहितोऽभवत् ॥ १०॥ वावदक इवावादीत् पादस्तत्रैवमादिमः। श्रूयते किल शास्त्रेषु पुमर्थानां चतुष्टयी ॥१०१॥ काम एव परं तत्र प्राधान्यमवलम्बते । तस्मिन्नेव यदेकस्मिन्नेकान्तेन सुखाङ्गता ॥ १०२ ॥ उदारशब्दरूपादिपरिभोग
ACANCER-CRECACALCALCANKA
Page #184
--------------------------------------------------------------------------
________________
दानप्रदीपे
षष्ठः प्रकाशः।
मयो ह्ययम् । तदस्य विश्वहृद्यस्य युक्ता सर्वाङ्गसौख्यता ॥ १०३ ॥ दुःखं तृषाबुभुक्षादिभवं यदनुभूयते । तत्कामयोगतो| यद्वदालोकाभावतस्तमः ॥ १०४॥ न चार्थे तद्वदेकान्तसुखसाधनता मता । आये व्यये च रक्ष्णे च तस्य दुःखाकरत्वतः ॥१०५॥ यतः____ “यदुर्गाटविसागरादिगमनं यन्नीचसंसेवनं यन्मातापितृसोदरादिहननं चौर्यादिदुष्कर्म यत् ।
जागर्यादि च यत्समग्ररजनीं यद्दीनवाक्यादिकं तद्वित्तस्य विशंस्थुलीकृतजगद् वित्तस्य दुश्चेष्टितम् ॥१॥" __ कामभोगोपयोगेन स्यादर्थोऽपि सुखाकरः । वणिजो मम्मणस्येवान्यथा दुःखाकरः पुनः ॥ १०६ ॥ धर्ममोक्षौ पुनर्धूर्तकल्पनाशिल्पिकल्पितौ । प्रत्यक्षगोचरातीतावसन्ती नहि तात्त्विकौ ॥ १०७ ॥ शुभाशुभे प्राक्तनपुण्यपापप्रयोगतः प्राणभृतां भवेताम् । अत्राप्यनैकान्तिकता दृषद्भिर्निर्हेतुका सार्चनघट्टनाभिः ॥ १०८॥ न यत्र रूपं न रसो न गन्धो न स्पर्शमात्रं न वचो न वर्णः। नेच्छा न बुद्धिर्न सुखं न दुःखं मोक्षः खपुष्पान्न विशिष्यतेऽसौ ॥ १०९॥ तात्त्विकत्वेऽपि तौ युक्तौ नैवादतु सचेतसाम् । सुखाभिलाषिणस्ते हि दुःखसाध्याविमौ पुनः ॥ ११० ॥ तथाहि- .
क्षान्ता दुर्गोपसर्गान् सततगुरुतपःशोषिताशेषगात्राः पात्रं भूयो मलानां नियमितकरणः सर्वहृद्यार्थसार्थे । सोढा प्रौढातपादिप्रभवमविरतं कष्टमुत्कृष्टधैर्यः कायोत्सर्गादिकार्ये प्रभवति विधिवद्धर्ममारा मीहक् ॥ १११॥ प्राप्तुं मोक्षमपीदृक्षः क्षमः स्यान्नापरः पुनः । परत्र सुखलाभस्तु प्रत्याय्यः कोशपानतः ॥ ११२ ॥ प्राप्तानपि च यः कामांस्त्यजत्यधिकलुब्धधीः । वानरस्येव दुर्वारोऽनुतापस्तस्य जायते ॥ ११३ ॥
॥८८॥
Page #185
--------------------------------------------------------------------------
________________
HRE
तथा ह्यटव्यामेकस्यामन्योन्यमनुरागवान् । वानरः सह वानर्या बभूव विरहासहः ॥ ११४ ॥ युगपत्पादपारोहावरोहप्तवनादिकाः। क्रीडास्तौ चक्रतुर्नित्यमेकरज्वेव संयतौ ॥ ११५ ॥ अन्येयुः स्वर्नदीतीरे रममाणस्तया समम् । वानरो भवि वानीरोत्पपातानवधानतः ॥११६ ॥ सहसा तस्य तीर्थस्य प्रभावेन स वानरः । नरः सुरकुमारश्रीजज्ञे साधितविद्यवत् ॥११७ ॥ वानर्यपि तथारूपं तं निरूप्य तदध्वना । समपद्यत सद्योऽपि नारी स्वःसुन्दरीसहक् ॥ ११८ ॥ नवीभूतं मिथः प्रेमातिशयं दधतौ च तौ । विलेसतुश्चिरं प्राग्वदवियुक्तौ दिवानिशम् ॥ ११९ ॥ सोऽन्यदा दयितां प्रोचे भवावः साम्प्रतं सुरौ । यथा मत्यौं पुराऽभूव साऽप्युवाच प्रियं प्रति ॥ १२०॥ देवत्वेन कृतं देव ! नृभोगानेव भर हे । सर्वेषामपि दुःखानामसन्तोषः खनिर्यतः ॥ १२१॥ तयेति प्रतिषिद्धोऽपि स मुग्धोऽधिकलोलुभः। ददौ झम्पामकम्पात्मा पूर्ववत्तत्र तद्रमात् ॥ १२२ ॥ तिर्यक् तत्र नरीभूतः सुरीभूतश्च मानवः । पुनः पाते हि तादृक्षौ स्यातां तीर्थप्रभावतः॥ १२३ ॥ इत्ययं झम्पया तत्र वानरः पुनरप्यभूत् । तं च तादृशमालोक्य सा नारी नाकरोत्तथा ॥ १२४ ॥ निभाल्याऽद्भुतसौभाग्यां तत्रान्याः पदातयः । राज्ञस्तामर्पयामासुः स्वामी ह्यस्वामिके नृपः॥ १२५ ॥ दिव्याकृतिर्नृपेगैषा महिषी निर्ममे मुदा । सल्लक्षणाकृतियक्षलक्ष्मीणां खलु साक्षिणी ॥ १२६ ॥ गृहीत्वा वानरः सोऽपि नटेर्नाव्यमशिक्ष्यत । प्रारेभे चान्यदा नृत्य पुरस्तस्यैव भूपतेः ॥ १२७ ॥ तत्रापूर्वतया ते च वानरं तमनीनृतन् । राज्ञोऽर्द्धासनगां पत्नी प्रेक्ष्यारोदीच वानरः॥ १२८ ॥ स्मारं स्मारं सुखं पूर्व दर्श दर्श प्रियां निजाम् । अश्रुपातं मुहुस्तन्वन्नन्वतप्ततमामयम् ॥ १२९ ॥ राज्यपि प्रत्यभिज्ञाय तमुवाच वचस्विनी । स्वेनोप्तस्याविवेकद्रोरुपभुज फलं कपे ! ॥१३०॥ नृपाद
S TRATIME
-
Page #186
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥८९॥
योऽपि तद्वृत्तं तस्याः श्रुत्वाऽतिविस्मिताः । सर्वासामापदां मूलमसन्तोषममंसत ॥१३१ ॥ ततः कामानिह प्राप्तांस्त्यक्त्वा षष्ठः प्रेत्याधिकद्धये । यः क्लिश्यत्यनुशेते यमत्यन्तं स कपिर्यथा ॥ १३२ ॥ इत्थं सर्वपुमर्थेषु कामस्यैवानिमा स्थितिः। द्विती-18 प्रकाशः। यस्तमथो पादः प्रत्युवाद वदावदः ॥ १३३ ॥ । यदवादि त्वया वादिन्निदं नैवोपपद्यते । यतः प्रथमतार्थस्य पुमर्थेषु प्रतिष्ठिता ॥ १३४ ॥ कालस्य मूलमर्थो हि तं विना तदसंभवात् । क्लिश्यन्त किल दृश्यन्ते तस्मै कामार्थिनो जनाः ॥ १३५ ॥ अशेषसुखहेतुत्वं वित्तस्यैवोपपद्यते । यस्य दर्शनमात्रेण बालस्याप्युल्लसेन्मनः॥१३६ ॥ अर्थयोगेऽपि यहुःखं मम्मणादेयंगद्यत । तदयुक्तं यतस्तस्य कार्पण्येनैव तत्कृतम् ॥ १३७ ॥ वित्तेन तुङ्गास्तुरगा अभङ्गा भोगाः सुसौभाग्यभृतोऽङ्गानाः स्युः। गर्जद्गजेन्द्रा वरचीवराणि महामहाभक्तिभृतश्च भृत्याः ॥ १३८ ॥ स्वाजन्यमायान्ति जनाः समेऽपि द्विषोऽप्यशेषाः सुहृदीभवन्ति । प्रभुः प्रसत्तिं च परां विधत्ते वित्तेन कस्को वशतां न धत्ते ॥ १३९ ॥ नीचोऽप्यनीचैस्तरतामुपैति कुलीनतामाकलयत्यकुल्यः। धत्ते लघीयानपि गौरवं च शुभं भवेन्नो विभवेन किं किम् ॥१४०॥ ये ज्ञानवृद्धास्तपसा च वृद्धाः स्वाजन्यवृद्धा वयसा |च वृद्धाः। सर्वेऽप्यहो ! ते धनवृद्धपुंसां पार्थेस्थिताः किंकरतां श्रयन्ति ॥ १४१॥ मूकत्वं मितभाषितां प्रथयते चाप-181 ल्यमुद्युक्ततामालस्यं स्थिरतां जडत्वमृजुतां वाचालता वाग्मिताम् । पात्रापात्रविभक्ततानवगतिस्त्वौदार्यमुत्सेकिता तेजस्वित्वमहो! न के धनवतां दोषा अपि स्युर्गुणाः॥१४२॥ गुणवानपि पूज्योऽपि प्रतिष्ठामाप्तवानपि । न जातु मान्यतामेति वित्तेन रहितः पुमान् ॥ १४३ ॥ श्रूयन्ते हि पुरा रामो भरते भुवि भरि । प्रतस्थे वनवासाय गुर्वादेशवशं
वाग्मिताम् । पाप १४१ ॥ मूकत्वं म स्वाजन्यवृद्धा
Page #187
--------------------------------------------------------------------------
________________
१५॥ विना वित्तं गृहस्थो हि
यात्पर्याप्नोति न जातु सः ॥
वदः॥ १४४ ॥ कश्चिदाश्रममायातं श्रीरामं तापसाग्रणीः । जानानोऽप्यभियानादिप्रकारैः सच्चकार न ॥ १४५॥ द्वादशाब्दीमतिक्रम्य लीलयोन्मूल्य रावणम् । लङ्काराज्यमलङ्कारमिव प्राप्य महर्द्धिमान् ॥ १४६ ॥ तमाश्रमं पुनः प्राप्तो रामस्तेन तपस्विना । अभ्यागमफलाद्यर्घपाद्याद्यैः सत्कृतोऽवदत् ॥ १४७ ॥ युग्मम् ॥ स एव त्वं स एवाहं स एव च तवाश्रमः। आदरं शिथिलीकृत्य पुनः किमयमादरः॥ १४८॥ तापसोऽप्याह-धनमर्जय काकुत्स्थ ! धनमूलमिदं जगत्। अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥ १४९ ॥ इहैव न परं वित्तं महत्त्वादिनिबन्धनम् । धर्मकसाधनत्वेन परलोके पुनस्तराम् ॥ १५० ॥ विना वित्तं गृहस्थो हि जीविकाव्याकुलाशयः। न श्रोतुमपि शक्नोति धर्ममेकाग्रमानसः ॥ १५१॥x दूरापास्ता पुनस्तस्य धर्मानुष्ठाननिर्मितिः। यद्वित्तार्जनवैयग्यात्पर्याप्नोति न जातु सः ॥ १५२ ॥ प्रासादप्रतिमाजिनार्चनमहश्रीतीर्थयात्रातपःपूजापुस्तकसङ्घभक्तिकरुणादानोपकारादिकः। धर्मः साधयितुं पुनस्तनुरपि श्रद्धावताऽप्यङ्गिना नो शक्येत धनं विना तदविना भावी हि तस्योद्भवः॥ १५३ ॥ सिद्धा सिद्ध्यङ्गताऽप्यर्थे धर्महेतुत्वसिद्धितः। धनाद्धर्मस्ततः कर्मक्षयस्तस्मात् शिवं यतः॥१५४ ॥ तथाहि। अयोध्यायां युगादीशवंशेऽभूदष्टमो नृपः। दण्डवीर्यः स्फुरद्वीर्यस्त्रिखण्डभरताधिपः॥ १५५ ॥ तं षोडश सहस्राणि नरेशाः पर्युपासत । स सम्यग्विधिना धर्ममुपासामास चानिशम् ॥ १५६ ॥ भोजयित्वा मया भोज्यं यावद्वेदं सधर्मणः। इत्युग्रमेष जग्राह यावज्जीवमभिग्रहम् ॥ १५७ ॥ दानशालासु मे भोज्यं कार्यों धर्मश्च सन्ततम् । इत्युक्त्वा च स्वसौधे तान् परोलक्षानतिष्ठिपत् ॥ १५८ ॥ ज्ञानादिरत्नत्रितयीस्फुटीकारपटीयसा । सूत्रत्रयेण हैमेन हृदयं केऽप्यभूषयन् ॥१५९॥
HISप्यङ्गिना नो|
Page #188
--------------------------------------------------------------------------
________________
दानप्रदीपे
षष्ठः प्रकाशः।
॥९
॥
5555
दध्महे द्वादशश्राद्धव्रतानि वयमन्वहम् । इति केऽपि निजाङ्गेषु तावन्ति तिलकान्यधुः ॥ १६०॥ अहंदादिगुणस्तोमस्त|तिपावित्र्यशालिनीः। उच्चै?षतयाऽघोषश्चतस्रः केचन श्रुतीः॥ १६१॥ पुष्पाण्युपाहर जलैः पयार्हद! दीपं प्रदीपय समुत्क्षिप गन्धधूपम् । मुक्ताफलैर्विरचयाष्ट च मङ्गलानीत्यर्हत्प्रपूजनविधौ कतिचिद्यतन्ते ॥ १६२॥ केऽपि पद्मासनासीना नासाग्रन्यस्तलोचना । जपन्ति श्रीनमस्कारं कृतसामायिकव्रताः॥१६३ ॥ प्लष्टदुष्टाष्टकमैधं तीर्थषष्ठादि केचन | शिष्टानष्ठाननिष्णातास्तप्यन्ते दुस्तपं तपः॥१६४ ॥ इति क्रियोद्यतान् श्राद्धान् मूर्तान् धर्मानिवान्वहम् । सादरं भोजयामास नृपः सर्वार्थपूरकः॥१६५॥ प्रायः प्रतिदिनं तस्य श्राद्धाः कोटिरभुञ्जत । इत्ययं कोटिभोजीति बभार बिरुदं नृपः॥ १६६ ॥ अन्येधुरभृतां धर्मस्थैयोदिगुणसंपदम् । दृष्ट्वाऽस्य स्वःपतिः स्वर्गे भृशं जज्ञे सविस्मयः॥ १६७ ॥ तत-| स्तस्य परीक्षार्थमयोध्यामयमागमत् । अन्यांस्तथाविधाजू श्राद्धान् विचकार च कोटिशः॥ १६८॥ नवीनान कोटिशश्राद्धान् दृष्टा दृष्ट्वा नरेश्वरः । अहो ! भाग्यमहो ! भाग्यमित्युच्छ्रुसितमानसः॥ १६९ ॥ विशालदानशालासु सादरं] सोदरानिव । प्रारेभे भक्तितः सर्वानपि भोजयितुं स्वयम् ॥ १७० ॥ युग्मम् ॥ स परं पुरुहूतेनाऽपरापरविकुर्वणात् । तेषां पारं नहि प्राप पारावाराम्भसामिव ॥ १७१॥ तानेवादयतस्तस्य रविःपान्तरं ययौ । सधर्मभक्तिरन्यस्यापीक्षेतीव वीक्षितुम् ॥ १७२ ॥ एवं सधर्मणां भक्तिं कुर्वतस्तस्य भक्तितः। उपवासाष्टकं जज्ञे ननु कष्टलवो हृदि ॥ १७३ ॥ ज्ञात्वाऽथ तमनिर्विणं प्रत्युतोल्लसदाशयम् । शक्रः स्वीकृत्यरूपं स्वं प्रशशंस मुहुर्मुदा ॥ १७४ ॥ दण्डवीर्य ! महाधैर्य ! धन्यस्त्वं चरमाङ्गवान् । तव यस्याद्भुता भक्तिः सधर्मसु निभाल्यते ॥ १७५ ॥ त्वयाऽद्य भरतादित्ययशःप्रभतिपर्वजाः।
Page #189
--------------------------------------------------------------------------
________________
| सर्वे प्रादुष्क्रियन्ते स्म निजैस्तत्तादृशैर्गुणैः॥ १७६ ॥ त्वयैवोत्तमपुत्रेण स्वामिवंशोऽद्य भासते । नभो नभोमणिं मक्त्वा नहि भाति ग्रहैः परैः॥ १७७ ॥ अहं शक्रोऽस्मि राजंस्त्वां परीक्षितुमुपागमम् । मादृक्षेण परीक्षा ते विश्वोत्तमगुणस्य का ॥ १७८ ॥ परीक्षयाऽनया च त्वं मया सन्तोषितोऽसि यत् । तं क्षमस्वापराधं मे सन्तः सर्वसहा यतः॥ १७९ ॥ कृत्यं भरतभूभर्तुस्त्वयि सर्व हि युज्यते । अतः शत्रुञ्जये यात्रां तथा तीर्थोद्धृति कुरु ॥ १८० ॥ सान्निध्यं ते विधाताऽस्मि सद्यस्तत्र समागतः । इत्याकर्ण्य महीजानिमुदितः प्रत्युवाद तम् ॥ १८१॥ साधु शक! त्वयादिष्टं त्वं मे भरतसंनिभः। सङ्घमाकार्य यात्रायै चलितोऽस्म्येव ते गिरा ॥ १८२ ॥ ततस्तस्मै मुदा दत्त्वा कुण्डले सशरं धनुः।हारं रथं च दिव्यानि दिवमाप दिवस्पतिः॥ १८३ ॥ अथ त्रिखण्डतः सङ्घानाकार्य गुरुकार्यकृत् । स्वर्णदेवालये रत्नबिम्ब न्यस्यादिमप्रभोः। ॥ १८४ ॥ स्थाने स्थाने सृजन स्नात्रध्वजारोपादिकान् महान् । व्यययन् कोटिशो वित्तं प्राप शत्रुञ्जयं नृपः॥ १८५॥ तत्क्षणायातशक्रोक्तविधिना विदधे नृपः। स्वर्णपुष्पादिभिस्तीर्थपूजास्त्रात्रादिकोत्सवान् ॥१८६॥ विस्मापितसुपर्वाणमपूर्वामुत्सवावलिम् । कुर्वन् यथेच्छमर्थिभ्यो यच्छन् स्वईयते स्म सः॥ १८७॥ प्रासादान् जर्जरांस्तत्र शक्रादेशाच्च भूपतिः। स्वर्णरत्नशिलास्तोमैः प्रमोदादुददीधरत् ॥१८८॥ इत्थं रैवततीर्थेऽपि यात्रोद्धारौ विधाय सः। अतुच्छरुत्सवः प्राप निर्विघ्नं निजमन्दिरम् ॥ १८९ ॥ स्वर्णरत्नदुकूलादिदानः सम्मान्य नैकधा । प्रापयामास सङ्घानप्यविघ्नं स्वं खमालयम् ॥ १९०॥ प्रासादान् कोटिशोऽप्येष स्फटिकादिभिराहतान् । कारयन् भासयामास शासनं जैनमन्वहम् ॥ १९१ ॥ भरतेश इवाद-13 शेऽन्यदा पश्यन् वपुःश्रियम् । भावयन् भावनामन्तः शिश्रिये केवलश्रियम् ॥ १९२ ॥ प्रपाल्य व्रतपर्यायं पूर्वार्द्ध स
दा०१६
Page #190
--------------------------------------------------------------------------
________________
।
पष्ट प्रकाशः।
दानप्रदीपे: विशुद्धधीः । क्षीणनिःशेषकर्मा सन्नवाप परमं पदम् ॥ १९३ ॥ इत्यादभवन् कामधर्ममोक्षाः क्षितीशितुः । अतः सर्वपुमर्थे
भ्यस्तस्यैवास्तु प्रधानता ॥ १९४ ॥ ॥९१॥
___ अथ पादस्तृतीयोऽपि वादीव प्रत्युवाद तम् । यदवादि त्वया वादिन् ! अर्थस्यैव प्रधानता ॥ १९५॥ तदयुक्तं यतोऽर्थस्य धर्म एव निबन्धनम् । नहि धर्म विना क्वापि भवत्यर्थस्तनूमताम् ॥ १९६ ॥ श्रूयते वस्तुपालोऽपि सङ्गमः पुण्यसङ्गतः। अवाप संपदं दिव्यां जगद्विस्मयकारिणीम् ॥ १९७ ॥ दिनमेकं तथा धर्ममाराध्य द्रमकोऽप्यहो!। त्रिखण्डा|धिपतिर्जज्ञे सम्प्रति पृथिवीपतिः॥१९८॥ धर्मस्याङ्गता सिद्धौ सिद्धा कामाङ्गताऽपि च । अर्थयोगे यतः सर्वाः सुलभाः कामसंपदः ॥ १९९ ॥ द्वयोरपि यथा दुग्धं निमित्तं दधिसर्पिषोः । तथाऽर्थकामयोर्हेतुर्धर्म एव प्रकीर्त्यते ॥२०॥ इहापि धर्मगृह्याणां संपदः स्युः पदे पदे । अत्रार्थे श्रूयतां मन्त्रिधर्मबुद्धिनिदर्शनम् ॥ २०१॥ ___ अभूद्विभूषणं पृथ्व्याः पृथ्वीभूषणपत्तनम् । यत्र स्वं भूषयामासुर्जनाः सद्गुणभूषणैः ॥ २०२॥ यथार्थिताभिधः पापबुद्धिस्तत्र धराधिपः । न जातु रमते यस्य धर्मे रम्येऽपि ही मतिः॥२०३ ॥ धर्मबुद्धिरभूत्तस्य सचिवः सुविचारदृक् । येन सत्यार्थयाञ्चक्रे निजं नामाविरामतः॥२०४ ॥ प्रावर्तत नृपः पापे व्यसनादौ दिवानिशम् । नहि पवं विनाऽन्यत्र रमते| शूकरः क्वचित् ॥२०५॥ अन्येधुः सचिवः प्रोचे पापं भूधव !मा विधाः। पापे प्रवर्तमानस्य क्षीयन्ते संपदो यतः॥२०६॥ सुकृते सत्यपि प्राज्ये दुनीतिहरते श्रियम् । तैलेऽपि किमु नो वात्या विध्यापयति दीपिकाम् ॥ २०७॥ ततः पापं परित्यज्य सम्यग् धर्म समाचर । संपद्यन्ते श्रियो येन वर्द्धमाना दिने दिने ॥ २०८ ॥ प्रत्यूचे तमथोवींन्दुरिह दानव्रता
॥९१॥
Page #191
--------------------------------------------------------------------------
________________
मादिना । सकतेन कृतेनापि संपत् केनापि नाप्यते ॥ २०९ ॥ प्रत्युत व्ययतो धर्मे वैयग्याच्चानुपार्जनात् । प्राक्तनस्यापि वित्तस्य भवेद्धानिर्दिने दिने ॥२१०॥ सम्यगाराधयन्तोऽपि पश्य धर्म परम्शताः । दुःखायन्ते हि दौर्भाग्यदारिद्यावैररनेकधा ॥२११॥ प्रेत्य धर्मात् शुभाप्तिं तु कः प्रत्येति सचेतनः। अतस्तदर्थमात्मानं केशयेत् कः सुधीर्मुधा॥२१२॥ पापे पुनः प्रवृत्तानामिहैव किल संपदः। प्रवर्द्धन्ते मिथः स्पर्द्धावन्धादिव दिवानिशम् ॥ २१३ ॥ तथाहि-कृष्यादिषु महारम्भपापव्यापारकारिणः । न के कौटुम्बिका लोका भवेयुः संपदां पदम् ॥ २१४ ॥ प्राप्तया कूटवाणिज्यपरद्रोहादिपाप्मभिः। संपदा धनदायन्ते पश्य पश्य वणिग्जनाः॥२१५ ॥ पश्य दौःशील्यकौटिल्याद्यनाचारपरायणाः । भुञ्जते है पण्यकामिन्यो भोगान् स्वर्गाङ्गाना इव ॥ २१६ ॥ वयमप्यरिविध्वंसतत्पुरीलुण्टनाद्यधैः । सर्वाङ्गीणप्रवर्धिष्णुं भुज्महे राज्यसंपदम् ॥ २१७ ॥ त्वं तु धमैकदक्षोऽपि न मुझे तादृशीं श्रियम् । याऽपि स्वल्पाऽपि संपत्ते सा मयैव समर्पिता ॥ २१८ ॥ न पुनः पुण्यनैपुण्यात्तव सा समपद्यत । न चेत्तर्हि क्वचिद्गत्वा फलं पुण्यस्य दर्शय ॥ २१९ ॥ श्रुत्वेति सचिवश्चित्तेऽचिन्तयच्चिरकालिकः । अद्य मे सफलीभूयात्तीर्थयात्रामनोरथः॥ २२० ॥ न च देशान्तरप्राप्तिं विना दर्शयितुं क्षमः।अहं पुण्यफलं राज्ञे तत्प्रवासो वरं मम॥२२१॥इत्यादृत्य नृपानुज्ञा व्यपदेशेन तेन सः।शत्रुञ्जयादितीर्थेषु यात्रार्थ प्रस्थितो मुदा ॥ २२२ ॥ नानातीर्थान्ययं भक्त्या नमन् शत्रुञ्जये जिनम् । प्रणन्तुं प्रस्थितः प्राप विकटां काञ्चनाटवीम् ॥ २२३ ॥ तत्रान्तरमिलत्तस्य राक्षसो भीषणाकृतिः । मातुलेत्युच्चरन् सोऽपि धैर्यवान् प्रणनाम तम् ॥२२४॥ राक्षासोऽथ तमाचख्यौ मा वादीर्मातुलेति माम् । यतस्त्वां भक्षयिष्यामि क्षुधितः सप्तवासरान् ॥ २२५ ॥ अमात्योऽपि तमाचष्ट कार्याय ज्याय
Page #192
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ९२ ॥
सेऽधुना । प्रस्थितोऽस्मि तदाधाय प्रत्यागन्ताऽस्मि वेगतः ॥ २२६ ॥ तत्प्रसद्याधुना मुञ्च वलमाने पुनर्मयि । यथारुचिं विधातव्यं त्वदादेशवशोऽस्मि यत् ॥ २२७ ॥ इत्युक्त्या तेन तुष्टेन मुक्तः पुण्यप्रसादतः । मन्त्री प्राप क्रमात्तीर्थं हर्षप्रोमिषदीक्षणः ॥ २२८ ॥ तत्रानम्य युगादीशं प्रपूज्याद्भुतभङ्गिभिः । अयं वन्दितुमारेभे भक्त्या तल्लीनमानसः ॥ २२९ ॥ तदा तदान्तरोदारभक्तिव्यक्तिवशीकृतः । यक्षः प्रत्यक्षतामेत्य गोमुखस्तमभाषत ॥ २३० ॥ त्वद्भक्त्या भद्र ! तुष्टोऽस्मि वरं वृणु यथेप्सितम् । सोऽप्याह प्राप्तधर्मेणापरं किं प्रार्थ्यते मया ॥ २३१ ॥ ततस्तदीयसंतोषतोषितो यक्षनायकः । वितीर्य कामदं कामकुम्भं तस्मै तिरोदधे ॥ २३२ ॥ ततो दिनत्रयं तीर्थसेवया सफलं जनुः । विधाय सचिवः पश्चात्प्रतस्थे कामकुम्भयुक् ॥ २३३ ॥ स एवागच्छतस्तस्य समस्त निशाचरः । त्वामिदानीं हि खादामि खादामीति जगाद च ॥ २३४ ॥ मन्त्र्यप्याह किमेतेन देहेनाऽशुचिना मम । दिव्याहारान् सुधास्वादूनास्वादय दयालय ! ॥ २३५ ॥ क्रव्यादोऽपि जगादैवमस्तु देहि द्रुतं परम् । सोऽप्याशु कामकुम्भेन दापयामास तस्य तान् ॥ २३६ ॥ अथ तान् सुहितः स्वादं स्वादं क्रव्यादुवाद तम् । दिव्यं लकुटमादत्स्व सर्वाभीष्टार्थसाधकम् ॥ २३७ ॥ कामकुम्भं त्विमं मह्यं महाशय ! समर्पय । धीसखोsपि तथाऽकार्षीन सन्तः प्रार्थनाछिदः ॥ २३८ ॥ अथाग्रतो व्रजन् मन्त्री मध्याह्ने बाधितः क्षुधा । कामकुम्भं तमानेतुं लकुटं प्रतिशिष्टवान् ॥ २३९ ॥ लकुटोऽपि द्रुतं गत्वा कुट्टे कुट्टै तमुत्कटम् । निशार्ट सुभटप्रष्ठ इव तं घटमानयत् ॥ २४० ॥ कर्मणामनुकूलत्वे न स्यात्कस्यानुकूलता । शत्रोरेव यतः शस्त्रं संपदे तस्य तच्छिदे ॥ २४१ ॥ अथ तद्वयमादाय मन्त्रीन्द्रः प्रस्थितोऽग्रतः । नत्वा शत्रुञ्जयं प्राप्तं क्वापि श्रीसङ्घमैक्षत ॥ २४२ ॥ अहो ! प्राच्यानि पुण्यानि ममा
षष्ठः प्रकाशः ।
॥ ९२ ॥
Page #193
--------------------------------------------------------------------------
________________
जगण्यानि जाग्रति । यदकस्मादयं सङ्घः पवित्रयति मे दृशौ ॥ २४३ ॥ तदस्य भक्तिं निर्माय निर्ममे सफल जनुः । यदनशान्तगुणं पुण्यं तीर्थयात्रिकसत्कृतेः॥२४४ ॥ एवं विचिन्त्य भुत्यर्थ स सामनघाशयः। भक्त्या निमन्त्रयामास कः प्रमा-12
द्यत्यमूदृशे ॥ २४५ ॥ अथ सद्यः समुत्पन्नां कामकुम्भानुमानतः। श्रीसङ्घ भोजयामास दिव्यां रसवतीमसौ ॥ २४६॥ दुकूलैर्जनताचित्तानुकूलैरुल्लसन्मनाः। रत्नादिखचितैस्तं च समस्तं पर्यदीधपत् ॥ २४७ ॥ ततः सङ्घपतिस्तुष्टो निजवीजनवायुना । सर्वाधिव्याधिविध्वंसि दिव्यं चामरयामलम् ॥ २४८ ॥ हर्षादत्यर्थमभ्यर्थ्य ददौ तस्मै महात्मने । वस्त्वहमुत्तमे पात्रे कः सुधीर्निदधीत न ॥२४९॥ युग्मम् ॥ अथायं तैस्त्रिभिमूतः पुमरिव राजितः। क्रमेण स्वगृहं प्राप महोत्सव इवाङ्गवान् ॥ २५० ॥ इतश्च तद्दिने दध्यौ क्षोणीन्द्रः प्रैषि धीसखः । मया परीक्षितुं धर्म तद्वार्तापि न बुध्यते है | ॥ २५१ ॥ तदहं विदधे धर्मपरीक्षा सम्प्रति स्वयम् । स्यात्तदेव प्रमाणं हि प्रत्यक्षं यत्परीक्षितम् ॥ २५२ ॥ इदमेष्यति यं रत्नं तस्य कर्मानुसारतः। मया पुण्येऽथ वा पापे स्वीकार्या सुखहेतुता ॥ २५३ ॥ इति ध्यात्वा स रत्नेन लक्षमूल्येन |गर्भितम् । बीजपूर रहो दास्या ददौ विक्रेतुमापणे ॥ २५४ ॥ तदानीतं तया शाकापणे तत्क्षणमीयुषी । क्रीत्वा मूल्येन जगृहे स्वगृहे मन्त्रिगेहिनी ॥ २५५ ॥ तया भिन्नात्ततः प्रादुर्भूतं रत्नं प्रभूतरुक् । समर्पि मन्त्रिणे पुण्यपरं संपदुपैति हि ॥२५६ ॥ नृपस्तस्या मुखाद्रत्नं श्रुत्वा मन्त्रिगृहे गतम् । अहो ! धर्मस्य माहात्म्यमित्यभूत्किञ्चिदास्तिकः ॥ २५७ ॥ अथ मन्त्रीश्वरः क्लृप्तजिना भोजनादिकः । प्रत्यक्षं वीक्षतां धर्मफलं राजेति जातधीः ॥ २५८ ॥ स्वर्विमानमिवोत्तीर्ण सद्यः स्वर्णमणीमयम् । प्रासादं कामकुम्भेन सप्तभूममकारयत् ॥ २५९ ॥ युग्मम् ॥ स तत्र जनतानेत्रनियन्त्रणपरं निशि । नृत्यं
Page #194
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ९३ ॥
प्रस्तावयामास द्वात्रिंशद्भेदमेदुरम् ॥ २६० ॥ दर्श दर्श नृपस्तच्च श्रावं श्रावं च विस्मितः । किमिन्द्रजालं किं स्वप्नः स्वर्गः किं वाऽवतेरिवान् ॥ २६१ ॥ इत्याद्याः कल्पनाः कुर्वन्ननेका निद्रयोज्झितः । त्रियामां गमयामास कोटियामात्मिकामिव | ॥ २६२ ॥ युग्मम् ॥ प्रातर्यावन्नृपो मन्त्रिसोधमेति विलोकितुम् । सर्व संवृत्य तन्मन्त्री तावदागान्नृपान्तिकम् ॥ २६३ ॥ चक्रे च प्राभृतं रत्नभृतं स्थालं महीभृतः । सोऽपि तां संपदं दृष्ट्वा पृष्टवांस्तं सविस्मयः ॥ २६४ ॥ कथमार्जिं त्वया संपदियमत्यद्भुता वद । मन्यप्युवाच पुण्येन स्वामिन्नेतामुपार्जिजम् ॥ २६५ ॥ नहि पुण्यं विना किञ्चित् शुभं संपद्यते नृणाम् । इत्याकर्ण्य नृपो मूढ इवासीद्व्यसृजच्च तम् ॥ २६६ ॥ न काऽपि संपदानीता बाहीका श्रूयतेऽमुना । तदयं मे कथं रत्नभृतं | स्थालमढौकयत् ॥ २६७ ॥ कथं वा रचयामास दिव्यमावासमञ्जसा । भ्रामं भ्रामं च किं देशान्तरादानयदद्भुतम् ॥ २६८ ॥ | तत्केनाप्यस्य पश्यामि छद्मना सद्म सद्मतेः । इत्यालोच्य नृपः प्रोचे विहस्यामात्यमन्यदा ॥ २६९ ॥ धर्मेण संपदं प्राप्य | भोजयन्नपि नासि नः । मन्त्रयप्यवोचदद्यैव प्रसादः क्रियतां मयि ॥ २७० ॥ राजा जगाद सामग्री कथं ते भाविनी द्रुतम् । सोऽप्याह धर्मतः सर्व सद्यः संपद्यते मम ॥ २७१ ॥ ॐमित्युक्त्वा नरेन्द्रोऽथ विस्मितो विससर्ज तम् । भोक्तुं च राजकं सर्वमाह्वयत्सपरिच्छदम् || २७२ || मन्त्रिमन्दिरमश्मन्त लुठन्मूषकमण्डलम् । श्रुत्वा जनमुखाच्चैष विस्मयोत्कर्षमा धे ॥ २७३ ॥ अथायं सर्वसामन्ताद्यपारपरिवारयुकू । आहूतस्तेन मध्याह्ने भोक्तुं तद्देहमागमत् ॥ २७४ ॥ कामकुम्भाहृतैस्तैस्तैर्दिव्याहारैः सुधोपमैः । सामन्ताद्यैः समं सद्यः स भूभुजमबूभुजत् ॥ २७५ ॥ दिव्यैश्चित्तानुकूलैश्च दुकूलैः पर्यधापयत् । अथ विस्मयवान् भूपः प्रश्नयामास मन्त्रिणम् ॥ २७६ ॥ दिव्यं वस्तु किमानिन्ये धन्य ! देशान्तरात्त्वया । जायन्ते यत्प्रसादेन
षष्ठः प्रकाशः ।
॥ ९३ ॥
Page #195
--------------------------------------------------------------------------
________________
तव सर्वेष्टसिद्धयः ॥ २७७ ॥ मन्त्री प्राह मया कामकुम्भः पुण्यैरलभ्यत । तं मेऽर्पयेति भूपेन प्रोक्तः पुनरवोचत ।। २७८ ॥ नहि पापवतो गेहे पुण्यायत्तः समेत्ययम् । प्रकाशस्तपनाधीनस्तदभावे भवेत्किमु ॥ २७९ ॥ प्राप्तोऽपि प्रत्युतोल्केव बह्रनर्थाय जायते । यद्यप्येवं तथाऽप्येनमर्पयेत्यवदन्नृपः ॥ २८० ॥ ततस्तस्मै ददौ मन्त्री घटन्ते नापि यत्नतः । परःशतभटारन्धरक्षः कोशे न्यवेशि सः ॥ २८१ ॥ मन्त्रिणाऽथ तमानेतुमादिष्टो लकुटः प्रगे । भटादिकटकं कुद्धं कुद्धं पश्चात्तमानयत् ॥ २८२ ॥ अथावोचन्नृपोऽमात्यं सत्यैवाजनि गीस्तव । परं मे सैन्यमुल्लाघं कुरु त्वं करुणाकर ! ॥ २८३ ॥ झटित्यपीपटत् सोऽपि समीरैश्चामरैश्चमूम् । संपदो हि सतामन्योपकृतौ विहितत्रताः ॥ २८४ ॥ अहो ! धर्मे स्थिरा ते धीरहो ! धर्मस्य ते फलम् । इत्युक्त्वाऽथ दुकूलाद्यैः सच्चक्रे तं मुदा नृपः ॥ २८५ ॥ ततोऽयं भूपतिर्जातप्रत्ययः प्रत्यपद्यत । प्रमोदेनोन्मना जैनं धर्म धीसखसन्निधौ ॥ २८६ ॥ राज्यं प्रपात्य चिरमद्भुत पुण्यकृत्यैस्तैस्तैर्विभास्य जिनशासनमन्वहं तौ । दीक्षामवाप्य विरचय्य तपश्च तीव्रं सिद्धिं समीयतुरसंख्यसुखस्वरूपाम् ॥ २८७ ॥ इत्थं कामार्थमोक्षा हि धर्मादेवाभवंस्तयोः । ततो वदामि धर्मस्य सर्वार्थेषु प्रधानताम् ॥ २८८ ॥
।
अथ पादस्तुरीय स्तमवादीद्वादसादरः । वादिन्नवादि यद्धर्मे प्राधान्यं धीमता त्वया ॥ २८९ ॥ तत्सत्यं किंत्विदं कर्म मार्गमाश्रित्य युज्यते । मध्या एव च तं मार्गमङ्गीकुर्युर्न तूत्तमाः ॥ २९० ॥ दुःखानुगं सुखं दिव्यं मानवीयमपीप्सवः । नानादानादिकं धर्ममाद्रियन्ते हि मध्यमाः ॥ २९९ ॥ उत्तमाः पुनरेकान्तसौख्यं मोक्षमभीप्सवः । प्रापकं तस्य निष्कर्म| मार्गमारादुमुद्यताः ॥ २९२ ॥ तथाहि — प्रवृत्तिर्महतां न्यक्षा प्रेक्षापूर्वककारिणाम् । प्रयोजनाविनाभूता: स्वपरोपकृतिश्च
Page #196
--------------------------------------------------------------------------
________________
दानप्रदीपे
षष्ठः प्रकाश
॥९४॥
तत् ॥ २९३ ॥ सुखस्य प्रापणे सा च तच्चैकान्तिकमक्षयम् । दुःखैरननुषकं च तात्त्विकं न पुनः परम् ॥ २९४ ॥ न च संसारिक सौख्यमस्ति किञ्चन तादृशम् । तस्य तद्वैपरीत्येन सर्वस्याप्युपलब्धितः॥ २९५ ॥ उद्भूतमप्यमृतभोज्यमणीविमानस्वर्गाङ्गनाऽभिमतसिद्धिसुरदुमाद्यैः। ईादसौख्यमयमायतितिर्यगादिदुःखानुबन्धि निखिलं खलु दिव्यसौख्यम् ॥२९६॥ सार्वभौमविभवादिसंभवं मानुषं सुखमसंख्यमप्यदः । रोगशोकजननादिमिश्रितं नारकाद्यसुखदायि चायतौ ॥ २९७ ॥ यद्यनुत्तरदेवानामपि नो सौख्यमक्षयम् । का वार्तास्तु ततस्तस्य तदधःस्थानभाविनः ॥ २९८ ॥ तादृक्षं हि सुखं मोक्षे न्यक्षकर्मक्षयात्मके । प्राप्तिश्च तस्य निष्कर्ममार्गमेव समीयुषाम् ॥ २९९ ॥ अधर्म इव धर्मेऽपि क्षीणे मोक्षो हि जायते । असौ यियासतां तत्र सौवर्णः खलु शृङ्खलः ॥ ३०० ॥ अत एवोत्तमाः कर्ममार्गमुत्सृज्य सर्वथा । मुमुक्षमाणा निष्कर्ममार्गमङ्गीचरीक्रति ॥ ३०१॥ तथाहि प्रथमस्तीर्थनाथो धर्मनयस्थिती । प्रथयन्नपि मुक्त्यर्थमुत्तस्थे सर्वसंवृतः॥ ३०२॥ श्राद्धभक्तितीर्थयात्रोद्धारादिविधिरप्यहो!। स्वीचक्रे भरतश्चक्री मुक्तये सर्वसंवरम् ॥ ३०३ ॥ परःसहौस्त्रिदशैः सेव्यमानः शिवोत्सुकः । षट्खण्डक्षितिसाम्राज्यं सगरो गरवजहौ ॥ ३०४ ॥ सर्वामुरूमलङ्कर्वन्नपूर्वैः सार्वसद्मभिः। जुजुषे हरिषेणोऽपि मोक्षार्थमनगारताम् ॥ ३०५ ॥ प्रजा इव प्रजाः शासन्नयधरैलङ्कृतम् । तत्याज तृणवद्राज्यं श्रीरामोऽपि शिवोन्मनाः ॥ ३०६ ॥ परेऽप्युद्दण्डदोर्दण्डाः पाण्डवाद्याः शिवार्थिनः । प्राज्यमुत्सृज्य साम्राज्यमभजन् सर्वसंयमम् ॥ ३०७ ॥ त्वया दृष्टान्तयाञ्चके मन्त्री धर्मस्थले च यः। यो द्वितीयपदा दण्डवीर्यश्चार्थस्थले नृपः ॥ ३०८॥ तावष्यभ्युद्यतौ मुक्तौ भेजतुः सर्वसंवृतिम् । त्यक्त्वा दानादिकं धर्ममद्भुतां तां च संपदाम् ॥ ३०९ ॥ ततोऽशेषपुमर्थेषु सिद्धा
॥१४॥
Page #197
--------------------------------------------------------------------------
________________
मोक्षस्य मुख्यता । त्यजन्ति तत्कृते धर्मकामार्थानपि यदुधाः ॥ ३१ ॥ ___ अथोवाद पुनः पादस्तृतीयस्तं विदांवरः । यन्मोक्षे मुख्यताऽऽख्यायि भवता सत्यमेव तत् ॥ ३११ ॥ परं संप्रति नास्मासु सिद्धिसाधनयोग्यता । तां हि साधयितुं शक्तः सम्यग्ज्ञानादिमान्नरः ॥३१२॥ धर्मोऽपि भावपूजात्मा नास्माकमुपपद्यते । स्वीकर्तुं विरतिं स्तोकामपि नालं वयं यतः॥३१॥ शक्यते कर्तुमस्माभिर्द्रव्यपूजात्मकस्तु सः। ततस्तं धर्ममाराद्धं युज्यतेऽस्माकमुद्यमः॥३१४ ॥ धर्मादेव हि मानुष्यमार्यदेशः शुभं कुलम् । आरोग्यादि च दुष्प्रापं प्राप्यते सिद्धिसाधनम् ॥ ३१५ ॥ निशाऽप्यद्यापि न स्तोका द्रव्यभक्तिं ततोऽर्हताम् । गत्वा शाश्वतचैताढ्यं वैताढ्यं कुर्महे वयम् ॥३१६ ॥ जिनभक्तिर्यदेकाऽपि प्रापिका सर्वसंपदाम् । इति तद्गदितं पादैः प्रत्यपादि परैरपि ॥ ३१७ ॥ अहो ! युक्तिमयं वादं कथमेते वितेनिरे । कथं चातिष्ठिपन स्पष्टं प्रष्ठतां धर्ममोक्षयोः ॥ ३१८ ॥ प्रतितौ च स्फुरत्येषामादरः कीदृगान्तरः । तन्मनीषाजुषामेषां न शस्य कस्य कौशलम् ॥ ३१९ ॥ ममाप्युजागरं भाग्यमहो ! स्फूर्जति संप्रति । श्रुत्वा वादमभूदेषां यन्मे धर्मे दृढा मतिः ॥ ३२० ॥ साहायकेन यच्चैषां वन्दिष्ये शाश्वतार्हतः । इति ध्यायन् नृपस्तस्थौ गुप्ताङ्गस्तत्र योगिवत् ॥ ३२१ ॥ अथ ते वियति स्फारपक्षव्यापारचारिणः । समश्चाः सममुत्पेतुस्तााः प्रक्षरिता इव ॥ ३२२ ॥ प्राप्ताः क्षणेन वैताढ्यं बहिर्मश्च विमुच्यते । प्राविक्षन् यक्षरूपेण सहर्ष जिनवेश्मनि ॥३२३॥ तत्र ते प्रतिमा रानीराहतीः शाश्वतीर्मुदा । प्रणम्य पूजयामासुः कल्पद्रुकुसुमादिभिः ॥ ३२४ ॥ तत्र चातन्यमानानि किन्नरैः कोमलस्वरैः । नृत्यानि ते व्यलोकन्त तदेकन्यस्तलोचनाः ॥ ३२५ ॥ पार्थिवोऽप्युत्थितः सोऽथ दृष्ट्वा प्रासादमद्भुतम् । ज्योतिरुयोतिताकाशं
Page #198
--------------------------------------------------------------------------
________________
दानप्रदीपे
विस्मयस्मेरितोऽभवत् ॥ ३२६ ॥ रहः प्रविश्य तस्यान्तः प्रतिमाः सुषमाद्भुताः। प्रणम्य जन्मनः स्वस्य प्रामाण्यं मन्यते षष्ठः स्म सः॥ ३२७ ॥ संगीतव्यग्रिते स्वर्गिवर्गे तत्र स्थितः क्वचित् । अपश्यत् सोऽपि लास्यानि स्तम्भिताङ्ग इव स्थिरः|| प्रकाश |॥३२८॥ अमी पुण्यवतां मुख्या यक्षाः प्रख्यातकीर्तयः। ये नमस्कुर्वते नित्यमद्भुताः प्रतिमा इमाः ॥३२९॥ अहो । नृत्यकलाऽमीषामीक्षा क्वापि नेक्ष्यते। जननेत्रकुरङ्गाणां वागुराया विराजते॥३३०॥ अमी शस्याः सदस्याः स्युन केषामनिमेषया। दृशा पश्यन्ति ये लास्यममूदृशमहर्निशम् ॥ ३३१ ॥ इतिध्यानधरो नृत्तदत्तनेत्रद्वयस्तदा । त्रियामां कामयामास भूरि-3 यामां महीपतिः॥ ३३२ ॥ चतुर्भिः कुलकम् । अथाचचक्षिरे यक्षाश्चत्वारस्ते परस्परम् । दोषास्तोकाऽवशेषाऽस्ति ग्रीष्मकूलंकषा यथा ॥ ३३३ ॥ जागरिष्यति पल्यः सुप्तः स खलु मानुषः । वराकश्चाकुलो भावी ग्रामानीतकुरङ्गवत् ॥३३४॥ तस्याकुलतया जातु विपत्तिर्मा स्म भूदिति । स्थाने तं मोक्तुमस्माभिः सम्प्रति प्रतिगम्यते ॥ ३३५ ॥ इत्याकर्ण्य तदालापं सहसा वसुधाधिपः । पश्चादागत्य पल्यके पटीं प्रावृत्य सुप्तवान् ॥ ३३६ ॥ तेऽपि क्षणान्तरे प्राप्ताः प्रपन्नाः पादरूपताम् । |सपद्युत्पाद्य पल्यत प्रापिपन् नृपमन्दिरम् ॥३३७॥अथ पृथ्वीपतिः प्रातः सचिवं प्रत्यवोचत । समस्तं रजनीवृत्तं निमित्तं चित्रनिर्मिती ॥ ३३८॥ तदाकर्ण्य सकर्णानामुत्कर्णीकृतिकारणम् । वितेनुर्विस्मयस्मेरं हृदयं सचिवादयः॥३३९॥वास्तवं
कस्तव स्तोतुं प्रभूष्णुः शिल्पकौशलम् । अपि तं विश्वकर्माणं सुतरामत्यशेत यत् ॥ ३४० ॥ इत्यस्तोकमुपश्लोक्य शिल्पिनं |तं महीपतिः। परोलक्षैर्मणिस्वर्णभूषणाद्यैरतूतुषत् ॥३४१॥ वसुंधरां धराधीशो विविधाश्चर्यबन्धुराम् । दर्श दर्श वितन्वानश्चरितार्थे स्वलोचने ॥३४२ ॥ अष्टापदादितीर्थानि वन्दं वन्दं प्रमोदतः । सफलं मानुजं जन्म मन्यमानं
SAMAALOCALGAACHAR
॥९५॥
Page #199
--------------------------------------------------------------------------
________________
स्वमानसे ॥ ३४३ ॥ तस्मिन् सुखं समासीनः स्वेच्छया वियदङ्गणे । रेमे विमानमारूढो विद्याधर इवान्वहम् ॥ ३४४ ॥ त्रिभिर्विशेषकम् ॥ अन्यदा संमदाद्भूपः शिल्पिराजं जजल्प तम् । न मे मञ्चस्थितिः शोभाहेतुः किन्तु त्रपाकरी ॥ ३४५॥ सकलास्त्वयि चानल्पाः सन्ति शिल्पकलाः किल । रत्नजातिन सा काऽपि रोहणे या हि नाप्यते ॥ ३४६ ॥ तत्पल्यङ्कवदाकाशप्रसर्पणपरायणम् । मह्यं निर्माय निर्माहि करिरत्नं प्रयत्नतः॥ ३४७॥ ततो जजल्प तं शिल्पी देव ! दिव्यममूदृशम् । दृश्यते दारु नारण्ये येन निर्मीयते गजः॥ ३४८॥ देव ! भाग्यभरादेव दृश्यते दारु तादृशम् । वने वने किमु भवेत् सुप्रापः कल्पपादपः॥ ३४९ ॥ पुनस्तं पार्थिवः स्वार्थनिष्टःप्रोचे तथाऽपि तत् । गत्वा बहुप्रकारेषु कान्तारेषु गवे|षय ॥ ३५० ॥ सार्थे यथेप्सितं वित्तं गृहाण मम कोशतः । साहायकाय साकं च ममाकारय सेवकान् ॥ ३५१ ॥ भरितानमितास्वाद्यखाद्यभोज्यादिवस्तुभिः । आदत्स्व सार्धमध्वन्यनन्दनान स्यन्दनानिमान् ॥ ३५२ ॥ इति प्रसादमस्तोकमालोक्य नृपतेवेचः। प्रपद्यादाय सामग्री स जगाम वनं सुधीः॥ ३५३ ॥ पत्तिवारपरीवारश्चचारायमनारतम् । वनान्तरे
परं दारु प्राप कल्पद्रुवन्न तत् ॥ ३५४ ॥ वनान्तः पश्यतस्तस्य षण्मासा अत्ययासिषुः । अन्येद्युः स महावृक्षं दिव्यं मातादृक्षमैक्षत ॥ ३५५ ॥ प्रपूज्य विधना धूपकर्पूरकुसुमादिभिः। चिच्छेद तमविच्छेदमयं चिन्तामिव प्रभोः॥ ३५६ ॥
अथैत्य स गृहे तेन दलिकेन महोन्नतम् । निर्मिमीते स्म हस्तीन्द्रमिन्द्रद्विपमिवापरम् ॥ ३५७ ॥ राज्ञस्तमर्पयामास प्रशस्ते दिवसे च सः। भृशं जहर्ष राजाऽपि वीक्ष्य तं न्यक्षलक्षणम् ॥ ३५८ ॥ ततश्चिन्ताधिकं वित्तं तस्मै दत्ते स्म भूपतिः। लाघवं नोचितं नेतुं मूल्येनाद्भुतवस्तु यत् ॥ ३५९ ॥ अथ तं प्रौढमारूढः करिणं व्योमचारिणम् । ऐरावणाधिरूढस्य
Page #200
--------------------------------------------------------------------------
________________
दानप्रदीपे
शोभां जम्भभिदो भजन ॥ ३६० ॥ पश्यन् जनपदग्रामनगरादिमनोहराम् । वसुधां वसुधाधीशः कं न चित्रीयते स्म सः षष्ठः ॥ ३६१ ॥ युग्मम् ॥ तेन विद्युदिवापत्य सहसा स विहायसा । शिक्षयामास दुःशिक्षानपि विद्वेषिणः क्षणात् ॥ ३६२॥ प्रकाशः। तमारूढमति प्रौढप्रभं स्वैरविहारिणम् । दुरालोकं तमालोक्य सुपर्णस्थमिवाच्युतम् ॥ ३६३ ॥ सकलाः प्रतिभूपाला भृशमूर्जस्वला अपि । तस्याज्ञां लालयामासुः स्वमौलौ किंकरा इव ॥ ३६४ ॥ युग्मम् ॥ एवं स बुभुजे राज्यमेकच्छत्रपवित्रि|तम् । किं न संपद्यते पुंसां पूर्वसञ्चितपुण्यतः॥ ३६५ ॥ अन्यदा नगरोद्यानममानज्ञानभूषिताः। भूषयामासिवांसः श्रीधमघोषगुरूत्तमाः ॥३६६॥राज्ञे व्यजिज्ञपद्गुर्वागमनं वनपालकः । तेन नव्याम्बुदेनेव शिखीव मुमुदे नृपः॥३६७ ॥ पारि-13 तोषिकदानेन क्षितीन्द्रस्तमतूतुषत् । मुह्यन्ति क्वचिदौचित्ये कृत्ये किमु विपश्चितः ॥३६८॥ ततः समस्तसामन्तपौरलोकपरिप्कृतः । सद्यः प्रोद्यत्तमानन्दस्तदुद्यानमवाप सः॥ ३६९ ॥ प्रणम्य विधिना सूरीन् दूरीकृतकुकर्मणः। तदुपान्ते नरेन्द्राद्या निषेदुर्भक्तिमेदुराः ॥ ३७० ॥ पुरस्तेषामशेषांहस्तमोनाशनभानुभा । देशना निर्ममे शर्मकरी सूरिपुरन्दरैः॥ ३७१ ॥ तां | निपीय मनोहत्य परां संमदसंपदम् । प्रपेदिरे नरेन्द्राद्याश्चकोराश्चन्द्रिकामिव ॥ ३७२ ॥ प्रस्तावं प्राप्य भूपस्तानूचेऽथ विनयाञ्चितः। विश्वविश्वदृशां सर्व सुदर्श हि भवादृशाम् ॥ ३७३ ॥ तदादिशत दादिदिव्यवस्तुत्रयान्विता । राज्यश्रीरियमासादि केन सत्कर्मणा मया ॥ ३७४ ॥ ततो गिरं गुरुवरा जगदुर्जगदर्चिताः । सर्वं शुभासुभं भूप! पूर्वकम गामुकम् ॥३७५॥ दिव्यवस्तुत्रयोपेतं साम्राज्यमिदमूर्जितम् । त्वयाऽर्जितं यथा राजन् ! सकर्णाकर्ण्यतां तथा ॥३७६ ॥
बभूव भरतक्षोणीस्मिताक्षीस्वर्णकुण्डलम् । अभङ्गमङ्गलश्रीणामालयो मङ्गलं पुरम् ॥ ३७७ ॥ प्रणम्रानेकभूपालमौलि
॥२६॥
6
Page #201
--------------------------------------------------------------------------
________________
लालितशासनः। पृथ्वीपालः क्षमापालः पालयामास तत्पुरम् ॥ ३७८॥ प्रत्यर्थिपार्थिवस्त्रैणनयनाम्बुनवाम्बुदः चित्रं प्रवर्द्धयामास तत्प्रतापहुताशनम् ॥ ३७९ ॥ श्रेष्ठी लक्ष्मीधरस्तत्र बभूव पुरुषोत्तमः। सुदर्शनधरः श्रीमान् लक्ष्मीधर इवापरः॥ ३८० ॥ न केवलं भूधवराज्यकार्यधुरोद्धृतौ सर्वधुरीणतां यः। दधार शुद्धाहतधर्मसम्यगाराधनायामपि धीनिधानम् ॥ ३८१॥ तत्रान्यदा पुरे प्राप धर्मसारगुरूत्तमः। श्रुतपारङ्गमः सम्यग्धर्मारामघनागमः ॥ ३८२ ॥ पृथ्वीपालनृपः पौरलोको लक्ष्मीधरस्तथा । अहंपूर्विकयागत्य नमस्यामास तं गुरुम् ॥ ३८३ ॥ विहिताऽशेषसंशीतिनाशनां धर्मदेशनाम् । गुरोराकर्णयामासुरुत्को भूधनादयः॥ ३८४ ॥ अथ कम्बलिकामात्रमासनं वीक्ष्य खिन्नवान् । लक्ष्मीधरः स्फुरद्भक्तिसुभगं भावुकाशयः॥ ३८५ ॥ निजचित्तमिवात्युच्चं स्वपुण्यमिव निश्चलम् । स्वानन्दमिव विस्तीर्णमानाय्य स्वनिकाय्यतः I॥ ३८६॥ श्रीगुरोःपुरतः पट्टमुपढौक्य प्रमोदतः। तत्रासनार्थमत्यर्थमर्थयामासिवानिमम् ॥ ३८७ ॥ त्रिभिर्विशेषकम् ॥ यूयं त्रिजगतीपूज्या ज्यायांसो गुणसंपदा । ततो निम्नासने नैव युक्तं युष्माकमासनम् ॥ ३८८ ॥ सिंहासने समासीनाः शोभन्ते हि भवादृशाः। युक्तो हि जात्यरत्नस्य निवेशः स्वर्णभूषणे ॥३८९ ॥ ततः प्रसद्य पट्टेऽस्मिन्नास्यतां नाश्यतां च मे । दुरितं यन्महात्मानः परानुग्रहसाग्रहाः ॥ ३९॥ अथ श्रेष्ठिनमाचष्ट गुरुप्रष्ठः पटिष्टवाक् । इदं विदम्भया भक्त्या विज्ञ! विज्ञप्यते त्वया ॥ ३९१ ॥ परं दारुमयं जन्तुदयायै शयनासनम् । वर्षास्वेव मुमुक्षूणामुपादिक्षन् जिनेश्वराः ॥ ३९२ ॥ अष्टासु परिशिष्टेषु मासेषु पुनरौर्णिकम् । अमूढलक्षाः सर्वज्ञा भाषन्ते हि हितावहम् ॥ ३९३ ॥न चोच्चासनमात्रेण तुङ्गता सङ्गता नृणाम् । अन्तरङ्गगुणश्रीभिरविनाभाविनी हि सा ॥ ३९४ ॥ वर्षाकालं विना प्राज्ञा ये
Page #202
--------------------------------------------------------------------------
________________
षष्ठः प्रकाशः।
दानप्रदीपेपट्टाछुपभुञ्जते । न ते चारित्रिणो ज्ञेयास्त्यक्ताचारा हि ते स्मृताः। ३९५ ॥ यत उक्तमावश्यकनियुक्ती
"ओसन्नो वि अ दुविहो सके देसे अ तत्थ सबंमि । उउबद्धपीठफलगो ठविअगभोई अनायवो ॥१॥". * दीयते दायकेनापि मुनीन्द्रेभ्यो मनस्विना । जिनाज्ञां मन्यमानेन सर्व हि विधिपूर्वकम् ॥ ३९६ ॥ फलातिशयसिद्ध्यै
हि दानं सर्वविदाज्ञया । सस्याय जायते बीजं नातं विधिना विना ॥ ३९७ ॥ मुनीनामासनस्यापि दानं विधिपुरस्सरम् । स्वातितोयमिवावश्यं कल्पते मौक्तिकश्रिये ॥ ३९८ ॥ ततो विवेकिना देयं सर्वज्ञाज्ञानुसारतः। मुनीनामासनं येन शिवे स्वस्यासनं भवेत् ॥ ३९९ ॥ गिरं गुरुवरस्येति श्रुत्वा तत्त्वार्थदेशिनीम् । श्रेष्ठी चित्ते भृशं हृष्टः पट्ट प्रेषितवान् गृहे ॥४०॥ समयाह मया देयं मुनीनामासनं सदा । इत्यभिग्रहमुत्तुङ्गसंवेगादयमग्रहीत् ॥४०१॥ सम्यक्त्वादीनि पु. ण्यानि प्रतिपद्य नृपादयः । वहन्तः परमां प्रीतिं प्रापुः सर्वे यथागतम् ॥ ४०२॥ श्रेष्ठी पुनः स तत्कालासनयोग्यानदान्मुदा । प्रेत्य स्वशम्बलानीव कम्बलान् विमलान गुरोः॥४०३॥ मासकल्पस्य पर्याप्ती प्राप्तः श्रीगुरुरन्यतः । विहङ्गानां | मसङ्गानां द्वयानां हि स्थितिः समा ॥ ४०४ ॥ श्रेष्ठ्यप्यन्वहमुत्कृष्टधर्मानुष्ठाननिष्ठधीः । जीवितव्यमिवात्मीयं नियम तमपालयत् ॥ ४०५॥ विहरन्नवनौ तस्मिन् धर्मसारगुरुः पुरे। पुनस्तत्प्राक्तनागण्यपुण्यनुन्न इवागमत् ॥ ४०६ ॥ तत्र वर्षाचतुर्मासीमध्यासामासिवांश्च सः । साम्राज्यं श्रेष्ठिनस्तस्य वितरीतुमिवाद्भुतम् ॥ ४०७ ॥ पुण्यवल्लिवसन्तस्य गुरोस्तस्य समागमे । भृशं वनप्रियस्येव पिप्रिये तस्य मानसम् ॥ ४०८ ॥ वितन्वानः स निःसीमवासनावान् दिवानिशम् । पुण्यान्यावश्यकादीनि वरिवस्यां बभूव तम् ॥ ४०९ ॥ अपरेऽपि नरेन्द्राद्याः पुण्यसौरभलोलुभाः।
॥९७ ॥
Page #203
--------------------------------------------------------------------------
________________
- सिषेविरे सहर्षास्तं भ्रमरा इव वारिजम् ॥ ४१० ॥ वर्षासनार्थं प्रथमं गुरुमर्थयते स्म सः । के समुत्सुकायन्ते स्वहिते हि सचेतसः ॥ ४११ ॥ गुर्वादेशात्ततस्तस्यावासमासनशुद्धये । साधुसङ्घाटकः प्राप मूर्तो धर्म इव स्वयम् ॥ ४१२ ॥ हृष्टः कनिष्ठभूयिष्ठप्रासुकान्यासनैः समम् । तत्पुरः प्रकटीच वर्यपदं तमेव सः ॥ ४१३ ॥ विज्ञाय नवकोटीभिस्तच्छुद्धिं शुद्धबुद्धितः । साधुसङ्घाटकः पश्चादेत्य सूरिं व्यजिज्ञपत् ॥ ४१४ ॥ श्रेष्ठी च गुर्वनुज्ञायां मुनिभ्यस्तं समापिंपत् । न्यासीकर्तुमिव स्वस्य राज्याप्तौ पुनरीप्सया ॥ ४१५ ॥ निषसाद गुरुस्तत्र यतिभिः प्रतिलेखिते । कटरे श्रेष्ठिनस्तस्य भाग्यं जागर्त्यभङ्गरम् ॥ ४१६ ॥ पूर्वाद्रिमिव तं पहं प्रौढमारूढवान् गुरुः । स्फुरन्महातपस्फातिर्भास्वानिव यमप्रसूः ॥ ४१७ || सच्चक्रानन्दिनीर्ना नापुण्य मार्गप्रकाशिनीः । समग्रजगतीजन्तु प्रबोधनविधायिनः ॥ ४१८ ॥ तमस्काण्डान्यखण्डानि शतखण्डानि कुर्वतीः । प्रात विस्तारयामास प्रत्यहं स्वगवीततीः ॥४१९ ॥ त्रिभिर्विशेषकम् ॥ पुण्योद्योतं वितन्वानं दर्श दर्शममुं सदा । श्रेष्ठी कोक इवास्तोकमाननन्द पुनः पुनः ॥ ४२० ॥ मदीयं पट्टमारूढाः प्रौढायां संसदि स्वयम् । गुरवः कुर्वते धर्मदेशनां पाप्मनाशिनीम् ॥ ४२१ ॥ मुनयः सुखमासीना मदीयेष्वासनेष्वमी । वाचनाध्यापनादीनि | पुण्यान्यन्येऽपि तन्वते ॥ ४२२ ॥ ततो मे नूनमन्यूनं पुण्यं स्फुरति पक्रिमम् । नहि कार्यविशेषः स्याद्विनाकारणसौष्ठवम् ॥ ४२३ ॥ रेखा श्रावकसङ्ख्यायां सोन्मेषा वाद्य मेऽभवत् । सफलाः संपदश्चैताः समपद्यन्त मेऽधुना ॥ ४२४ ॥ |भविता चाचिरं कश्चिदाश्चर्यो मे महोदयः । रजन्यां हि प्रभोद्भेदः सूर्योदयनिवेदकः ॥ ४२५ ॥ एवं श्रेष्ठी वरिष्ठानुमो| दनास्वर्नदीरसैः । उक्षामास निजं दानपुण्यकल्पद्रुमं तथा ॥ ४२६ ॥ विस्तृतः शतशाखाभिः सच्छायासुखमक्षयम् ।
Page #204
--------------------------------------------------------------------------
________________
दानप्रदीपे
तन्वानः फलिता मोक्षफलमप्यचिराद्यथा ॥ ४२७ ॥ सप्तभिः कुलकम् ॥ इत्यभङ्गेन रङ्गेण यावजीवमभिग्रहम् । चिन्ता
षष्ठः मणिमिवाराध्यमारराध स शुद्धधीः॥ ४२८ ॥ ततः स सम्यग्विधिना विहाय तं भवं विशुद्धासनदानपुण्यतः । प्रशस्तव- प्रकाश, स्तुत्रयराज्यसंपदः प्रभुभवानत्र बभूव भूपते ! ॥ ४२९॥
श्रुत्वेति पूर्व भवमुद्भवन्नवप्रमोदपूरः करिराजभूपतिः। प्रवर्धमानाध्यवसायशुद्धितस्तदैव जातिस्मरणं समासदत् ॥४३०॥ ततः स भूपः स्वयमप्यमुं समं विलोकयामास यथागुरूदितम् । प्रादोषिकं वृत्तमशेषमात्मनः प्रगे यथा जागरितः सचेतनः In४३२॥ अथायमानम्य मुदा जगौ गुरुं प्रभो ! भवद्भिजेंगदे यथास्थितः। पूर्वो भवो मे स्वयमप्यवेक्ष्यते तथैव जातिस्मतितो मया यतः॥ ४३२॥ भवादृशां ज्ञानमहो । विभासते स्वभूभुवो भावविभासनव्रतम् । भेजुः पुरो यस्य दिवाकरादयः खद्योतपोतायितमेव केवलम् ॥ ४३३ ॥ अहो ! मुनीन्द्रासनदानमात्रजं पुण्यं यदीयो महिमायमद्भुतः । न पुण्यम-12 न्यूनमृते च दीक्षया तद्दीयतां सा यदि योग्यताऽस्ति मे ॥ ४३४ ॥ अथाचचक्षे स विचक्षणो गुरुनियोगतो भोगफलस्य 8 कर्मणः। न योग्यता सम्प्रति संयमस्य ते गृहाण धर्म गृहिणां तदाऽग्रिमम् ॥ ४३५॥ ततो नृपः श्रीगुरुपुङ्गवान्तिके सत्यापनं सर्वशुभोदयश्रियाम् । श्रद्धानिधिादशधा बुधाधिपो गृहस्थधर्म प्रतिपन्नवान् मुदा ॥ ४३६ ॥ परेऽपि सामन्तपुरोहितादयः सुपात्रदानादिकधर्मकर्मणि । प्रपेदिरे सादरतां प्रमोदतः प्रमाद्यति प्रत्ययिते हि कः पुमान् ? ॥ ४३७ ॥ neen ततः समं पौरजनेन सूरये प्रणम्य भूपः स्वपुरीमुपेयिवान् । धर्म सुपर्वदुमिवान्तरादरादाराधयामास विशुद्धमानसः ॥ ४३८ ॥ तद्यथा
पुरोहितादयः सुपात्रदानापाम् । श्रद्धानिधिादशधा बुधाया तदाऽनिमम् ॥ ४३५॥ ततो प्रसार
Page #205
--------------------------------------------------------------------------
________________
रोणि श्रीजिनार्चाः कनकमणिमयीर्दत्तचित्तप्रसादान् प्रासादास्तीर्थयात्राः सततबहुमतामात्रपात्राश्च तन्वन् । प्राज्यं राज्यं स के सुचिरमघचयोच्छेददक्षां च दीक्षामासाद्य क्षीणकर्मा स्थिरतरमतनोदासनं सिद्धिसौधे ॥ ४३९ ॥ फलमेितां करिराजभूपतेराकर्ण्य मुन्यासनदानशाखिनः। ऐकाय्यतः प्राग्रफलाभिलाषुकास्तमेव सेवध्वमहर्निशं बुधाः॥४४०॥
॥ इति श्रीजगच्चन्द्रसूरिसन्ताने श्रीतपागच्छनायक-श्रीदेवसुन्दर-सूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानप्रदीपनाम्नि .
प्रन्थे पात्रासनदामप्रकाशनः षष्ठः प्रकाशः॥०॥ ४९२ ॥
154545555%AX
Page #206
--------------------------------------------------------------------------
________________
दानप्रदीपे।
॥९९ ॥
॥ अथ सप्तमः प्रकाशः॥
सप्तमः श्रीगौतमः संपदमक्षयां मे ददातु यत्तेन वितीर्यमाणम् । अक्षय्यतामञ्चति वस्तु तेषां तपस्विनां पायसवत् समग्रम् ॥१॥४॥
प्रकाशः। अथाहारप्रदानाख्यः साक्षी मोक्षसुखश्रियाम् । तुरीयः स्तूयते भेदो धर्मोपष्टम्भदानगः ॥२॥ उपादानं हि देहस्याहारः पुण्योपकारिणः । शय्यादीनां पुनदृष्टा सहकारिनिमित्तता ॥३॥ ततः सर्वेषु दानेषु मुख्यं तद्दानमिष्यते । बीजाधानमिव क्षेत्रव्यापारेष्वखिलेष्वपि ॥४॥ तस्मिन्नेव तृतीये वा भवे सिद्धिर्भवेन्नृणाम् । अन्नदानानुभावेन जिनेन्द्रादि-18 मपारणे ॥५॥जनेऽपि श्रूयतेऽन्नस्य सर्वेभ्योऽपि प्रधानता । तथाहि रामः कान्तारे स्थित्वा द्वादशवत्सरीम् ॥६॥ निहत्य रावणं लङ्काधिपत्यमधिगत्य च । अयोध्यामागतोऽप्राक्षीदन्नक्षेमं महाजनम् ॥७॥ युग्मम् ॥ अथान्योन्यं वितन्वानं व्यावहासी विलोक्य तम् । धीमान निमन्त्रयामास भोजनाय जनाधिपः ॥८॥ तस्यासननिविष्टस्य प्रकृष्टानि स्वकोशतः। रत्नानि स विशालेषु स्थालेषु पर्यवेषयत् ॥९॥ विलोक्य तं मिथो वक्रव्यावलोकीपरं नृपः। भुज्यते किं न. युष्माभिरित्यवोचत सस्मितम् ॥ १०॥ शक्यते भोक्तुमस्माभिषा रसवती नवा । इत्याख्यान्तं तमाचख्यौ सोपालम्भ पुनर्नृपः॥११॥ उपाहस्ये कथं तर्हि प्रश्नयन्नन्नमङ्गलम् । न वित्थ सकलार्थेभ्यो यदन्नस्य प्रधानता ॥ १२॥ नियन्ते । यदसंपत्तौ द्रुतं यस्य च संभवे । जीवन्त्यारडूमाराजं सर्वे पश्यत जन्तवः॥ १३ ॥ यस्योत्पत्तिश्च दुःसाधा व्ययः पुनरनारतम् । तस्यैवाशनरत्नस्य कुशलप्रश्नयोग्यता ॥ १४॥ यत उक्तम्
"पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा नियोजिता ॥१॥"
॥
Page #207
--------------------------------------------------------------------------
________________
तथेति प्रतिपद्याथ क्षमयामास तं जनः। भोजयित्वा च तं प्राज्यभोज्यानि व्यसृजन्नृपः॥ १५॥ ततः सर्वत्र तहानं शस्त पाने विशिष्य तु । सस्योपकारिणी वृष्टिः शुक्तौ मुक्ताकरी न किम् ॥१६॥ एक एव भुवि श्रेयान् श्रेयांसःश्रेयसां निधिः। युगादावादिदेवाय यो ददे रसमैक्षवम् ॥ १७ ॥ यश्च प्रवर्तयामास बहुधान्योपकारिणीम् । प्रथमं भरतक्षेत्रे पात्रदानाम्बुसारणीम् ॥ १८ ॥ अज्ञास्यत् को मुनीन्द्राणां कल्प्याकल्प्यमिहान्यथा । व्याख्यास्यद्यदि तन्नैष जातिस्मृत्या पुरो नृणाम् ॥ १९ ॥ पात्रदानवशादेव देवभोगमनोरमाम् । सद्यः संपदमासेदुः शालिभद्रादयोऽद्भुताम् ॥ २०॥ अहो! सुपात्रदानस्य माहात्म्यं स्तुमहे किमु । यत्रानमात्रतः स्वर्गापवर्गश्रीः सुसङ्गमा ॥ २१ ॥ यो यतीनामुपष्टम्भं विधत्तेऽशनदानतः । तेन तीर्थाव्यवच्छित्तिनिर्ममे परमार्थतः ॥ २२ ॥ धर्मो देहात् स चाहारान्न चायमनगारिणाम् । तस्य दानविधौ । तेषां तद्यतेत सचेतनः ॥ २३ ॥ सिद्ध्यै तच्च त्रिधा शुद्ध देयदातृगृहीतृभिः । विशुद्धमेव यद्बीजं जायते शस्यसंपदे ॥२४॥ द्विचत्वारिंशता दोषैर्यत्राधाकर्मिकादिभिः । देयं न दूषितं दक्षा देयशुद्धं तदाऽभ्यधुः ॥ २५ ॥ इदमेव भवेद्दातुरलं फलसमृद्धये । स्यादुपेयं यतः शुद्धमुपायस्यैव शुद्धितः॥२६ ॥ विधत्ते नेषणीयं हि दसं पात्रेऽपि भक्तिः । दातुर्दान
| फलप्राप्ती स्वल्पायुष्टादिदौष्टवम् ॥ २७ ॥ तदुक्तं श्रीस्थानाङ्गे18 “तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरंति, तं जहा-पाणे अइवाएत्ता भवइ मुसं वइत्ता भवइ । तहारूवं
समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ । इच्चेएहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरंति॥"...
कॐॐॐॐॐॐॐॐॐॐॐ
SSSSSSSSSSSS
Page #208
--------------------------------------------------------------------------
________________
दानप्रदीपे
सप्तमः प्रकाश
॥१०
॥
KASARASHTRA
. तदेव ग्राहकस्यापि परिणामहितावहम् । तच्छुद्ध्या ह्यविनाभूता तस्य चारित्रशुद्धता ॥ २८ ॥ जिनाज्ञाभङ्गमिथ्यात्वप्रमुखा दुःखलक्षदाः। यतीनां प्रत्यपायाः स्युरशुद्धाहारभोजिनाम् ॥ २९॥ तथा चोक्तं श्रीपञ्चमाङ्गे| "आहाकम्म णं भुंजमाणे समणे निग्गंथे किंबंधइ किंपगरेइ किंचिणाइ किं उवचिणाइ ?, गोयमा! आहाकम्मं गंभुंजमाणे समणे निग्गंथे आउअवज्जाओसत्तकम्मपगडीओसिढिलबंधणबद्धाओ धणिअबंधणबद्धाओ पगरेइ । हस्सकालहिआओ दीहकालहिं मंदणुभावाओ तिवभावाओ पगरेइ । अप्पपएसगाओ बहुप्पएसं । आउअंच णं कम्मं सिअ बंधइ सिअनो। अस्सायावेयणिजं च णं कम्मं भुजो भुज्जो उवचिणाइ । अणाइअं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरिअट्टइ। से केणटेणं भंते ! एवं वुच्चइ ? आहाकम्मं जाव अणुपरिअट्टइ, गोयमा ! आहाकम्मं भुंजमाणे आयाए धम्म अइक्कमइ । आयाए धम्मं अइक्कमाणे पुढविकायं नावकंखइ जाव तसकायं नावकंखइ । जेसि पि य णं जीवाणं सरीराई आहारेइ । ते जीवे नावकंखइ से एएणद्वेण गोयमा! एवं वुच्चइ आहाकम्मणं मुंजमाणे जाव अणुपरिअट्टइ ॥” इति ॥ . | अहो ! वित्तमिदं शुद्धं चित्तं श्रद्धाञ्चितं च मे। अहो ! सर्वगुणश्रीणां पात्रं पात्रमिदं पुनः ॥ ३०॥ वित्तं कस्यापि कस्यापि चित्तं कस्यापि तद्वयम् । वित्तं चित्तं तथा पात्रं त्रयमप्यद्य मेऽभवत् ॥ ३१॥ इत्यन्तश्चिन्तयन् प्रीत्या सर्वतः पुलकाङ्कितः । तदा सर्वेषु सावधव्यापारेष्वप्रवृत्तवान् ॥ ३२ ॥ स्पर्द्धाशंसायशस्याद्यैरसद्भावैरदूषितः । दानं ददाति यदाता दातृशुद्धं तदुच्यते ॥ ३३ ॥ चतुर्भिः कलापकम् ॥ महाव्रतधरः पञ्चसमितिस्त्रयगुप्तिमान् । धर्मोपदेशको भैक्षमात्रवृत्तिस्तपोनिधिः ॥ ३४॥ गृह्णीयादैहिके दातुरुपकारे पराङ्मुखः । यत्साधुर्धर्मसिद्ध्यर्थ तस्य ग्राहकशुद्धता ॥ ३५ ॥
SMSSAGAR
॥१०॥
Page #209
--------------------------------------------------------------------------
________________
युग्मम् ॥ इति त्रिधा विशुद्ध स्यादानमासन्नसिद्धिके । मञ्जरी सहकारे हि जायते फलसंनिधौ ॥३६॥ एषा मोक्षफले दाने पात्रापात्रपरीक्षणा । अनुकम्पादिदानं तु सर्वत्राप्युचितं सताम् ॥ ३७॥ वितरति विधिनाऽमुनाऽशनं यः शुभपात्राय पवित्रचित्तवृत्तिः। कलयति सकलाः श्रियः स सद्यः कनकरथः स यथा नभश्चरेन्द्रः॥ ३८॥ तथाहि___ अस्ति रक्षनिकेतान्यो वैताब्यो नाम पर्वतः । शृङ्गारयति शृङ्गाणि यस्यार्हच्चैत्यसन्ततिः॥ ३९॥ भरतावनिभामिन्या नानारत्नविभासुरः। सिन्दूराश्चितसीमन्तश्रियं यः श्रयतेऽनिशम् ॥४०॥रेजे श्रेणिद्वयी तत्र दक्षिणोत्तरसङ्गता । दिवः कल्पद्वयीवाद्यावतीर्णाऽनवलम्बना ॥४१॥ तत्रास्ति दक्षिणश्रेणिभूषाकनकभूषणम् । विख्यातं कनकपुरं कनकावासभासुरम् ॥ ४२॥ तस्मिन्मथितदुर्धर्षप्रत्यर्थिपृथिवीपतिः। विद्याभृत्कनकरथः प्रथयामास शासनम् ॥ ४३ ॥ पित्रा प्रपद्यमानेन तपस्यां शैशवेऽपि यः। साम्राज्ये प्राक्तनैः पुण्यैर्नुन्नेनेव न्ययोज्यत ॥४४॥ बाल्येऽप्यतुलाः कुल्याभाः श्रीवल्लीपल्लवोद्गमे । सोऽद्भुताः साधयामास विद्या विद्याधराग्रणीः ॥ ४५ ॥ श्रेणिः समग्रा नहि दक्षिणैव राजन्वती तेन | विराजते स्म । धैर्यादिकानां जगदद्भुतानां तत्तद्गुणानामियमुत्तराऽपि ॥४६ ॥ रजन्यामन्यदा वीरचर्ययाश्चर्यदर्शने । लाकौतुकी नृप एकाकी निर्ययौ निजसौधतः॥४७॥ यतःRI " नीचाः स्वदेहसन्तुष्टा मध्यमा धनबुद्धयः । उत्तमाः सततं तत्तदद्भुतैककृतादराः॥१॥"
विलोकमानो नगरीमुररीकृतकौतुकाम् । स दक्षः प्रेक्षणं प्रेक्ष्य तस्थौ देवकुले क्वचित् ॥४८॥ तत्र सङ्गीतकस्यान्त४॥ गन्धर्वैर्मधुरस्वरम् । गीयमानामिमां गाथां कर्णातिथिमयं व्यधात् ॥ ४९ ॥
Page #210
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१०१॥
माता
"हंसा सवत्थ सिआ सिहिणो सवत्थ चित्तिअंगरुहा । सवत्थ जम्ममरणे सवत्थवि भोइणं भोआ॥१॥"
सप्तमः विचारगोचरे चार चारयामास तां च सः। श्रुतमात्रग्रहीता हि न प्रवेको विवेकिनाम् ॥ ५० ॥ सम्यगर्थे स नि-18
प्रकाशः। |श्चित्य तस्याश्चेतस्यचिन्तयत् । त्रयाणामत्र पादानामर्थः सङ्गतिमङ्गति ॥५१॥ धत्ते समर्थतामर्थश्चतुर्थस्य पुनः कथम् ।
भोगिनामपि योगा योगाभावे सुदुर्लभाः॥५२॥ यत्रास्ति भोगसामग्री भोगास्तत्रैव भोगिनाम् । प्राप्तः कान्तारमे3 काकी न किं रङ्कायते नृपः ॥५३॥ यथाऽत्र भोगवानस्मि विदेशेऽप्यसहायकः । यदि सद्यस्तथैव स्यां तत्तदर्थोऽपि
यौक्तिकः॥५४॥ इत्यमुष्य परीक्षा मे कृत्या सत्यापनाकृते । शुद्धता हि सुवर्णस्य न विना निकषे कपम् ॥ ५५ ॥ एवं विचिन्त्य सौधाप्तः प्रातराकार्य मन्त्रिणम् । प्राज्ञाप्य तमभिप्रायं ज्ञापयामासिवान नृपः ॥५६॥ नगरे ताम्रचूडाख्ये योजनानामितः शते । तदर्थ प्रस्थितोऽस्मि श्वस्त्वयागम्यं चमूयुजा ॥ ५७॥ इत्युक्त्वा पार्थिवः सद्यः प्रतस्थे मरुतांपथि । कुतूहली किमालस्यं कुरुते क्वापि कर्मणि ॥ ५८॥ विदेशमाश्रितस्यापि प्रशस्याकारधारिणः । स्फारवेषविशेषस्य सुलभा मान्यता जने ॥ ५९॥ इति ध्यात्वा गलत्कुष्ठां निकृष्टां सृष्टवांस्तनुम् । स दुःस्थ इव तत्रैत्य पुरे तस्थौ चतुष्पथे ॥ ६॥ | बिडौजा इव निर्व्याजनिविडोजा व्यराजत । जितारिस्तत्र भूनेता नामतो धामतोऽपि च ॥ ६१॥ लावण्यसारणी सर्वरमणीषु शिरोमणी । सुशीलधारिणी तस्य धारिणीति सधर्मिणी ॥ ६२ ॥ तत्कुक्षिप्रभावा सर्वाद्भुतसौभाग्यवैभवा । स्मराम्रमञ्जरी राज्ञः सुता मदनमञ्जरी ॥ ६३ ॥ गुणैरनन्यसामान्यैर्मान्या जज्ञे न कस्य सा । तः एव गौरव
॥१०॥ स्याहाँ न सुतो न सुताऽपि यत् ॥ ६४ ॥ बाल्येऽपि सा जिनोपज्ञपुण्यनैपुण्यमापुषी । स्वादिमानं किमामापि गोस्तनी
Page #211
--------------------------------------------------------------------------
________________
SARAKAR
तन्तनीति न ॥ ६५ ॥ अन्यदा निजमास्थानमास्थितः पृथिवीपतिः। प्रणवानेकभूपालमौलिमालाचिंतक्रमः ॥६६॥ राज्यलक्ष्मीमदोन्मादमेदुरीभूतमूर्तिकः । न मन्वानस्तृणमपि प्रभुतां शातमन्यवीम् ॥ ६७ ॥ गणयन् सर्वभूपालानितरान् किङ्करानिव । बन्दिवृन्दकृतश्लाघावात्याभिस्तरलीकृतः॥६८॥ छत्रेण विततेनेव पिहितान्तरलोचनः । वारस्त्रीहस्त-18 विन्यस्तचलच्चमरसंभवैः॥ ६९ ॥ पवनैरिव विध्यातविवेकोद्दीप्रदीपकः । कुर्वन्नुत्सङ्गगां रङ्गादङ्गजां नन्तुमागताम् ॥७॥ स्वस्याग्रस्थान् सविनयं विनेयानिव सद्गुरोः । आचष्ट श्रेष्ठिसामन्तधीसखप्रमुखान् प्रति ॥७१॥ सम्यग् विभाव्य भोः सभ्याः! भण्यतामद्भुतामिमाम् । भवन्तो भुञ्जते कस्य प्रसादात्सुखसंपदम् ॥७२॥ सप्तभिः कुलकम् ॥ इमां निपीय भूपस्य गिरं कादम्बरीमिव । विवेकविकलास्तेऽपि क्षीवा इवाचचक्षिरे ॥७३॥ त्वमेव दैवतं देव ! त्वमेव भुवने विधिः। राजस्त्वमेव कल्पद्धस्त्वमेव दिविषन्मणिः॥७४॥ वीक्षसे संमुखं यस्य निमेषमपि हर्षितः । कटाक्षयति तं लक्ष्मीरखिलाऽपि प्रहर्षला ॥७५॥ ततः प्रसादःप्रोद्दीपप्रभावस्तव सम्प्रति । सर्वेषां सुखसंपत्त्यै प्रभूष्णुर्न परस्य तु॥७६॥ इत्यादि तेषु चाटूक्तिपाटवं नाटयत्सु सा। वकं विकूणयामास चक्राणा नक्रवक्रणाम् ॥ ७७॥ ततो जजल्प भूपालः सकोप इव तां प्रति । दुग्धस्निग्धानने ! मुग्धे ! किं विकूणयसे मुखम् ॥७८॥ इति पृष्टा तमाचष्ट स्पष्टमेषा विशिष्टधीः । न मायामयमा-15 ख्यातुं मनीषी क्वापि शिक्षितः॥ ७९ ॥ देव ! मायाविनामेषामेता मायोक्कयो मम । तुदन्ति हृदयं हन्तुं विवेकमिव हेतयः॥८०॥ आरकूजगतीकान्तं जस्तूनां संपदापदौ । दातुं प्रगल्भते कर्म प्राक्तनं न पुनः परः॥८१॥ परा शुभाशुभं येन यद्यथा कर्म निर्ममे । तस्योपतिष्ठतेऽवश्यं तत्तथा रज्जुबद्धवत् ॥ ८२॥ निमित्तमात्रतां तत्र प्रभावस्तावकः
Page #212
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१०२॥
RECASSSSS
& पुनः। दधाति धान्यसंपत्तावौत्तराह इवानिलः॥८॥ अन्यथा कथमेतेषु तुल्योपास्तिपरेष्वपि । नानासुखश्रियां दाने प्रसा- सप्तमः
दस्तव सादरः॥८४॥ अमी मायाविनो देव ! तव च्छन्दैकवादिनः। मृषा मुखप्रियं प्राहुः कुवैद्या इव भेषजम् ॥ ८५॥ प्रकाशः। चेटपेटकचाटूक्तिमदिष्ठा नष्टदृष्टयः । कलावन्तोऽपि भूपाला वैकल्पं कलयन्ति ही ॥८६॥ द्रव्यक्षेत्रकालभावाः स्वभावो भवितव्यता । इत्यादयः फलं दधुः सद्यः कर्मानुगामिनः ॥ ८७॥ तत्तात ! ज्ञाततत्त्वस्य गर्वस्तव न यौक्तिकः । यद्भुञ्जते प्रसादान्मे संपदोऽमी सभासदः॥८॥ इति क्वाथमिवास्वाद्य तदुक्तं हितमायतौ । प्रालपत्संनिपातीव कुपितस्तां महीपतिः॥८९॥ प्रत्यक्षं वीक्षमाणाऽपि प्रसादं सर्वदा मम । अरे ! पितरि सद्वेषे! मुखरे! किमपहुषे ॥९० ॥ भुञ्जानाऽनल्प-18 माकल्पभूषाचं मत्प्रसादतः। कृतघ्ने ! किमिदं दुष्टे ! वाचाटे! रारटीपि रे ॥९१॥ ततो विहस्य सा माह पुनर्विनयपूर्वकम् । जाताऽस्मि सुखिता देव ! पुण्यादेव भवद्हे ॥ ९२॥ सौभाग्यारोग्यदीर्घायुः स्वामित्वोच्चकुलादयः। पूर्वपुण्येन जायन्ते पापेन पुनरन्यथा ॥ ९३ ॥ मयाऽपि प्राग्भवे धर्मः शर्मकृन्निर्ममे ध्रुवम् । येनोच्चैः कुलतादीनामभूवं संपदां पदम् ॥ ९४ ॥ ततोऽवधार्यतां चिते प्राक्तनात्तात ! पुण्यतः। संपत्तिः संपनीपत्तिविपत्तिः पापतः पुनः॥ ९५ ॥ ततः कोपस्फुटाटोपभृकुटीभीषणो नृपः । सुतामुत्सारयामास स्वोत्सङ्गाद्भुजगीमिव ॥ ९६ ॥ दूरीभव पितृद्रोहपापिणि ! स्वात्मतापिनि ! फलं सत्कर्मणः स्वस्य मङ्गु दुर्मुखि !॥९७ ॥ इत्थं निर्भय॑ तां भूपस्तस्याः पाणिगृहीतये । ज्ञातिवित्तवयोऽतीतं विविधव्याधिबाधितम् ॥ ९८॥ अजङ्गमं विजष्टाङ्गं सर्वाङ्गीणकुलक्षणम् । गवेषयितुमादिक्षत् पुरुषं पूरुषान् रुषा ॥९९॥ युग्मम् ॥ अथ सामाजिका भूपं जजल्पुः कोपशान्तये । देव ! दुर्दैवदग्धेयं मुग्धा किमवगच्छति ॥१०० ॥ प्रसन्नो हि
॥१०
॥
Page #213
--------------------------------------------------------------------------
________________
दा० १८
भवानेव सेवकानां सुरद्रुमः । अप्रसन्नः पुनस्तेषां सविशेषो यमादपि ॥ १०१ ॥ स्मित्वा तानपि सा स्माह जानन्तोऽपि यथास्थितम् । मुखप्रियं किमु बूथ मिथ्यैवार्थलवार्थिनः ॥ १०२ ॥ सवित्र्यप्याह तत्रैत्य सुते ! सान्त्वय सत्वरम् । पितरं परुषोचैस्तु मा कार्षी रोषभीषणम् ॥ १०३ ॥ अन्यथा रोषतो ह्येष त्वां विडम्बयिता तथा । निमंक्ष्यसि यथा दुःखवा - रिधौ जीवितावधि ॥ १०४ ॥ साऽप्युवाच प्रसूं मातः ! सत्यव्रतमनुत्तरम् । ममास्ति प्रियमत्यन्तं जीवितव्यमिवापरम् ॥ १०५ ॥ कथमैहकसाताय तद्वतं लुप्यते मया । छिनत्ति खलु कल्पद्रुमिन्धनाय न धीधनः ॥ १०६ ॥ आपद्यतामाप दुपैतु दूरतः संपत्तिरायातु कुकीर्तिरुच्चताम् । प्राणाः प्रयाणाय भजन्तु सज्जतां तदप्यसत्यं ब्रुवते न पण्डिताः ॥ १०७ ॥ ततः सत्यव्रतस्थाया मातर्दुःखेऽपि मे सुखम् । स्वर्णालङ्कारभारेऽपि प्रीतिः स्फातिमुपैति हि ॥ १०८ ॥ इत्यायतिहितैस्तस्या घृतैरिव सुभाषितैः । क्रोधाग्निर्धरणीशस्य दधे धगधगायितम् ॥ १०९ ॥ ततः पुनर्नृपादिष्टाः पुरुषाः परुषाशयाः । पुरे गवेषयामासुः सर्वतस्तादृशं वरम् ॥ ११० ॥ नगरान्तमन्तस्ते स्थितमन्तश्चतुष्पथम् । सर्वाङ्गीणगलत्कुष्ठविनष्टाङ्गमजङ्गमम् ॥ १११ ॥ ववसानं जरचीरं मक्षिकाकुलसङ्कुलम् । तं प्राप्य मुदमासेदुः प्रसादमिव भूपतेः ॥ ११२ ॥ युग्मम् ॥ प्रोचुस्ते शीघ्रमुत्तिष्ठ त्वामाह्वयति भूपतिः । तव लावण्यमाकर्ण्य कन्यां दातुं यदीहते ॥ ११३ ॥ ततो दुःखार्दितेनेव जगदे तेन गनदम् । भो भोः किमास्यमुल्लास्य हास्यं मम विधीयते ॥ ११४ ॥ अहं सदैव दुर्दैवहतकेन भृशं हतः । भुवि प्रपतिते प्राणिप्रहारो नैव युज्यते ॥ ११५ ॥ दुहिता व नरेन्द्रस्य क्व चाहं रङ्कनायकः । वराकस्य हि काकस्य न हंसी प्रेयसी भवेत् ॥ ११६ ॥ एवं ब्रुवन्तमप्येनं नृपगृह्याः प्रसह्य ते। स्कन्धमारोप्य सामीप्यं प्रापयन्ति स्म भूपतेः ॥ ११७ ॥
Page #214
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १०३ ॥
यथेप्सितं तमासाद्य मुमुदे मेदिनीपतिः । सर्वाङ्गीणगुणोपेतं सुतावप्ता वरं यथा ॥ ११८ ॥ पुनर्जगौ नृपः पुत्र बालिशे ! यदि मन्यसे । मम प्रसादमद्यापि निदानं सुखसंपदाम् ॥ ११९ ॥ तदा राजकुमारस्य मारस्फारतरश्रियः । कारयामि विवाहं त्वां सारशृङ्गारभासुराम् ॥ १२० ॥ प्रसादं यदि तु स्वस्य कर्मणः किल मन्यसे । तदा त्वत्कर्मणाऽऽनीतमेतं स्वीकुरुसत्त्वरम् ॥ १२१ ॥ अथ सा सस्मितं स्माह यद्ययं मम कर्मणा । आनीतो जनकोक्तश्च प्रमाणमयमेव तत् ॥ १२२ ॥ अथ भूप्रष्ठमाचष्ट कुष्ठी विस्पष्टया गिरा । न वक्तुमपि ते युक्तमनया मे विवाहनम् ॥ १२३ ॥ क्वाहं रङ्को रुगाक्रान्तः कासौ सौभाग्यभाग्यभूः । दवदग्धः करीरः स्यात्कल्पवल्याः किमाश्रयः ॥ १२४ ॥ किं चाचिकित्स्यरोगत्वादद्यस्वीना मृतिर्मम । तदिमां मद्विवाहेन विडम्बयति कः सुधीः ॥ १२५ ॥ ततः क्ष्माभृत्तमाचख्यावेषा विद्वेषिणी पितुः । मन्यते प ण्डितंमन्या तृणायापि न मे गुणम् ॥ १२६ ॥ प्रामाण्यं मन्यते स्वस्य कर्मणः स्वात्मवैरिणी । वरस्तेन त्वमानीतो युज्यतेऽस्यास्त्वमेव च ॥ १२७ ॥ इत्युक्त्वा स महीशेन प्रसह्य परिणायितः । संव्यायितजरच्चीरां स्मेरां मदनमञ्जरीम् ॥ १२८ ॥ | जनन्यादिपरीवारे निवारणपरेऽप्यभूत् । तयोर्योगो नृपक्रौर्यसुता धैर्यातिरेकतः ॥ १२९ ॥ अद्यैव तव सत्कर्मद्रुमो मञ्जरितो जडे ! । फलं चैतस्य भोक्तव्यं परिहाय पुरीं मम ॥ १३० ॥ इति भूपविसृष्टा सा प्रणम्य पितरौ मुदा । जीवितेशं करे कृत्वा विस्मेरवदनाऽचलत् ॥ १३१ ॥ हाहाकारपरे पौरलोके शोकेन सङ्कुले । तमानिनाय सा कन्या कथञ्चन चतुष्पथम् ॥१३२॥ पदमप्यग्रतो गन्तुं न शक्रोमीति विब्रुवन् । हाहेति विलपस्तत्र स मूर्छित इवापतत् ॥ १३३ ॥ नृपतिं केऽपि निन्दन्ति तत्र केऽपि सुतां पुनः । प्रमाणीकुर्वते केऽपि केवलं भवितव्यताम् ॥ १३४ ॥ अथावोचद्विनीता सा मम स्कन्धमधीश्वर ! |
सप्तमः प्रकाशः ।
॥ १०३ ॥
Page #215
--------------------------------------------------------------------------
________________
-
अद्यात्र स्थी-II
% A
लापमन्योन्यमित्याकण्य महाजन
द्वारके ॥ १३७ ॥ तेनैव चोपनीता
अध्यारोह यथा स्थानं त्वां नयामि येथेप्सितम् ॥ १३५ ॥ तामाख्यत् सोऽपि दुःखीव क्ष्माभृदादेशसंभवे । अद्यात्र स्थीयते कल्ये कर्त्ता स्मः समयोचितम् ॥ १३६ ॥ तयोरालापमन्योन्यमित्याकण्य महाजनः । नृपं विज्ञप्य कृपयाऽतिष्ठिपत्ती कुटीरके ॥ १३७ ॥ तेनैव चोपनीतानि प्रणीतानि नृपाङ्गजा। प्राज्यानि पानभोज्यानि बुभुजे भोजितप्रिया ॥१३८ ॥ दुर्दशामथ दुर्दर्शामस्या द्रष्टुमिवाक्षमः । भानुः स्थानान्तरं प्रापदप्रभूष्णुरिवोत्तमः ॥१३९ ॥ पद्मर्निमीलयामाहे तस्या मित्राननैरिव । कैरवैः पुनरुल्लेसे तद्विपक्षमुखैरिव ॥ १४॥ अयं नरेश्वरो नूनमविचारमचर्चिका । इतीवोच्चेरुरत्युच्चैः
कूजन्तः शकुनिव्रजाः॥१४१॥ स्वस्य भूपानुरागेण सावये वर्णयन्निव । क्षणमात्रमवस्थाय सान्ध्यरागो व्यपागमत् Mil॥१४२॥ कन्यानुगजनन्यादिनृणां दुखभरा इव । हृदयान्तरमान्तोऽमी तमस्तोमा वितस्तरुः ॥ १४३ ॥ दर्श दर्श दशां
तस्याः प्रियसख्य इवाखिलाः । वदनानि दिशः कामं मलिनानि वितेनिरे ॥ १४४ ॥ किमेषा कुष्ठिनं त्यक्ता न वेति सकुहै तूहला । तारकाकैतवोत्ताननयना द्यौरजायत ॥१४५ ॥ अथो यथार्हशय्यांहिशौचविश्रामणादिना । सम्यगाराधयामास
सा देवमिव तं निशि ॥ १४६ ॥ ततः प्रत्ययितो दध्यौ हृद्ययं खेचरेश्वरः । अर्थश्चतुर्थपादस्य सद्यः संवादमासदत् ॥१४७॥ अहो ! मे तादृशस्यापि जज्ञे भोगड़िरीदशी। तन्मन्ये पुण्यमेवैकं प्रवेकं सुखदायिनाम् ॥१४८॥ कर्मैकनिष्ठता चास्याः कीदृशी विस्मयावहा । यया भोगान् वराभोगानिय तृणमजीगणत् ॥ १४९॥ अस्याः शस्या न कस्यास्तु दृढता सत्यवर्मणः । शस्त्रीव विभिदे यन्नो मद्विवाहविडम्बना ॥ १५०॥ अस्याः पतिव्रताचारश्चमत्काराय कस्य न । राजाङ्गजाऽपि या राजमिवाराध्यति कुष्ठिनम् ॥ १५१॥ तदस्याः सत्यनिश्छद्मधर्मताधीरतादयः । कथं गुणाः पथि गिरां पथिकीस्युर्यथास्थिताः
-SCRECCCCCCCCCCCCCCXXX
4
%AGAR
Page #216
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१०४॥
*5555
॥ १५२ ॥ परं पुनर्विनोदाय कुर्वेऽमुष्याः परीक्षणम् । एवं विमृश्य सानन्दं मन्दं मन्दं जगाद सः॥१५३ ॥ फलं ताव-18
सप्तमः दहं भद्रे ! मुझे प्राक्तनकर्मणः। ईदृशी कथमापेदे दशा ते तु वशामणेः॥ १५४ ॥ विनयव्यत्ययस्त्वन्तः कोऽपि नैव
प्रकाशा वितय॑ते । सुधामयूखलेखायाः किमु स्याद्विषवर्षणम् ॥ १५५ ॥ निर्विवेकतयैवात्र नूनं राज्ञो विजृम्भितम् । विज्ञमप्यमनीकर्तुमिन्दिरा मदिरा न किम् ॥१५६॥ इयं कान्तिरिय मूर्तिरियं मतिरिदं वयः। तव सर्वमिदं भद्रे! मयि स्यादन्धमण्डनम् ॥ १५७ ॥ सङ्गेन च ममाङ्गस्य रूपसंपत्तवाप्यसौ । क्षणात्तुषोदकस्येव क्षीरेयीव विनंक्ष्यति ॥ १५८ ॥ मम जाज्वल्यमानेऽ. स्मिन् प्राच्यकर्मोदयानले । त्वद्विडम्बनजं पापं हविराहुतयिष्यति ॥१५९॥ त्वामहंपूर्विकापूर्व वरिष्यन्ति नृपाङ्गजाः। न स्युर्मधुकृतः के के केतक्यामुत्कचेतसः ॥१६०॥ मत्प्रसद्य प्रपद्यस्व सद्यो गमनमन्यतः । यदियं यामिनी कामधेनुः प्रच्छन्नकमणाम् ॥ १६१ ॥ इत्युक्त्वा विरते तस्मिंस्तदंहिन्यस्तलोचना । सधैर्य सविषादं च सा जगाद विशारदा ॥१६२॥ प्रा-13 णेश ! लेशतोऽप्येष न दोषः क्षितिशासितुः। किन्त्ववश्योपभोग्यस्य स्वस्य प्राक्तनकर्मणः ॥१६३॥ प्रभुः कर्मविपाको हि दे-16 हिनां संपदापदोः । परस्तु वस्तुतस्तस्य नियोगीव प्रवर्तते ॥ १६४ ॥ यत्त्वयाऽन्यत्र गत्यै मे वचोऽनुचितमौच्यत। अनेन दहनेनेव हृदयं दह्यते मम ॥ १६५ ॥ अयं धर्मः पणस्त्रीणां कुलस्त्रीणां न युज्यते । आचारं नहि नीचाना|माचरन्ति सचेतसः॥ १६६ ॥ कुरूपोऽपि कुलस्त्रीणां पतिरेव गतिर्भवेत् । न शुष्कमपि मुश्चन्ति लता हि जगती-16!
18॥१०॥ रुहम् ॥ १६७ ॥ तव सङ्गेन बाह्याङ्गविनाशेऽप्यविनश्वरः । चिरं पतिव्रताचारो मम जीवतु जीववत् ॥१६८ ॥ भवे भवे ससौभाग्यो वल्लभः सुलभः स्त्रियाम् । आजन्मनिर्मलं शीलं किन्त्वेकं देव ! दुर्लभम् ॥१६९ ॥ निवासः सर्व
Page #217
--------------------------------------------------------------------------
________________
दोषाणामेकं स्त्रीजन्म निन्दितम् । तच्च शीलविहीनं चेत्पापीयः पापतस्तदा ॥ १७० ॥ शीलमेव कुलस्त्रीणां परमं मण्डनं स्मृतम् । अभिमानसुखायैव बाह्याभरणडम्बरः ॥ १७१ ॥ क्व शीलमहिमा मेरुगुरुः सर्वसुखाकरः । दुःखदं सर्वपप्रख्यं क च वैषयिकं सुखम् ॥ १७२॥ तत्कृते जीवितं शीलं नाशयामि निजं कथम् । हारयत्यारकूटाय कः सुवर्ण सचेतनः ॥१७३॥ तस्मादामरणं देव ! त्वमेव शरणं मम । अमी प्राणा अपि स्वामिंस्तव मार्गानुगामिनः ॥१७४॥ एवं चेतसि निश्चित्य प्रसद्य च मयि प्रभो ! | दवार्चिष्प्रतिमां वाचं मा वोचस्तामतः परम् ॥ १७५ ॥ इत्यस्या गिरमाकर्ण्य पुण्यकाननसारणीम् । विद्याभृन्मुमुदे कामं प्रतिपेदे च तद्वचः ॥ १७६ ॥ अहो ! अस्या लघीयस्याः शीलमुज्वलमद्भुतम् । भानवीभा नवीनापि भाखरैव भवेद् यतः ॥ १७७॥ शयिष्यते च नैवैषा मध्यसुप्ते पतिव्रता । एवं विमृश्य सुष्वाप स क्षणं मिषनिद्रया ॥ १७८ ॥ अथ सा प्रेयसा स्वस्य प्रतिपत्त्या प्रमोदभाक् । न्यद्रायत विनिद्रात्मा स्मृतपश्चनमस्कृतिः ॥ १७९ ॥ परस्परं तयोरुक्ति| प्रत्युक्तः कुर्वतोरिति । समाप्तप्रायतां प्राप निशा तस्याश्च दुर्दशा ॥ १८० ॥ अथ विद्याधराधीशः सिद्धार्थः कामसाधनीम् । विद्यां स्मृत्वा निजं रूपं नटवत्प्रकटं व्यधात् ॥ १८१ ॥ भूमिपश्ञ्चदशोपेतं तत्र स्फाटिकभित्तिकम् । सौधं च रचयामास पुण्यराशिमिवात्मनः ॥ १८२ ॥ तस्योपरितने भूमीभागे गगनसङ्गिनि । रत्नसिंहासनासीनः स्वर्णाभरणभा| सुरः ॥ १८३ ॥ शातकुम्भमयस्तम्भशालभञ्जीभिरन्द्भुतम् । समं मदनमञ्जर्या गीयमानः सुगीतिभिः ॥ १८४ ॥ यशसा पिण्डितेनेव सितच्छत्रेण सङ्गतः । चामरावलिभिः पुण्यश्रेणीभिरिव शोभितः ॥ १८५ ॥ स्थगीधरप्रतीहारप्रमुखैः परिवा| रितः । पुरो वाराङ्गनावारमण्डिताखण्डताण्डवः ॥ १८६ ॥ स्फूर्ज सूर्यत्रयध्वानप्रबोधितपुरीजनः । कर्पूरादिवरामोदसुरभी
Page #218
--------------------------------------------------------------------------
________________
दानप्रदीपे
सप्तमः प्रकाशः।
॥१०५॥
कृतसर्वदिक् ॥ १८७ ॥ निजविद्यानुभावेन सद्यो विद्याधरेश्वरः । शुशुभे भुवि निवृत्तनिवास इव वासवः ॥ १८८ ॥ षद्भिः कुलकम् ॥ प्रबुद्धाऽथ प्रियात्मानं सारशृङ्गारभासुरम् । तथास्थितं च तं कान्तं वीक्ष्य वीक्ष्य विसिष्मिये ॥१८९ ॥ इन्द्रजालमिदं किन्तु किमुतायं मतिभ्रंमः । स्वमवृत्तिरिय किं वा दैवती वाऽऽकृतिः किमु ॥ १९० ॥ इत्यन्तर्विस्मयारेकावितर्काकुलितां प्रियाम् । ज्ञापयामास स व्यक्तं वृत्तान्तं निजमादितः ॥ १९१ ॥ प्रस्तुतार्थपरीक्षायाः सिद्धावपि तवाप्तितः । विलम्बोऽयं मया देवि ! विदधे त्वां परीक्षितुम् ॥ १९२ ॥ अहो ! ते सत्यमत्युग्रमहो! ते सत्त्वमद्भुतम् । अहो! & ते निश्चलं शीलमहो! ते निर्मला मतिः॥ १९३ ॥ तदिदं फलितं देवि! सद्य एव तवाखिलम् । यत्त्वं प्राणेश्वरी जाता
धुना विद्याधरेशितुः ॥ १९४ ॥ प्रसत्तिर्मम सर्वत्र जागर्ति जगतीतले । अयं विलयमायातु पितुस्तव दुराशयः ॥ १९५ ॥ धर्म एव समग्राणां कार्मणं शर्मसंपदाम् । इति चेतसि सर्वोऽपि निश्चिनोतु जनस्तथा ॥ १९६ ॥ इति देवि! मया दिव्यप्रासादाद्यमिदं मुदा । सद्यो विद्याप्रसादेन समपाद्यत देववत् ॥ १९७ ॥ इत्युक्ता तेन सा तस्य पश्यन्ती ऋद्धिमद्भुताम् । प्रभातप्रभया सार्धमुल्ललास मुदा तदा ॥ १९८ ॥ पश्यन्तु प्रकटं लोकाः पुण्यप्रौढिमिमां तयोः। इतीव जनयामास प्र. काशं परितो रविः ॥१९९ ॥ स्वर्विमानमिवोत्तीर्णमथ सौधमवेक्षितम् । मन्त्रेणेवाहृताः पौराः परितः परिवत्रिरे ॥ २०० ॥ अहो! धर्मस्य माहात्म्यमिति सांराविणं नृणाम् । आकण्य ज्ञातवृत्तान्तस्तत्र भूपतिरागतः ॥ २०१॥ प्रतोलीरत्नपाञ्चालीरचिताचमनक्रमः । तत्तद्वारप्रतीहारज्ञापितारोहपद्धतिः॥२०२ ॥ सर्व प्रासादसौन्दर्य विलोकितुमिवाक्रमम् । रत्नभित्तिषु सान्त्या निर्मितानेकरूपकः॥२०३ ॥ नानावितर्कसंपर्कव्याकुलीकृतमानसः । स कैलासमिवावासमारोह महो
॥१०५॥
Page #219
--------------------------------------------------------------------------
________________
नतम् ॥ २०४ ॥ त्रिभिर्विशेषकम् ॥ तदैव तत्र वादित्रमुखरीकृतदिग्मुखः । समं चमूसमूहेन तन्मन्त्री नभसाऽगमत् ॥ २०५ ॥ धीसखः खेचराश्चान्ये प्रणम्य स्वामिनं निजम् । उपासामासुरानन्दात्रिदशा इव वासवम् ॥ २०६ ॥ जामातरमथालोक्य तथास्थं विस्मयाकुले । श्वशुरे सुस्वरेणोच्चैरुच्चैरे तत्र वन्दिना ॥ २०७ ॥ वैताढ्यस्वामिताढ्योऽयं पुण्यैरेव | पचेलिमैः । नृपः श्रीकनकरथः प्राप्यते दुहितुः पतिः || २०८ ॥ अथाभ्युत्थाय जामाता दुहिताऽपि ननाम तम् । समं तमनमसोऽपि समयज्ञा हि पण्डिताः ॥ २०९ ॥ धारणीप्रमुखास्तत्र हर्षोत्कर्षादुपागमन् । न्यवीविशञ्च सर्वांस्तान् खेचरेशो यथाक्रमम् ॥ २१० ॥ अथासनमलङ्कृत्य लज्जमानः स्वमानसे । महीपतिः सुतां स्माह कृत्वा स्वोत्सङ्गसङ्गताम् ॥ २११ ॥ क्षमस्व धर्मसम्यग्ज्ञे ! वत्से ! दुश्चेष्टितं मम । प्रभावं तव पुण्यानां नाज्ञासिषममूदृशम् ॥ २१२ ॥ नोपादेयं हि तत्कस्य पथ्यं तथ्यं वचस्तव । परं दर्पवशादेव तदवाजगणं तदा ॥ २१३ ॥ स्वपुण्यमहिमैवाद्य न परं ज्ञापितस्त्वया । फलोपदर्शनेनाहं सम्यग्धर्ममपि स्फुटम् ॥ २१४ ॥ भाग्यं कः स्तोतुमीशस्ते यतः प्रस्तरहेतवे । निजो हस्तस्त्वया न्यस्तः प्राप्तश्चिन्तामणिः पुनः ॥ २१५ ॥ इदं ते सत्यनिष्ठत्वमियं ते धर्मवैदुषी । इदं च साहसिक्यं ते त्रैलोक्येऽपि तुलातिगम् ॥ २१६ ॥ कमलेव तनूजा त्वं विश्वश्लाघ्यगुणावलिः । कुलालङ्करणी जाता मत्तः क्षारार्णवादिव ॥ २१७ ॥ साम्प्रतं भवती वत्से ! | सकलेषु विवेकिषु । परां कोटिमटीकिष्ट निर्विवेकेष्वहं पुनः ॥ २१८ ॥ त्वया प्रद्योतितो धर्मस्त्वया प्रद्योतितं कुलम् । ततो मन्यामहे धन्या त्वमेवैका महीतले ॥ २१९ ॥ अथ सा कथयामास पितरं विनयान्विता । मा वृथा वितथाः खेदं नेदं हि विहितं त्वया ॥ २२० ॥ किन्तु संपन्नमापन्नविपाकान्मम कर्मणः । यतस्तदेव जन्तूनां प्रतिभूः संपदापदाम् ॥२२९॥
Page #220
--------------------------------------------------------------------------
________________
दानप्रदीपे
सप्तमः प्रकाशः।
॥१०६॥
कर्मादिस्थितयो ये न ज्ञायन्ते तत्त्वतोऽखिलाः । तात! सद्यः प्रपद्यस्व सम्यग्धर्म तमाहतम् ॥ २२२ ॥ इत्याकर्ण्य नृपः प्रीतः सम्यग्धर्म प्रपन्नवान् । जामातरं तनूजां च गजेन्द्रमधिरोपितौ ॥ २२३ ॥ निजमावासमाकार्य प्राज्योत्सवपुरस्सरम् । सच्चके चारुनेपथ्याऽलङ्कारादिप्रदानतः॥ २२४ ॥ युग्मम् । यथा यथा तयोः कीर्तिः परिस्फूर्तिमुपेयुषी । जिनधर्मप्रभा
लोके स्फायते स्म तथा तथा ॥ २२५ ॥ अथ विद्याधरस्वामी श्वशुरेण वधूवृतः । भोजितः सपरीवारः प्रतस्थे स्वपुरं हप्रति ॥ २२६ ॥ असौ स्वपुरमासाद्य नानावाद्यस्वनैर्दिशः। निखिला मुखरीकुर्वश्चतुरङ्गचमूवृतः ॥ २२७ ॥ द्विगुणीभूत
सौभाग्यां सारशृङ्गारसङ्गतः। सुखासने समासीनां कमलामपरामिव ॥ २२८ ॥ अतुल्यशीलनैर्मल्यजितयेव धुकुल्यया। चारुचामरधोरण्या सेव्यमानां समन्ततः॥२२९ ॥ दर्शयन्निव लोकानां धर्मकल्पद्रुमञ्जरीम् । शुद्धान्तालङ्कतीचक्रे प्रियां मदनमञ्जरीम् ॥ २३०॥ चतुर्भिः कलापकम् ॥ स तस्यै गुण शस्यायै पट्टराज्ञीपदं ददौ । पत्यौ हि फलति प्रीतिः कल्प
वल्लीव योषिताम् ॥ २३१ ॥ दृष्ट्वा धर्मस्य माहात्म्यं तौ चित्तं तत्र तेनतुः । किमु प्रत्ययितोपाये मन्दायन्ते हितेच्छवः 8॥ २३२ ॥ अयं विद्यानुभावेन नानातीर्थान्यवन्दत । कला हि सफला सैव या धर्मस्योपयोगिनी ॥ २३३ ॥ अन्यदा |नन्दनोद्याने जिनचैत्यानि वन्दितुम् । सप्रेयसी ययौ विद्याधरेन्द्रः सपरिच्छदः ॥२३४ ॥ चारणश्रमणं तत्र पवित्रज्ञान
शालिनम् । प्रणम्य पुरतस्तस्य पत्तिवन्निषसाद सः॥ २३५॥ अथ धर्माशिषानन्द्य फलाफलिकयेव तम् । देशनावाकसुधाभोज्यैः प्राज्यैर्मुनिरबूभुजत् ॥ २३६ ॥ तथाहिधर्मः स्वर्गापवर्गादिसंपद्यः स्पृहयालुना । विधेयः सुधिया यस्मान्तासां सैवनिबन्धनम् ॥ २३७ ॥ दानशीलतपोभाव
| ॥१०६॥
Page #221
--------------------------------------------------------------------------
________________
|भेदादेष चतुर्विधः। जगदे श्रीजिनेन्द्रेण दान तत्रादिम पुनः॥ २३८॥ तद्भेदेष्वप्यनेकेषु पात्रदानमनुत्तरम् । नियक्तं वि-1 |धिवत्पात्रे यदनन्तगुणं धनम् ॥ २३९॥ अहो ! धनः सार्थवाहः पात्रदानोपढौकिताः । तीर्थंकृत्त्वाऽवधीः प्राप समृद्धी रधिकाधिकाः ॥ २४०॥प्रमातुं महिमानं कः पात्रदानधुशाखिनः। संपदः शालिभद्रीया यदीयाः कुसुमश्रियः ॥ २४१॥ भवनं जिनराजानां प्रतिमाः पुस्तकस्तथा । संघश्चतुर्विधश्चेति पात्रं सप्तविधं विदुः॥ २४२ ॥ दानमण्वपि यःपात्रे दत्ते तस्याक्षयाः श्रियः । निषिध्यति कुधीर्यस्तु दूरतस्तं त्यजन्ति ताः॥ २४३॥ . | अत्रार्थे कथ्यते तथ्या कथा भद्रातिभद्रयोः । तथाहि जम्बूद्वीपेऽत्र क्षेत्रं भरतसंज्ञितम् ॥ २४४ ॥ तत्रावनिवधूमाल्यं काम्पील्यपुरमित्यभूत्। तर्जतीव दिवं स्वां यत्सौधाग्रचलद्ध्वजैः॥२४५॥ प्रभाववैभवं तस्य वास्तवं स्तवयन्तु के यत्रावतारमातेने विमलः श्रीजिनः स्वयम् ॥२४६॥ तत्रामात्रश्रियां पात्रं जितशत्रुर्महीपतिः। न जातु व्यर्थयामास संग्रामे निजनाम यः ॥ २४७ ॥ मान्यस्तस्याऽभवत्तत्र वसन्तश्रेष्ठिसत्तमः । वसन्त इव यः पुण्यवल्लीपल्लवने बभौ ॥ २४८ ॥ सुदर्शनेन रोचिष्णोः पुरुषोत्तमताजुषः। कमला दयिता तस्य नामतो गुणतोऽपि च ॥ २४९॥ जैनधर्मस्तयोश्चित्तं राजधानी व्यधान्निजाम् ॥ न शेके तदपाकर्तुमतो दुस्तर्कतस्करैः ॥ २५० ॥ तयोः परस्परात्यन्तस्फीतप्रीतिपुरस्सराः । धर्मार्थकामविवशा दिवसा बहुशोऽप्यगुः ॥ २५१ ॥ अन्यदा वन्यदावार्चिष्प्रख्या सौख्यानि घातिनी । सुताभावकृता चिन्ता तच्चेतः समतीतपत् ॥ २५२ ॥ दारियं जनकस्य नापनयते व्याधीन विध्वंसते नैकान्तेन हितो भवेदिह भवे नो सद्गुणश्चाङ्गजः। जन्तूनां गतयः स्वकर्मजनिता भिन्नाः परस्मिन् पुनः पुत्रार्तिस्तुदते तदप्यसुमतो ही मोहविस्फूर्जितम् ॥२५३॥ पुंसां पुण्य
Page #222
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १०७ ॥
वशादेव सर्वकामितसिद्धयः । वल्लरीणां समुद्भेदः किं न कन्दवशंवदः ॥ २५४ ॥ अदःकृत्य स्वचित्ते तौ पुण्यकृत्यं वितेनतुः । प्रेक्षावन्तः प्रवर्तन्ते सम्यगौपयिके यतः ॥ २५५ ॥ तद्यथा - जिनचैत्यानि निर्वृत्तशैत्यानि सुदृशां दृशाम् । असमाः प्रतिमा वर्याः सपर्या जिनवेश्मसु ॥ २५६ ॥ भक्तियोगादतुल्यानि वात्सल्यानि सधर्मणाम् | तीर्थयात्रा अमात्राश्च जन्मपावित्र्यसूत्रिणीः ॥ २५७ ॥ पात्रदानान्यमानानि दयाः कृतशुभोदयाः । सर्वज्ञोपज्ञशास्त्राणां पुस्तकेषु निवेशनम् ॥ २५८ ॥ बन्दिमुक्तिं स्वचित्तेन दुस्तपानि तपांसि च । पुण्यमन्यदपि प्रीत्या समपीपदतामम् ॥ २५९ ॥ चतुर्भिः कलापकम् ॥ | चित्तोदयादिमारूढे पुण्यप्रद्योतने तयोः । विघ्नत्राता व्यलीयन्त ध्वान्तौघा इव शार्वराः ॥ २६० ॥ अथ सा पुण्यसौरभ्य| सुभगा गर्भमद्भुतम् । बभार रत्नगर्भेव जात्यरत्नमयं निधिम् ॥ २६९ ॥ दानादीनघसन्दोहद्रोहदान् दोहदान् पतिः । पूरयामास सोल्लासमस्याः शस्यान् यथेप्सितम् ॥ २६२ ॥ सा सूतसमये सूनुयुगं युगपदग्रिमम् । रोहणोर्वीधरोर्वीव विमलं | मणियामलम् ॥ २६३॥ धर्मः सङ्गतमेवायमचिन्त्यफलादायकः । एकस्मिन् काम्यमाने यः पुत्ररत्नद्वयं ददौ ॥ २६४ ॥ प्रीतिस्तयोरभूत्पुत्रद्वयोत्पत्त्यानपत्ययोः । विवेद सर्ववेदी यां स्वसंविद्धा तयोः पुनः ॥ २६५ ॥ विधाय विविधां हर्षाद तुच्छामुत्सवावलीम् । भद्रातिभद्रेत्यभिधे पितरौ तेनतुस्तयोः ॥ २६६ ॥ मातृधात्रीपयःपूरसारणी सेकयोगतः । क्रमात्तौ प्रापतुः | स्फातिं सहकाराङ्कुराविव ॥ २६७ ॥ शैशवे ग्राहयामास तौ पिता सकलाः कलाः । उद्यत्कलो यतः पूज्यो न तु नष्टकलः शशी ॥ २६८ ॥ तौ क्रमेण स्मरक्रीडावनं यौवनमाश्रितौ । जगत्यामिव नासत्याववतीर्णौ विरेजतुः ॥ २६९ ॥ तारुण्ये | कृतलावण्यद्वैगुण्ये सुकुलोद्भवे । तौ पाणौ कारितौ पित्रा कन्ये गण्येतरोत्सवैः ॥ २७० ॥ गृहभारमथारोप्य पुत्रयोः पुण्य
सप्तमः प्रकाशः ।
॥१०७॥
Page #223
--------------------------------------------------------------------------
________________
पात्रयोः । सम्यग्धर्म समाराध्य पितरौ प्रापतुर्दिवम् ॥ २७१ ॥ अथ भद्रः समुन्निद्रभद्रः संभूय बन्धुभिः । कृतपैतृककर्तव्यो न्यवेश्यत पितुः पदे ॥ २७२ ॥ धर्मनिस्तन्द्रधीर्भद्रश्चन्द्रोज्वलयशास्ततः । पैतृक धुरमुदधे सर्वौचित्यविचक्षणः ॥ २७३ ॥ सर्वत्राकृत्रिमप्रेमा बह्वमन्यत सोऽनुजम् । सोदर्याणामजर्यं हि तथैव प्रथते मिथः ॥ २७४ ॥ निर्ममावनुजन्माऽपि निर्णितां भक्तिमग्रजे । जनके यादृशी भक्तिस्तादृक्कार्याऽग्रजेऽपि यत् ॥ २७५ ॥ इतीतरेतरं वित्त वित्तयोरविभेदतः । कियानपि व्यतीयाय शंमयः समयस्तयोः ॥ २७६ ॥ अनयोः परमन्योन्यमसूयामासतुः स्त्रियौ । ईर्ष्यारोषादयो दोषाः सुलभाः खलु योषिताम् ॥ २७७ ॥ ऋतेऽपि ते निमित्तं च चक्रतुः कलहायितम् । कलावुत्तरलायन्ते महिला हि स्वभावतः ॥ २७८ ॥ वार्यमाणोऽपि नापैति पतिभ्यां कलहस्तयोः । प्रसर्पन्नापगापूरः केन रोद्धुं हि पार्यते ॥ २७९ ॥ | दयितावचनैः प्रीतिरहीयत तयोरपि । दुग्धं काञ्जिकयोगेन विकारं भजते न किम् ॥ २८० ॥ सञ्चक्राम क्रमाद्रामाकलहः प्रेयसोरपि । लगति प्रति गेहे हि समीपस्थं प्रदीपनम् ॥ २८९ ॥ स्त्रियो मूलमनर्थानामिति मिथ्या कथं प्रथा । कलिर्यतः कुलीनानामपि स्यात्तत्प्रयोगतः ॥ २८२ ॥ उन्मीलत्कलिवल्लिफुल्लनकृते या मेघमालायते या दत्ते गलहस्तमस्तकरुणं मातापितृप्रेमणि । बन्धुप्रीतिलतावितानभिदि या निस्त्रिंशधारायते तस्या युक्तमशेषदोषसजुषो वामेति नामोच्यते ॥ २८३ ॥ ततस्तौ स्वयमालोच्य विभज्य विभवं निजम् । लक्षं लक्षमुपादाय बिभिदाते सहोदरौ ॥ २८४ ॥ तस्माद्भिनस्य भद्रस्यावर्द्धन्त बहुधा श्रियः । तिग्मभानोर्विभिन्नस्य कला इव कलावतः ॥ २८५ ॥ लाभ एवाभवत्तस्य सर्वत्र व्यवसायतः । समग्रं हि समीचीनं संमुखीने स्वकर्मणि ॥ २८६ ॥ न्यायोपात्तं निजं वित्तं कुरुते स्म स पात्रसात् । न्यासी
1
Page #224
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१०८॥
सप्तमः प्रकाश
। प्रत्युताऽभाग्यता
दिने दिने तदाऽस्तं प्रयाते हि रकुरा
नैव्यमस्य ।
कुर्वन्नु सुस्थानलाभाल्लाभाभिलाषुकः ॥२८७॥ तस्योत्तरोन्नतिप्राप्तपुण्यपर्जन्ययोगतः। प्रावृषेण्यस्रवन्तीव लक्ष्मीः स्फातिमुपेयुषी ॥ २८८ ॥ प्रवृद्धे च धनेऽधत्त प्रतिष्ठाऽस्य पटिष्ठताम् । दीपेऽधिकं प्रदीप्ते हि प्रकाशो हि प्रवर्धते ॥ २८९ ॥ द्वितीयस्य पुनर्लक्ष्मीः क्षीयते स्म क्षणे क्षणे । पीयूषांशोरिव ज्योत्स्ना कृष्णपक्षमुपेयुषः ॥२९० ॥ वाणिज्यादौ मुदा तेन न्यासि लाभाशया धनम् । प्रत्युताऽभाग्यतो हस्तन्यस्ततोयमिवात्रुटत् ॥ २९१॥ वह्निस्तेनाम्बुभूपाद्यास्तद्रव्यमुपदुद्रुवुः । पराङ्मुखमशेष हि प्रतिकूले विधातरि ॥ २९२ ॥ दिने दिने तदीयेऽतिहीयमाना क्रमाद्रमा । बभूवोत्कर्षगग्रीष्मसरसीव क्रशीयशी ॥ २९३ ॥ प्रहीणे द्रविणे तस्य हीयन्ते स्म गुणा अपि । तपनेऽस्तं प्रयाते हि स्फरन्ति किरणाः किमु | ॥ २९४ ॥ महत्त्वं चास्य तद्रंशे भ्रश्यते स्म समन्ततः । प्रदीपे खलु निर्वाणे प्रकाशोऽप्यपसर्पति ॥ २९५ ॥ नैःस्व्यमस्य | सुखोन्मेषसर्वकषमभूत्तथा । यथाऽजायत संशीतिरशनादिविधावपि ॥ २९६ ॥ दौःस्थ्येन दु:स्थितः प्राच्यां तादृशी|मृद्धिमद्भुताम् । स्मारं स्मारं स खेदाम्बुनिधिमग्न इवाऽभवत् ॥ २९७ ॥ भ्रातृसंपत्प्रकर्षश्च तस्याऽस्वस्यातिदुःखदः। तृषार्तस्याध्वनीनस्य ग्रीष्मातप इवाभवत् ॥ २९८ ॥ कुतोऽप्यनाप्नुवन् द्रव्यं हृदि निर्वेदमेदुरः। दध्यौ विध्यातधीधातुरीामुन्मेषयन्नयम् ॥ २९९ ॥ सर्वदाऽपि व्ययेऽप्यस्य वित्तं कृपवदव्ययम् । व्ययाभावेऽपि मेऽत्रुट्यदटवीस्थतटाकवत् ॥ ३०॥ तन्मां प्रतार्य मात्सर्याद्धनं मायाविनाऽमुना । स्थाप्यते स्म तिरोधाय किमकृत्यं हि मायिनः ॥ ३०१॥ इति ध्यात्वा समं भ्रात्रा कलहं स प्रचक्रमे । जडस्य हि द्वयस्यापि निम्नमार्गानुगामिता ॥ ३०२॥ ततो भद्रः सुभद्रात्मा सान्द्रानन्दमुवाद तम् । भ्रातः! किमयमारेभे संरम्भेण कलिस्त्वया॥३०३॥ कलिः सकलकल्याणवल्लीजालदवानलः। परैरपि
Page #225
--------------------------------------------------------------------------
________________
| समं निन्द्यः किं पुनः स्वसहोदरैः ॥ ३०४ ॥ भव्यो द्रव्यादिलोभेन भ्रातरं वञ्चयेत कः । अन्यं वश्चयमानेन निजात्मैव हि वयते ॥ ३०५॥ तनोमि वञ्चनं मन्ये नान्यस्यापि कदाचन । तत्कथं धर्ममर्मज्ञो वञ्चये त्वां सहोदरम् ॥ ३०६॥ ततो मात्सर्यमुत्सार्य विधत्स्व स्वच्छतां हृदि । प्रीतिः प्रस्तररेखेव क्षीयते न यथाऽऽवयोः ॥ ३०७ ॥ यदि ते द्रविणं क्षीणं 3 व्यवसायादिहानितः । तदा मुदा मदावासागृहाण पुनरीप्सितम् ॥ ३०८ ॥ भ्रातस्त्वदीयमेवास्ति मदीयगृहगं धनम् । विभिन्नता पृथक्स्थानस्थितिमात्रा यदावयोः ॥ ३०९ ॥ इति प्रीतिवचोभिस्तं स पूर्व निरवीवपत् । तपार्कातपसंतप्तमिन्दुर्मदुरैरिव ॥ ३१॥ प्रीणयामास पश्चात्तं वित्तेनाप्यमितेन सः। सन्तो वाङ्मात्रसारा नो शारदाम्बुदवद्यतः॥३११॥ तदीयदानसम्मानप्रमनायितमानसः। अतिभद्रो विनिद्रात्मा जगौ सानन्दमग्रजम् ॥ ३१२ ॥न परं वयसा ज्येष्ठस्तं गरिष्ठर्गुणैरपि । तव धर्ममयी बुद्धिरीदृशी यस्य दृश्यते ॥ ३१३ ॥ त्वमौदार्यगाम्भीर्यधैर्यादिगुणवारिधिः । वाहमुन्मेपिरोषादिदोषाभिष्वङ्गदूषितः॥३१४ ॥ अभिन्नान्वयभावेऽपि कियदन्तरमावयोः । क्षीरार्णवप्रभवयोः पीयूषविषयो|रिव ॥ ३१५ ॥ क्षमस्व मम तद्रोपभाषितं परुषाक्षरम् । भ्रातस्त्वमेव पूज्योऽसि पितेवातः परं मम ॥ ३१६ ॥ इत्युद्दामलतमप्रेमसुधारसकिरा गिरा। भ्रातुः पल्लवयामास प्रीतिवल्लिं स सत्फलाम् ॥ ३१७ ॥ ततः स वित्तमादाय मुदितः सदनं
ययौ । यथार्हव्यवहारादौ तन्ययुत च युक्तितः॥३१८ ॥ कियन्तं समयं तेन तस्य सौख्यमजायत । प्रकाश इव दीपेन विभावयों महाभरे ॥ ३१९ ॥ त्रुट्यति स्म तदप्यस्य निष्पुण्यस्य धनं क्रमात । चिरं न वारिणः काणे घटे हि घटते |स्थितिः॥ ३२०॥ धनाभावे पुनस्तस्य तथैवाजनि दुःस्थता । तमस्विनीव तिग्मांशावुदीयास्तमुपेयुषि ॥ ३२१ ॥ स्नेह
Page #226
--------------------------------------------------------------------------
________________
सप्तमः प्रकाश।
दानप्रदीपसान्द्रः पुनर्भद्रस्तस्मै वित्तमदत्त सः। स किं बन्धुः समृद्धो यो वैधुर्ये नोक्रेन्निजम् ॥ ३२२ ॥ इत्येकविंशतिं वारांस्तस्मै
सारमसौ ददौ । परेषामुपकारे हि नोद्विजन्ते महाशयाः॥ ३२३ ॥ दत्तं दत्तं धनं तस्य पुनः पुनरहीयत । भूयोऽपि ॥१०९॥
स्थापितं सूर्ये पानीयं किमु तिष्ठति ॥ ३२४ ॥ तन्न मुञ्चति तत्पृष्टिं राक्षसीव दरिद्रता । भ्राता हि धनदानेऽलं नानुकूल्ये तु कर्मणः ॥ ३२५ ॥ भद्रस्याहो ! समुन्निद्रमभङ्गं भाग्यवैभवम् । यदेवंविधदानेऽपि धनमस्य प्रवर्धते ॥ ३२६ ॥ अहो ! उदारता काऽपि निर्निभास्य निभाल्यताम् । वित्तं त्रिः सप्तकृत्वो यः सोदराय ददौ मुदा ॥ ३२७ ॥न नाम्नवातिभद्रो|ऽयमर्थतोऽपि तथा ध्रुवम् । भद्रं भ्रातृपृथग्भावदिनादस्य न जातु यत् ॥ ३२८ ॥ पूर्व न प्रत्तमेतेन वितरन् वा निवारितः। अन्यथा कथमृक्थं हि हीयतेऽस्य पुनः पुनः ॥ ३२९ ॥ तुल्ययोरपि वाणिज्यनीवीरूपकुलादिना । पुण्यापुण्या
नुभावेन कियदन्तरमेतयोः॥३३० ॥ इत्याबालमहीपालं रसनारङ्गमण्डपे । ननर्त नर्तकीवोच्चैः कीर्त्यकीर्तिप्रथा तयोः M॥ ३३१ ॥ षभिः कुलकम् ॥ अन्यदा पुण्यदानैकशीलः श्रीशीलसूरिराट् । तत्रागमत् समुन्मषिविशेषज्ञानभूषितः ॥३३२॥
भूपो भद्रातिभद्रौ तौ पौराश्चानन्दपूरतः । वेगेन वन्दकाः सर्वे जग्मुस्तं गुरुपुङ्गवम् ॥ ३३३ ॥ प्रणम्य विधिना तेषु निष&णेषु ऋषिप्रभुः। सुधारससधर्माणं निर्ममे धर्मदेशनाम् ॥३३४ ॥ देशानान्ते गुरूत्तंसं प्रश्नयामास भूपतिः। प्रभो !
भद्रातिभद्राख्यौ युग्मजौ भ्रातराविमौ ॥ ३३५ ॥ अनयोजन्मलग्नादिसामान्येऽपि विभिन्नयोः । पूर्वस्य स्फायते वृद्धि-I रितरस्य तु हीयते ॥ ३३६ ॥ तदत्र कारणं कर्णपारणं प्रणिगद्यताम् । येन स्यात्प्रीतिरेतेषां सर्वेषां परिषन्नृणाम् ॥ ३३७॥ ततो गुलगिराऽऽचष्ट स्पष्टनिष्टङ्कितार्थया । राजंस्तत्रोभयत्रापि हेतुः कर्म शुभाशुभम् ॥ ३३८ ॥ समानसाधनत्वेऽपि
Page #227
--------------------------------------------------------------------------
________________
NAS45445AR
यो विशेषः फलं प्रति । स पुनः प्राणिनां भिन्नप्राच्यकर्मनिमित्तकः ॥ ३३९ ॥ शुभाशुभं यथा पूर्वमिमाभ्यां कर्म निर्ममे।है। कथ्यमानं महीनाथ ! तथा सम्यग् निशम्यताम् ॥ ३४०॥ ___ बभूव नगरी कान्ती भान्ती यात्यद्भुतश्रिया । भरतं भूषयामास कासारं पद्मिनी यथा ॥ ३४१॥ तत्र शङ्ख इवोन्मेपिशब्दः सहजनिर्मलः । श्रेष्ठी शङ्खाभिधश्चित्रमन्तःकुटिलतोज्झितः॥३४२॥ तस्य धर्मोपयोगेन निर्मलाः सकलाः कलाः। कुम्भोद्भवोदयेनेव बभूवुः सलिलाशयाः॥३४३॥ दयिता तस्य पद्मश्रीः पद्मश्रीरिव दिद्युते । शीलसौरभपूरेण वासयामास या दिशः॥ ३४४ ॥ अगण्यपुण्यलावण्यपुण्यश्रीस्तनया तयोः। पुण्यश्रीरिव या मूर्तिमती वरयितुर्बभौ ॥ ३४५॥ धन्यपुण्यकनामानौ नानाकर्मसु कर्मठौ । तस्य कर्मकरौ शुद्धिमत्करौ विनयाकरौ ॥ ३४६॥ धन्यः सुसाधुसंबन्धशुद्धबुद्धिरधारयत् । धर्मानुरागमन्यस्तु न वैगुण्येन कर्मणाम् ॥ ३४७ ॥ श्रेष्ठिना निजकन्यायाः पाणिग्रहमहोऽन्यदा। संसारनाटकस्येव पूर्वरङ्गः प्रचक्रमे ॥ ३४८ ॥ तत्रौदनादिपाकादिकर्त्तव्येषु न्ययुत तौ । श्रेष्ठी कर्मकरौ धन्यपुण्येनेव प्रणोदितः ॥ ३४९ ॥ भवाब्धेस्तारणायेव हस्तविन्यस्ततुम्बकः । साधुसङ्घाटकः पाकस्थानं तत्राप पापमुक् ॥ ३५०॥ तं दृष्ट्वा धन्य
मूर्धन्यो धन्यः पुण्यमतिर्मुदा । अभ्युदस्थादिवादातुमुच्चैः पुण्यमयं फलम् ॥ ३५१॥ सप्ताष्टानि पदान्येनं स रङ्गादभिहै जग्मिवान् । समायान्तीमिव स्वस्मिन्नसीमाद्भुतसंपदम् ॥ ३५२ ॥ सम्यगविधि तमानम्य भक्त्या पर्यन्वयुत सः। प्रस-16
द्यादिश्यतामत्र केनागमत हेतुना ॥ ३५३ ॥ अथाग्रणीजगौ साधुः सूरि रिपरिच्छदः । विहरन् सह सार्थेन प्राप्तोऽस्मि पुरतो बहिः ॥ ३५४ ॥ तपस्विशैक्षस्थविरक्षुल्लाद्यास्तत्र संयताः। भृशं पिपासिताः सन्ति श्रान्ता बहुविहारतः॥ ३५५ ॥
Page #228
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ११० ॥
तदर्थं प्रासुकं वारि विहर्तुं नगरान्तरे । पर्यटन्तो वयं तावदागमाम भवद्गृहम् ॥ ३५६ ॥ ततः प्रमोदरोमाञ्च सञ्चयाश्चितमूर्तिकः । धन्यः पुण्यवतां मान्यो विनयात्तं व्यजिज्ञपत् ॥ ३५७ ॥ धन्याः सुलब्धजन्मानस्त एव भुवि मानवाः । तुभ्यं प्रशस्तवस्तूनि ददते ये प्रमोदतः ॥ ३५८ ॥ अस्वामित्वेन चास्माकं तद्दाने न प्रभूष्णुता । न वापः सूपपादो हि कलमानामकिञ्चनैः ॥ ३५९ ॥ कुण्डिकासु तदेतासु प्रभूतं तन्दुलोदकम् | त्याज्यत्वादस्मदायत्तं गृह्यतामनुगृह्यताम् ॥ ३६० ॥ एवमालापमावापं दान कल्पमहीरुहः । तन्वानं धन्यमाचख्यौ पुण्यकोsपुण्य काग्रणीः ॥ ३६१ ॥ एते मायाविनो मित्र ! परवञ्चनचञ्चवः । असत्यवादनिष्णाताः शौचाचारविवर्जिताः ॥ ३६२ ॥ न निरीक्षितुमप्येषां मुखमर्हति गर्हितम् । ततो न तोयमप्येभ्यो भ्रातर्दातुं तवोचितम् ॥ ३६३ ॥ एवं दानप्रतीषेधं निषेधं तु स्वशर्मणाम् । कुर्वाणं पुण्यकं धन्यः समन्यु| रिदमभ्यधात् ॥ ३६४ ॥ आः कर्णशूलमालापीः पापीयः किमिदं वचः । कथं चेदृशि दुर्वाक्ये ववले तव लोलया ॥ ३६५ ॥ निवृत्ताः सर्वपापेभ्यः प्रवृत्ताः पुण्यकर्मसु । अभी हि जगतः पूज्या ज्यायांसो गुणसंपदा ॥ ३६६ ॥ एषां संयमिनां निन्दां मदान्धा ये वितन्ते । खनयः खलु दुःखानां ते भवन्ति भवे भवे ॥ ३६७ || दौर्भाग्यं प्रगुणीकरोति तनुते दौर्गत्यमत्युल्वणं कीर्त्ति कृन्तति दुर्गतिं च चिनुते संपादयत्यापदम् । पापं प्रापयति प्रदीप्तिमभितो धर्म परिध्वंसते किं किं न व्यसनं तनोत्यसुमतां निन्दा मुनीन्द्राश्रया ॥ ३६८ ॥ परस्यापि भवेन्निन्दा नानाऽनर्थप्रथाकरी । किं पुनस्त्यक्तसङ्गानां मुक्तिमार्गेकगामिनाम् ॥ ३६९ ॥ ततो निन्दा मुनीन्द्राणां भ्रातर्माऽतः परं कृथाः । अनात्मनीनमात्मज्ञः कर्म प्रक्रमते हि कः ॥ ३७० ॥ एत एव पुनर्दानमर्हन्ति जगदर्हिताः । यदनन्तगुणं तेभ्यो वितीर्णमुपतिष्ठते ॥ ३७१ ॥ इति भक्तिवचोयुक्ति
सप्तमः प्रकाशः ।
॥ ११० ॥
Page #229
--------------------------------------------------------------------------
________________
सारणीसेकयोगतः। प्रापयन्नसमां स्फातिं दानपुण्यसुरद्रुमम् ॥ ३७२ ॥ स्वप्रमोदमिव प्राज्यमनवचं निजात्मवत् । तयोस्तण्डलपानीयं ददौ धन्यः स पुण्यधीः ॥ ३७३ ॥ युग्मम् ॥ तदा च पात्रदानेन दृढबन्धं बबन्ध सः। लक्ष्मीभोगफलं18 कर्म कार्मणं सर्वशर्मणाम् ॥ ३७४ ॥ तथा क्लिष्टपरीणामो निष्पुण्यः पुण्यकः पुनः। अबध्नादशुभं कर्म कारणं सकलाप-14 दाम् ॥ ३७५ ॥ क्रमेणाथ महीनाथ ! तौ विपद्य बभूवतुः । भद्रातिभद्रनामानाविमाविह सहोदरौ ॥ ३७६ ॥ पात्रदान महापुण्यपर्यन्यस्यावतारतः । स्फातिमायान्ति भद्रस्य संपदोऽस्य लता इव ॥ ३७७ ॥ असारमपि पात्रे हि दत्तं लाभाय | भूयसे । मुक्ताफलकृते शुक्तौ भवेन्मेघोदकं यथा ॥ ३७८ ॥ पात्रदानस्य माहात्म्यं स्तोतुं शक्ति व्यनक्ति कः । यस्य दास्य श्रिताश्चिन्तामणिकल्पद्रुमादयः ॥ ३७९ ॥ यत्सौभाग्यमभङ्गुरं यदसमं साम्राज्यमूर्जस्वलं यन्माहात्म्यमनश्वरं प्रसृमरा| | यत्कीर्तिरात्यन्तिकी। यद्दीर्घायुरसङ्ख्यसौख्यसुभगं यत्संपदोऽनापदः सोऽयं पात्रसुदत्तवित्तमहिमा निर्दम्भमुज्जृम्भते ॥३८॥ ददानं यस्तु दुर्बुद्धिरपरं प्रतिषिध्यति । अतिभद्रवदुन्निद्रं दारिद्यं तस्य जायते ॥ ३८१॥ यैः पुरा विनितं दानं भिक्षन्ते ते गृहे गृहे । परत्र कणमात्राय देहि देहीति वादिनः ॥ ३८२ ॥ यथार्ह येन यच्छन्ति कुत्स्यास्ते स्वच्छचेतसाम् । यच्छतः ।
प्रतिषेधन्ति ये परांस्ते पुनस्तराम् ॥ ३८३ ॥ दरिद्रता दुर्भगता सरोगता कलङ्किता दुर्गतिरल्पजीविता । भुजिष्यता द्वेषिX| जनप्रधृष्यता विराद्धदानस्य भवेभवेऽङ्गिनः॥ ३८४ ॥ ततो भव्याः ! सुपात्रादौ यथासंपत्ति दीयताम् । यच्छतां पुनरु-18 |त्साहमाधातुमवधीयताम् ॥ ३८५ ॥ सकर्णोत्कर्णताहेतुमित्याकर्ण्य गिरं गुरोः । नृपाद्या मुदिताः पात्रदानसादरतां दधुः ॥ ३८६ ॥ सहोदरौ च तौ प्राच्यं सुकृतं दुष्कृतं क्रमात् । नयन्तौ गोचरं सम्यगनुमोदननिन्दयोः॥ ३८७ ॥ प्रबुद्धह
Page #230
--------------------------------------------------------------------------
________________
*
दानप्रदीपे
॥११॥
*
*
*
दयौ शुद्धाध्यवसायविशेषतः। सपदि प्राक्तनी जाति स्मरतः स्म सविस्मयौ ॥ ३८८ ॥ यथोक्तस्वभवालोकभवदस्तोक
सप्तमः संमदौ । ततस्तौ स्फुरतीभक्ती प्रणम्य गुरुमूचतुः॥ ३८९ ॥ भगवन्नावयोः सम्यक् प्राग्भवं प्रोचिवान् भवान् । जाति-18 प्रकाशः। स्मृतिवशादावां पश्यावस्तं तथैव यत् ॥ ३९० ॥ अहो ! भवादृशां कोऽपि ज्ञानादर्शोऽयमद्भुतः । दवीयांसोऽपि भासन्ते यस्मिन् भावाः समन्ततः॥ ३९१ ॥ धराम्बरार्णवादीनां यदि वास्ति ससीमता। न पुनः संविदो विश्वदृश्वर्या हि भवादृशाम् ॥ ३९२ ॥ इति स्तुत्वा गुरुं तस्य समीपे तौ प्रमोदतः। श्राद्धधर्म प्रपेदाते द्वादशवतसुन्दरम् ॥ ३९३ ॥ सम्यक्त्वाद्यपि भूपाद्याः प्रत्यपद्यन्त सोद्यमाः । रत्नाकरं गतो रत्नं नादत्ते का सचेतनः॥ ३९४ ॥ ततोऽभिवन्ध सूरीन्द्रं भूमीन्द्रः सपरिच्छदः । जग्मुर्धाम निजं धर्मसादरौ तौ च सोदरौ ॥ ३९५ ॥ अस्फायत तयोः प्रीतिर्धर्मरङ्गानुषङ्गतः। वर्धते न विधोः सङ्गे किं वेला वीचिमालिनः॥ ३९६ ॥ प्रत्यहं तौ सुपात्रादिदाने प्रावृततांतमाम् । निर्णीतसत्फले हेतौ नालसः स्यादवालिशः॥३९७॥ संवदोऽप्यतिभद्रस्य प्रावृधन धर्मयोगतः। वीरुधः किं न वर्धन्ते वसन्तस्यावतारतः॥३९८॥ तावित्थमाराध्य चिरादनेकधा धर्म विशुद्धं सुरधाम जग्मतुः । भुक्त्वा पुनर्मानुषदिव्यसंपदो मुक्ति क्रमात्स्तोकभवैरवा
प्स्यतः॥३९९॥ इत्यल्पस्यापि निःसीमं पात्रदानस्य वैभवम् । सम्यग् विभाव्य भो भव्याः! यतध्वं तत्र सन्ततम् ॥४०॥ NI इत्यास्वाद्य मुनेः पुण्यगिरो रसवतीनृपः । परमां प्रीतिमापन्नः प्रश्नयामास तं गुरुम् ॥ ४०१ ॥ मयाऽनया च सुन्दर्या
सुकृतं किं कृतं पुरा । योगाभावेऽपि यगोगाः समग्राः समगंसत ॥ ४०२॥ चारणः श्रमणः प्रोचे ततः खेचरचक्रिणम् ।। युवयोरपि सत्पात्रदानादेव महर्द्धयः॥४०३ ॥ तथाहि
*
Page #231
--------------------------------------------------------------------------
________________
अत्रैव भरतक्षेत्रे मगधावनिमण्डनः । शालिग्रामाभिधो ग्रामो रामणीयकभूरभूत् ॥४०४॥ धनदेवोऽभवत्तत्र कुटुम्बी कपटोज्झितः । अल्पर्द्धिरप्यहो ! दाने यः सदाऽप्युदकण्ठत ॥ ४०५ ॥ पत्नी यशोमती तस्य प्रशस्यगुणभूषणैः । भूषया-11 मास याङ्गानि स्वर्णभारं विनाऽप्यहो ! ॥ ४०६ ॥ तयोः संपत्त्यभावेऽपि स्थेमप्रेमतया सुखम् । जगाम समयः शर्महेतुःद्र प्रेम हि गेहिनोः॥४०७॥ अन्यदा सदने तस्य सदनेकगुणाकरः। निरतीचारचारित्रः शान्तो रस इवाङ्गवान् ॥४०८॥ मुनीश्वरो धर्मरुचिर्मासक्षपणपारणे । तदारिद्यमुपद्रोतुं कल्पद्रुम इवागमत् ॥४०९॥ युग्मम् ॥ तमालोक्य गृहोपेतं दम्पती तौ महामती । दधानौ सान्द्रमानन्दं चेतसीत्यविचिन्त्यताम् (१)॥ ४१० ॥ अहो ! नौ फलितं पुण्यैरहो! पापैः पलायितम् । अहो ! वन्ध्यागृहे सूनुरहो ! कल्पतरुमरौ ॥४११॥ गङ्गाहो! जङ्गलस्यान्तरहो! दर्श निशामणिः । ग्रामे|ऽस्मिन् नौ गृहे प्राप यदयं साधुरीदृशः॥ ४१२ ॥ यदीदृशाय पात्राय भत्त्या किमपि दीयते । तदा सफलता लक्ष्म्या जन्मनो जीवितस्य च ॥४१॥ प्रदत्तं यत्तदप्यस्मै फलाय महते भवेत् । गवे तृणमपि प्रत्तं स्निग्धदुग्धाय जायते ॥४१४॥ इति मानसिकोल्लासस्मेररोमाञ्चकञ्चुको । ससंभ्रमं समुत्थाय तं मुनि तौ विनेमतुः॥ ४१५ ॥ ततः प्रमोदबाष्पाम्बुपूरैः पुण्यमहीरुहम् । सिञ्चन्ताविव पडूच क्षालयन्ताविवाखिलम् ॥ ४१६ ॥ गृहप्रधानैः शुद्धान्नैर्वर्धमानशुभाशयौ । प्रत्यलाभायतामेतौ तं मुनि बहुमानतः॥४१७ ॥ युग्मम् ॥ इति सर्वोपधाशुद्धपात्रदानप्रसादतः। जातौ तौ विधिना मृत्वा युवां सर्वाद्भुतद्धिकौ ॥४१८ ॥ महिमानममानं हि पात्रदानस्य किं स्तुमः । भान्ति यस्याग्रतो भृत्यकल्पाः कल्पद्रुमादयः ॥४१९॥ सौभाग्यं जगदद्भुतं प्रगुणयत्यैश्वर्यमत्यूर्जितं स्वायत्तं तनुतेतरां वितरति स्वर्भोगभङ्गीः शुभाः। कीर्ति स्फूर्ति-15
Page #232
--------------------------------------------------------------------------
________________
दानप्रदीपे
सप्तमः प्रकाशः।
॥११२॥
मतीमतीव कुरुते दत्ते च मुक्तिश्रियं पात्रत्रा हि कृतं हितं तनुमतां वित्तं विधत्ते न किम् ॥ ४२०॥ तनोति चुलुकेन यः सलिलनाथपाथःप्रमां प्रभुर्गगनसङ्गतं गणयितुं च तारागणम् । प्रमाति सिकताकणानपि तरङ्गिणीसङ्गिनो न वक्तुमयमप्यलं भवति पात्रदाने गुणान् ॥ ४२१॥ __ एवं पूर्वभवं सौवं पात्रदानमनोहरम् । श्रुत्वा विद्याधरस्वामी सप्रियः पिप्रियेतमाम् ॥ ४२२ ॥ ततो निधिमिवादाय श्राद्धधर्म तदन्तिके । प्रीता प्रणम्य तं प्राप स्वं पुरं खेचरेश्वरः ॥ ४२३ ॥ पात्रदानफलं तादृग् जानानः स दिने दिने । न्यायोपात्तं निजं वित्तं पात्रसादकरोन्मुदा ॥ ४२४ ॥ नन्दीश्वरादितीर्थानां यात्रा मात्रातिगैर्महैः । पवित्राः सूत्रयामास निस्समाः स विमानगः ॥४२५॥ दुरुत्तरभवावारपारतारतरीमिव । त्रिकालं रचयामास जिनार्थी स विचारवित् ॥४२६॥ पौषधावश्यकादीनि पुण्यान्ययमनन्यधीः। न्यषेवतौषधानीव हन्तुं भावरुजां व्रजान् ॥ ४२७ ॥ धर्ममाराधयन्नेवं भुञ्जानश्च सुखाद्वयम् । स चिरं पालयामास साम्राज्यं सुरराजवत् ॥ ४२८ ॥ अन्येधुनगरोद्यानप्राप्तश्रीगुरुसन्निधौ । शुश्राव भवसंतापनाशनी देशनामसौ ॥ ४२९ ॥ मानुष्याचं समासाद्य धर्ममाद्रियते न यः।न मन्दो मणिमादत्ते रोहणाद्रिमवाप्य सः॥४३०॥ भवारण्ये कषायाग्निज्वालाजालकरालिते । शरणं भवरीणानां धर्म एवोन्नतं स्थलम् ॥ ४३१॥ धर्मः प्राञ्चति नौचित्यं विषयासक्तचेतसाम् । कौङ्कमः किमु रागः स्यान्नीलीभावितवाससाम् ॥ ४३२॥ विषयान् विषवत्यक्त्वा धर्मः सम्यग् न्यषेवि यैः । बभूव मानवं जन्म तेषामेव फलेग्रहि ॥ ४३३ ॥ कायः सैकतकेलिवेश्मकमलातूलावलीचञ्चला तारुण्यं करिकर्णतालतरलं वातूलतुल्यं बलम् । भोगास्तुङ्गतरङ्गभङ्गरतमाः स्वप्नोपमाः सङ्गमाः श्रीधर्मस्तु सहानुगः परभ
॥११२॥
Page #233
--------------------------------------------------------------------------
________________
वेष्वेकः सुखाकृद्धवः ॥४३४॥ धर्मश्च दर्शनज्ञानचारित्रात्मा जिनोदितः। अमुं च सम्यगारा मधीष्टे सर्वसंवृतः॥४३५॥ तथा चामं समाराध्य सिद्धाः सिद्ध्यन्ति जन्तयः । सिद्धिमाप्स्यन्ति चानन्तास्तदत्रैव प्रयत्यताम् ॥ ४३६ ॥ एवं श्रीगुरुवारिदे सुविशदं पुण्यामृतं वर्षति क्षोणीशस्य मनोऽवनौ प्ररुरुदुश्चारित्रधर्माकुराः । पूर्ण साम्यसरः सलोभहुतभुग भेजे प्रशान्ति भृशम् द्राग् वैराग्यतरङ्गिणी च परितः पूरं परं प्रापुषी ॥ ४३७ ॥ विसृज्य सूनवे राज्यं ततो विद्याधरेश्वरः। विधायाहतचैत्येषु स्पष्टमष्टाह्निकामहम् ॥ ४३८ ॥ दान्तात्मा गुरुपादान्ते पुत्रसंसूत्रितोत्सवः। समं मदनमञ्जयों प्रव्रज्यामाददे मुदा॥४३९॥ युग्मम् ॥ सुचिरं निरतीचारं चारित्रं परिचर्य तौ । प्रपद्यानशनं प्रान्ते धुसंपदमविन्दताम् ॥४४०॥ ततो मानुष्यमासाद्य धर्मश्रद्धादिबन्धुरम् । अचिराचरणं प्राप्य परमं पदमाप्स्यतः ॥ ४४१ ॥ पात्रान्नदानमहिमानममानमेवमाकये पुण्यमतयस्तनुतैकचित्ताः । तत्र प्रयत्नमसपत्नमयत्नमेव वृण्वन्ति ये न निखिलाः सुखसंपदो वः ॥ ४४२॥
॥ इति श्रीतपागच्छनायकश्रीजगचन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानप्रदीपनाम्नि
ग्रन्थे पात्रभक्तदानप्रकाशनः सप्तमः प्रकाशः॥ ग्रं० ॥४६८॥
Page #234
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥११३॥
अष्टमः प्रकाशः।
॥ अथाष्टमः प्रकाशः॥ श्रीवर्धमानः सुखवृद्धयेऽस्तु विशुद्धमन्नं घटयन सुपात्रे । यः पूर्वमार्हन्त्यसुरद्रुबीजमुवाप विभ्रन्नयसारभावम् ॥१॥
अथ धर्मार्थदानस्य प्रकारः सुकृताकरः । सुपात्रपानदानाख्यः पञ्चमोऽयं प्रपञ्चयते ॥२॥ सर्वारम्भनिवृत्तेभ्यः कल्पते प्रासुकोदकम् । यावज्जीवं हि षड्जीवत्राणं तैः प्रत्यपद्यत ॥ ३॥ एकस्मिन्नपि यद्विन्दौ संख्यातीता हि जन्तवः । तस्याम्भसः समारम्भः संयतस्योचितः कथम् ॥४॥ गार्हस्थ्येऽपि स्थितो वीरः सोदरस्योपरोधतः । शीतोदकसमारम्भं नारेभे वत्सरद्वयम् ॥ ५॥ अप्कायस्य समारम्भे षण्णामपि विराधना । पञ्चानामन्यकायानां यस्मादम्भसि संभवः॥ ६॥ यत उक्तं श्रीओघनिर्युक्तौ
"जत्थ जलं तत्थ वणं जत्थ वणं तत्थ निच्छओ अग्गी । तेऊवाउसहगया तसा य पच्चक्खया चेव ॥१॥" प्रतिनोऽपि तदारम्भमारभन्ते यके पुनःन ते संयमिनः किन्तु वेषपाषण्डमाश्रिताः॥७॥ यदुक्तमुपदेशमालायाम्
"दगपाणं पुप्फफलं अणेसणिज गिहत्थकिच्चाई। अजया पडिसेवंती जइवेसविडंबगा नवरं ॥१॥" ततः प्रासुकमेवाम्बु ग्रहीतुं युज्यते यतेः । ऊचुस्तच्चारनालाद्यं नवधा गणधारिणः ॥ ८॥ यदुक्तं श्रीकल्पादौ"उस्सेइम १ संसेइम २ चाउलउदगं ३ तिल ४ तुस ५ जवाणं ६।आयाम ७ सोवीरं ८सुद्धविअर्ड ९ जलं नवहा ॥१॥"
तदन्यतममेवैषां गृह्णन्ति श्रुतवेदिनः। दौर्गत्याय दुरन्ताय जिनाज्ञातिक्रमो यतः॥९॥ यत्तु वर्णान्तरप्राप्तमागमे कचिदुच्यते । तदमीषामभावे हि न पुनर्मुख्यवृत्तितः॥१०॥ तदुक्तं प्रवचनसारोद्धारे
॥११३॥
Page #235
--------------------------------------------------------------------------
________________
"गिहिज्ज आरनालं अंबिलधावण तिदंडउक्कलि । वन्नंतराइपत्तं फासुअसलिलं च तयभावे ॥१॥" न चोत्सर्गेण तस्यापि ग्रहणं सङ्गतं यते। स्युः प्रवृत्त्यनवस्थादिदोषास्तस्य ग्रहे यतः ॥११॥ श्रूयते वर्धमानेन केव-I लज्ञानशालिना । गच्छता प्रतिबोधार्थमुदायनमहीभुजः ॥ १२॥ अचित्तमपि तापाचैहुंदाद्यम्बु तपस्विनाम् । प्राणान्तेऽ. प्यनुमेने नानवस्थादोषभीरुणा ॥ १३ ॥ युग्मम् ॥ किञ्च प्राचीनवृष्ट्यादौ तटाकादिगमप्यदः । वर्णान्तरादिभावे न यते
ह्यं प्रसज्यते ॥ १४ ॥ श्रुतोक्तमपि निन्दन्ति ये पुनः काञ्जिकादिकम् । नूनं शून्यधियां तेषां भिक्षुताऽपि न वीक्ष्यते । ॥१५॥ यदुक्तमुत्तराध्ययने
"आयामगं चेव जवोदगं च सीअं सोवीरं च जवोदणं च।
नो हीलए पिण्डं नीरसं तु पंतकुलाइं परिवए जे स भिक्खू ॥१॥” इति ॥ न चानागमिकं वाच्यं जरन्नीरं मनीषिणा । नवानामिव तस्यापि व्यक्त्यैवोक्तिर्यदागमे ॥१६॥ तथा चोक्तं श्रीनिशीथभाष्ये"कंजिअआयामासइ संसहसिणोदगस्स वा असई । फासुअजलं तसजढं तस्सासइ तसेहिं जं रहि॥१॥" इति। गाथायां संसठ्ठशब्देन-गवंगरसभायणनिक्केअणज तं संसहुदगं भन्नइ ॥ इति निशीथचूर्णी व्याख्यातं तच्च जरत्पानीयमेव । तथा दशवैकालिकेऽपि
"तहेवुच्चावयं पाणं अदुवावारधोअणं ।" इत्यादि ।
Page #236
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ ११४ ॥
न चैतानि यतेरेव गदितानि जिनोत्तमैः । यत्पानं श्राद्धमाश्रित्य नान्यदाकर्ण्यते श्रुते ॥ १७ ॥ गृहिणामपि सच्चित्त. त्यागश्च श्रूयते श्रुते । तेषां तस्मादिमान्येव ज्ञायन्ते पारिशेष्यतः ॥ १८ ॥ यदि स्वयं न गृह्येरन्नेतानि गृहिभिस्तदा । | यतेरपि न कल्पन्ते तदर्थारम्भसंभवात् ॥ १९ ॥ जिनाज्ञां मन्यमानेन तेषामन्यतरत्ततः । गृहिणापि गृहीतव्यं प्रासुको दकपायिना ॥ २० ॥ देयं तदेव साधुभ्यः सुधिया भावशुद्धितः । जिनाज्ञयैव यद्दानं निदानं शिवसंपदाम् ॥ २१ ॥ दत्ते यः शमचित्तेभ्योऽनवद्यमुदकं मुदा । निःशेषेभ्योऽपि दुःखेभ्यस्तेने तेन जलाञ्जलिः ॥ २२ ॥ मुनिभ्यः प्रासुकं वारि प्रयच्छन् स्वच्छभावतः । दिव्यां संपदमाप्नोति रत्नपालनृपो यथा ॥ २३ ॥ तथाहि
अस्ति स्वस्तिकरस्वर्णमणिप्रासाददीप्तिभिः । पाटलीकृतसर्वाशं पाटलीपुरपत्तनम् ॥ २४ ॥ पुरं विनयपालाख्यः क्ष्मापालस्तदपालयत् । अभूद्विश्रामभूमिर्यः सर्वराजगुणश्रियाम् ॥ २५ ॥ राज्यवल्यालवालः श्रीरत्नपालस्ततोऽजनि । तनयो विनयोलासिसर्वाङ्गीणगुणोदयः ॥ २६ ॥ समकालं तमालिङ्गन् सरङ्गं सकलाः कलाः । तदत्यद्भुतसौभाग्यकृतव्यामोहना इव ॥ २७ ॥ निरुध्यमानं हृदयं कलाभिर्मुखं गिरा पाणियुगं च लक्ष्म्या । विलोक्य सौत्सुक्यमिवालिलिङ्ग सर्वाङ्गमेनं नवयौननश्रीः ॥ २८ ॥ पश्यतां तृप्तये नासीद्वर्यसौन्दर्यवानसौ । भुञ्जानानां तनूदर्याः कदर्यायाः करो यथा ॥ २९ ॥ निषेदिवांसमन्येद्युर्नरेन्द्रं प्रौढपर्षदि । प्रणम्य पाणिमायोज्य प्रतीहारो व्यजिज्ञपत् ॥ ३० ॥ प्रहिता वीरसेनेन राज्ञा हंसपुरेशिता । प्रधानपुरुषा द्वारि प्राप्तास्त्वदर्शनोत्सुकाः ॥ ३१ ॥ शीघ्रम | कारयेत्युक्तौ राज्ञस्तेन प्रवेशिताः । प्राभृतं ते पुर|स्कृत्य भक्त्या नेमुर्नरेश्वरम् ॥ ३२ ॥ अथ तान् सुखमासीनानालापयदिलापतिः । कुशलं वीरसेनस्य श्रीमान् देशः सुखी
अष्टमः प्रकाशः।
॥ ११४ ॥
Page #237
--------------------------------------------------------------------------
________________
जनः॥ ३३ ॥ प्रत्यूचुस्तेऽपि यस्य स्वं सहायोऽसि महामहाः। तद्राज्ये विघ्नमाधातुं न देवोऽपि प्रगल्भते ॥ ३४॥पर |श्रीवीरसेनस्य सुता शृङ्गारसुन्दरी । अस्ति सौभाग्यतः स्वर्गिसुन्दरीणां विजित्वरी ॥३५॥ कौशलं कलयामास कलास सकलास्वपि । साजात्येन सरस्वत्या क्लृप्तसाहायकेव सा ॥ ३६ ॥ तस्या हृदा परित्यक्त कौटिल्यं कुन्तलैः श्रितम् । कुन्तलैरुज्झिता मध्यमध्यासामास तुच्छता ॥३७॥ मुक्तामध्येन दृग्द्वन्द्वमध्युवास विशालता । दृग्द्वन्द्वेन च निर्मुक्ता सूक्ष्मता शिश्रिये मतिम्॥३८॥वक्रता च परित्यक्ता मत्या भेजे भुजायुगम् । त्यक्ता सरलता तेन नासावंशमशिश्रियत् ॥३९॥ त्रिभिर्विशेषकम् । मन्ये सर्वोत्तमैः स्त्रैणपरमाणुभिरद्भुतैः । यां व्यधत्त विधिस्तत्र शेषैः स्वयोषितः पुनः॥४०॥ दृष्ट्वाऽन्ये धर्नृपो दध्यौ योग्यां पाणिग्रहस्य ताम् । अस्या निष्प्रतिरूपायाः प्रतिरूपोऽस्तु कः पतिः॥४१॥ पप्रच्छ च महामात्यानुचितं दुहितुः पतिम् । तेऽप्यूचुर्देवदेव्येषा साक्षादेवावतेरुषी ॥ ४२ ॥ तदस्या दृश्यते देव ! दुर्लभः संनिभः पतिः। अतः स्वयंवरस्तस्या दमयन्त्या इवोचितः॥४३॥ स्वयंवरे प्रभूतेषु संभूतेषु हि राजसु । कदाऽपि प्राप्यते कोऽपि प्रतिरूपः सुतापतिः॥४४॥ नृपोऽप्यवेत्य तद्युक्तं कर्तुकामः स्वयंवरम् । जवादाहाययामास सर्वतो युवभूपतीन् ॥४५॥ परितः पुरमावासान् जन्यावासानिवाद्भुतान् । शतशः कारयामास तद्वासाय नृवासवः॥ ४६॥ शालिसूपाज्यतैलाम्बुतृणपूलादिसञ्चयान् । तेषु व्यदीधपद्भूमान्नौचित्यं क विपश्चिताम् ॥४७॥ आकारणाय युष्माकं न्ययुक्ष्महि वयं पुनः । तत्प्रसद्य प्रसद्येत प्रपूरयत तन्मुदः॥४८॥ पृथ्वीशः प्रत्युवाचाथ वाचा चारुविचारया । वीरसेनमहीशेन स्फीतप्रीतिवशात्मना ॥४९॥ अहो ! व्यधीयतास्माकमाकारणमसङ्गतम् । ज्यायसां तत्र नास्माकमागन्तुं समयो यतः
दा० २०
Page #238
--------------------------------------------------------------------------
________________
अष्टम: प्रकाश
दानप्रदीपे ॥ ५० ॥ युग्मम् ॥ द्वितीयवयसामेव योग्यता दारकर्मणि । युज्यते धर्मकर्मैव तृतीयवयसां पुनः॥५१॥ तदेनं नवता
तारुण्यमाकारयत मे सुतम् । रत्नपालमनालस्यं सर्वाङ्गीणगुणार्जने ॥५२॥ तेऽपि दृष्ट्वा स्मरं मूर्तमिव तं जातविस्मयाः। ॥११५॥
कन्यानुरूपं मन्यन्ते स्रष्टुः सृष्टिं च तुष्टुवुः ॥५३ ॥ अवधानमहो! धातुः प्राज्यकार्योऽपि यः सृजन् । स्त्रीपुंसावानुरूप्येण न विस्मरति सन्मतिः॥ ५४॥ तेऽपरेऽपि च पार्षद्यास्ततो भूपतिमूचिरे । इंडविवेकिता कस्य त्वां विनाऽन्यस्य वत्तेते ॥ ५५ ॥ ततश्चमूसमूहेन नृपः परिवृतं सुतम् । तमहाय विवाहाय प्रजिघाय शुभायतिम् ॥ ५६ ॥ कुमारोऽपि वशीकुर्वनुर्वीशान सर्वतः पथि । स्फायमानमहा हंसपुरोपान्तमुपेयिवान् ॥५७॥ अथाभिगम्य निर्दम्भसंभ्रम भवने वरे । कुमारं | स्थापयामास वीरसेननरेश्वरः ॥५८॥ अपरानपि भूपालान् प्रतिपत्तिपुरस्सरम् । महीपतियथौचित्यमावासेषु न्यवासयत् ॥ ५९॥ तेषु नव्यनिवासेषु सज्जिताशेषवस्तुषु । क्षितीशाः सुखमूषुस्ते भवनेषु निजेष्विव ॥६०॥ अथोर्वीपतिरुद्दण्ड स्वयंवरणमण्डपम् । भृत्यैरचीकरत्स्वर्णकुम्भायितनभोमणिम् ॥ ६१॥ ततो लग्नदिने भूपः सर्वानाकार्य भूपतीन् । उच्चैमण्डपमश्चेषु यथौचित्यं न्यवीविशत् ॥ ६२॥ रत्नपालः परं तेषु सर्वेष्वपि विशेषतः । सौन्दर्यसंपदा रेजे रजनीश इवोडुषु ॥ ६३ ॥ विमुच्येतरसंसर्ग जनानां युगपदृशः। भेजुस्तमञ्जसा भृङ्ग्यः केतकीकुसुमं यथा ॥ ६४ ॥ अथोलूलुध्वनौ बन्धुवधूनां मधुरोडुरे । वाद्यानां निनदेऽम्भोदगम्भीरे गर्जदम्बरे ॥ ६५ ॥ दिव्यसर्वाङ्गशृङ्गारां हस्तन्यस्तवरस्रजम् । शुश्रू|षितां भुजिष्याभिर्विधृतातपवारणाम् ॥६६॥ प्रौढं विमानमारूढां नरवाह्यं स्वयंवरे । कन्यामानाययद्भूपः श्रिया मूर्तिमिवापराम् ॥ ६७ ॥ त्रिभिर्विशेषकम् ॥ तस्यां प्रविष्टमात्रायां समकालं महीभुजाम् । दृशो निपेतुरुल्लासिलावण्याम्भ:
॥११५॥
Page #239
--------------------------------------------------------------------------
________________
5425445
पिपासिताः॥ ६८॥ मनस्तेषामपाहार्षीत्सुमुखी सा क्षणादपि । शून्या इव ततस्तास्ता विक्रियास्ते प्रचक्रिरे ॥ ६९॥ तथाहि-कश्चिदाधूनयामास मूर्धानं वसुधाधिपः । अहो ! मूर्तिरहो ! कान्तिरित्येतां वर्णयन्निव ॥७॥ देवैरपि दुरापेयं परिणेया कथं मया । इतीव विमृशन्नन्तस्तब्धः कश्चिदवास्थित ॥ ७१ ॥ स्वयं लक्ष्मीरियं सा च कमले खलु खेलति । इतीव कश्चिदादत्त हस्ते लीलासरोरुहम् ॥ ७२ ॥ इमामन्यनृपेणात्तामप्याच्छेत्तुमयं क्षमः । इतीवालोकयामास कश्चिदंसं निजं मुहुः॥ ७३ ॥ अस्या लाभलिपि भालगतामिव निभालयन् । मणिकङ्कणसंक्रान्तं तिलकं कश्चिदैक्षत ॥ ७४ ॥ तल्लावण्यसुरापाणादिवोन्मत्ततयाऽपरः। सुगायन इवागायद्गीतं मधुरया गिरा ॥ ७५॥ कश्चित्कामग्रहावेशादिव अहिलतां गतः । स्वकीयमास्यमुल्लास्य हास्यमाकस्मिकं व्यधात् ॥७६ ॥ इत्यादीन् बहुशो भावाना विष्कुर्वत्सु राजसु । सर्वतः सरलं चक्षुश्चिक्षेप क्षमापतेः सुता ॥७७॥ अथ सर्वनृपाह्वानकुलाचारादिकोविदा । नृपादेशात्प्रतीहारी तां बभाण प्रगल्भवाक् ॥ ७ ॥ अमी वरीतुकामास्त्वां त्वदेकन्यस्तलोचनाः। नृपा उपस्थिताः सन्ति वृणु देवि ! यदृच्छया ॥७९॥ सञ्चचार ततश्चारुलोचना लोचनातिथिः। प्रत्येकं वीक्षमाणा तान् विशेषोल्लेखिचक्षुषा ॥ ८०॥ कीर्त्यमानान् प्रतीहार्या नृपान् मौनेन काश्चन । कांश्चिद्वक्रेण वक्रेण कांश्चिन्नक्रविकृणितैः ॥ ८१॥ कांश्चिद्भकुटिभङ्गेन कतिचिद्धस्तसंज्ञया । सा न्यवारयदाहारानिव सारानरोचकी ॥ ८२॥ युग्मम् ॥ प्रभेव भानोरिह सञ्चरन्ती पतिंवरा यं यमतियुषी सा । छायासमे-हू तोऽपि स स प्रकामं विच्छायतां चित्रमवाप भूपः ॥ ८३ ॥ रत्नपालमथ प्राप्य कुमारं सा स्थिराजनि।पुष्पितं चूतमुत्सृज्य भ्रमरी कुत्र गत्वरी ॥ ८४ ॥ प्रतीहार्यपि विज्ञाततच्चित्ता तामवोचत । रत्नपालः कुमारोऽयं वृत्तं चास्याद्भुतं शृणु ॥८५॥
Page #240
--------------------------------------------------------------------------
________________
दानप्रदीपे
अष्टमः प्रकाशन
॥११६॥
अस्ति स्वःप्रौढिलुण्टाकं पाटलीपुरपत्तनम् । तस्मिन् विनयपालाख्यः मापः पालयति क्षितिम् ॥ ८६ ॥ शूरताहङ्कती येन निर्वास्य चिरवासिते । विद्विषां हृदि वास्तव्ये क्रियेते क्लीवताभियौ ॥ ८७ ॥ तस्यात्मजः कुमारोऽयं कुमारस्फारविक्रमः । कामादप्यधिकं यस्य रूपं दानं च दीप्यते ॥८८॥ यस्मिन् वीक्षितमात्रेऽपि पात्रे सौन्दर्यशौर्ययोः । स्त्रीणां वस्त्राणि शत्रूणां शस्त्राणि च पतन्त्यहो!॥ ८९ ॥ वसुन्धराभरोद्धारधुरीणमवधार्य यम् । अद्य ते कूर्मशेषाद्याः सुखं शयितुमुद्यताः ॥९०॥ देवि ! देवसमाकारः कुमारः सैष वर्तते । अयं च लभ्यते भर्त्ता भाग्यैर्जाग्रद्भिरद्भुतैः ॥ ९१॥ दक्षिणेन भुजेनास्य वसुधामुद्दिधीर्षतः । सुखायान्यभुजे देवि प्रतिमानं त्वमर्हसि ॥९२॥ आकृत्या च प्रकृत्या च यशसा वयसाऽपि च । अयमेव कुमारस्ते प्रतिरूपो निरूप्यते ॥ ९३ ॥ निर्मायाद्भुतसौभाग्यां देवि ! त्वां यद्यमुं विधिः । न ते सदृक्षमस्रक्ष्यदक्षता तस्य का तदा ॥ ९४ ॥ कमलेव मुकुन्दस्य पौलोमीव दिवस्पतेः। गिरीशस्य भवानीव भवास्य प्राणवल्लभा ॥.९५ ॥ इति द्विगुणितोत्साहा तया शृङ्गारसुन्दरी । सोत्कण्ठं कण्ठपीठेऽस्य न्यस्यति स्म वरस्रजम् ॥१६॥ अहो ! सुव्रतमित्यूचुर्जनाः सर्वेऽपि वीप्सया । ध्वानश्च सर्वतूर्याणामस्फूर्जगर्जदम्बरः ॥९७ ॥ परं ते बालमालोक्य रत्नपालं तया वृतम् । भूपालाः सकलाः कोपं साटोपं भेजिरे परे ॥ ९८ ॥ अस्मासु विक्रमाक्रान्तदिक्चक्रेषु महर्द्धिषु । पाकस्यास्य वराकस्यावकाशः कः कनीवृतौ ॥ ९९ ॥ चेन्नोऽपि पश्यतामेष मेषप्रख्यो वरीष्यति । कन्यामिमां तदा हन्त ! जीवन्तोऽपि वयं मृताः॥ १०॥ अस्यैव वृतये पित्रा प्रागेवैषा हि शिक्षिता । महीनपि नः सर्वानहासीत्कथमन्यथा ॥१०१॥ वयं तु वीरसेनेन दौरात्म्यं हृदि बिभ्रता । विडम्बनार्थमेवात्र ध्रुवमाहास्महि द्विषा ॥१०२॥ तदनेन समं
॥११६॥
Page #241
--------------------------------------------------------------------------
________________
रत्नपालमुन्मूल्य मूलतः । इमां कन्यां ग्रहीष्यामो माणी रोरगृहादिव ॥ १०३॥ एवं विमृश्य सैन्यं स्वं त्रिंशदक्षोहिणि. प्रमम् । संमील्य समरोद्युक्तास्ते कुमारमतर्जेयन् ॥ १०४॥ वरमालामरे बाल ! रनपाल ! परित्यज । इयं न वेसिन
कालरूपेण परिणस्यते ॥१०५॥ गुणागुणपरिज्ञानशून्यया कन्ययाऽनया । ववृषे तन्मुधा मा भूगर्वेणोद्धरकन्धरः॥१०६॥ & अस्मत्पार्थस्थितां चैतां स्वीकर्तुं तव का स्पृहा । कः कण्ठीरवकण्ठस्थां सटामादातुमीहते ॥ १०७ ॥ वरमालां ततो मुश्च
नो चेत्ते नालवद्गलः । अनेन करवालेन छेत्स्यते सममेतया ॥ १०८॥ इति तैस्तर्जितो रत्नपालः स्मित्वा ललाप तान् । तया चेन्न वृतास्तहि मह्यं कुप्यथ किं वृथा ॥ १०९॥ येन दौर्भाग्यदग्धाङ्गा विदवे यूयमीदृशाः। किन कुप्यत धातारं तमेव प्रति सम्प्रति ॥११०॥परस्त्रीकामनापाप्ममलिनीभवदात्मनाम् । युष्माकं शुद्धये तीर्थमसिधारैव मेऽधुना ॥११॥
इत्युक्त्वा सोऽपि युद्धाय संनद्धस्तत्क्षणादभूत् । न्यकारं नहि मृष्यन्ति क्षत्रियाः पात्रमोजसाम् ॥ ११२ ॥ जामातुः ४ पक्षमाश्रित्य वीरसेनोऽपि भूपतिः। चतुरङ्गं चमूचक्रं चक्रे प्रगुणमहावे ॥ ११३ ॥ अत्र चावसरे पौराः पत्तयश्च परस्प
रम् । वितेनुरिति संलापान वृन्दीभूय पदे पदे ॥११४ ॥ हर्षस्थाने विषादो हा ! भोजनाचक्षणे क्षुतम् । अभून्माङ्गल्यवेलायां लकुटालकुटि स्फुटम् ॥ ११५॥ पाणिग्रहणलग्नेऽस्या विश्वसंहारकारणम् । यदयं समरारम्भ आकस्मिक उपस्थितः॥११६ ॥ कीदृशी हा दुरन्ताऽस्यां विधातुःप्रतिकूलता। यदीदृशि प्रमोदेऽभूदसमञ्जसमीदृशम् ॥ ११७ ॥ हेतुभवन्ती संग्रामे जगतीक्षयकारिणि । इयं राज्ञः कुले कन्या कालरात्रिरिवाभवत् ॥ ११८ ॥ इत्याकये गिरस्तेषां कर्णयोः क्रकचोपमाः। विज्ञा भृशं विषण्णात्मा दध्यौ शृङ्गारसुन्दरी ॥११९ ॥ धिगस्तु मामपुण्यानामग्रण्यं यन्निमित्तका
Page #242
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥११७॥
अपारप्राणिसंहारहेतुरारभ्यते रणः ॥ १२० ॥ एकजीववधे हेतुर्जन्तुर्नरकमश्रुते । इयद्वधनिमित्तं तु गतिं गन्ताऽस्मि कामहम् ॥ १२१ ॥ निन्दन्ति युक्तमेवामी मां जनाः सत्यवादिनः । यदद्यापारपापानां जायमानास्मि कारणम् ॥ १२२ ॥ इति चिन्तैकतानायास्तस्याः शस्योललास धीः । इष्टकार्यानुरूपा हि स्त्रीणां तात्कालिकी मतिः ॥ १२३ ॥ यथाऽवसरकृत्याय सुबुद्धिं बुद्धिशेवधिम् । मन्त्रिणं ज्ञापयामास रत्नपालं च सा रहः ॥ १२४ ॥ अथाभ्यधत्त सा हस्तमुद्रित्य नृपतीन् प्रति । स्वस्थीभवत भो भूपाः ! क्षणं शृणुत मद्भिरम् ॥ १२५ ॥ अकाण्डे किमयं प्राणिक्षयः प्रारभ्यते मुधा । यतः पाणौ करिष्यामि नाहं कश्चन पूरुषम् ॥ १२६ ॥ मह्यं हि युद्धमारेभे विश्वप्रलयकारणम् । तन्ममास्तु कथंकारमुचितं पाणिपीडनम् ॥ १२७ ॥ ततो देहमसन्देहमिमं पाप्मनिबन्धनम् | चितायां ज्वलनज्वालाचितायां भस्मतां नये ॥ १२८ ॥ इति तान् श्रावयन्ती सा कारयामास दारुभिः । मत्र्यादिष्टैश्चितां भृत्यैर्धीरगाधा हि योषिताम् ॥ १२९ ॥ ततः सा स्नानमाधाय कृतदेवार्चनादिका । नृपाणां पश्यतां तेषां चितान्तिकमुपागमत् ॥ १३० ॥ अथ मन्त्री नृपानूचे यश्चितामतिसाहसी । प्रवेक्ष्यत्यनया साकं परिणेष्यत्यमूं हि सः ॥ १३१ ॥ इत्युक्तास्ते मिथो वक्रव्यावलोकीं प्रचक्रिरे । दहनान्तः प्रवेशे हि नहि सांशयिकी मृतिः ॥ १३२ ॥ किं कर्तव्यतया मूढाः सवैलक्ष्या अवाङ्मुखाः । प्रतिवक्तुमशक्तास्ते पुनरौ - च्यन्त मन्त्रिणा ॥ १३३ ॥ दिवसत्रयमामृश्यं विधातव्यं यथोचितम् । ततो निजनिजावासं नृपाः प्रापुः सकौ तुकाः ॥ १३४ ॥ सा तु श्वेतवती तीरे पुरासन्ने चितान्तिके । तस्थौ त्रिरात्रमायन्तः प्रवेशे कृतनिश्चया ॥ १३५ ॥ अथ तुर्यदिने मन्त्री कौतुकाक्षिप्तचेतसः । नृपानुपागतांस्तत्र तथैवाकथयन् पुनः ॥ १३६ ॥ तेऽप्याच्छुरितकं कृत्वा प्रत्यवो -
अष्टमः प्रकाशः ।
॥११७॥
Page #243
--------------------------------------------------------------------------
________________
चन्त मन्त्रिणम् । स्वीचक्रे वरमालां यः पाणौ कर्ता स एव ताम् ॥ १३७ ॥ अथोत्क्षिप्य भुजं रत्नपालः साक्षेपमाक्षिपत् ।। अहं सत्त्ववतां धुर्यो न यूयमिव कातरः ॥१३८ ॥ दुष्करेणाप्युपायेन पाणौ कुर्वे स्वयंवराम् । स्वीकृतं हि महासत्त्वाः। प्राणान्तेऽपि त्यजन्ति न ॥ १३९ ॥ तावदेव च सर्वेषु कार्येषु विषमा गतिः । यावन्न प्रतिप्रद्यन्ते महान्तः सत्त्वशालिनः ॥१४०॥ माल्यायतेऽहिर्बलनो जलायते विष सुधात्यम्बुनिधिः स्थलायते । सेवासु देवा रसिका महाटवी गृहाङ्गणं साहसजीविनां नृणाम् ॥ १४१॥ ततः पश्यत भो भूपाः! चितायां प्रविशन् समम् । सहैव भवतां कीर्त्या स्वीकरोमि कनीमि
माम् ॥ १४२ ॥ इत्यालापपरे तस्मिंश्चितायां प्रविवेश सा । अनु तां सत्वरं सोऽपि नेपथ्ये नटवन्नटी ॥ १४३ ॥ हाहा-18 ल कारपरैः पौरर्वार्यमाणाऽप्यनेकशः। ज्वलनं ज्वालयामास दासी तस्यास्तथोक्तिभिः ॥ १४४ ॥ चितायां ज्वलिते वहौ
खिद्यन्ते स्माखिला जनाः। स्वयंवरागतास्ते तु जहषुर्जहसुनृपाः॥ १४५ ॥ तो त्रिरात्रिणया मन्त्रिप्रयोगेण सुरङ्गया। चितान्तरिया राजसौधं निर्विघ्नमीयतुः॥ १४६ ॥ अन्तर्धानाञ्जनेनाक्तलोचनाविव तौ तदा । नृपालयान्तरायां तौ न वीक्षामास कश्चन ॥१४७॥ तौ च तत्र गवाक्षस्थौ वीक्ष्य सर्वो विसिष्मिये । अहो ! अस्याद्भुता शक्तिरहो ! धैर्यमहो।"
कला ॥१४८ ॥ अनेनासाधि किं काऽपि विद्या सर्वार्थसाधनी।सुरो वा किमु कोऽप्यस्य सिद्धः सर्वेष्टसिद्धिदः॥१४९॥ ४यदयं ज्वलनाज्वालाजटालादपि स प्रियः। निर्गत्याक्षतदेहश्रीरलक्षितमिहाययौ ॥ १५० ॥ इति चित्रीयितस्वान्ताः पौराः 8
सर्वे नृपाश्च ते । तदालोकोत्सुकाः सद्यः समीयुर्नुपवेश्मनि ॥ १५१॥ अथोत्सवैरतुच्छेस्तं वीरसेननरेश्वरः।नृपाणां पश्यतां से | तेषां तया पुत्र्योदवीवहत् ॥ १५२॥ ततः सत्कृत्य वस्त्राद्यैर्विसृष्टास्तेन ते नृपाः । लज्जाश्यामायमानास्याः पुरं प्रापुर्निर
FACANCHOREOGREGANGACARRANG
Page #244
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥११८॥
निजम् ॥ १५३ ॥ दिनानि कत्यपि स्थित्वा सत्कृतो हास्तिकादिभिः । तद्विसृष्टः कुमारोऽपि प्रतस्थे स्वपुरं प्रति ॥१५४॥४॥
अष्टम: तया शृङ्गारसुन्दर्या मूर्तयेव जयश्रिया । परीतः सपरीवारः पुरीं प्राप क्रमेण सः॥ १५५ ॥ प्रावीविशत् समं पच्या तम- प्रकाशः। न्तनगरं नृपः। उत्साहेनोत्सवेनापि वाग्गोचरमतीयुषा ॥१५६॥ अथ राज्यधुराधुर्यमवधार्य निजागजम् । नृपः संयममादित्सुः स्नेहेनानुशशास तम् ॥ १५७ ॥ विशुद्धबुद्धिसद्धृत्तशास्त्रपारीणतादिना । जात ! यद्यपि ते जाता वृद्धता जरसं विना ॥ १५८ ॥ मया तथाऽपि किश्चित्ते योग्यत्वादुपदिश्यते । न कर्तुमुचितः कस्कः संस्कारो योग्यवस्तुनि ॥ १५९ ॥ वत्स! राज्यमिदं विद्धि भूयः कार्यभराकुलम् । स्वार्थं कनिष्ठभूयिष्ठमुखमिष्टपरिच्छदम् ॥ १६०॥ करण्डगतभोगीव चिन्तनीयं च संततम् । सावधानतया स्वस्य विनाशायान्यथा ध्रुवम् ॥१६१॥ कपिवच्चपलं तैस्तैर्नियन्यं नितरां गुणैः। क्षणाच्छाखान्तरं गच्छद्वार्यते कथमन्यथा ॥ १६२॥ रक्षणीयं प्रयत्नेन सुक्षेत्रं फलितं यथा । यदुपद्रोतुमुन्निद्राः श्वापदा
व दुर्मदाः॥ १६३ ॥ नवीनवनवन्नित्यं न्यायधर्मनवाम्बुभिः । निषेच्यं क्षणतः शुष्यत्यन्यथा कापथातपैः॥ १६४॥ | पञ्चभिः कुलकम् ॥ किश्च-असूर्याचन्द्रमोभेद्यमच्छेद्यं रत्नदीप्तिभिः । अप्रदीपप्रभापास्यं नवयौवनजं तमः॥ १६५॥ विकासिकमलाक्षाणामप्यन्धकरणी नृणाम् । अनञ्जनबलोत्तार्या वत्स! राज्यमदान्धता ॥ १६६ ॥ एकोऽपि यौवनोन्माद-| कृशानुगुणकाननम् । भस्मयेत् किं पुना राज्यमदमारुतसङ्गतः॥१६७॥ श्रीरियं वत्स! नो वेत्सि क्षीराब्धौ सह वासतः। कल्पद्मप्रवालेभ्यो राग मोहनतां विषात् ॥ १६८ ॥ कौस्तुभादतिनैष्टुर्य वक्रतामिन्दुखण्डतः । मद्यतः पुनरुन्मादमादायै
मादाय ॥११॥ वोदगादिह ॥१६९॥ युग्मम् ॥ चिरं परिचयायातपितृकल्लोलचापला । कमला किल न क्वापि स्थेमानमवलम्बते ॥१७॥
Page #245
--------------------------------------------------------------------------
________________
सापक्ष्यादिव नाभ्येति भारत्यालिङ्गितं नरम् । व्ययायासभियेवासौ दातारं नोपसर्पति॥१७१॥दूरं परिहरत्येषा शरं कण्टकXIवत्पुनः । कलङ्कितमिव क्वापि विनीतं नावलोकते ॥ १७२ ॥नापवित्रमिवात्यन्तं गुणवन्तं स्पृशत्यपि । उन्मत्तमिव चातुर्य-17
वन्तं चोपहसत्यसौ ॥ १७३ ॥ न रूपेण न भूपेन न कुलेन बलेन नो।न शौर्येण न धैर्येण स्थैर्यमालम्बते रमा ॥१७४॥ वीक्षते पुण्यमेवैकं पण्यं पण्याङ्गनेव सा । ततस्तदर्थिना तत्र यतनीयमनारतम् ॥ १७५ ॥ विधातुं दुःशकं तच्च व्यसनासक्तमानसः । व्यसनं हि विनाशाय बाह्याभ्यन्तरसंपदाम् ॥१७६ ॥ दुरन्तव्यसनासक्तिमदिष्ठाऽऽनष्टचेतनः । शक्यपछलयितुं बाबैरान्तरैरप्यरातिभिः॥१७७॥ कोशेन स्थिरमूलमप्युरुतरस्कन्धं नृपेणाद्भुतच्छायं तत्तदपत्यविस्तृतमहाशाखाप्रशाखाञ्चितम् । नानारत्नसुवर्णविद्रुममुखप्रौढोल्लसत्पल्लवं सौरभ्यप्रकरैर्यशःकुसुमजलुब्धार्थिभृङ्गव्रजम् ॥१८॥ तत्तद्देश्यकलाप्रवीणविहगस्तोमेन कृप्ताश्रयं प्रासादेन महोच्छ्रयं परिगतं पत्तिच्छदैः सर्वतः। साम्राज्यदुममाशु दुर्नयमहाकल्लोलमालाकुलो दुर्लयो व्यसनाभिधो जलधिगापूरः समुन्मूलयेत् ॥ १७९ ॥ युग्मम् ॥ उद्दामविक्रमाः कृष्णनलरावणपाण्डवाः । श्रूयन्ते व्यसनादेव परमां प्रापुरापदम् ॥ १८० ॥ सम्यग्दृष्टिरपि प्रौढविद्यावानपि सत्यकिः । असक्तं विषयासत्या भिजे कुमृतिदुर्गती ॥ १८१॥ अवाप द्वादशश्चक्री षोडशाब्दीमिहान्धताम् । प्रमादासक्तितः प्रेत्य सप्तमं नरकंटू पुनः॥१८२॥ अमद्यपानप्रभवा स्थायिनी चिरमप्यहो। अनौषधबलापास्या विषयोन्मत्तता नृणाम् ॥ १८३ ॥ तो नित्यं प्रवर्त्तथास्तदनासक्तमानसः। जनैनं हस्यसे येन निन्द्यसे नहि दुर्जनः ॥ १८४॥न वयसे पुनर्धूतन स्त्रीभिर्विप्रलभ्यसे । न कामेनाय॑से राज्यमदेनोन्माद्यसे नहि ॥ १८५॥ स्तूयते सुकृतिस्तोमैरिभिर्नाभिभूयसे । गुरुभिः पूज्यसे |
Page #246
--------------------------------------------------------------------------
________________
दानप्रदीप ॥११९॥
वत्स ! प्रजाभिश्चाभिनन्द्यसे ॥ १८६ ॥ त्रिभिर्विशेषकम् ॥ एवं पालयतो राज्यं तव बाह्यान्तराः श्रियः । बिडौजसाम-INIm प्यहार्या वर्धिष्यन्ते दिने दिने ॥ १८७ ॥ प्रकृत्यैव प्रवीणोऽसि धुरीणोऽसि सुकर्मसु । परं तरलयत्येषा लक्ष्मीर्दक्षमपि
प्रकाश क्षणात् ॥ १८८ ॥ तदेवं त्वं मया जात! पौनःपुण्येन भण्यसे । इमां चोद्धर साम्राज्यधुरां पितृभिरुद्धृताम् ॥ १८९॥ संयमैश्वर्यमच्छद्म वयमादद्महे पुनः । समयस्यानुरूपं हि कृत्यं श्रेयस्करं नृणाम् ॥१९० ॥ शिक्षासुधाभिरित्यन्तर्बहिस्तीर्थजलैः पुनः । संस्त्राप्य रत्नपालं तं राजा राज्ये न्ययोजयत् ॥ १९१॥ अथ निर्माय निर्मायश्चैत्येष्वष्टाहिकामहम् । तपस्यामाददे भूपः पुत्रसंसूत्रितोत्सवः ॥ १९२ ॥ चिरं संयममाराध्य तपस्तप्त्वा च दुस्तपम् । केवलश्रियमासाद्य स प्राप परम पदम् ॥ १९३ ॥ अथापास्ततमाः स्फाति नयन् नयसरोरुहम् । रत्नपालमहीपालो बालार्क इव दिद्युते ॥१९४ ॥ शृङ्गारसुन्दरीमुख्यास्तस्य राज्ञयः सहस्रशः बभूवुर्निजसौभाग्यपराभूतसुरस्त्रियः ॥ १९५ ॥ जयस्तस्याखिले कार्ये धुर्योऽजायत धीसखः । यन्मतेः पारमाप्नोति न वाक्पतिरपि स्वयम् ॥ १९६॥ अयं शङ्ख इवात्यन्तमन्तःकुटिलतान्वितः । राजानं रञ्जयामास वाग्माधुर्येण केवलम् ॥ १९७ ॥ सर्वकार्याणि कुर्वाणममुं सर्वाभियोगतः। दर्श दर्श नृपश्चित्ते पिप्रिये सरलाशयः॥ १९८ ॥ अविश्वासमयीं नीतिं विदन्नपि गुरूदिताम् । विश्वस्तं सर्वतश्चक्रे तं विधेयाश्रवं बहिः ॥ १९९ ॥ नृपमावर्जयामास स दाण्डाजिनिकस्तथा । यथा न्ययुत सर्वत्र राज्यकार्ये तमेव सः॥२००॥ अथाव्यापृतिरुवीशः कामेष्वा- सज्यते स्म सः। नियापारः पुमान् प्रायः प्रमादेनोपमद्यते ॥ २०१॥ प्रमादोपद्रवं स्वस्य निवारयितुमिच्छता । सदाऽपि व्यापृतः स्वात्मा विधेयो धर्मकर्मसु ॥ २०२॥ अजस्रं विषयासक्तं वीक्ष्य तं हृष्यति स्म सः । स्वर्णकार इव स्वर्णरक्ष
॥११९॥
Page #247
--------------------------------------------------------------------------
________________
व्याक्षिप्तचेतसम् ॥ २०३ ॥ कृत्वा सचिवसाद्राज्यं मौग्ध्याद्दुग्धमिवौसात् । अन्तरन्तःपुरं स्वैरं विललासानिशं नृपः ॥ २०४ ॥ स सौभाग्याभिरामासु रामास्वरमत क्षणम् । गीते च पञ्चमोद्गीतिप्रणीते प्रीयत क्षणम् ॥ २०५ ॥ विस्मारितान्यकृत्यानि नृत्यानि क्षणमैक्षत । दीर्घिकासु क्षणं दीर्घनेत्राभिः क्रीडति स्म सः ॥ २०६ ॥ रमणीभिः कृताशेषकौसुमालङ्कृतिः क्षणम् । रेमे रम्येयमारामे मूर्तः स्मर इव स्वयम् ॥ २०७ ॥ क्षणं वासनिवासान्तः क्षणं तन्मत्तवारणे । क्षणं तच्चन्द्रशालायां स्वैरं विहरति स्म सः ॥ २०८ ॥ एवं पञ्चविधान् भोगान् भुञ्जानो देवदुर्लभान् । नास्थानीमपि सस्मार स्मराप| स्मरवानयम् ॥ २०९ ॥ अयनोपनतं राज्यं जयो भोक्तुमथोन्मनाः । भृतं भोज्यैः पुरःस्थालं बुभुक्षित इवाभवत् ॥ २१० ॥ परीवारं प्रतीहारपुरोधः सचिवादिकम् । ग्रासवृद्ध्यादिना सर्वमात्मसादकरोदयम् ॥ २११ ॥ अहं निर्वास्य भूमीन्द्रममुं कस्मादुपायतः । भोक्ष्ये यदृच्छया राज्यमित्यसौ मुहुरामृशत् ॥ २१२ ॥ नरनाथमिवास्थान्यामथासीनं तमन्यदा । विद्यासिद्धः पुमान् कोऽपि ननामाशीःपुरस्सरम् ॥ २१३ ॥ अयमद्भुतविद्यावान् संभवीति विभाव्य सः । प्रतिपत्त्या यथाकामदत्त्या च तमतूतुषत् ॥ २१४ ॥ सोऽप्यकृत्रिमया भक्त्या वाढं तुष्टस्तदीयया । तमवस्वापिनीं विद्यां दत्त्वाऽमात्यममुमुदत् ॥ २१५ ॥ अथान्येद्युस्तया निद्रां निन्येऽयं निबिडां निशि । नृपतिं सपरीवारं विद्या पापाय पाप्मनाम् ॥ २१६ ॥ मोचयामास चारण्ये शून्ये पल्यङ्कगं नृपम् । भृत्यैराप्तैरकृत्यं हि नहि किश्चन दुर्धियाम् ॥ २९७ ॥ अयं यत्तु दुराचारस्तं न मारयति स्म तैः । स्फुरितं पक्रिमैस्तत्र पुण्यै राज्ञः पुरातनैः ॥ २१८ ॥ अथायं बुभुजे राज्यं यथेष्टं दुष्टचेष्टितः । खाद्यापणं यथा शून्यं मधु निर्मक्षिकं यथा ॥ २१९ ॥ निजगृह्यीकृतास्तेन पुराऽपि द्रविणादिना । सामन्ताद्यास्तमादेश
Page #248
--------------------------------------------------------------------------
________________
दानप्रदीपे
अष्टमः प्रकाश
॥१२०॥
विवशाः पर्युपासत ॥२२०॥सर्व विष्लावयामास पापस्तत्तदुपायतः। शृङ्गारसुन्दरीमेकां मुक्त्वाऽन्तःपुरमप्ययम् ॥२२॥ तामप्यन्येयुरुन्निद्ररागेणान्धंभविष्णुधीः। अमात्यः प्रार्थयामास बहुधा मधुरोक्तिभिः॥ २२२ ॥ ततः सा कुपिताऽत्यन्तं | तर्जयामास तं भृशम् । रे दुष्ट ! धृष्ट ! पापिष्ठमवादीः किमिदं मम ॥ २२३ ॥ प्राणान्तेऽपि न मे शीलं कोऽपि लोप्तुं ४ प्रगल्भते । सुमेरुः किमु कम्पेत कल्पान्तेऽपि महाबलैः ॥ २२४ ॥ जीवितादपि मे शीलं प्रेयः श्रेयाश्रियां पदम् । तदर्थ | जीवितं यस्मात्तृणवत्त्यज्यते मया ॥२२५ ॥ मातङ्गादपि निन्यस्त्वं स्वामिद्रोहजपातकैः। त्वदास्यमपि न द्रष्टुं युज्यते हि विवेकिनाम् ॥ २२६॥ दूरीभव दुराचार! मम लोचनगोचरात् । भवाहग्दर्शनेनापि दुरन्तंदुरितं यतः॥२२७॥ तयेति तर्जितो मन्त्री क्रोधाध्मातो दिने दिने । निस्त्रिंशः पञ्चशत्याथ कशाभिस्तामताडयत् ॥ २२८ ॥ सन्दशैश्चायसैस्तस्या मांसखण्डान्यनेकशः। निर्दयं छेदयामास स सौनिक इवानिशम् ॥ २२९॥ कदाचिदास्यनासादौ वन्धं बन्धमयं कुधीः। घटी यावन्निरुच्छासां निष्कृपस्तामचीकरत् ॥ २३०॥ इत्युपायैरमात्यस्ता जीवितान्तविधायिभिः।मास कदर्थयामास परमाधार्मिको यथा ॥ २३१॥ तदप्यसौ न तद्वाचं प्रत्यपादि पतिव्रता । सतीनां हि यथा शीलं प्रियं नैव तनुस्तथा ॥ २३२॥ इतश्चान्येचुरूचे तं वयस्यः कोऽपि शस्यधीः । इयं महासती देव ! नैवाहति विडम्बनाम् ॥२३३॥ महासत्यो हि शीलस्य महिना किं न कुर्वते । स्थलयन्ति जलं सद्यः स्थलं च जलयन्त्यपि ॥ २३४ ॥ चतुरङ्गचमूचक्रमपि स्तम्नन्ति लीलया । ज्वलनं प्रज्वलज्वालाकुलं शीतलयन्त्यपि ॥२३५॥ क्रौञ्चबन्धं निबध्नन्ति भूतादींश्च प्रभूतशः। संपदीकुर्वते सर्वा विपदो द्विषदाहिताः॥२३६ ॥ रुष्टाः सत्यः पुनः सत्यः शापेन नृपमप्यहो! सम सप्ताङ्गराज्येन भस्मसात्कुर्वते दुतम् ॥ २३७॥
॥१२०॥
Page #249
--------------------------------------------------------------------------
________________
ALE
शृणु दृष्टान्तमत्रार्थे पुरे रत्नपुराहये । धनसाराभिधः सार्थवाहः पुण्यप्रवाहवाक् ॥ २३८॥ धनश्रीर्दयिता तस्य सकतश्रीरिवाङ्गिनी । भासयामास यात्मानमन्वयं चोज्वलैर्गुणैः ॥ २३९ ॥ यस्यां रूपं च शीलं च सङ्गतं द्वयमद्भतम् ।। अपुष्णान्मणिरोचिष्णुसौवर्णाभरणोपमाम् ॥२४०॥प्रत्यक्षामिव लक्ष्मी तां वीक्ष्यान्येधुर्गवाक्षगाम् । खेचरः खेचरन् कश्चित्पयमुह्यदनार्यधीः ॥ २४१॥ प्रार्थयामास चोपेत्य पटुः स्फुटचटूक्तिषु । कामान्धाः किं न कुर्वन्ति कुत्स्यं किं न ब्रुवन्ति च ॥ २४२ ॥ जीविताधिकशीला सा परं नामस्त तद्वचः। सती सैव हि या शीलं सङ्कटेऽपि न लुम्पते ॥२४३ ॥ ततो विद्याबलेनायं तामुपद्रोतुमुद्यतः। स्मरातॊ हि सुरोन्मत्तान्मात्रयाऽपि न हीयते ॥ २४४॥ ततः स्वशीललोपा] कुपिता तमशप्त सा । सप्ताङ्गराज्यतोऽनार्य! भ्रंशमाशु त्वमामुयात् ॥ २४५॥ सोऽप्यवादीन्न मे विद्याभृतः शापः फलत्ययम्। न कोपः किल सर्पस्य प्रसर्पत्याहितुण्डिके ॥ २४६ ॥ अधुना च दिनं तेन रजन्यां पुनरेत्य रे ।। प्रसह्यापहरिष्यामि त्वां गृहान्तःस्थितामपि ॥२४७॥ सत्यप्यवोचताचिन्त्यशीलातिशयशालिनी । मदुक्के नैव तिग्मांशुरस्तं गन्तेति निश्चिनु |॥ २४८ ॥ अथानाकर्णितं कृत्वा तद्वचः स गृहं ययौ । अकस्माद्भस्मसाद्वेश्म तस्याभूत्तावदग्निना ॥ २४९ ॥ आकस्मिकेन रोगेण पुत्रो मृत्युमवाप च । सेनाप्यनेकपाश्चाद्या मरकेणामृत द्रुतम् ॥२५० ॥ तस्योपदुद्रुवुर्देशमनीशमिव वैरिणः । इत्ययं । राज्यतो भ्रष्टः कष्टक्लिष्टो विमृष्टवान् ॥ २५१॥ सा मया दुर्धिया धर्मधना साध्वी व्यराधि यत् । सहसैव हहा ! प्रापि तत्पापफलवर्णिका ॥ २५२ ॥ अहो । तस्याः सुशीलायाः शक्तिः काऽप्यतिशायिनी । यस्याः शापेन मे प्राज्यं राज्य |भेजे क्षणात्क्षयम् ॥ २५३ ॥ तमेवं चिन्तयाचान्तं खेचरः कश्चिदचिवान् । अद्य कौतुकमस्तोकमालोकयमलौकिकम्
SENSAACASS
बा.२१
Page #250
--------------------------------------------------------------------------
________________
दानप्रदीपे
अष्टमः प्रकाशः।
॥१२१॥
CCCCCCCC5ऊल
॥ २५४ ॥ देव ! रमपुरे व्योमरत्नमस्तमुपैति न । स्तम्भितस्य कुतोऽप्यस्य जातं तत्र दिनत्रयम् ॥ २५५ ॥ तर्कयन्तस्तमुत्पातं लोकास्तत्र भयाकुलाः। तस्योपशान्तये तास्ताः कुर्वते शान्तिकी क्रियाः॥२५६ ॥ इदं दृग्गोचरीकृत्य सम्प्रत्यत्रागर्म ततः। ईदृशं क्वापि केनापि न दृष्टं नापि च श्रुतम् ॥२५७॥ खेचरेन्द्रस्तदाकर्ण्य सविशेषं विसिष्मिये । आस्तस्याः शीलमाहात्म्यमतिशेते जगत्रयम् ॥ २५८॥ सा हि शीलबलादेव तल्लोपारेकयाकुला । सहस्रकरमप्येतं स्वकिङ्करमिवारुणत् ॥ २५९ ॥ यद्यद्वचनमुच्चेरे हेलयाऽपि तया तदा । देवताया इवैतस्यास्तत्तन्नैवान्यथाऽभवत् ॥ २६०॥ मामप्येषा रुषाऽकार्षीत्कदाचिन्मा स्म भस्मसात् । अतोऽधुनाऽपि गत्वा तामनुनेतुं ममोचितम् ॥ २६१ ॥ इति ध्यात्वा द्रुतं तत्र गत्वा नत्वा च तां सतीम् । अयं सर्वजनाध्यक्षं समन्दाक्षमचिक्षमत् ॥२६२॥ यन्मया दुर्विदग्धेन रागान्धेन व्यराध्यथाः। तं क्षमस्वापराधं मे प्राप्तस्येदृशमापदम् ॥ २६३ ॥ प्रभावस्तव शीलस्य मातः! प्रत्यक्षमीक्षितः। एषोऽपि स्तम्भितस्तेन नास्त
मेति त्विषांपतिः॥२६४ ॥ तत्प्रसीद रविं मां च शापान्मोचय मोचय । येन द्वीपान्तरं यान्ति सूर्योऽहं तु निजां श्रियम् 8॥२६५॥ ततस्तयाऽभ्यनुज्ञातो भानुरस्तमुपेयिवान् । सद्यः स्वसंपदं विन्द्या इत्ययं त्वभ्यनन्धत ॥२६६ ॥ जनैः किमि
दमित्युक्तः स तस्याः शीलवैभवम् । तत्पुरः स्पष्टमाचष्ट स्वदुश्चेष्टोक्तिपूर्वकम् ॥२६७ ॥ विश्वातिशायिनीशक्तिरस्याः शीलस्य काऽप्यहो!। इत्यस्तौन्न तदा कस्तां तच्चरित्रचमत्कृतः॥ २६८ ॥ ततः प्रणम्य तां विद्याधरः प्राप निजं पदम् । क्रमाद्राज्यमपि प्राज्यं प्रसादेन तदाशिषः ॥ २६९ ॥ अतो वदाम्यहं स्वामिन्नेताः सत्यो दृढव्रताः । अर्हन्त्यभ्यर्हणामेव न मनागपि गर्हणाम् ॥ २७० ॥ ततो भीतो जयः शान्तः क्षमयित्वा मुमोच ताम् । प्रपालय निजं शीलं सुखं चास्स्वेत्युवाच
॥१२१॥
Page #251
--------------------------------------------------------------------------
________________
5
%
+5
+5
+5+55
च ॥ २७१॥ सौनिकादिव सा तस्मान्मुक्ता शृङ्गारसुन्दरी । मुदिता चिन्तयामास चेतस्विन्यथ चेतसि ॥२७२॥
जीवितेशो भवेज्जीवस्तदा तत्सङ्गमाशया । समयाकुर्वे समया स्वजनं धर्मकर्मठा ॥ २७३ ॥ तदभावे पुनर्धर्मविधिना| है साधये मृतिम् । जीवन्त्या मे पुनः शीलसङ्कटं मास्म भूदिति ॥ २७४ ॥ध्यात्वेति गणकापण्यं प्रश्नयामास सा सती।
श्रेयस्वानस्ति मे प्रेयान् । कदा संगस्यते च मे ॥ २७५ ॥ सोऽप्यवेत्य निमित्तेन सम्यक् तां प्रत्यवोचत । मातः ! समा
धिमाधेहि धर्ममाराधयान्वहम् ॥ २७६ ॥ धर्मस्यैव प्रसादेन परामासाद्य संपदम् । स्वयं द्वादशवत्सर्या तव संगस्यते पतिः || MI॥ २७७ ॥ ततः प्रमुदिता भक्त्या तं सत्कृत्य यथेप्सितम् । आचामाम्लव्रतं भेजे सा पत्युः संगमावधि ॥ २७८ ॥ तेपेड-IG शान्तरान्तरा षष्ठमष्टमं द्वादशं तपः । सा पक्षक्षपणं मासक्षपणादि च दुस्तपम् ॥२७९॥ न दर्पणं पश्यति नाङ्गरागं तनोति न
नाति शरीरकान्त्यै । वस्ते न शस्तं न दृशावनक्ति पतिव्रता सा शयने न शेते ॥ २८० ॥ नित्यं त्रिर्जिनमर्चन्ती पौषधा| दिपरायणा । समयं गमयामास निःसङ्गा योगिनीव सा ॥ २८१ ॥ इतश्च
रत्नपालनृपस्तेन मोचितः शुन्यकानने । यस्यां सुष्वाप वेलायां तस्यां स्वयमजागरीत् ॥ २८२॥ दृष्ट्वा च सर्वतः शून्यमरण्यं किमिदं मम । संजातमिति संभ्रान्तश्चिन्तामन्तर्व्यधत्त सः॥ २८३ ॥ आ ज्ञातं मन्त्रिपाशस्य दुराशयशिरोमणेः। तस्यैव ग्रस्तराज्यस्य दुश्चेष्टितमिदं ध्रुवम् ॥ २८४ ॥ हा ! किं मे निर्ममे स्वात सुप्तस्य गलकृत्तिवत् । निक्षिप्तस्य महाकूपे रज्जुच्छेदमिवाधमः ॥ २८५॥ यदि वा तस्य को दोषो ममैवायं तु दुर्मतेः । येन मूर्खेण सर्वेषु कार्येष्वेष न्ययुज्यत ॥२८६॥ धिग्मां दुर्मेधसं योऽहमवहील्य गुरोगिरः। विषपादपकल्पेषु विषयेष्वास भृशम् ॥ २८७॥ यदाहुयसनं
**RISHORE SISSEIG
+5
+5
3
Page #252
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१२२॥
अष्टमः प्रकाश
विज्ञा दुरन्तविपदां पदम् । अधुना तन्मया सर्व स्वयमेवानुभूयते ॥ २८८ ॥ यदि वाऽत्र दुरुल्लई प्राक्कमैवापराध्यति । दत्ते तदेव यत्संपदापद्धेतू सुदुर्मती ॥ २८९ ॥ पूर्वकर्मपरीपाकः कल्पार्णव इवापतन् । शकचक्यर्द्धचत्र्याचैरपि शक्यो न लहितुम् ॥ २९० ॥ इत्ययं धीरितस्वान्तः प्रातः स्मृतनमस्कृतिः। भ्रमन्नन्तर्वणं कश्चिदारुरोह महीधरम् ॥ २९१ ॥ नरं तत्र वराकारं निबद्धं बन्धनैदृढम् । स ददर्श दयासारैश्चार्द्रयामास मानसम् ॥ २९२ ॥ ततस्तस्य दुतं बन्धान् बन्धोरिव नृपोऽच्छिदत् । मन्दायन्ते हि नापद्यः परमुद्धर्तुमुत्तमाः ॥२९३ ॥ सुस्थीकृताङ्गमेतं च जगाद जगतीपतिः । कस्त्वं सखे ! वासस्ते केन चेत्थं न्ययम्यथाः ॥ २९४ ॥ अथोपकारवाक्याभ्यां प्रीणितः प्रार्थिवेन सः। सम्यग् जगौ स्ववृत्तान्तं तस्य भ्रातुरिवाग्रतः ॥ २९५ ॥ वैताब्येऽद्भुतविद्याब्ये पुरं गगनवल्लभम् । वल्लभस्तत्र भूपालः सर्वविद्याधराग्रणीः ॥ २९६ ॥ अहं तस्याङ्गभूर्तेमाङ्गदः सौवाङ्गनान्वितः। नन्तुं नन्दीश्वरे देवान् प्रतस्थेऽद्य वियत्पथे ॥ २९७ ॥ तावत् श्येन इवागत्य रक्षोविद्याबलेन माम् । नियम्य खेचरो द्वेषी मम रामामपाहरत् ॥ २९८ ॥ तामुपादाय पापीयानिहासत्तौ गतोऽस्ति सः । इयता हन्तुकामो मां समेता पुनरप्यसौ ॥ २९९ ॥ मद्भाग्यैस्तु महाभाग ! जागरूकैस्त्वमागमः । प्रस्तं तेन यमेनेव जीवितं मे कुतोऽन्यथा ॥ ३०० ॥ अत्रान्तरे समायासीत्तत्र राक्षसखेचरः । नृपः कृपाणपाणिश्च क्रुधा तं प्रत्यधावत ॥ ३०१॥ त्रिदशैरपि दुर्दर्श खड्गाखगि रणे मिथः। जायमाने नरेन्द्रेण जिग्ये खगबलेन सः॥ ३०२ ततस्तां | वनितां मुक्त्वा काकनाशं ननाश सः । विद्यान्यस्यापि न क्वापि पापिनः स्याजयो यतः ॥३०३ ॥ अथ हेमाङ्गदः कासन्ताप्राप्तिप्रमुदिताशयः । स्तोत्रयामास धात्रीशं तच्चरित्रेण विस्मितः ॥ ३०४ ॥ अहो ! तेऽम्भोधरस्येव सर्वसाधारणी
PAISESTISSAUSAISISK
॥१२२॥
Page #253
--------------------------------------------------------------------------
________________
कृपा । आजन्मतोऽप्यदृष्टं मां यत्त्वमित्थमुपाकृथाः ॥ ३०५ ॥ परकृत्यमहो ! कर्त्तुं तवासक्तिरलौकिकी । यन्मृत्युसङ्कटेऽप्येत्य पत्नीं मे त्वमुपाहरः ॥ ३०६ ॥ अहो ! पराक्रमः कोऽपि विश्वमप्यत्यशेत ते । विद्याढ्यमप्यमुं विद्याधरं यल्लीलया| जयः ॥ ३०७ ॥ तव सर्वस्वदानेऽपि नापर्णः स्वामहं महन् ! । किश्चित्प्रत्युपकुर्वे त्वां तदपि स्वमनोमुदे ॥ ३०८ ॥ इत्युक्त्वा जगतीशाय विषभृद्विषमोषिणीम् । औषध हर्षतो दत्त्वा खेचरः स्वपुरं ययौ ॥ ३०९ ॥ राजापि तामुपादाय गिरेरुत्तीर्य | धैर्यवान् । क्रमात् क्ष्माचक्रमाक्रामन् मूलस्थानपुरं ययौ ॥ ३१० ॥ पुरीपरिसरे ग्लानमनाथावसथे स्थितम् । असौ वैदि - शिकं श्राद्धं ददर्शान्त्यदशां गतम् ॥ ३११ ॥ दयया धर्मबुद्ध्या च शुश्रूषामास तं नृपः । बन्धोरपि सधर्मा हि धर्मिणामधिको मतः ॥ ३१२ ॥ कृत्यान्याराधनादीनि विधिना स व्यधापयत् । असस्मरन्च्च तं पञ्चनमस्कारमुदारधीः ॥ ३१३ ॥ इति शुश्रूषितः श्राद्धः सद्ध्यानस्तेन स त्र्यहम् । विपद्य दिवि देवोऽभूत् सत्सङ्गः किं फलेन्नहि ॥ ३१४ ॥ अथ निर्माय तत्कर्म पुरान्तः प्रविशन्नृपः । प्रति श्रीपथमश्रौषीत् पटहोद्घोषणामिति ॥ ३१५ ॥ भो भो मन्त्रविदः ! पुत्री बलवाहनभूपतेः । अत्राद्य दन्दशूकेन निःशुकं निश्यदश्यत ॥ ३१६ ॥ प्रतीकारैरपारैश्च कारितैरपि भूभृता । अनासादित चैतन्या |दशामन्त्यामवाप सा ॥ ३१७ ॥ यश्च रलवतीनाम्नीमेतां जीवयति स्वयम् । दत्ते तस्मै नृपः प्रीतो राज्यार्द्धभाजिनीमि - माम् ॥ ३१८ ॥ ततः स पटहं स्पृष्ट्वा तदौषधिरसेन ताम् । अञ्जसा सज्जयामास परार्था हि सतां कला ॥ ३१९ ॥ अथ तद्रूपसौभाग्यकलादिगुणरञ्जितः । निर्विलम्बं नृपः कन्यां पाणौ कारयति स्म तम् ॥ ३२० ॥ ददौ राज्यार्द्धमप्यस्मै जामात्रे जगतीपतिः । न लोभेनाभिभूयन्ते सन्तः स्वीकृतपालने ॥ ३२१ ॥ अत्र चावसरे सूतैरागतैरुपलक्ष्य तम् । अभ्य
Page #254
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१२३॥
4%A5-ॐॐॐॐ
धीयत जामाता पुण्यैरेवायमाप्यते ॥ ३२२ ॥ अयं विनयपालस्य पुत्रः पात्रं महौजसाम् । रत्नपालो हि भूपालः सर्वक्ष्मा- अष्टम: दापालभूषणः॥ ३२३ ॥ इत्याकोभयाकर्णिवलवाहनभूपतिः।अविज्ञायाप्यहो ! स्थाने पुत्री दत्तेत्यमोमुदीत् ॥३२४॥ ततो
प्रकाशः। जामातरं भूपः सच्चकार पुनस्तराम् । समर्प्य पृथगावासं स्थापयामास चाहतः ॥ ३२५ ॥ अन्यदाकर्ण्य शृङ्गारसुन्दर्याः शीलसंपदम् । अमोदिष्ट स भट्टोक्तां चुकोप च जयोपरि ॥ ३२६ ॥ ततोऽयं ज्ञापयामास नृपं स्वं वृत्तमादितः । श्वशुरोऽपि ततस्तस्मै प्रस्थानानुमतिं ददौ ॥ ३२७ ॥ अथायं सेनया बडया परीतश्चतुरङ्गया । समं रत्नवतीपल्या प्रतस्थे स्वपुरोन्मनाः॥ ३२८ ॥ पथि क्वचिदरण्यानां सैन्यमावास्य स स्थितः। निशि गीतस्वरं दूरं शुश्राव श्रवणामृतम् ॥ ३२९ ॥ | शय्योत्थायमयं मध्यरात्रे किमिति कौतुकी । कृपाणपाणिरेकाकी जगाम तमनुध्वनिम् ॥ ३३०॥ जनक दृक्प्रसादस्य तत्र प्रासादमार्हतम् । विलोक्य मुदितो यावत् स प्रवेष्टुमचेष्टत ॥ ३११ ॥ तावद्विद्याधरी विद्युदिवोद्योतमयी ततः। काचि| द्विमानमारुह्य सखीयुग दिवमुद्ययौ ॥ ३३२॥ कैषेति विस्मितस्वान्तस्तस्यान्तः प्रविवेश स । प्रतिमामादिदेवस्य ननाम |च हिरण्मयीम् ॥ ३३३ ॥ दर्श दर्श च तां नेत्रे स्तावं स्तावं च भारतीम् । ध्यायं ध्यायं च चेतोऽपि पुनाति स्म महीपतिः ॥ ३३४ ॥ ततोऽन्तर्जगति भ्राम्यन् रामणीयकमद्भतम् । नृपतिः परितस्तस्य विलोकितुमढौकत ॥ ३३५ ॥ तत्र सौभाग्यमञ्जयों नामाकं वलयं च्युतम् । स दृष्टा जगृहे रत्नज्योतिरुद्योतिताम्बरम् ॥ ३३६ ॥ विभावर्या विभातायां नृपः स्वं|॥१२३॥ |सैन्यमासदत् । क्रमेण सैन्यमप्याट पाटलीपुरसंनिधिम् ॥ ३३७ ॥ जयराजोऽथ राजानमाकागतमुन्मदः । सैन्यं संनह्य | |निःशेषमभिषेणयति स्म तम् ॥ ३३८॥ खगाखगि रणः क्वापि कुन्ताकुन्ति पुनः क्वचित् । शराशरि तथा कापि जज्ञे
Page #255
--------------------------------------------------------------------------
________________
*
सैन्ये तयोर्द्वयोः ॥ ३३९ ॥ भज्यमानं निजं सैन्यं विज्ञाय जयभूपतिः । ददेऽवस्वापिनीनिद्रां रत्नपालबलेऽखिले ॥३४०॥ तया मूर्छामिवापन्ना विषावेगमिवागताः । निश्चैतन्याः समे सैन्या निपेतुर्भुवि घूर्णिताः ॥ ३४१॥ प्राभवद्भूभुजः पुण्योदयभाजः पुनर्न सा । प्रभवन्ति हि दुर्मन्त्राः पुण्यहीने परे तु न ॥ ३४२ ॥ निजं सैन्यमचैतन्यं साकल्येनावलोक्य सः। क्षणं चिन्तातुरो जज्ञे किं कर्त्तव्यतयाकुलः ॥३४३ ॥ अत्रान्तरे नरेन्द्रस्य विज्ञायावधिनापदम् । देवः शुश्रूषितश्राद्धजीवः सद्यः समाययौ ॥ ३४४ ॥ तामवस्वापिनीमेष सर्वेषामप्यपाहरत् । सौत्साहास्ते ततो युद्धे पुनः संनद्धतां दधुः ॥ ३४५ ॥ नृपोऽपि द्विगुणोत्साहः कुर्वाणो रणमस्यसि । जयं निपातयामास द्रुतं कंसमिवाच्युतः ॥ ३४६ ॥ स मृत्वा मन्त्रिपाशश्च सप्तमं नरकं ययौ । स्थानं निरय एव स्यादेतादृशकुकर्मणाम् ॥ ३४७ ॥ सामन्ता मन्त्रिणश्चान्ये पत्तयश्च पुरातनाः। प्रणेमुर्विनयाभूपं विलक्षास्याः क्षमंक्षमम् ॥ ३४८ ॥ अथ पीयूषभुक् क्ष्मापमाख्यत्प्रत्यक्षतां गतः । त्वयाऽशुश्रूषि यः श्राद्धः स एवाहं सुरोऽभवम् ॥ ३४९॥ यद्विदेशेऽपि मन्दोऽहमिमां संपदमासदम् । तवैवार्य प्रसादो मां बहि| रन्तश्चिकित्सितुः॥ ३५० ॥ तव सान्निध्यमाधित्सुः सम्प्रत्यत्र समीयिवान् । त्वत्सैन्येऽहमवस्वापिन्यपहारादि निर्ममे
॥ ३५१॥ उपकारशतेनापि नापर्णः स्यामहं तव । धर्मोपकारके पुंसि दुष्प्रतीकारता यतः ॥ ३५२ ॥ अलङ्कुरु निज नाराजन् ! साम्राज्यं प्रीणय प्रजाः । यथा तत्र यथाशक्ति किश्चित्ते भक्तिमादधे ॥ ३५३ ॥ ततो नृपतिरस्यर्द्धिदर्शनेना
गमेन च । भक्त्या च प्रीणितस्वान्तः प्राचालीत् स्वपुरं प्रति ॥ ३५४ ॥ सुपर्वाथ चमूमात्रमातपत्रं क्षितीशितुः । धारयंचालयन् पार्श्वद्वये चामरधोरणीः॥ ३५५ ॥ पुरः संवर्तवातेन कण्टकाद्यपसारयन् । रजांसि शमयन् विष्वक् सुगन्धो
मन्दोऽहमिमा संपदमामाख्यत्प्रत्यक्षतां गतः । त्वयात्वचा
सान्निध्यमाधित्सुः म
*5545
Page #256
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१२४॥
*SSSSSSSSSSS
दकवर्षणैः ॥ ३५६ ॥ दिव्यपुष्पोत्करैः पञ्चवणैरवनिमास्तृणन् । पुरः संचारयन्नुच्चा वैजयन्तीः परश्शताः॥ ३५७ ॥ एत-|| अष्टम: स्याज्ञामवज्ञाता प्रयाता प्रलयं स्वयम् । अस्य सेवां विधाता तु वृद्धिं गन्ता महर्द्धिभिः ॥ ३५८ ॥ इत्याकाशगिरा सार्द्ध प्रकाश दुन्दुभिं दिवि ताडयन् । दिव्यं सङ्गीतमातन्वन् प्रवेशोत्सवमातनोत् ॥ ३५९ ॥ पञ्चभिः कुलकम् । नृपे सौधं गते रत्नस्वर्णकोटीः परश्शताः। हर्षेण स ववर्षाम्बुधारा धाराधरो यथा ॥३६० ॥ पुनस्तामुपकर्तास्मि यथा प्रस्तावमागतः। इत्युक्त्वा नृपतिं देवः सुरधाम जगाम सः॥३६१॥ सिंहासने निविश्याथ माशक्रः शक्रविक्रमः। यथार्ह सकलं लोकं प्रेमालापैरपिप्रिणत् ॥३६॥ पारणं कारयित्वा तां सतीं शृङ्गारसुन्दरीम् । अकार्षीन्महिषीमेष हर्षितस्तद्गुणबजैः॥३६३॥ पुनः स पालयामास चिरं स्वं राज्यमूर्जितम् । श्रियमिन्दुरिवामोति सुवृत्तो हि गतामपि ॥ ३६४ ॥ आतस्थिवांसमास्थानी सुधर्मामिव वासवम् । नृपमन्येारुद्यानपालो नत्वा व्यजिज्ञपत् ॥ ३६५ ॥ देव ! त्वदीयमुद्यानमुपद्रवति दुर्मदः। वन्यः काल इव व्यालश्चण्डः प्रोद्दण्डशुण्डया ॥३६६ ॥ भूपोऽथ कोपकम्प्रास्यः प्रौढमारूढवान् हयम् । सद्यः सारपरीवारपरीतस्तद्वनं ययौ ॥ ३६७ ॥ हयादुत्तीर्य धैर्येण तं ततर्ज गजं नृपः। रे दुर्मदास्मदाराममुन्मूलयसि किं मुधा॥३६८॥ यदि ते वीरता काऽपि सार्धं युध्यस्व तन्मया । इत्याक्षिप्तोऽभ्यधावत्तं सिन्धुरः क्रोधदुर्धरः ॥ ३६९ ॥ खेलयित्वा क्षणं हस्तिशिक्षादक्षः क्षमापतिः। जवात्तं दन्तिनं यावदारुरोह महोन्नत्तम् ॥ ३७०॥ तावदुत्पतिवान् व्योम्नि नृपमादाय स द्विपः। मल चक्षुरलक्ष्यत्वं ययौ सर्वस्य पश्यतः ॥ ३७१ ॥मा द्वीपमपरं नैषीदेष मामिति शङ्कितः । मध्ये महासरः
॥१२४॥ वापि ददौ झम्पां महीपतिः ॥ ३७२ ॥ भुजातीर्णसरास्तीरमुपेतः पश्यति स्म सः । दिव्यं त्रिभूममावासं तत्तीरोवींवि
EXAAAAAAA
Page #257
--------------------------------------------------------------------------
________________
SHRSHAS
भूषणम् ॥ ३७३ ॥ संजातकौतुकस्तस्याधित्यकामारुहोह सः। भस्मपुञ्जदयं तत्र मञ्चस्थं च व्यलोकत ॥ ३७४ ॥ नागदन्तकृतालम्ब रसतुम्बं महत्तमम् । तत्र चालोक्य सौत्सुक्यं करेणादत्त कौतुकी ॥ ३७५ ॥ संभ्रमात्तात्ततो बिन्दुनिपातेनाद्भताकृती। वे कन्ये समजायतां तौ राशी भास्मनौ द्रुतम् ॥ ३७६ ॥ अहो ! रसस्य माहात्म्यमचिन्त्यं के स्त्रियाविमे । इति विस्मयविस्मेरः पप्रच्छ नृपतिः स्त्रियौ ॥ ३७७॥ के युवां किमिदं सौधं रसतुम्बं किमद्भुतम् । ततो जगदतुस्तगीर्मुदिते ते तदग्रतः॥ ३७८ ॥ महाबलाभिधस्यावां पुत्र्यौ खेचरचक्रिणः । पत्रवल्लीरहं मोहवल्लीयं तु ममानुजा ॥३७९॥ मातङ्गखेचरेणावां गवाक्षस्थे परेद्यवि । स्वयं पाणी चिकीर्षुत्वादपाहृष्ट ह्यलक्षितम् ॥ ३८॥ इमां शून्यामरण्यानीमानीयावां स खेचरः। सद्यः स्वविद्यया क्लृप्ते प्रासादेऽस्मिन्नतिष्ठिपत् ॥ ३८१ ॥ यियासुः क्वाप्यसौ भस्मीकरोत्यावां स्ववि-15 द्यया । तुम्बस्थेन रसेनाशु जीवयत्यागतः पुनः॥ ३८२ ॥ स नीत्वा भस्मतामावां जगाम वापि सम्पति । कृत्वा विवाहसामग्री समेता शीघ्रमेव च ॥ ३८३ ॥ आकृत्या च प्रकृत्या च तपसे हि त्वमुत्तमः। मातङ्गादपि मातङ्गादस्मान्मोचय नौ ततः॥ ३८४ ॥राजाऽपि तद्राि पूर्वभवस्नेहवशेन च । अनुरक्तस्तयोर्यावत् स धैर्य प्रतिवक्ति ते ॥ ३८५ ॥ तावत्स खेचरः पाणिग्रहोपकरणं करे । समादाय समायासीत्ते पाणौ कर्तुमुत्सुकः ॥ ३८६ ॥ स एवाथ कुतोऽप्येत्य द्विपेन्द्रो गगनाध्वना । शुण्डयोल्लालयामास तं कन्दुकमिव द्रुतम् ॥ ३८७ ॥ वियतः स पतन दन्तैः शितैधृत्वा दिशां बलिः । तेनैव विदधे मृत्युरीदृशो हि कुकर्मणाम् ॥३८८॥ ततः करी तिरोधत्त विद्युदुयोतवद्रुतम् । इदं च वीक्ष्य खेचौँ राजाऽप्याश्चईमाययुः॥ ३८९ ॥ अत्र चावसरे पुत्रीशुद्ध्यै मध्ये धरं भ्रमन् । महाबलः स विद्याभृत्तत्रातर्कितमागमत् ॥ ३९० ॥
Page #258
--------------------------------------------------------------------------
________________
अष्टमः प्रकाश।
दानप्रदीपेअथ कन्ये स्ववप्तारं दृष्ट्वा हृष्टे प्रणम्य च । ऊचतुर्भस्मरूपे नौ महानयमजीजिवत् ॥ ३९१ ॥ तं चाधुनैव मातङ्गं मातङ्गः
कोऽप्यघातयत् । श्रुत्वेति मुदितो रत्नपालमालपति स्म सः॥ ३९२ ॥ वैताढ्यदक्षिणश्रेणी रत्नसारपुराधिपः । अहं महा॥१२५॥
बलो नाम खेचरः कन्ययोः पिता ॥ ३९३ ॥ अन्येधुः कन्ययोर्भावी कः प्रेयाननयोरिति । नैमित्तिको मया पृष्टः स्पष्टमाचष्ट मां प्रति ॥ ३९४ ॥ मातङ्गापहृते कन्ये प्रापिते भस्मरूपताम् । अतर्कितमुपागत्य जीवयिष्यति यः सुधीः ॥३९५॥ यस्य सान्निध्यमाधातुं मातङ्गश्च हनिष्यते । केनापि करिणा विद्धि तं कन्याद्वितयीवरम् ॥३९६॥ तदद्य सकलं सत्यं जज्ञे पुण्येन कन्ययोः । ततः प्रसद्य मे सद्यः पुनीहि पुरमुत्तम् ! ॥३९७॥ यथा वितीयते कन्ये प्रमोदं पूरयाम्यहम् । अत्रान्तरे सुरः कोऽपि प्रादर्भूयावदन्नपम् ॥३९८ ॥ स एवाहं नृप!श्राद्धजीवो देवः सुहृत्तव । योऽहं ते मन्त्रिणा सार्ध युद्धे सान्निध्यमांदधे ॥ ३९९ ॥ साम्प्रतं च द्विपीभूय तव कन्याद्वयाप्तये । मिषेण त्वामिहानैषं द्विषं चैतमजीधनम् ॥४०॥ तुम्ब| दिव्यरसैः पूर्णमिदमादत्स्व सादरम् । राजन्नाकर्ण्यता मस्य संबन्धः पुनरद्भुतः॥४०१॥ प्राप्नुमेतत् स मातङ्गश्चतुर्विंशतिवत्सरीम् । कन्दमूलफलाहारस्तपोऽतप्यत दुस्तपम् ॥ ४०२॥ दध्यावधोमुखो मन्त्रं प्रत्यहं प्रहरद्वयम् । जुहाव च महा-| _णि वह्नौ वस्तूनि सोऽनिशम् ॥ ४०३ ॥ एवमाराधिताल्लेभे स नागेन्द्राद, रसम् । महिमा च न मात्यस्य त्रिलोक्या-| मपि तद्यथा ॥४०४ ॥ आयस्यो बिन्दुनाऽप्यस्य संस्पृष्टाः पलकोटयः । जात्यजाम्बूनदीभावमामुवन्ति झगित्यपि ॥४०५॥ | अनेन शान्तिमायान्ति व्याधयो दुर्धरा अपि । कुष्ठान्निर्णाशयत्याशु दुष्टानष्टादशाप्ययम् ॥ ४०६॥ विषादिमूर्छितान् जन्तून सुधेवोज्जीवयत्ययम् । स्पर्शादप्यस्य नश्यन्ति भूताद्या भूरिभीतयः॥४०७॥ तिलकेनैतदीयेन भालस्थल्यामल
॥१२५॥
Page #259
--------------------------------------------------------------------------
________________
AARॐॐॐ
कृतः। स्यादजय्यः पुमानाजी देवैरपि सदानवैः॥४०८॥ अयं स्वान्योपकृत्यै च चक्रे शस्येव शेवधिः । सदा व्यापार्यमाणोऽपि क्षीयते न कदाप्यहो! ॥ ४०९ ॥ त्वदीयपुण्यनुन्नेन मया तुभ्यमयं ददे । तपो विनाऽपि ते सर्वसाध्यसिद्धिं विधास्यति ॥ ४१० ॥ यावज्जीवमयं जीव इव रक्ष्यस्त्वया सखे ! । इत्यालाप्य सुरः क्षमापमाललाप महाबलम् ॥ ४११॥ सर्वाङ्गीणगुणैर्भाग्यसौभाग्यादिभिरद्भुतः । पाटलीपुरभद्यं रत्नपालमहीपतिः ॥ ४१२॥ पुण्यैः कन्यावरश्चायमगण्यैरेव लभ्यते । इत्यावेद्य नृपं देवः प्रणम्य च तिरोदधे ॥४१३ ॥ अहो ! लोकोत्तरः पुण्यमहिमाऽस्य महीपतेः । यस्य दुःसाधकार्येषु साहाय्यं कुर्वते सुराः॥४१४ ॥ध्रुवं ममाप्यमेयानि भागधेयानि जाग्रति । अयं सर्वगुणान् धाता जामाता यदवाप्यत ॥ ४१५ ॥ इत्याश्चर्य वहश्चित्ते खेचरेन्द्रस्ततो मुदा । निजं विमानमारोप्य स्वपुरं प्रापिपन्नृपम् ॥ ४१६ ॥ वरेण्यैश्च स पुण्येऽह्नि कन्ये गण्येतरैमहैः । तं पाणी कारयामास रतिप्रीती इव स्मरम् ॥ ४१७ ॥ दिनानि कत्यपि प्रीत्या स्थापितस्तेन तत्र सः। दिव्यान् भोगान् समं ताभ्यां बुभुजे भूभुजां वरः॥४१८॥ अन्यदास्थानमासीनं रत्नपालेन संयुतम् । कश्चिदेत्य नृपं दूतः प्रणम्येति व्यजिज्ञपत् ॥ ४१९ ॥ राजन्नस्त्यत्र वैताब्ये पुरं गगनवल्लभम् । वल्लभस्तत्र विद्याभृ. त्तस्य हेमाङ्गदः सुतः ॥ ४२०॥ तस्य रूपश्रियां पात्री पुत्री सौभाग्यमञ्जरी । प्रवरं वरमीप्सन्ती कुलदेवीमसेवत ॥४२१॥ प्रसन्ना साऽन्यदा तस्यै दिव्यं वलयमार्पयत् । प्रोचे चास्य प्रभावेन सर्वकामानवाप्स्यसि ॥४२२॥ प्रासादे क्वापि जैनेन्द्रे रजन्यामन्यदा मुदा । नृत्यन्त्यास्तत्करात्तस्याः पपातानुपयोगतः॥ ४२३ ॥ तदेषा दुःखिताऽत्यन्तं नामुक्त न पपावपि । नापि क्वापि रतिं प्राप भवनेऽपि वनेऽपि च ॥४२४॥ ततो गवेषयामासुः खेचराः परितोऽपि तत् । न पुनः कापि ते
Page #260
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १२६ ॥
प्रापुश्चिन्तारत्नमिव च्युतम् ॥ ४२५ ॥ तल्लाभावधिनिर्मुक्तभक्ता साऽथ तदाप्तये । प्रकल्पितफलाहारा तपस्यति तपस्विनी ॥ ४२६ ॥ राज्ञा नैमित्तिकोऽन्येद्युः पृष्टः स्माह स्वयंवरे । ग्रहीतावलयस्यैतां स्वयमेत्य वरिष्यति ॥ ४२७ ॥ ततः सत्कृत्य तं हेमाङ्गदः संमदमेदुरः । कारयामास सौत्सुक्यं स्वयंवरणमण्डपम् ॥ ४२८ ॥ जनैराजुहवत्सर्वमयं खेचरराजकम् । त्वामाकारयितुं स्वामिन् ! मामिह प्राहिणोत् पुनः ॥ ४२९ ॥ विशिष्य सख्यमापन्नः स तवागममीहते । तत्रागत्य ततः सख्युर्हर्षमुत्कर्षय प्रभो ! ॥ ४३० ॥ ततो महाबलो रत्नपालश्च सपरिच्छदौ । अगातां नगरं हेमाङ्गदविद्याधरेशितुः ॥ ४३१ ॥ परेऽपि खेचरोवींशास्तत्र सद्यः समासदन् । प्रतिपत्तिं च सर्वेषामकार्षीदेष हर्षतः ॥ ४३२ ॥ अयं ततः प्रश| स्तेऽह्नि मश्चेषूच्चेषु मण्डपे । सर्वानुर्वीश्वरान् दिष्ट्या यथा ज्येष्ठमतिष्ठिपत् ॥ ४३३ ॥ अथ गर्जत्सु तूर्येषु सर्वाङ्गीणविभूषणाम् । कन्यामानाययद्राजा तत्रारोप्य सुखासनम् ॥ ४३४ ॥ आदिदेश नरेशस्तां वत्से ! वृणु यदृच्छया । एते वरयितारस्त्वां समेताः सन्ति भूभृतः ॥ ४३५ ॥ ततः प्रत्येकमुर्वीशान् नृपादेशात्प्रगल्भया । कीर्त्यमानान् प्रतीहार्या पश्यन्ती सचंचार सा ॥४३६ ॥ न त्विषं न मुखं तेषां न वक्षश्चक्षुषी न च । न शीर्ष नापि चोष्णीषं न वेषं न नखश्रियम् ॥ ४३७ ॥ न शृङ्गारं न चाकारं वीक्षामास विशिष्य सा । पौनःपुण्येन किन्त्वेकं पाणिं वलयभूषणम् ॥ ४३८ ॥ युग्गम् ॥ तदनङ्कतपाणीस्तान् दर्श दर्श मुमोच सा । दुर्भगानिव सौभाग्यपराभूतस्मरानपि ॥ ४३९ ॥ दृष्ट्वाऽथ वलयाश्लिष्टप्रकोष्ठं दृष्टितु|ष्टिदम् । रत्नपालं भृशं हृष्टा तत्रैवातिष्ठदुन्मुखी ॥ ४४० ॥ प्रतीहार्या त्वदृष्टः प्राग् नोपालक्षि विशिष्य सः । अतो न कीर्तयामाहे व्यक्त्या तद्वृत्तमद्भुतम् ॥ ४४१ ॥ न्यास्थत्तथाऽपि तत्कण्ठे कम्बुकण्ठी वरस्रजम् । यतः स्वयंवरस्त्रीणां प्रमाणं
अष्टमः प्रकाशः ।
॥ १२६ ॥
Page #261
--------------------------------------------------------------------------
________________
॥ स्वमनोरुचिः॥४४२॥ निजकन्यावृतं रत्नपालमालोकयन् मुहुः । मित्रं हेमाङ्गदोऽहृष्यदुपलक्ष्य विशिष्य तम् ॥४४३॥
परं विद्याधराधीशाश्चुक्रुधुदुर्धराः परे । अस्मासु खेचरेन्द्रेषु वृणीते भूमिगः कथम् ॥४४४ ॥ वत्रे यद्यपि मौग्धेन कन्ययाऽयमविज्ञया । तदप्यमुं वयं पाणौ कुर्वाणं न क्षमामहे ॥४४५॥ एवं ब्रुवन्तः संभूय भूयांसस्तेन भूभुजा । सार्ध युद्धाय संनद्धा बभूवुस्ते चमूवृताः॥४४६॥ रसेन तिलकं तेन रत्नपालोऽपि क्लुप्तवान् । अभ्यमित्रीणतां तेषां भेजे योद्ध|मुदायुधः॥ ४४७ ॥ करौ व्यापारयामास तथाऽयं वीरपुङ्गवः। काकनाशमनेशंस्ते कान्दिशीकाः यथाऽखिलाः ॥४४८॥ ततः स्वीकृत्य तस्याज्ञां सर्वे संभूय खेचराः। तं पाणौ कारयांचकुस्तां कन्यामद्भुतोत्सवैः ॥ ४४९ ॥ रत्नपालमहीपाय पाणिमोचनपर्वणि । रोहिण्याद्या महाविद्या ददौ हेमाङ्गदो मुदा ॥ ४५०॥ स तेन कृतसांनिध्यः सद्यस्ता विधिपूर्वकम् । साधयामास दुःसाधं धर्मसाधीयसां हि किम् ।। ४५१॥ अथ विद्याधराः सर्वे प्रौढप्राभृतपाणयः। तं सार्वभौमव जुरुभयश्रेणिवर्तिनः॥ ४५२ ॥ ततो विमानमारूढः स नवोढाभिरन्वितः। विद्याधरचमूचक्रपरीतः स्वपुरी ययौ ॥ ४५३ ॥ अथ त्रिखण्डसाम्राज्यमखण्डं पालयन्नयम् । तेने वदान्यमूर्धन्यो दानस्थितिमिति स्फुटम् ॥ ४५४ ॥ स्वर्णस्य त्रिंशतं कोटीः। प्रत्यहं सत्यवाग्वतः। जिनप्रासादबिम्बादो सप्तक्षेच्यामवप्त सः ॥ ४५५ ॥ अहंदादिगुणस्तोमस्तावकान् याचकानयम् । प्रत्यहं प्रीणयामास स्वर्णकोटिद्वयार्पणैः ॥ ४५६ ॥ उद्धर्तुमापदापन्नदीनादीस्ताः सदाऽप्ययम् । दयालुर्व्यययामास दशाहो ! तस्य दातृता ॥ ४५७ ॥ योऽपूर्वमद्भुतं काव्यं कथयामास वा कथाम् । ददौ तास्तावतीस्ताभ्यां प्रत्येकं प्रत्यहं नृपः ॥ ४५८ ॥ गजाश्वपत्तिसामन्तशुद्धान्तादौ गृहव्ययः । कोटयोऽष्टोत्तरात्रिंशत्तस्य नित्यमजायत ॥ ४५९ ॥ एवं रसबला
दा०२२
Page #262
--------------------------------------------------------------------------
________________
दानप्रदीपे
अष्टमः प्रकाशः
॥१२७॥
-
लुब्धं स्वर्णकोटीशतं सदा । व्यययन् नृपतिः सार्वभौममप्यत्यशेत सः॥४६०॥ इतश्च कितवस्तत्र द्रम्मलक्षमधुष्यधीः । | नित्यं पणापणे कोऽपि जिगायापजिगाय च ॥ ४६१ ॥ द्रम्मत्रिभागशेषेण प्रदोषे समिता मिताः । क्रीत्वा कुम्भकृतः पाक-1 स्थाने पूपान् पपाच सः॥ ४६२ ॥ गत्वा च भवने चण्ड्याः स्कन्धे पादौ निधाय सः। अभ्यज्य दीपतैलेन निशि निःशूकमाश तान् ॥ ४६३ ॥ कुपिता सा तथास्थं तं बिभापयिषुरन्यदा । आचकर्ष मुखाजिह्वां भुजगीवद्भयङ्कराम् ॥ ४६४॥ सोऽपि चिक्षेप तत्तुण्डे पूपखण्डमशङ्कितः । तद्भुक्त्वा मायया साऽपि पुनस्तां निरसीसरत् ॥ ४६५॥ रे रण्डे ! चण्डि ! मे पूपे प्रलुब्धाऽसीति विब्रुवन् । ततः स कितवस्तस्यास्थूदकार्षीन्मुखे रुषा ॥४६६॥ अथ खिन्ना रसज्ञा स्वामुच्छिष्टां दुष्टथूत्कृतैः । कथं मुखे क्षिपामीति ध्यात्वा तस्थौ तथैव सा ॥४६७॥ विलोक्य तां तथा प्रातरुत्पात इति शकिताः। शतशः | कारयामासुः शान्तिकानि पुरीजनाः॥४६८॥ तथाऽपि न तया न्यासि रसज्ञा स्वानने ततः। लोकाः शङ्काकुलाः काममकार्षु?षणामिति ॥४६९॥ स दीनारशतं लब्धा यश्छेत्तोत्पातमेतकम् । श्रुत्वा च पटहं धृष्टः स्पृष्टवान् स झटित्यमुम् ॥४७०॥ वेश्म तस्याः प्रविश्याथ विधाप्य विजनं च सः । सौद्ध त्यमभ्यधादेवीमुद्यम्य महतीं शिलाम् ॥४७१॥ रे चण्डि ! पण्डि|तंमन्ये ! रसज्ञामानने क्षिप । न चेत्तदृषदा तुण्डं शतखण्डं करोमि ते ॥ ४७२ ।। तादृग् निःशूकधृष्टं तं दृष्ट्वाऽशङ्किष्ट सा भृशम् । अनन्यगतिकत्वाच्च मुखे चिक्षेप तां क्षणात् ॥ ४७३ ॥ प्रतिपन्नं ततस्तस्मै ददुः प्रमुदिता जनाः। तस्मिन्नेव दिने धूर्तस्तत्तु छूते व्यदुद्रुवत् ॥ ४७४ ॥ तथैव स पुनः पूपदीपतैलाधभक्षयत् । यो हि यत्र प्रलुब्धोऽस्ति तन्मोक्तुं तस्य दुःश-| कम् ॥ ४७५ ॥ ततस्तस्मै भृशं क्रुद्धाऽपचिकीर्षी चकार सा । दृष्ट्याऽपि वक्रया द्रष्टुं साहसिष्ठं तु नैष्ट तम् ॥ ४७६ ॥
॥१७॥
Page #263
--------------------------------------------------------------------------
________________
SANSARASH
दीपमेवाथ सा खिन्ना भवनान्निरवासयत् । भोज्यस्थालमिव प्साता प्राप्ते दुर्धरकुक्कुरे ॥ ४७७ ॥ सोऽप्यधाविष्ट तत्पृष्ठे तमाचष्ट च तिष्ठ रे ।। क्व यासि तव नो मुञ्चे पृष्ठं कर्मेव जन्मिनः ॥ ४७८ ॥ दीपोऽप्याख्यत रे ! रूक्षानेव भक्षय पूपकान् । अपि द्वीपान्तरं यामि तैलं तु तव नार्पये ॥ ४७९ ॥ धूर्तोऽप्याह परद्वीपे स्वर्गे वा नागधाम्नि वा । यत्र यास्यसि तत्रैत्य तव तैलमुपाददे ॥ ४८०॥ दीपः पुनरवादीतं गच्छतो दिव्यशक्तितः । सङ्खस्यसे युगान्तेऽपि न मे किं वलसे न रे!॥ ४८१॥ एवं विवदता तेन निन्येऽरण्ये स दूरतः । देवेनेव स्वयं चाशु तिरोधायि दिनोदये ॥ ४८२ ॥ सर्पवच्चिक्षिपे दूरं वैरीति मुमुदेऽथ सा। धूतः शून्यामरण्यानीमापन्नस्तु विषण्णवान् ॥ ४८३ ॥ प्रतार्याहं तया निन्येऽरण्येऽस्मिनिति चिन्तयन् । भ्रमन् वने ज्वलद्वह्निकुण्ड क्वापि ददर्श सः॥ ४८४ ॥ कन्ये चोपतदं दिव्यलावण्ये नव्ययौवने। दीनं हीनं समग्राङ्गैनरं चैकं व्यलोकत ॥ ४८५ ॥ के युवा को नरश्चायं वह्निकुण्डमिदं च किम् । इत्युक्ते अपि तेनैते न किञ्चिप्रत्यवोचताम् ॥ ४८६ ॥ ततोऽयं विस्मितः पश्चादागत्य स्वपुरं द्रुतम् । दशकोटिप्रदं भूपं तदद्भुतमवोचत ॥ ४८७ ॥ तच्छ्रुत्वा विस्मितो भूपः समं तेन वनं ययौ । तच्चालोक्य तथा सर्व कन्ये सस्नेहमूचिवान् ॥ ४८८ ॥ के युवामग्निकुण्डादि किमिदं शून्यकानने ।राजाऽहं रत्नपालोऽस्मि सर्वेषां रक्षणक्षमः ॥४८९॥ ततस्तद्वचसा तेन मुमुदातेतमामिमे । वृद्धाऽभ्यधाच्च धात्रीशं चित्रं नश्चरितं शृणु ॥ ४२०॥ आवां विश्वावसोनाम्ना सुते विद्याधरेशितुः। देवसेनाऽस्मि गन्धर्वसेनेयमनुजा च मे ॥ ४९१ ॥ पित्राऽन्येधुर्वराप्राप्तावावयोयौवनाप्तयोः । पृष्टो नैमित्तिकप्रष्ठः स्पष्टमादिष्टवानिति ॥ ४९२ ॥ शून्यारण्यान्तराग्नेयदेवताभिरधिष्ठितम् । कुण्डं विधीयतां ज्वालाजालाढ्यज्वलनाकुलम् ॥ ४९३ ॥ वहिर्यत्र न मन्त्रेण न
Page #264
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १२८ ॥
तन्त्रेण न विद्यया । न सिद्ध्या नापि चौषध्या प्रतिबद्धुं हि पार्यते ॥ ४९४ ॥ तत्कुण्डान्तरखण्डाङ्गः स्नाता यः सात्त्विकाग्रणीः । पाणौ कर्त्ता स ते कन्ये सार्वभौमश्च संभवी ॥ ४९५ ॥ ततः प्रीतः पिता प्रीतिदानेन तममूमुदत् । अनागत्य च कुण्डादि निर्माप्यावामतिष्ठिपत् ॥ ४९६ ॥ वरीतुं शतशोऽध्यस्मानत्रेयुर्युवकुञ्जराः । कल्पान्तार्कमिव द्रष्टुमप्यैष्ट न तु कोऽप्यदः ॥ ४९७ ॥ खेचरोऽयं वुघूर्षुन झम्पां दातुमिहोद्यतः । शङ्कमानः कुण्डदेव्या विकलाङ्गो व्यधीयत ॥ ४९८ ॥ सवैकसारवृत्तीनामद्भुताः स्युर्विभूतयः । कातर्यजातशङ्कानामापदस्तु पदे पदे ॥ ४९९ ॥ इत्याकर्ण्य नृपो वर्यधैर्यः साश्चर्यमानसः । ददौ झम्पामकम्पात्मा तत्र सात्त्विकनायकः ॥ ५०० ॥ जज्ञे कुण्डं सुधाकुण्डं वज्रकायश्च भूपतिः । किं न सत्त्वप्रसादेन सद्यः संपद्यतेऽद्भुतम् ॥ ५०१ ॥ अथ तत्र नियुक्तेभ्यस्तं निशम्य समागमत् । सद्यो विद्याधरो विश्वावसुर्भूरिपरिच्छदः ॥ ५०२ ॥ नृपतिं प्रत्यभिज्ञाय तं पुरा खेचरीपतिम् । मत्वा सत्त्वाढ्यतां चास्य सविशेषं जहर्ष सः ॥ ५०३ ॥ ततो विद्याबलेनाशु सामग्रीं प्रगुणय्य सः । महोत्सवैः स्वपुत्रीभ्यां तं तत्रैवोदवीवहत् ॥ ५०४ ॥ ततो विमानमारुह्य कान्ताद्वितयशोभितः । नृपः खेचरचक्रेण परीतः स्वपुरीं ययौ ॥ ५०५ ॥ कितवश्चामुना कोटीर्वितीर्य द्विगुणा दश । द्यूतं संत्याज्य धर्मिष्ठः श्रेष्ठराजो व्यधीयत ॥ ५०६ ॥ सत्कृत्य सुतरां विश्वावसुप्रमुख खेचरान् । विसृज्य च नृपो राज्यमेकच्छत्रमभुक्त सः || ५०७ ॥ अथान्यदा निदाघर्तावन्तस्त्रिदशदीर्घिकम् । स्वयं चिक्रीडिषुर्नावमारुरोह महीपतिः ॥ ५०८ ॥ प्रेरितां चण्डवातेन तावदाकस्मिकेन नौः । गन्तुं प्रववृते वेगाद्योषा रोषाकुला यथा ॥ ५०९ ॥ न भटैरुद्भटैनम्भःप्लावकैर्नाविकैश्च सा । अपार्युन्मार्गतो रोद्धुं बन्धकीव स्वबन्धुभिः ॥ ५१० ॥ किमेतदिति संभ्रान्तो भूमांस्तत्रो
अष्टमः प्रकाशः
॥ १२८ ॥
Page #265
--------------------------------------------------------------------------
________________
भतीरगम् । चत्रारूढमिवापश्याम्यद्धामनगादिकं ॥ ५११ ॥ वेगेनोग्रेण गच्छन्ती घटिकाद्वितयेन सा । तीरं पूर्वाम्बुधेः प्राप स्वयं तत्र च तस्थुषी ॥ ५१२ ॥ अथोत्तीर्य ततो राजा व्यश्राम्यन् तीरकानने । तत्र चातर्कितं प्राप्तः सोऽप्युवाच प्रणम्य तम् ॥ ५१३ ॥ स्वःसंनिवेशदेशीयः प्राच्यदेशोऽयमुच्यते तस्यालङ्करणं रत्नपुरीयं द्युपुरीनिभा ॥ ५१४ ॥ रत्नसेन नृपस्तत्र वित्रस्तामात्र शात्रवः । सर्वस्या अपि पूर्वस्याः प्राज्यं राज्यं भुनक्ति यः ॥ ५१५ ॥ विंशतेग्रमकोटीनामाधिपत्यं तनोति यः । यश्चैकादशलक्षाणां सिन्धुराणामधीश्वरः ॥ ५९६ ॥ स्वामी शतसहस्राणां दशानां वाजिनां च यः । विंशते रथलक्षाणामक्षामाणामधीशिता ॥ ५१७ ॥ विंशतेः पत्तिकोटीनामादेष्टा दृष्टितोऽपि यः । परं सूनुं विना शून्यं सर्वे राज्यममंस्त सः ।। ५१८ ॥ तस्य कान्ता स्वकान्त्याऽस्तकनका कनकावली । अन्यदाऽद्भुत सौभाग्यं सा प्रासूत सुताद्वयम् ॥ ५१९ ॥ आद्या कनकमञ्जर्यपरा तु गुणमञ्जरी । नव्यस्तारुण्यपर्जन्यस्तद्रूपद्रुमवीवृधत् ॥५२०॥ तदा च प्राच्यदुष्कर्म विपाकेनादिमाऽभवत् । गलत्कुष्ठेन दुष्टाङ्गीः नष्टदृष्टिः परा पुनः ॥ ५२१ ॥ तयोश्चाका रमाकार मगदङ्कार धोरणीः । महीपतिः प्रतीकारानपारानप्यकारयत् ॥ ५२२ ॥ नौषधीभिर्न भेषज्यैर्न चूर्णैर्नापि चाञ्जनैः । न मन्त्रैर्नहि यन्त्रैश्च परं जज्ञे गुणस्तयोः ॥ ५२३ ॥ वेदनाऽपि न देहस्योपशशाम सुदुःसहा । विपाकमन्यथाकर्तुं कर्मठः कः कुकर्मणाम् ॥ ५२४ ॥ ततस्ते दुःखिते मृत्युमङ्गीकर्त्तुमुपस्थिते । विपत्तौ वनिताः प्रायः शरणीकुर्वते मृतिम् ॥ ५२५ ॥ पित्रादयोऽपि तद्दुःखसंक्रान्त्याऽतीव दुःखिताः । तथैवोपस्थिताः कर्त्तु मोहोऽन्धङ्करणो यतः ॥ ५२६ ॥ अथ राज्यमधिष्ठात्री देव्यसेव्यत मन्त्रिभिः । दिविष्ठा साऽप्यभापिष्ट प्रत्यक्षा सर्वसाक्षिकम् ॥ ५२७ ॥ पाटलीपुरतो रत्नपालः क्ष्मापालपुङ्गवः । तरीस्थस्तोयधेस्तीरं प्रातरानेष्यते मया
Page #266
--------------------------------------------------------------------------
________________
S
दानप्रदीपे ॥१२९॥
॥५२८ ॥ स चोलापयिता कन्ये इत्युक्त्वा सा तिरोऽभवत् । नृपादयस्तदाकर्ण्य सर्वे मुमुदिरेतराम् ॥ ५२९ ॥ देव्याः
अष्टमः साहाय्यतो देव! बभूवात्र तवागमः। इतस्तव पुरं पञ्चयोजनानां शतानि हि ॥५३०॥ नृपादेशादहं देव! त्वामभ्यागममग्रतः।
प्रकाशः। सोऽपि भूरिपरीवारो देव्यादेशादुपैत्ययम् ॥ ५३१॥ इतश्चामात्यसामन्तपत्त्यादिपरिवारितः । रत्नसेननृपस्तूर्यगर्जदम्ब
asty रमाययौ ॥ ५३२ ॥ रत्नपालनृपं दृष्ट्वा हृष्टः स्नेहान्ननाम सः। प्रावीविशत् पुरान्तश्च विस्मापितजनैर्महैः ॥५३३॥ सम्मान्याशनपानाद्यैस्तमभ्यर्थयते स्म सः। कन्ये प्रगुणय स्वामिन् ! देव्यादेशो हि नस्तथा ॥५३४॥रसेनाथ महीनाथः स्वाङ्गदस्थेन तेन सः भालं तिलकयामास कुष्ठदुष्टमृगीदृशः॥५३५॥तस्यानुभावतस्तस्याः सद्यः कुष्ठः प्रनष्टवान् । आर्जवादिव दोर्जन्यमौदार्यादिव दुर्यशः ॥ ५३६ ॥ रूपश्रीः प्रादुरासीच्च पूर्वतोऽप्यतिशायिनी । वल्लया दवाग्निदग्धाया इव नव्याम्बुयोगतः| ॥ ५३७ ॥ रसेन पुनरानञ्ज द्वितीयस्या दृशौ नृपः । शशाम च समग्राऽपि तस्याः सपदि वेदना ॥५३८ ॥ दिवाऽपि तारकालोकालङ्कर्मीणे विकस्वरे । अजायेतां दृशौ चास्याः पद्मे इव दिनोदये ॥ ५३९ ॥ अथ प्रमुदिता रत्नसेनाद्या नृपमूचिरे । यथोल्लाध्य त्वया कन्ये दुःखाब्धेरुदधृष्महि ॥ ५४०॥ तथा स्वामिनिमे पाणौ कृत्य चिन्तार्णवादपि । उद्धरास्मान् यथा स्वस्थाः स्वार्थाय प्रयतामहे ॥५४१॥ तदभ्यर्थनया सोऽपि तत्कृतैरद्भुतोत्सवैः। पाणौ चकार ते कन्ये पुण्ये काः संपदो नहि ॥ ५४२॥ पुराऽप्यभङ्गवैराग्यमागतः स्वाङ्गजारुजा । दध्यावथ विशुद्धात्मा रत्नसेनो धराधवः ॥५४३ ॥
॥१२९॥ सूनुर्वः परोलक्षैरप्येकोऽपि न मेऽजनि । अतः परं तदाशापि विधातुं मम नोचिता ॥ ५४४ ॥ धर्म एव हि वार्धक्ये युक्तः सम्यगुपासितुम् । विडम्बनैव विज्ञानां विषयासक्तता पुनः ॥ ५४५ ॥ राज्यधुर्यश्च जामाता मया पुण्यैरवाप्यत ।
UCCESSAGAMANAGESSA
Page #267
--------------------------------------------------------------------------
________________
तदस्मिन् राज्यमायोज्य युज्यते मम संयमः॥५४६॥ धन्यास्त एव राजानो यैरवीक्ष्य जरामुखम् । रजोवद्राज्यमुत्सृज्य संयमैश्वर्यमाददे ॥ ५४७ ॥ निःसन्देहमयं देहस्तेषामेव फलेग्रहिः। साहाय्येनास्य यैस्तेपे महोदयफलं तपः॥५४८॥ एवं वैराग्यभङ्गीभिरुत्तरङ्गीभवन्नयम् । जामात्रे रत्नपालाय निजं राज्यमदान्मुदा ॥ ५४९॥ स्वयं तु श्रीगुरोः पार्थे तप-16
स्यामयमाददे । सुदुस्तपं तपस्तत्वा परमां गतिमाप च ॥ ५५० ॥ रत्नपालनृपः पुण्यार्जितं राज्यं प्रपालयन् । कियन्तं समयं । सातत्र तस्थौ कान्ताद्वयान्वितः॥५५१॥तत्र राज्ये नियुज्याथ मत्रिणं जगतीपतिः। अलञ्चके स्वसाम्राज्यं स्वाराज्यमिव वासवः। M५५२॥ शृङ्गारसुन्दरी १रत्नवती २ सा पत्रवलिका ३।मोहवल्ली च ४ सौभाग्यमञ्जरी ५ देवसेनिका ६॥५५३॥ गन्धर्वसेना
७ कनकमञ्जरी ८ गुणमञ्जरी ९॥ इति नान्यः क्रमादस्य भार्या नव विरेजिरे॥५५४॥नवभ्यः क्षितिखण्डेभ्यः सारान सारानिव ध्रुवम् । सौन्दर्याणूनुपादाय विहितास्ताश्चकाशिरे ॥ ५५५ ॥ त्रिंशती ग्रामकोटीनां पुरां सहस्राविंशतेः। प्रत्येक द्वीपदुर्गाणामयुतस्य १०००० च स प्रभुः॥ ५५६ ॥ त्रिंशतो राट्रसहस्राणामयुतस्य किरीटिनाम् । वेलाकूलसहस्राणं द्वादशानां स नायकः ॥ ५५७ ॥ स चत्वारिंशतः पत्तिकोटीना रथवाजिनाम् । लक्षाणां तावतां नेता त्रिंशल्लक्ष्याश्च हस्तिनाम् ॥५५८॥ स पञ्चानां पयोदुर्गसहस्राणामधीशिता । विद्याधरसहस्रेण सिषेवे च दिवानिशम् ॥ ५५९॥ सम्यग् वर्णयितुं तस्य प्राभवं कः प्रगल्भते । यस्याह्नि दानभोगादौ स्वर्णकोटीशतव्ययः॥ ५६० ॥ तस्य सीमातिगः पुण्यमहिमा केन मीयताम् । जायते । प्रत्यहं तावत् स्वर्ण यस्य रसात्ततः॥ ५६१ ॥ प्रत्यक्ष इव पीयूषयूषे तस्मिन् रसोत्तमे । कस्यापि तस्य साम्राज्ये न बाधा व्याधयो व्यधुः॥ ५६२॥ पूरके सर्वेकामानां तस्मिन् कल्पतराविव । दारिद्रयं नोपदुद्राव जनान युगलिनो यथा ॥५६॥
RRORE
Page #268
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१३०॥
अमुना पाल्यमानासु प्रजासु स्वप्रजास्विव । न मारिनोरिजा भीति पीति प्यनीतयः ॥५६४ ॥ एवं दिव्यानि 8
अष्टम: सौख्यानि भुञ्जानस्य प्रशासतः । पृथ्वीं सुखसुखेनास्य वर्षलक्षा दशात्यगुः॥५६५ ॥ तस्य मेघरथो हेमरथः शतरथ
प्रकाशन स्तथा । इत्यादि नामभिः ख्याता अजायन्त शतं सुताः॥५६६ ॥ तत्रान्येधुर्महासेनः केवली समवासरत् । सान्तःपुरपरीवारो नृपस्तं वन्दितुं ययौ ॥ ५६७ ॥ गुरुं प्रदक्षिणीकृत्य ननाम विधिवन्नृपः । सोऽपि धर्माशिषा सौख्यपुषा तं पर्यतू-18 तुषत् ॥ ५६८ ॥ अथ धर्ममुपादिक्षन्नृपादीनां पुरो गुरुः । समीपे यस्य यत्पण्यं तत्तेन हि निरूप्यते ॥ ५६९ ॥ उत्पत्ति-16 रुत्तमकुले पटुतेन्द्रियाणां राज्यादिऋद्धिरसमा सुभगाश्च भोगाः। प्रीतिप्रदः प्रणयिनीतनयादियोगः किं किं भवेन्नहि शुभं सुकृतेन पुंसाम् ॥ ५७० ॥ नीचैः कुले जन्म कुटुम्बगः कलिः प्रियैरसक्तिः परिषक्तिरप्रियः । दरिद्रतादुर्भगताभियातिभिः पराभवः पापफलानि देहिनाम् ॥५७१॥ हिंसाऽनृतस्तेयकुशीलतादिकं विमुच्य पापं सकलं विवेकिनः। विधत्त भो ! धर्मविधौ तदुद्यम सद्यः स्वयं वो वृणते यथा श्रियः॥ ५७२ ॥ निशम्याथ सुधादेश्यमुपदेशमिमं गुरोः। प्रीतः पृथ्वीपतिनत्वा पप्रच्छ स्वच्छया गिरा ॥ ५७३ ॥ स मन्त्री कर्मणा केन राज्यं मे बलिनोऽग्रहीत् केन शृङ्गारसुन्दर्या
दुस्सहाश्चाभवन् व्यथाः॥ ५७४ ॥ मया प्रापि पुनः केन साम्राज्यमधिकाधिकम् । कुष्ठः कनकमञ्जयोः केन चाजनि & कर्मणा ॥ ५७५ ॥ अन्धता गुणमञ्जयोः केन केन तयोर्गुणः । कर्मणा केन च प्रापि दुष्प्रापोऽयं मया रसः ॥ ५७६ ॥ | केवली प्रत्युवाचाथ राजन्नाकर्ण्यतामिदम् । अत्रैव भरते रत्नपुरं रत्नराजितम् ॥ ५७७ ॥ रत्नवीरनृपस्तत्र पवित्रः पुण्य- ॥१३॥ कर्मभिः । पञ्चत्वमपि यस्तन्वन् द्विषां तेने कुलक्षयम् ॥ ५७८ ॥ तस्य राज्ञः सलावण्याः श्रीदेवीप्रमुखा नव । नवभ्यः
Page #269
--------------------------------------------------------------------------
________________
क्षितिखण्डेभ्यः कृताः सारैरिवोद्धृतैः ॥ ५७९ ॥ तत्राभूतां सिद्धदत्तधनदत्ताभिधावुभौ । वणिजौ जातसौहार्दावन्योन्यं दशैशवादपि ॥ ५८० ॥ अल्पर्द्धिकतया तादृग्महिमानं महाजने । कुत्राप्यनाप्नुवन्तौ तावन्तय॑षदतांतमाम् ॥ ५८१॥ न
दानं नहि सम्मानः स्वाजन्यं न न विज्ञता। पुंसां वित्तं विना कोऽपि न संमुखमपीक्षते ॥ ५८२॥ कृतास्तदर्थमत्यर्थ व्यवसायाः सहस्रशः । एकोऽपि परमस्माकमवकेशीव नाफलत् ॥ ५८३ ॥ अथार्थस्यार्जनोपायं तं कश्चन वितन्महे । सद्यः फलति यः काम स्यालक्ष्मीश्चाक्षया यतः॥ ५८४ ॥ एवं विचार्य कार्यज्ञावुपवासपराविमौ । प्रभावप्रथितां कामदेवतामारराधतुः॥ ५८५॥क्षपणैरेकविंशत्या प्रत्यक्षा साऽप्यभाषत । प्रासीदं युवयोर्भक्त्या यथेच्छं वृणुतं वरम् ॥५८६॥ अथ शुद्धधियां धाम धनदत्तोऽभ्यधत्त ताम् । अलङ्कतां विवेकेन लक्ष्मी देवि ! प्रदेहि नौ ॥ ५८७॥ साऽप्युवाच तयोरेकं याच्यतां ननु त्वद्वयम् । पुंसां कर्मानुरूपं हि ददते देवता अपि ॥ ५८८ ॥ लक्ष्मीमूलं हि वैदुष्यमुख्यताद्यं जनेऽखिलम् । इति मूढधिया सिद्धस्तामेवैकामयाचत ॥ ५८९ ॥ हेतुर्विवेक एवैकस्त्रैलोक्यसकलश्रियाम् । इत्युदुद्धसुबुद्धिस्तु धनः प्रार्थयते स्म तम् ॥ ५९० ॥ यथार्थनमथो ताभ्यां तदेकैकं वितीर्य सा । देवता द्राक् तिरोधत्त तौ च स्वं सद्म जग्मतुः ॥ ५९१॥ अथ सिद्धगृहेऽन्येधुर्मध्याहे योगिपुङ्गवः। कश्चनाश्चर्यकृन्नानामन्त्रसिद्धिः समागमत् ॥५९२॥ सिद्धदत्तोऽपि तं भक्त्या यथा काममभोजयत् । अयं संभाव्यते धाम सिद्धीनामिति लुब्धधीः ॥ ५९३ ॥ ततस्तुष्टः स कर्कव्या बीज मन्त्राभिमन्त्रितम् । अदत्त सिद्धदत्ताय फलं तस्या व्यधत्त च ॥ ५९४ ॥ इमानि वत्स ! बीजानि विध्युप्तानि मुहूततः । उत्फुल्लपल्लवा वल्ल्यः संपद्यन्ते फलाञ्चिताः ॥ ५९५ ॥ फलं चासां सुधाकल्पैरनस्पैरश्चितं रसैः । क्षुधं तृषं च तापंद्र
Page #270
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १३१ ॥
च शमयत्युपसेवितुः ॥ ५९६ ॥ वातांश्चतुरशीतिं तान् दोषान् षट्सप्ततिं दृशः । कुष्ठानष्टादशाप्येतन्नाशयत्याशु चाशितुः ॥ ५९७ ॥ सर्वेऽपि संनिपाताद्या व्याधयो दुर्धरा अपि । सद्यस्तेन च शाम्यन्ति घनेनेव दवाग्नयः ॥ ५९८ ॥ नश्यत्या| सेवनाच्चास्य विषं स्थावरजङ्गमम् । इदं समग्ररोगघ्नं परमं हि रसायनम् ॥ ५९९ ॥ तस्मादिमानि बीजानि स्थापनीयानि यत्नतः । एवमावेद्य योगीन्द्रः सौवमास्पदमासदत् ॥ ६०० ॥ सिद्धोऽपि सुदिने तानि बीजानि विधिनाऽवपत् । अफलंश्च मुहूर्तेन वयः संफुल्लपल्लवाः ॥ ६०१ ॥ फलैस्तासां स लोकानामसाध्यानपरौषधैः । अध्वंसिष्ट द्रुतं दुष्टव्याधीन् धन्वन्तरिर्यथा ॥ ६०२ ॥ रूपकाणां शतेनायं सहस्रेणायुतेन च । क्वचिच्छतसहरुयाऽपि तदेकैकं विचिक्रिये ॥ ६०३ ॥ ततस्तदर्जितैर्वित्तैरयं लेभे महेभ्यताम् । ध्रुवं गीर्वाणभूर्वाणी प्रमाणीभवति द्रुतम् ॥ ६०४ ॥ अन्येद्युः पोतमापूर्य पण्यैः पाथोधिमाप सः । न संतोषं विना तृप्तिर्वित्तैरप्यमितैर्यतः ॥ ६०५ ॥ द्वीपान्तरमयं प्राप्तः प्रचक्रे क्रयविक्रयम् । ततः पण्यान्यगण्यानि क्रीत्वा प्रतिचचाल च ॥ ६०६ ॥ इतश्चोद्धतवातेन सर्वतः क्षुब्धसिन्धुना । पोतश्चलाचलश्चक्रे गिरिकेणेव गेन्दुकः ।। ६०७ ॥ पोतवत् कम्पितस्वान्ताः संशीतिप्राप्तजीविताः । सिद्धदत्तस्तदा सर्वे जनाश्चाकुलतां दधुः ॥ ६०८ ॥ अयं लघुकृतो जातु न मज्जेदिति ते धिया । विलक्षाश्चिक्षिपुः पोतादखण्डं भाण्डमम्बुधौ ॥ ६०९ ॥ ततः स लोलकल्लोलैरुल्लासित इतस्ततः। शून्यं द्वीपं द्रुतं प्राप जीविताशां जनः पुनः ॥ ६१० ॥ पोतादुत्तीर्य तीरोर्व्या तस्थुः स्वस्थतयाऽथ ते । न्यक्षेणान्नक्षयस्तेषां तस्थुषां तत्र चाभवत् ॥ ६११ ॥ विनाऽन्नेन जनाः सर्वे वारिणा मकरा इव । दुःखायामासुरत्यन्तं नृणामन्नं हि जीवितम् ॥ ६१२ | सिद्धदत्तस्ततस्तत्र तद्वीजं विधिनाऽवपत् । प्ररोहन्ति स्म ता वहयः फलन्ति स्म च सर्वतः
अष्टमः
प्रकाशः।
॥१३१॥
Page #271
--------------------------------------------------------------------------
________________
॥ ६१३ ॥ भुञ्जानाः कल्पवल्लीनामिव तासां फलानि ते । निष्कर्माणः सुखं तत्र तस्थुर्मिथुनिनो यथा ॥ ६१४ ॥ अन्येयुस्तत्र तद्गन्धात्प्रापुषी जलमानुषी । तान्यभक्षयदीदृक्षं स्वादु कस्मै न रोचते ॥ ६१५ ॥ सिद्धदत्तश्च तां वीक्ष्य भक्षयन्तीं न्यषेधयत् । निपुणः पाणिगं कृत्वा रत्नं चैकमदीदृशत् ॥ ६१६ ॥ तयाऽपि धूर्तयाऽतर्कि रलं मे ददसे यदि । तदा ददे फलानीति ध्रुवं मामेष भाषते ॥ ६१७ ॥ ततः फलेषु लुब्धा सा प्रविश्याशु पयोनिधौ । ददेऽस्मै रत्नमानीय सोऽप्यस्यै फलमार्पिपत् ॥ ६१८ ॥ इयं यावन्ति रत्नानि ददौ तावन्त्ययं पुनः । फलानि दुर्लभं यस्य यद्वित्तस्य तदर्थिता ॥ ६१९ ॥ इत्यद्भुतं तया साकं कुर्वतः क्रयविक्रयम् । रत्नराशिर्बभूवास्य नवीन इव पर्वतः ॥ ६२० ॥ ततस्तैः पोतमापूर्य क्षेमेणागानिजं पुरम् । नृपस्य स्तोकमुत्कोचं स चक्रे चाविवेकतः ॥ ६२१ ॥ ततः कोपप्रदीप्तेन रत्नलोभेन पत्तिभिः । रत्नवीरनृपस्तस्य पोते स्वाज्ञामदापयत् ॥ ६२२ ॥ महाजनोऽपि नावर्जि पूर्व तेनाविवेकिना । अतस्तद्विषये कोऽपि नृपं नैव व्यजिज्ञपत् ॥ ६२३ ॥ किं करोमि क गच्छामि कमुपायं तनोम्यहम् । इति चिन्ताकुलस्यास्य दिवसा द्वादशात्यगुः ॥ ६२४ ॥ ततस्त्रयोदशे घस्रे स्वयमुत्पन्नसन्मतिः । इमानि परकीयानि नादातुमुचितं मम ॥ ६२५ ॥ इत्यामृश्य नृपस्तस्य पोतस्याज्ञाममुमुचत् । किमम्भोनिधिरुद्वेलः स्वतोऽन्येन निवार्यते ॥ ६२६ ॥ युग्मम् ॥ मुदितः सिद्धदत्तोऽथ पोतादुत्तारितैर्गृहे । कोष्ठागारांश्चकारान्नकणैरिव मणीगणैः ॥ ६२७ ॥ कोटीः स्वर्णस्य षट्षष्टिं चक्रे विक्रीय तान्ययम् । दुष्टभूतवदध्यष्ठात् त्यागभोगोज्झिताश्च ताः ।। ६२८ ॥ कलङ्क इव शीतांशोः क्षारत्वमिव वारिधेः । मिथ्यात्वमिव धर्मस्य रूपस्येव कुशीलता ॥ ६२९ ॥ कुनीतिरिव राज्यस्य दुग्धस्येव तुषोदकम् । कार्पण्यमविवेकस्य तस्य लक्ष्मीमदूषयत् ॥ ६३० ॥ युग्मम् ॥
Page #272
--------------------------------------------------------------------------
________________
दानप्रदीपे
अष्टमः प्रकाशा
॥१३२॥
व्ययभीरुरयं क्वापि न महाजनसंगमे । समगस्त कलङ्केन पतेरिव बहिष्कृतः॥ ६३१ ॥ अधर्मा धर्मशालायाः समासत्तौ न जातु सः। संचचार कुधीब्रह्मपुर्या इव जनङ्गमः॥ ६३२॥ नेन्दिरामदिरामत्तः स तृणायाप्यमन्यत । महाजनं ततस्तस्य नित्यमक्षिगतोऽभवत् ॥ ६३३ ॥ स देवान्नार्चयामास नोपासामास सद्गुरून् । सच्चक्रे च न सच्चक्रं नोपचक्रे च दुःस्थितम् ॥ ६३४ ॥ लोभाकुलतया तत्तद्वित्तोपायैकदत्तधीः। मुधैव गमयामास केवलं पशुवजनुः ॥ ६३५ ॥ धनदत्तस्य चित्तं तु देवताप्रगुणीकृतः । सम्यक् प्रकाशयामास विवेकमणिदीपकः॥ ६३६ ॥ सद्योऽप्ययं धनी जज्ञे यथौचित्यं वणिज्यया। विवेकच्छेकतां धत्ते प्रायः संपदुपार्जने ॥ ६३७ ॥ व्यधत्त सततं देवभक्तिं निर्णिक्तवासनः । निदानं संपदामेषा सर्वासामिति सन्मतिः॥ ६३८ ॥ तत्त्वातत्त्वप्रकाशाय गुरुरेव प्रगल्भते । इत्याराध्य त्रिधा शुद्ध्या स गुरुं गुरुभक्तितः ॥ ६३९ ॥ सर्वत्र व्यवहारेषु संजग्मे स महाजनैः । वर्धमानैर्यशोमानमहत्त्वैश्च दिने दिने ॥ ६४०॥ कलिः सकलकल्याणवल्युन्मूलनकुञ्जरः। विपदा पदमित्येष न क्वाप्यकलहायत ॥ ६४१ ॥ अस्मादप्रत्ययोऽप्रीतिलघुता वचनीयता । न के दोषाः सपोषाः स्युरित्यसत्यमवग् न सः॥ ६४२॥ दत्ते हि वधबन्धाद्यमिह चौर्यद्रुमः फलम् । श्वधपीडाः पुनः प्रेत्य नादत्तादत्तमित्ययम् ॥ ६४३ ॥ पारत्रिकैहिकीः सर्वा विपदः पारदारिकः । प्राप्नोतीत्यन्यपद्माक्षी न ददर्श दृशाऽपि सः ॥६४४ ॥ मूलं दुःखविषद्रूणां व्यसनानीति नीतिवित् । अहितेभ्य इवैतेभ्यः संचचार स दूरतः ॥ ६४५ ॥ पुरुषं भूषयन्त्येते भारस्त्वाभरणोत्करः । इत्येष विनयायेषु गुणेष्वेवादति व्यधात् ॥ ६४६ ॥ यशः श्रेयःफलं दत्तं भुक्तं स्यान्मलसात्पुनः। तस्मादायोचितं न्यायोपात्तं वित्तमदत्त सः॥ ६४७ ॥ सुभगकरणाचारः सर्वतः सर्वदाऽप्ययम् । सर्वस्याप्यत
॥१३२॥
Page #273
--------------------------------------------------------------------------
________________
एवासीत् प्रियङ्करणदर्शनः ॥६४८॥ अन्येास्तत्र रोगातः कश्चिद्वैदेशिको वणिक् । व्यपद्यत मठे क्वापि पाणौ हि प्राणिनां मृतिः॥६४९॥ तस्याग्निसंस्कृति कत्तुं समगस्त महाजनः। धनदत्तोऽपि सन्तो हि सर्वत्रौचित्यतत्पराः ॥ ६५० सिद्धदत्तः पुनस्तत्र तदाहूतोऽपि नागमत् । नोपैति पञ्चलोकान्तर्न तस्मादपरो जडः ॥६५१॥ वणिजस्ते तमादाय श्मशानभुवमैयरुः । चितां च रचयामासुस्तत्र कान्तारदारुभिः॥ ६५२ ॥ परं न कोऽप्यविज्ञातज्ञातेस्तस्यानलं ददौ । प्रायेणाधिक्रियन्ते हि स्वजना एव तद्विधौ ॥ ६५३ ॥ तद्विधावभ्यधत्ताथ धनदत्तं महाजनः । विधेयाश्रवमादेष्टुं सर्वः कोऽप्युत्सुकायते ॥ ६५४ ॥ पञ्चानां वचनं मान्यमित्यमन्यत सोऽपि तत् । न्यविशन्त तरुच्छाये दूरीभूयापरे पुनः॥ ६५५॥ चितायां तं स निक्षिप्य यावद्वस्त्रमपाकरोत् तावत्तदञ्चले ग्रन्थिं दृढबन्धं व्यलोकत ॥६५६॥ ग्रन्थावुद्रथिते तेन मणयः | पञ्च भास्वराः। बभूवुः प्रकटास्तस्य मूर्ताः पुण्यचया इव ॥ ६५७ ॥ परकीयमिदं द्रव्यं ममादातुं न युज्यते । परस्वग्रहणं है लोकद्वयेऽपि न हितावहम् ॥ ६५८ ॥ इति तत्त्वार्थवित् कृत्वा कृत्यं तत्रत्यमाशु सः । उपेत्य तानि रत्नानि महाजनम-1
दीदृशत् ॥ ६५९ ॥ ऊचे चैतानि बद्धानि बभूवुर्मूतवाससि । अदत्तमाददे नाहं यूयं गृहीत तान्यतः॥ ६६० ॥ वीक्ष्य * संतोषमित्यस्य व्यसेष्मायीन्महाजनः । प्रीत्या चावोचदेतानि त्वमेवादत्स्व वत्स भोः! ॥ ६६१ ॥ अस्माभिरामाणा
नामेतेषां ग्रहणे भवान् । अदत्तग्रहजातेन न पापेनोपलिप्स्यते ॥ ६६२ ॥ सोऽप्यवादीन्नृपः स्वामी मृतस्वामिकवस्तुनः।
ततो युष्माकमप्येषां प्रदानं नोपपद्यते ॥ ६६३ ॥ इत्युक्त्वा स बलात्तानि महाजनकरेऽमुचत् । कृत्वा सर्वे च ते स्नानं I स्थानं प्रापुर्निजं निजम् ॥ ६६४ ॥ अथाकर्ण्य तथावृत्तं तस्य विस्मितवान नृपः। प्रसन्नस्तानि चानाय्य धनदत्ताय दा० २३
Page #274
--------------------------------------------------------------------------
________________
दानप्रदीपे दत्तवान् ॥ ६६५॥ परवित्तमदत्तं यो नादत्ते चित्तशुद्धितः। तं स्वयं वृण्वते सद्यः संपदः सर्वतोऽद्भुताः॥६६६॥ अष्टमः
लक्षाः पञ्च सुवर्णस्य रत्तैस्तैः सोऽपि विक्रिये । दानभोगवणिज्यादौ यथायुक्ति न्ययुक्त च ॥ ६६७ ॥ अथ वाणिज्यमन्ये- प्रकाशः। ॥१३३॥
धुश्चिकीर्षः स विशेषतः। दिवसादिवसौ स्वस्य सम्यग् विज्ञातुमैहत ॥६६८॥ भोजनेऽल्पतमे स्वल्पमजीर्ण जायते यथा। यथा स्तोकं प्रपाते वा स्तोकैवाङ्गस्य वेदना ॥ ६६९ ॥ तथा क्रयाणके स्तोके हानिः स्तोकैव जायते । एवं विवेकवानेका M क्रीणाति स्म स बर्करीम् ॥ ६७० ॥ सा वने चरितुं मुक्ता समचारीदितस्ततः । प्राच्यं गवेषयन्तीव तदीयं कर्म वैभवम् ।
॥ ६७१ ॥ आद्य एव दिने साऽजा वृकेणोग्रेण जग्रसे । एवं द्विस्त्रिः कृते तेन तथैवाभवदन्वहम् ॥ ६७२ ॥ ततः स्वस्यादिनं ज्ञात्वा नापणायद्विशिष्य सः । निश्चित्यावसरं कृत्ये यतन्ते हि विपश्चितः ॥ ६७३ ॥ कियत्यपि गते काले पुनः क्रीत्वा छगी बने । चरणाय मुमोचायं साऽपि प्रासूत तद्दिने ॥ ६७४ ॥ एवं यां यां स जग्राह सा सा प्रासूत सत्वरम् ।
दिनैश्चाल्पैरनल्पीयस्तस्याजकमजायत ॥ ६७५ ॥ मत्वेति दिवसं स्वस्य दिन एवादिमेऽग्रहीत् । पञ्चलक्ष्या सुवर्णेन पण्यं लादेशान्तरागतम् ॥ ६७६ ॥ दिनेऽथ सप्तमे तत्र परद्वीपादवापुषे । सांयात्रिकाय तत्पण्यं सर्वमर्पयति स्म सः॥ ६७७ ॥स | तद्विगुणलाभेन दशलक्षाधिपोऽजनि । स्वकर्मण्यनुलोमे हि संपदो न दुरासदः॥ ६७८ ॥ इति सन्ततवाहिन्या सारण्येव । वणिज्यया । आरामश्रीरिवाश्रान्तं तस्य ऋद्धिरवर्धत ॥ ६७९ ॥ क्रमेण जज्ञिरे तस्य द्वादश स्वर्णकोटयः । पुण्यप्रणीत- ॥१३३॥ साहाय्यं वाणिज्यं हि सुरद्रुमः॥ ६८०॥ धनदत्तोऽन्यदा सिद्धदत्तश्च क्वाप्यपश्यताम् । कुर्वाणो कलहं मार्गे नृपसामन्तयोः सुतौ ॥ ६८१ कलेर्दवानलस्येव न युक्ता स्थितिरन्तिके । इतिबुद्ध्या धनोऽमेध्याविव तौ दूरमत्यगात् ॥ ६८२ ॥
SARAKHRISSASSASSASAR
Page #275
--------------------------------------------------------------------------
________________
उच्छल्य कलिरेतौ वा विलगिष्यन्ति नः किमु । इत्युद्धतधिया सिद्धस्तयोः पार्श्वमुपागमत् ॥ ६८३ ॥ ताभ्यां च प्रतिभूश्चक्रे स एव स्वनयानये । इमौ विवदमानौ च नृपोपान्तमुपैयतुः॥ ६८४ ॥ ज्ञापयन्तौ निजं न्यायमन्यस्यान्यायमेव तौ। कः साक्षीति नृपेणोक्तौ सिद्धदत्तमवोचताम् ॥ ६८५॥ आइय सिद्धदत्तोऽपि राज्ञा पृष्टःप्रनष्टधीः । अन्योक्तं नृपपुत्रस्य मान्यस्यान्यायमन्ववक् ॥ ६८६ ॥ अतस्तं साक्षिणं रोषान्मिथ्याकृत्य क्षमापतिः। विंशति स्वर्णकोटीनामदण्डयदखण्डवाक् ॥ ६८७॥ तस्य द्वेष्यतया पक्षं नाकार्षुर्नागरा अपि । महाजनविरोधी हि न संबन्धी सुखश्रियाम् ॥ ६८८॥ अन्येद्यहृद्यरूपौ तौ व्रजन्ती राजवर्त्मनि । रतिश्रीमन्त्रिणः पत्नी निरक्षत गवाक्षगा॥ ६८९ ॥ निर्भरं बिभरामासानुरागं सा तयोर्द्वयोः। ध्रुवं न सरिति स्थैर्य न विद्युति न योषिति ॥ ६९० ॥ ताभ्यामपि न्यभाल्येषा वेषाडम्बरधारिणी । रूपं | विषयगं चक्षुर्नहि क्षममवीक्षितुम् ॥ ६९१ ॥ नूनं दर्शनमप्यन्यस्त्रीणां दृष्ट्या सरागया । लोकद्वयविरोधीति शुद्धबुद्धि-: धनो धनः ॥ ६९२ ॥ शत्रोरिवोद्वेगकरात् सर्पादिव भयंकरात् । दृशौ संहृत्य तद्रूपादर्कादिव गतोऽग्रतः ॥ ६९३ ॥ युग्मम् ॥ सिद्धदत्तः पुनर्दत्तदृष्टिरूचं स्मरान्धितः । तस्थौ तत्रैव पश्यंस्तां निखात इव भूतले ॥ ६९४ ॥ तया च सह हासादि मुहुस्तन्वन्नपत्रपः । निरक्षत तलारक्षमङ्क चारक्षि सग्रहम् ॥ ६९५ ॥ तमार्पिपन्नमी राज्ञस्तदन्यायोक्तिपूर्वकम् । पापकर्मकृतां शास्ता महीपतिरिहैव हि ॥ ६९६ ॥ नृपोऽपि कुपितः कोटीर्दण्डयामास तं दश । न ह्यन्यायवतां धाग्नि स्थेमानं भजते रमा ॥ ६९७ ॥ हीयमानधनः सिद्धो निर्विवेकतयाऽजनि । धनः पुनर्विवेकेन वर्धमानधनोऽन्वहम् ॥६९८॥ अन्येधुर्धनदत्ताय रहः कश्चन विक्रयी । प्रत्येक कोटिमूल्यानि दश रत्नान्यदीहशत् ॥ ६९९ ॥ किं मूल्यमित्यनेनोक्ते
Page #276
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१३४॥
सहस्रान् दश सोऽभ्यधात् । तदाकर्ण्य धनो धीमानन्तर्मनसमामृशत् ॥ ७०० ॥ एषां मूल्यमनल्पं स्यादयमल्पं जजल्प | अष्टमः तुः। कुतोऽप्येतानि तन्ननं स्तन्यादानिन्यिरेऽमुना ॥७०१॥ स्तेनानीतगृहीता च पदं दण्डस्य दस्युवत । इतिबद्ध्या। प्रकाशन धनस्तानि बहुलाभेऽपि नाग्रहीत् ॥ ७०२ ॥ अथायं दर्शयामास सिद्धदत्ताय तान् मणीन् । लाभं निभाल्य भूयांसं रहो जग्राह सोऽप्यमून् ॥ ७०३ ॥ वणिग् व्यवहरन् कूटं लाभमेव स लोभधीः । वीक्षते न पुनर्दण्डमोतुर्दुग्धं धयन्निव ॥ ७०४ ॥ अन्येद्यः स पुरारक्षैर्धियेत स्म मलिम्लुचः । पृष्टश्च कुत्र लोकस्य लोत्रं ब्रूहि न चेन्मृतिः॥ ७०५॥ ताज्यमानः स तैर्बाढं समस्तं तददर्शयत् । जनैश्च प्रत्यभिज्ञाय निजं निजमुपाददे ॥ ७०६ ॥ नृपकोशादुपात्तानि कि रे रत्नान्यपहुषे । इत्याक्षिप्य पुनः पृष्टः स्पष्टमाचष्ट तानयम् ॥ ७०७ ॥ रत्नानि धनदत्ताय तानि पूर्वमदर्शयत् । परं कुतोऽप्ययं | हेतोः कर्करानिव नाहत ॥ ७०८ ॥ अदीदृशं ततः सिद्धदत्ताय स तु लोलुभः । सहस्रर्दशभिर्हेम्नां मत्तस्तान्यावदे रहा ॥७०९॥ ततः क्रुद्धो नृपः सिद्धदत्तात्तान्येव केवलम् । नादत्त किन्तु सर्वस्वं राजरोपो हि भीषणः॥७१०॥ सिद्धद-18 त्तस्ततोऽत्यन्तं दारिद्रयेणोपदुद्रुवे । लोकेऽत्राप्यविवेकेन न किं दुःखमवाप्यते ॥ ७११ ॥ बभूव दुःखगर्भेण वैराग्येण स तापसः । न प्रेत्यसाधनोपायः साधीयानविवेकिनः॥७१२॥ आकार्य धनदत्तोऽपि नृपेणापृच्छयताच्छधीः । कथं रत्नानि नादत्थ यथास्थं सोऽप्यचीकथत् ॥ ७१३ ॥ रहोज्ञप्तिसशङ्कत्वस्तोकमूल्यादिहेतुभिः । स्तेनानीतानि निश्चित्य नाहं रत्ना- ॥१४॥ न्युपाददे ॥ ७१४ ॥ अहो ! बुद्धिर्विशुद्धाऽस्य कटरे व्रततीव्रता । इति स्तुवन् नृपोऽप्येनममानं सममानयत् ॥ ७१५॥ व्यसनादावसक्तस्य व्यवसायविवेकतः। अवर्धन्त श्रियस्तस्य वारिदादिव वीरुधः॥७१६॥ रत्नवीरमहीभर्तुधूर्तः कोऽप्य
Page #277
--------------------------------------------------------------------------
________________
न्यदा सदः । गृहीत्वा पञ्चरत्नानि कोटिमूल्यान्यथागमत् ॥ ७१७॥ सभ्यांश्चाभिदधेऽम्भोधौ कर्दमोदकयोद्धयोः । किं स्तोकमधिकं किं च निश्चयः प्रोच्यतामयम् ॥ ७१८ ॥ यश्च निश्चयमाचष्टे प्रत्याययति मां पुनः। ददाम्येतानि रत्नानि तस्मै विस्मितवानहम् ॥ ७१९ ॥ प्रतिवक्तुममुं तत्र व्यामूढः प्रौढधीरपि । न कः संदेहदोलायां खेलयामास मानसम् ॥ ७२० ॥ धनदत्तः पुनर्देवीप्रसादादुल्लसन्मतिः। जगाद कर्दमो भूयास्तोयं स्तोकं च निश्चिनु ॥७२१॥ न प्रत्येषि मदुक्तं चेत्तदा मन्दाकिनीमुखाः । निरुध्य सरितः सर्वाः प्रमाहि जलमम्बुधेः॥ ७२२ ॥ पङ्कस्यापि ततो मानं कुरु पङ्काधिक दकम् । भवेद्यदि तदा पञ्चकोटी: स्वर्णस्य ते ददे ॥ ७२३ ॥ एवं निरुत्तरीकृत्य धूर्तस्तेन व्यजीयत । नृपादेशाच्च पश्चापि|| रत्लान्याददिरे ततः ॥७२४॥ तत्रान्यदा सदाकारः स्फारशृङ्गारधारकः । महेभ्यः सार्थवाहत्वं ख्यापयन्नवयौवनः ॥७२५॥ स्वामिन्याः स्वर्णकोटीनां द्वादशानां पणस्त्रियः। कश्चनानङ्गसेनायाः सद्म छद्मनिधिर्ययौ ॥ ७२६ ॥ युग्मम् ॥ कपटैक-12 पटुः सापि नाटयन्ती चटूगिरः। महेभ्य इति मन्वाना नानाभावैर्बभाण तम् ॥ ७२७ ॥ अहो ! पुण्यैर्ममागण्यैरुदमीलि8 पचेलिमैः। यन्मे सुरद्रुमः सन जङ्गमस्त्वमुपागमः ॥ ७२८ ॥ स्वप्ने निशावसानेऽद्य प्राप्तास्ते पार्श्वतो मया । प्रसन्नस्येव देवस्य द्वादश स्वर्णकोटयः॥ ७२९ ॥ तत्सत्यमधुना जज्ञे जनोक्तिस्त्वियमन्यथा। केन स्वप्नोपलब्धं हि लभ्यते वस्तु वस्तुतः ॥ ७३० ॥ प्रत्युत्पन्नमतिधूतः प्रत्यवोचत तां ततः। त्वमवादीरिदं भद्रे ! सत्यमेव यतः शृणु ॥७३॥ वसनीयं तवावासे मया द्वादशवत्सरीम् । इत्युक्त्वा तावतीः स्वमे न्यास्थं ते सदनेऽद्य ताः॥७३२॥ तव सौन्दर्यचातुर्यप्रीतिप्रभृतिभिर्गुणैः ।। नियन्त्रितस्त्वदावासे स्थाता जीवितमप्यहम् ॥७३३॥ परं प्रतिष्ठते देशमपरं प्रति सम्प्रति । सार्थः कश्चन लाभश्च संभवी
Page #278
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१३५॥
अष्टम: प्रकाशः।
तत्र निर्भरम् ॥ ७३४ ॥ ततस्तेन समं तत्र प्रस्थातुमहमुद्यतः । लाभे संभाव्यमाने हि न जातु वणिजोऽलसाः ॥ ७३५॥ अतः सुवर्णकोटीस्ता मम प्रत्यर्पय प्रिये ! । नहि नीवीं विना दूरदेशे वाणिज्यसंभवः ॥ ७३६ ॥ विरचय्य वणिज्यां च प्रत्यागन्ताऽस्मि वेगतः । अनेनावर्जनेनाहं जज्ञे यत्ते वशंवदः ७३७ ॥ प्रतिवक्तुमशक्ताथ व्यर्थिताशा शठेन सा । फाल
च्युतप्लवङ्गीव वैलक्ष्यं भेजुषी भृशम् ॥ ७३८ ॥ मुहुर्विवदता तेन नीता साऽन्तश्चतुष्पथम् । उद्वेजिता नितान्तं च पुराशान्तरुदजूघुषत् ॥ ७३९ ॥ भनक्ति यो विवादं मे तस्मै कोटिधनं ददे । द्रव्यलोभाच्च भूयांसस्तत्र चक्रुरुपक्रमम् ॥ ७४०॥
परं न कोऽपि तं भङ्गं वादमुन्मादमादधौ । धनस्य पुनरत्रापि मतिरव्याहताऽस्फुरत् ॥ ७४१ ॥ रत्नानि द्वादश स्वर्णकोटिमूल्यान्ययं करे । शङ्कान्तान्यात्मदर्शान्तदर्शयन् धूर्तमभ्यधात् ॥७४२॥ गृहाण भद्र ! रत्नानि दीप्यमानानि दर्पणे । धूर्तोऽभ्यधत्त सक्रोधं किमेतैः प्रतिबिम्बितैः॥ ७४३ ॥ धनोऽप्यभिदधे भद्र ! जनोक्तिः किमु न श्रुता । यादृशी भावना पुंसः स्यासिद्धिरपि तादृशी ॥ ७४४ ॥ प्रासादो यादृशस्तत्र प्रतिमाऽपि च ताहशी। देवो भवति यादृक्षस्तादृक्षा तत्र पत्रिका ॥ ७४५॥ एवं न्यासीकृतं स्वप्ने यादृगस्यास्त्वया धनम् । प्रत्यर्यतेऽनया तादृग् नान्तरं हि द्वयोरपि ॥ ७४६ ॥ ततो वैलक्ष्यवान् मङ्घ धूर्तः स्वं स्थानमासदत् । कोटिस्वर्ण ददौ हृष्टा धनाय पणनायिका ॥ ७४७ ॥ एवं विवेककल्पद्रुर्वर्धमानधनः क्रमात् । स षट्रपञ्चाशतः स्वर्णकोटीनामभवद्विभुः ॥ ७४८॥ अन्यदा भूभृदादेशात्पुरारक्षररक्ष्यत । कारायां तस्करः कोऽपि नृपः शास्ता हि पाप्मनाम् ॥ ७४९ ॥ क्षुत्तुडादीनि दुःखानि विषहन् स व्यपद्यत ! अकामनिर्जरायोगादजायत च राक्षसः ॥७५०॥ प्रयुक्तावधिरुन्मेषिद्वेषः क्षमापं स्वदुःखदम् । हन्तुमेषोऽग्रहीन्मङ्घ हर्यक्ष इव कुञ्जरम् ॥७५१॥
॥१३५॥
Page #279
--------------------------------------------------------------------------
________________
45554535A5%
तेनानायि दशां सोऽन्त्यां सौनिकेनेव बर्करः। ततः संभूय पौरास्तं प्रसादयितुमूचिरे ॥७५२ ॥ देव ! प्रसीद मुश्चास्मत्स्वामिनं नयगामिनम् । उपहारः परस्तुभ्यं यथाकामं प्रदास्यते ॥ ७५३ ॥ आचचक्षे नृचक्षास्तान् कोऽपि वीराग्रणीयदि । स्वात्मानं मे बलिं दत्ते तदा मुञ्चे महीपतिम् ॥७५४॥ लोकास्तद्वाक्यमाकर्ण्य सर्वे कातरचेतसः । बभूवुर्व्यम्मुखा दानावसरे कृपणा इव ॥ ७५५ ॥ धनः परोपकारैकरसिकस्तु जगाद तम् । मयाऽऽत्माऽयं बलिश्चक्रे क्षमाशके वक्रतां त्यज
॥७५६॥ तुष्टस्तस्येति सत्त्वेन नृपति कौणपोऽमुचत् । सत्त्वं महात्मनां स्वान्योपकृतौ हि कृतव्रतम् ॥ ७५७ ॥ स वजन् &ाद्वादश स्वर्णकोटीस्तस्मै ददौ मुदा । परोपकारिणः पुंसः संपदो हि पदे पदे ॥ ७५८ ॥ नृपोऽपि मुदितोऽत्यन्तं बहुधा
परिधाप्य तम् । व्यवहारिषु सर्वेषु मुख्य हर्षेण निर्ममे ॥७५९॥ विवेककामकुम्भेन लभमानो धन धनः । बभूव स्वर्णकोटी|नामष्टाषष्टेरधीश्वरः ॥७६० ॥ रत्नवीरनृपोऽन्येधुर्वसन्तस्यागमे मुदा । सान्तःपुरः पुराकीडे क्रीडां कर्तुमथागमत् ॥७६१॥ क्षणं गीते क्षणं नृत्त्ये वनलक्ष्मीक्षणे क्षणम् । खेलतस्तस्य तत्रैव मध्याह्नः समजायत ॥७६२॥ ततःप्रगुणयन्ति स्म द्राक् पौरोगवपुङ्गवाः । हृद्यां रसवतीं तत्र शालिदालिपुरस्सराम् ॥७६३ ॥ इतश्च गुरवो देवभद्रा भद्रपरिच्छदाः । विजहुः
सह सार्थेनारण्ये द्वादशयोजने ॥ ७६४ ॥ सार्थाद्रष्टा न तु स्वार्थात्तृषार्ता न तु लोभतः । वपुषा दुर्बलास्तैस्तैर्गुणस्तोमैस्तु & मांसलाः ॥ ७६५ ॥ समला बहिरन्तस्तु कामं नैर्मल्यशालिनः। बाह्यमार्गादतिश्रान्ता न पुनर्मुक्तिमार्गतः॥७६६ ॥ तप
नातपतस्तप्ता न पुनः क्वापि कोपतः। क्षुधा दुःस्था अपि स्वस्था गवेषयितुमेषणाम् ॥ ७६७ ॥ त्रिदिन्या लड्तिारण्या लचितारो भवाटवीम् । वियुक्ताः स्वगुरोस्तत्र यतीन्द्राः केऽप्युपागमन् ॥७६८ ॥ चतुर्भिः कलापकम् ॥ नृपस्तान् पिप्रिये
Page #280
--------------------------------------------------------------------------
________________
दानप्रदीपे
अष्टम: प्रकाश
॥१३६॥
RSS RESENCES
प्रेक्ष्य रङ्गादभिजगाम च । ननाम च निजावासे बह्वागृह्याजुहाव च ॥ ७६९ ॥ न्यमन्त्रयत भक्त्याऽथ भोज्यैः प्राज्यैर्मुनीन् नृपः । भावाच्छेनाप्यनच्छेन तान्दुलेनोदकेन च ॥ ७७० ॥ तेऽपि तत्प्रासुकं मत्वा नान्दीपात्रममण्डयन् । भूपोऽ- प्यपूपुरत्तेन स्वात्मानं सुकृतैः पुनः ॥ ७७१॥श्रीदेवीप्रमुखास्तस्य देव्योऽपि नव सादरम् । ददिरे प्रासुकं भक्तपानं तेभ्यः शुभाशयाः॥ ७७२ ॥ तेन ते स्वस्थतां प्राप्ता यतयो मुक्तिहेतुषु । नानासंयमयोगेषु बभूवुः प्रभविष्णवः ॥ ७७३ ॥ अप-5 राहे च भूनाथः सान्तः पुरपरिच्छदः । भक्त्या येतीन् यथाज्येष्ठमवन्दिष्ट विशिष्टया ॥ ७७४ ॥ तेऽपि धर्माशिषा पाप-18 प्लुषा तं पर्यतूतुषन् । अथोपादिष्टवान् ज्येष्ठः पुण्यमार्ग नृपाग्रतः ॥ ७७५ ॥ जीवाः सर्वेऽभिलष्यन्ति सुखं दुःखं द्विषन्ति । च । तयोश्चैकान्तसद्भावासद्भावावपुनर्भवे ॥ ७७६ ॥ तस्य मार्गावुभौ सम्यग् दर्शिती सर्वदर्शिभिः। यतिधर्मस्तयोराद्यः सर्वसावधवर्जितः ॥७७७॥ अस्मिन्नुपस्थितैः सम्यक् प्राणिभिः परमं पदम् । अन्तर्मुहूर्तमात्रेण मरुदेव्येव लभ्यते ॥७७८॥ परं पूर्वमहाधीरोद्धृता पञ्चमहाव्रती । मेरुपश्चतयीवात्र कातरै रतिदुर्धरा ॥ ७७९ ॥ अष्टादशसहस्राणां शीलाङ्गानां भरं नरः। धराभारमिव प्रौढं वोढुं कः प्रौढिमावहेत् ॥ ७८०॥ उपसर्गास्तथा दुर्गा दिव्यतैरिश्चमानुषाः । द्वाविंशतिर्बुभुक्षाद्या दुस्सहाश्च परीषहाः॥ ७८१ ॥ जगज्जयपटीयांसौ रागद्वेषमहाभटौ । अजय्यौ चक्रिशकायैविजेतुं कः प्रगल्भते ॥७८२॥ अत एव महाधीराः स्वदेहेऽप्यनपेक्षिणः । पथा प्रस्थातुमेतेन प्रगल्भन्ते दृढव्रताः ७८३ ॥ द्वितीयः श्राद्धधर्मस्तु देशसावद्यवर्जितः। प्राप्नोत्येनमपि प्राणी निकामं कर्मलाघवे ॥ ७८४ ॥ सागराणां स्थितौ कोटिकोव्यन्तः सप्तकर्मणाम् । विहितायामवाप्येत सम्यक्त्वं भव्यजन्तुभिः ॥ ७८५॥ पल्योपमपृथक्त्वे च ततोऽपि क्षयमापिते । देशतो विरतिः शुद्ध
॥१३६॥
Page #281
--------------------------------------------------------------------------
________________
परिणामादवाप्यते ॥ ७८६ ॥ यदुक्तमागमे
. "सम्मत्तम्मी लद्धे पलियपहुत्तेण सावओ होइ । चरणोवसमखयाणं सागरसंखंतरा हुंति ॥१॥" आनन्दकामदेवाद्या इव केचिदुपासकाः। अमुं धर्म समाराध्य भवन्त्येकावतारिणः॥ ७८७ ॥ उत्कर्षतः पुनर्देशविरतिप्रतिपालकाः । पिष्टदुष्टाष्टकर्माणः सिद्ध्यन्त्यन्तर्भवाष्टकम् ॥ ७८८ ॥ भेदाः कोटीशतान्यस्मिन्नधिकानि त्रयोदश । अतः सम्यक्त्वमूलोऽयं सुखसेव्यो विवेकिभिः॥ ७८९ ॥ इत्याकर्ण्य नृपः श्राद्धधर्म तस्मादुपाददे । निजशत्तयनुरूपं हि प्रपद्यन्ते विपश्चितः ॥ ७९० ॥ प्रपेदिरे नवाप्यस्य दयिता अपि तं मुदा । सा किं पत्नी न या पत्युः सद्धत्तमनुवर्तते |॥ ७९१ ॥ मुनीन् नत्वाऽवनीन्द्रोऽथ निजमावासमासदत् । मुनयोऽपि क्रमेणामी जग्मुः स्वगुरुसंनिधिम् ॥ ७९२॥ |धर्ममाराधयामास विशुद्धं वसुधाधवः । न ह्युत्तमाः प्रमाद्यन्ति स्वीकृतव्रतपालने ॥७९३॥ ततोऽयं नृपतिर्मृत्वा जातस्त्वं जगतीपते । श्राद्धधर्मप्रसादेन राज्यसंपदमासदः॥ ७९४ ॥ नान्दीमिताम्बुदानेन रसमेवं च लेभिषे । पात्रे स्वल्पमपि प्रत्तं महत्यै संपदे यतः॥७९५॥ तापसव्रतमाचर्य सिद्धदत्तस्तु तेऽजनि । जयो मन्त्री यदज्ञानतपसः फलमीदृशम् ॥७९६॥ द्वादशाहं यदस्थापि पोतस्तस्य त्वया पुरा । तावदब्दी ततस्तेन राज्यं ते गृह्यताधुना ॥ ७९७ ॥ श्रीदेवीप्रमुखाः कान्ताः प्राक्तन्यस्ते नवापि ताः। शृङ्गारसुन्दरीमुख्या जाताः संप्रत्यपि प्रियाः॥ ७९८॥ शृङ्गारसुन्दरीजीवः कायोत्सर्गस्थितं यतिम् । दशशत्या भवेभ्यः प्राग् रजःपूरैरुपाद्रवत् ॥७९९॥ वेदनाः कर्मणा तेन दुःसहाः सहते स्म सा । नामुक्त क्षीयते कल्पकोटीभिरपि कर्म यत् ॥ ८००॥ धनदत्तः पुनर्जज्ञे स वैदेशिक आस्तिकः । चिकित्सितः सुरीभूय भूयस्त्वां य उपा
Page #282
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १३७ ॥
कृत ॥ ८०१ ॥ कुष्ठिन् ! करोषि किं नेत्याक्रोशन् कनकमञ्जरी । किं रे पश्यसि नान्धेति भृत्यं प्राग्गुणमञ्जरी ॥ ८०२ ॥ कर्मणा तेन तेनाते तादृइयो दुर्दशे तयोः । वचसाऽपि चितं कर्म कायेनैवानुभूयते ॥ ८०३ || पात्राम्बुदानसुरपादप एष राजन्नाजम्ममानुषसुखर्द्धिपरम्पराभिः । अत्यद्भुताभिरभितस्तव पुष्पितोऽस्ति सद्यः फलिष्यति पुनः शिवसौख्यलक्ष्म्या ॥ ८०४ ॥ इत्याकर्ण्य सुधाकिरं गुरुगिरं वैराग्यभङ्गीं परामङ्गीकृत्य शुभाशुभां भवभृतां कर्मस्थितिं भावयन् । राज्ये न्यस्य निजाङ्गजं शुभदिने तैस्तैरतुच्छोत्सवैर्भार्याभिर्नवभिः समं स्वयमुपादत्त व्रतं भूपतिः ॥ ८०५ ॥ सम्यक् प्रपात्य चरणं बहुवत्सराणि तवा तपांसि निशितानि परश्शतानि । दिव्यां जगाम स गतिं सममङ्गनाभिर्गत्वा विदेहमपदेहपदं गमी च ॥ ८०६ ॥ इत्थं तथ्यविचारचारुचरितं श्रीरत्नपालाभिधक्ष्माभर्तुर्यतिपानदान सुकृतस्फीतं निशम्याद्भुतम् । भो भव्याः ! सततं विधत्त विधिना तत्र प्रयत्नं यथा सद्योऽप्युत्सुकतां भजन्ति वरितुं युष्मानशेषाः श्रियः ॥ ८०७ ॥
॥ इति श्रीतपागच्छनायक श्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दर सूरिपट्टालङ्करणश्री सोमसुन्दर सूरिशिष्य श्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे पात्र पानदानफलप्रकाशनोऽष्टमः प्रकाशः ॥ ग्रं० ॥ ८४६ ॥
अष्टमः
प्रकाशः ।
॥१३७॥
Page #283
--------------------------------------------------------------------------
________________
॥ अथानवमः प्रकाशः॥ युगादीशः श्रिये सोऽस्तु यतिं येन चिकित्सता । जीवानन्दभवे भावरोगाः स्वस्य चिकित्सिताः॥१॥ अथ भेषजदानाख्याभिदा धर्मार्थदानगा। षष्ठी प्रख्याप्यते सौख्यमक्षयं प्राप्यते यथा ॥२॥ देहः स्यादनगाराणां धर्मयोगेषु साधनम् । निरामयश्च तत्सिद्धौ साधीयस्तां दधात्ययम् ॥ ३॥ आमयाश्च मुनीन्द्राणामपि स्युः पूर्वकर्मणा । तदेभ्यस्तच्छिदे दद्याद्यथा विधौषधं सुधीः॥४॥ बन्धूनिव मुदा साधून यश्चिकित्सत्यतुच्छधीः। ध्रुवमुद्धरते धर्मतीर्थ स परमार्थतः॥५॥ सर्वेष्वपि ध्रुवं धर्नादानेष्वस्यैव मुख्यता। यतोऽस्य परमं प्रोचे माहात्म्यं स्वयमहता॥६॥ यदुक्तमागमे| "कहण्हं भंते ! जे गिलाणं पडिअरइ से धन्ने उआहु जे तुम दंसणेणं पडिवजइ?, गोअमा ! जे गिलाणं पडिअरइ से मे दसणेणं पडिवजइ, जे मे दसणेणं पडिवजह से गिलाणं पडिअरइ, आणासरणसारं खु अरिहंताणं दसणं । तेणडेणं गोअमा! एवं वुच्चइ जे गिलाणं पडिअरइ से मे दंसणेणं पडिवज्जइ ॥” इति ॥ | स्वच्छाशयेन तुच्छापि चिकित्साविहिता यतेः। तिरश्चामपि साश्चर्या दत्ते सद्योऽपि संपदम् ॥ ७॥ द्वारिकायां पुरा प्राप्तवैद्यवैतरणीभवः । वसन् विन्ध्याचलाटव्यां यूथाधिपतिवानरः॥८॥ मुनिं कण्टकविद्धांत्रिं दृष्ट्वा जातिस्मृति भजन् । विशल्यया च निःशल्यं भक्त्या कृत्वा शुभाशयः॥९॥प्रपाल्यानशनं सम्यगहो ! मुनिचिकित्सया। विपद्याष्टादशाब्दयायुः सहस्रारे सुरोऽजनि ॥१०॥ त्रिभिर्विशेषकम् ॥ श्रमणान् नीरुजीकुर्वन् प्रासुकौषधदानतः। आत्मानं नयते धन्यः पदं नीरुजमञ्जसा ॥ ११॥ मुनेः कुष्ठचिकित्सायामाद्यो वैद्यभवे जिनः। ताहक तैलस्य दानेन तीर्थकृत्त्व
Page #284
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १३८ ॥
मुपार्जिजत् ॥१२॥ साहाय्येन वयस्याश्च प्रशस्यां शिश्रियः श्रियम् । वणिक् च तद्भवे सिद्धो दत्त्वा चन्दनकम्बले ॥ १३ ॥ युग्मम् ॥ निरामयीकृतः साधुर्यं यं धर्म समाचरेत् । लभते तस्य तस्यांशं तदुल्लाघयिता ध्रुवम् ॥ १४ ॥ यतिभ्यो भेषजं यच्छंलभते संपदोऽद्भुताः । अखण्डिता अखण्डेन भावेनान्येन चान्यथा ॥ १५ ॥ अत्रार्थे विविधाश्चर्यसंबन्धैर्वन्धुरा कथा । श्रूयतां धनदेवस्य धनदत्ताग्रजन्मनः ॥ १६ ॥ तथाहि
अस्तीह सिंहलद्वीपः पदमद्भुत संपदाम् । यो नाक इव संक्रान्तस्तर्क्यते सागरार्णसि ॥ १७ ॥ तत्राराजत शौर्येण नृसिंहः सिंहलेश्वरः । शुत्रून् यस्त्रासयामास दुर्धरान् सिन्धुरानिव ॥ १८ ॥ तस्य सिंहलदेवीति विदिता दयिता बभौ । कमलेव मुकुन्दस्य पौलोमीव दिवस्पतेः ॥ १९ ॥ तस्यां सिंहलसिंहाख्यं सूनुमन्यूनतेजसम् । अजीजनत् स पद्मायां प्रद्युम्नमिव माधवः ॥ २० ॥ बालेन्दुरिव भेजेऽसौ लीलया सकलाः कलाः । परं पुपोष नो दोषानुषङ्गलवमप्यहो ! ॥ २१ ॥ उल्लासयामास वयो द्वितीयं तदीयरूपं सवितेव पद्मम् । यत्रानुवेलं नयनालिमाला विलालसीति स्म विलासिनीनाम् ॥ २२ ॥ वक्षस्तस्य विशालतां प्रतिभया स्कन्धद्वयी स्थूलतां कीर्त्या लोचनयामलं गुरुगिरा कर्णान्तविश्रान्तताम् । रागं पौरजनेन पाणियुगलं बाहुद्वयं पीनतां माहात्म्येन पराक्रमेण च समं श्मश्रूद्गमं शिश्रियः ॥ २३ ॥ सौभाग्यसौरभ्यभरोपहूता नेके कुमाराः सुहृदीभवन्तः । समानरूपाः परिवत्रिरे तं प्रमोदतः पद्ममिव द्विरेफाः ॥ २४ ॥ कुमारः सपरीवारः स वसन्तसमागमे । रन्तुमुद्यानमन्येद्युर्जयन्त इव जग्मिवान् ॥ २५ ॥ वसन्तस्यावतीर्णस्य मिलनार्थमुपेयिवान् । रराज राजसूरन्तर्वणं स्मर इव स्वयम् ॥ २६ ॥ वागुरां दृकुरङ्गाणां स पश्यन् विपिनश्रियम् । शुश्रावार्तस्वरं दूरं निकुञ्जान्तः
नवमः प्रकाशः ।
॥ १३८ ॥
Page #285
--------------------------------------------------------------------------
________________
5ARA
प्रसत्वरम् ॥ २७ ॥ दधाव तमनुध्वानं सहसैव स धैर्यवान् । महान्तो हि परमाणपरित्राणपरायणाः ॥२८॥ तत्र मत्तद्विपेन्द्रेण धावमानेन पृष्ठतः। उद्दण्डशुण्डदण्डेन यमेनेव जिघांसिताम् ॥२९॥ क्वासि मातःकतातासि क च त्वं कुलदेवते । दुःखे कथममूदृक्षे दूरे यूयं बभूव मे॥३०॥ वीक्ष्य तां वीरकोटीरः कोऽपि काननदेवते !। विकटात्सङ्कटादस्माद्यो मां बन्धुरिवोद्धरेत् ॥ ३१॥ रक्ष रक्ष जगच्चक्षुरनेन वनदन्तिना । यमवेश्मनि नीयेऽहं जगत्साक्षी यतो भवान् ॥३२॥ इत्यादि गद्गदालापैर्विलापैः श्वापदानपि । रोदयन्तीं गलद्वाष्पपूरप्लुतविलोचनाम् ॥ ३३॥ वित्रस्नुमिव सारङ्गी दिक्षु |विक्षिप्तचक्षुषम् । कन्यां काश्चन नश्यन्ती कान्दिशीकां ददर्श सः॥ ३४ ॥ पद्भिः कुलकम् ॥ तथाऽवस्थां च तां दृष्ट्वा दयालुायति स्म सः। ही दुःस्थेयमवस्थाऽस्याः कथङ्कारमुपस्थिता ॥ ३५॥ जीजनज्जननी तं मा मुधा यौवननाशिनम् । परस्य विपदं दृष्ट्वा यञ्चेतो न कृपायते ॥ ३६॥ यथाशक्ति समुद्धर्तुमुचितो हि महात्मनाम् । सर्वोऽपि विपदम्भोधेर-1 बलो तु किमुच्यते ॥ ३७॥ एवं विचिन्त्य पद्माक्षि ! मा भैषी रक्षिताऽस्मि ते । दीक्षिते मयि रक्षायां नान्तकादपि ते भयम् ॥ ३८॥ मतङ्गजममुं मत्तं निरस्ये पश्य लीलया । इति वाक्यामृतैः पूर्वमयं तामुदजीवयत् ॥३९॥ युग्मम् ॥
स क्षणं खेलयित्वाऽथ गजशिक्षाविचक्षणः । सत्यापयन्निजं नाम हस्तिनं तमतित्रसत् ॥४०॥ तस्याथ तादृशं शौर्यं दृष्ट्वा तमुदितविस्मिता । रक्षकत्वादसूनां सा स्वामिनं मन्यते स्म तम् ॥४१॥ ततः कन्यां सहाकार्य मूर्तामिव यशःश्रियम् ।
बन्दिस्तुतगुणग्रामः स ननाम महीपतिम् ॥४२॥ नृपस्तेनावदातेन प्रसन्नः प्रशशंस तम् । निभाल्य चाद्भुतं तस्याः सौभाग्यं हृदि विस्मितः॥४३॥ अत्रान्तरे पिता तस्यास्तस्कृत्वा हृष्टमानसः।धनमित्राभिधस्तत्र समेत्य नृपमानमत् ॥४४॥
Page #286
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः
॥१३९॥
पित्रा तत्रानुरक्तां तां ज्ञात्वा दत्तां महीपतिः । शुभे दिने महीयोभिर्महैस्तेनोदवीवहत् ॥ ४५ ॥ धनवत्या कुमारोऽथ - तृणीकृतसुरस्त्रिया । तया दयितया रेजे रत्येव मकरध्वजः॥४६॥ तेनाद्भुतचरित्रेण कीर्तिस्तस्य समन्ततः । पूरमूरी- प्रकाश करोति स्म जीमूतेनेव वाहिनी ॥४७॥ पीयमानं जनैस्तस्य लावण्यरसमन्वहम् । कीर्तिः प्रसृत्वरा दुग्धं शर्करेव व्यशीशिषत् ॥४८॥ मृगीदृशामास्यगणैर्गवाक्षविनिर्गतैस्तस्य विलोकनाय । विभूषितं व्योम जनरलक्षि प्रत्यक्षपीयूषमयूखलक्षम् ॥ ४९ ॥ पुरे पर्यटतस्तस्य दर्शनायोन्मनायिताः । अञ्जसा तत्यजुर्नार्यः कार्याण्यर्धकृतान्यपि ॥५०॥ प्रमदा उन्मदा गीतसंगीतादि महानपि । तृणवद्गणयामासुस्तदर्शनमहोत्सवे ॥५१॥ विलोकयन्ति स्म दृशा विशालया स्तुवन्ति गायन्ति च तं स्मितेक्षणाः । तदप्यसौ तासु सुधीर्विनिर्ममे मुनीन्द्रवत् वापि मनो न रागभाक् ॥५२॥ परं दिदृक्षया तस्य यान्तीषु स्त्रीषु सन्ततम् । सीदत्सु सद्मकृत्येषु खिद्यन्ते स्म भृशं जनाः॥ ५३ ॥ ततः क्ष्माकान्तमेकान्ते पूर्जनस्तद् व्यजिज्ञपत् । न्यायपान्थेऽवनीनाथे पित्रीयन्ति यतः प्रजाः॥५४॥ अथ प्रणन्तुमायातं कुमारमवदन्नृपः।कायः क्लाम्यति ते काम बहिष्पर्यटतः स्फुटम् ॥ ५५ ॥ वत्स ! स्वच्छन्दचारेण विकलाः स्युः कला अपि । अतः कलास्त्वयाऽभ्यस्याः
स्वस्मिन्नेव हि वेश्मनि ॥५६॥ ततो द्वित्राणि पित्राज्ञापवित्राणि दिनान्ययम् । चिक्रीड स्वगृहे क्रीडाहंसवत् स्वर्णपञ्जरे WIn५७ ॥ सिंहद्वारेऽन्यदा निर्यन न्यवार्यत स वेत्रिणा । स्वामिन् ! युष्माकमावासे स्थातुं भूपतिरादिशत् ॥ ५८॥ ततः
स चकितश्चित्ते व्यक्त्या पर्यन्वयुङ्क तम् । निर्बन्धेऽभिदधे चास्य पुरो द्वाःस्थो यथास्थितम् ॥५९ ॥ ततो मन्दाक्षम- ॥१३९॥ |न्दाक्षस्तं संतोप्य यथोचितम् । प्रत्यागम्य निजं वेश्म मनस्वी स परामृशत् ॥६०॥ अहो ! कर्मविपाकस्य वैचित्र्य
Page #287
--------------------------------------------------------------------------
________________
K
HARASHRARSHAN
चित्रकारणम् । दोषसंपत्तये जज्ञे गुणो यन्मे दुपेरिव ॥ ६१॥ धिगास्थानमनर्थानामिमां मम सुरूपताम् । बन्धनापदमीदृक्षां यथा शुक इवाऽनुवि ॥ ६२ ॥ अहो! दाक्षिण्यमधुणं गाम्भीर्य चाद्भुतं पितुः। वारयामास यः स्वैरचारान्मां बहु
मानतः।। ६३ विधातारः परे प्रीतिं भवन्ति सवितुः सुताः। अहं तु चित्तसंतापं पौरोपालम्भदापनात् ॥ ६४ ॥ अतः है परं पुरान्तमै प्रचारो रुचिरो नहि । पितुराज्ञाविलोपेन पातकोपनिपाततः ॥ ६५॥ दिनानि कति नेताऽस्मि पशुवत् है
संयतः पुनः। देशान्तरगतिस्तन्मे श्रेयसी सकलङ्कवत् ॥ ६६ ॥ विदेशनिकषे किं च यावत् स्वात्मा सुवर्णवत् । न घृष्यते मनुष्येण तावन्नवार्यमर्हति ॥ ६७ ॥ यतः
"ऋद्धिः परा परिचितिश्चतुरैर्विचित्रा विद्या यशःप्रसृमरं मनसः सुधैर्यम् ।
भाषान्तराद्यवगतिः स्वकलाप्रतीतिः कस्को गुणः स्फुरति न क्षितिवीक्षकस्य ॥१॥" इति निश्चित्य चेतस्वी यावद्देशान्तरं प्रति । प्रस्थातुमयमारेभे भार्यायास्तावदस्मरत् ॥ ६८॥ सधर्मिणी नवोढा मे सुतरां चानुरागिणी । सहसा मद्वियोगाग्निसंतप्ता जातु मामृत ॥ ६९ ॥ स्त्रीहत्यापातकं स्पाक्षीन् मा च मामिति वल्लभाम् । आलाप्य सरसालापैः प्रयातुमुचितं हि मे ॥ ७॥ इत्यामृश्य तदैवासी वासवेश्म स्वमीयिवान् । तं च दृष्टवती हृष्टा साऽभ्युदस्थात् ससंभ्रमम् ॥ ७१ ॥ तत्प्रदत्तासनासीनः सोऽपि तां स्माह देव्यहम् । देशान्तरे प्रतिष्ठासुः कौतुकालोककाम्यया ॥ ७२ ॥ आगन्ताऽस्मि पुनः शीघ्रं त्वदभिष्वङ्गरङ्गतः । त्वया स्थेयमिह श्वश्रूशुश्रूषासावधानया ॥७३॥ ततः साऽघुविमिश्राक्षी तमाचख्ये विषेदुषी । स्वामिस्त्वया विना नात्र स्थातुं क्षणमपि क्षमे ॥ ७४ ॥ तवापि युज्यते
AASAASAASAASAASASAUCE
Page #288
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः प्रकाश
॥१४॥
RECASSESSIS
| वापि गमनं न विमुच्य माम् । विहाय चन्द्रिकां याति किमु द्वीपान्तरं शशी ॥ ७५ ॥ पुनराचष्ट स प्रेष्ठां त्वया शीतातपादिकम् । वर्त्मकष्टं कथं सोढुं शक्यते सुकुमारया ॥७६ ॥ न च यानं विना गन्तुं पार्यते वर्त्मनि त्वया । ततोऽत्रैवावतिष्ठव मा स्म भूः पदबन्धनम् ॥ ७७॥ साऽपि माह न वर्मोत्थं तथा कष्टं त्वया समम् । यथा सौधान्तरस्थाया अपि मे त्वद्वियोगजम् ॥ ७८ ॥ ततोऽहं नात्र तिष्ठामि त्वदुपास्तिविनाकृता । न च च्छायेव कायस्य भाविनी पदबन्धनम् ॥ ७९ ॥ ज्ञात्वेति निश्चयं तस्यास्तामाकार्य स कार्यवित् । साहाय्येन विभावर्याः पुर्या निर्यातवान् द्रुतम् ॥ ८॥ प्राप्तः पाथःपतेस्तीरं सांयात्रिकस्य कस्यचित् । पाते तदा प्रतिष्ठासौर्भाटकेनारुरोह सः॥८१॥ दर्शयन् विविधाश्चर्यनिधिं वारिनिधि वधूम् । असौ प्रतस्थे पोतेन मूर्तेनेव नभस्वता ॥ ८२॥ अथ कल्पान्तवाताभदुर्वातावर्तपाततः। पोतः पुस्फोट तत्रस्थशुभप्राकर्मणा समम् ॥ ८३ ॥ मित्राणीव जनाः केऽपि फलकानि निरन्तरम् । स्वभुजाभ्यामभिष्वज्य तटान्याहुः सरित्पते ॥ ८४ ॥ लोभाकुलतया तूर्ण रत्नानीव जिघृक्षवः। निपेतुः सरितांपत्युरन्तः कत्यपि पोतगाः ॥ ८५॥ निजप्रेष्ठमिवाश्लिष्टा फलकं धनवत्यपि । कल्लोलैरनुकूलैः सा वेलावनमनीयत ॥८६॥ क्षरन्ती शीकरासारं समीरलहरी | मृदुः। सखीव क्षारवादग्धां सद्यस्तामुदशिश्वसत् ॥ ८७ ॥ भर्ताऽप्यहमिव क्वापि प्राप्तः स्यादिति लिप्सया । सा तं गवेषयामास परितस्तीरमम्बुधेः॥ ८८॥ नाद्राक्षीत्तं तु लोलाक्षी चिन्तामणिमिव च्युतम् । विललाप गलद्वाष्पं ततो विरह-18 या विह्वला ॥ ८९ ॥ सपत्नादिकं पापं हा मया निर्ममे पुरा । प्रेयोवियोगजं दुःखं यदीक्षं समासदम् ॥९०॥न माता
न पिता भ्राता न मे न च पतिर्गतिः। कान्तारेऽत्र दुरुत्तारे हाऽपप्तं कथमेकिका ॥ ९१॥ तदेवं दुःखदग्धाया जीवितेन
॥१४०॥
Page #289
--------------------------------------------------------------------------
________________
ॐॐSSSSSS
का कृतं मम । स्त्रीणां पतिषियुक्तानां मरणं शरणं खलु ॥ ९२ ॥ध्यात्वेति मर्तुकामा सा स्मृत्वा पञ्चनमस्कृतिम् । पादपे यावदात्मानमुद्बद्धमुदयच्छत ॥ ९३ ॥ तावत्तत्रागमत् कोऽपि काष्ठाद्यार्थितया सुधीः । तस्या बन्धुरिव श्राद्धः प्रणन्नः पुण्यकर्मणा ॥९४॥ तथास्थितां च तां दृष्ट्वा दयालुर्वदति स्म सः। भद्रे ! किमिदमारब्धं किं दुःखं वद काऽसि ॥१५॥ इत्यस्य सोदरस्येव प्रीणिता वचनामृतैः। निजं पतिवियोगादिवृत्तं सत्यमुवाद सा ॥ ९६॥ अभ्यधत्त पुनः श्राद्धः शुद्धधर्मपथस्पृशाम् । विनाशनं परस्येव स्वस्यापि नहि युज्यते ॥ ९७॥ न च स्वदेहघातेन क्षयो दुःखस्य जायते । किन्तु दुष्कर्मनाशेन तस्य तन्मूलता यतः॥९८ ॥ दुष्कर्माणि पुनर्नानाभवोपजनितान्यपि । धर्मेण ध्वंसमायान्ति तमांसीव विवस्वता ॥ ९९ ॥ ततो निर्माहि निर्मायं धर्म शर्मैककारणम् । सौदर्या इव साहाय्यं तव कर्ताऽस्मि तद्विधौ ॥१०॥ | साऽप्युवाच सखे ! सत्यमवादीः किन्तु मादृशाम् । धर्मः सम्यग् दुराराधः प्राप्तानामीहशी दशाम् ॥ १०१॥ सोऽप्यवादीन ते युक्ता तथाऽपि सहसा मृतिः। जीवन्नपि भवेजातु यतस्ते जीवितेश्वरः ॥१०२॥ तदाकर्णय मे वाक्यं संपादय पुनस्तथा । अत्रास्ते कुसुमपुरं संपदा स्वःपुरोपमम् ॥१०३ ॥ तत्रास्ति बहिरुद्याने श्रीमदाद्यजिनेशितुः । प्रासादः |स्वर्विमानश्रीविमानीकारिचारिमा ॥ १०४॥ भृङ्गायितं प्रपन्नायाः श्रीनाभेयपदाम्बुजे । अस्ति चक्रेश्वरीदेव्या भवनं तस्य & सन्निधौ ॥ १०५॥ जन्तूनां व्यसनार्तानां नानाकामितदानतः । प्रियमेलकतीर्थ यत्पप्रथे पृथिवीतले ॥१०६ ॥ तत्रागत्य
युगादीशपर्युपास्तिपरायणा । पुरश्चक्रेश्वरीदेव्यास्तपस्तप्यस्व दुस्तपम् ॥ १०७॥ मेलयिष्यति ते कान्तं स जीवन् कापि चेद्भवेत् । वक्ष्यतेऽस्य प्रवृत्तिं वा तपसा सा प्रसेदुषी ॥ १०८॥ एवं विलम्बमानाया मिलेद्यदि तव प्रियः । तदा तेन
Page #290
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१४॥
समं धर्म सचिरं परिपालयेः॥ १०९॥ तस्य त्वकुशले ज्ञाते मृतिरात्मवशैव ते । तपश्च परलोकाय शंबलं सञ्चितं भवेताट नवमः
॥११० ॥ इति तस्य गिरं युक्तियुक्तां सा प्रत्यपद्यत । हितावहं वचः स्वस्य सकर्णः को न मन्यते ॥ १११ ॥ सहानी- प्रकाशः। ४स्ततः प्राज्यैः स भोज्यस्तामबूभुजत् । प्रियमेलकतीर्थ च प्रापयामास हर्षतः ॥ ११२ ॥ तत्र स्नातवती वाप्यां प्रपूज्य 81
वृषभध्वजम् । नत्वा चक्रेश्वरीदेवीमेवमेषा व्यजिज्ञपत् ॥ ११३ ॥ अहं देवि! तदा भुले यदा मां मेलयेः पतिम् । प्रवृत्ति वा वदेस्तस्य नान्यथेत्यवधारय ॥११४॥ एवं कृतप्रतिज्ञायां तस्यामेकायचेतसि । जज्ञे तृतीययामिन्यामदेहा वाग् विहायसि ॥ ११५॥ इह युगादिजिनेश्वरसेवनां विदधती प्रयता पतिमाप्स्यसि । मनसि मा स्म वृथारति मा तथा वितनुतात् सुतनो! ननु भोजनम् ॥ ११६ ॥ इत्याकण्यं गिरं कर्णामृतं मुदितमानसा । मौनव्रतमुपादत्त सा पत्युर्मेलनावधि ॥ ११७ ॥ दुस्तपं सा तपस्यन्ती शिलोज्छकृतजीविका । समयं गमयामास जिनोपास्यापरायणा ॥११८ ॥ इतश्च स कुमारोऽपि फलकं प्राप्य वारिधिम् । उत्तीर्णस्तीरकान्तारे विश्राम्यन् मनसाऽमृशत् ॥ ११९ ॥ गेहे नृणामुपालम्भो|8| विदेशे विपदीदृशी । दयिताया वियोगश्च ही मे कर्म पराङ्मुखम् ॥ १२० ॥ किं शोकेनाथवाऽनेन प्राच्यकर्मविपाकतः।
संपद्यन्ते यतः पुंसां संपदो विपदोऽपि च ॥ १२१॥ तन्नूनं पुण्यमन्यूनं न वितेने पुरा मया । राजसूरपि येनाहमीदृशी-13 8 मासदं दशाम् ॥ १२२ ॥ यद्वा तत्त्वविदां पुंसां विपदः खलु संपदः । यदासामुपभोगेन प्राच्यदुष्कर्मणां क्षयः ॥ १२३ ॥3॥ इत्थं स धीरितस्वान्तः फलादिजनिताशनः । क्रमात्माचक्रमाक्रामन् प्राप रनपुरं पुरम् ॥ १२४ ॥ रत्नप्रभः पुरे तस्मि
॥१४१॥ नदीप्यत महीपतिः । तस्यास्ति वनितारत्नं दयिता रत्नसुन्दरी ॥१२५॥ तयोरत्नवती कन्या लावण्यामृतसारणी । सुरस्त्रैणं
पभोगेन प्राच्या रत्नप्रभा पसरवणं ।
Page #291
--------------------------------------------------------------------------
________________
तृणीयन्ति तरुणा यन्निरीक्षणे ॥ १२६ ॥ क्रीडन्ती प्रमदवने प्रमदेन सखीवृता । दन्दशूकेन निःशूकमदन्दश्यत साऽन्यदा ॥ १२७ ॥ आक्रान्ता विषवीचीभिर्विष्वद्रीचीभिरानखम् । लुलोठ सावनीपीठे छिन्नमूलेव वल्लरी ॥ १२८ ॥ चिकित्साभिरतुच्छाभिस्तां नृपादेशसादराः । विषापहारिणो वैद्या भिषज्यामासुरञ्जसा ॥ १२९ ॥ परं तत्रागदङ्कारप्रतीकाराः पर| श्शताः । वैफल्यं कलयामासुरुपदेशा यथा जडे ॥ १३० ॥ ततो दुःखार्दितः क्ष्मापः सचिवादिविचारतः । पटहं वादया - मास स्फुटमन्तश्चतुष्पथम् ॥ १३१ ॥ जीवितादपि मेऽभीष्टां यः सुतां सज्जयिष्यति । स एतां सोत्सवं पाणौ कर्त्ता रतिमिव स्मरः ॥ १३२ ॥ कन्यास्वीकारलोभेऽपि तत्र कोऽपि न कोविदः । तमैष्ट पटहं स्प्रष्टुं मृगाङ्कमिव भूमिगः ॥ १३३ ॥ कुमारस्तु तमप्राक्षीन्निःस्पृहोऽपि दयाधिया । कला महात्मनामन्योपकारैकफला यतः ॥ १३४ ॥ प्रीतियुक्तास्ततस्तत्र नियुकास्तं नृपान्तिकम् । द्रुतमानिन्यिरे कन्याचैतन्यमिव मूर्तिमत् ॥ १३५ ॥ नृपोऽप्यालोक्य तं प्रीतो जानंस्तां जीवितामिव । प्रीत्यालापादिना बन्धुमिवानन्द्य मुदाऽवदत् ॥ १३६ ॥ कलासु कौशलं सम्यक् तवाकृत्यैव निश्चितम् । साक्षिणी गुणलक्ष्मीणामशेषाणां यदाकृतिः ॥ १३७ ॥ तदेनां नीरुजीकृत्य प्रमोदय पुरीमिमाम् । न साम्प्रतं विलम्बस्यावसरोऽस्ति महाशय ! ॥ १३८ ॥ कुमारोऽथ स्वपार्श्वस्थविषघ्नमणिसङ्गिना । जलेनाच्छोटयामास कन्यां कारुण्यपुण्यधीः ॥ १३९ ॥ ततो व्यपगताशेषविषावेगा झडित्यहो ! | स्वस्थीभूता समुत्तस्थौ सुप्तजागरितेव सा ॥ १४० ॥ कलावन्तं तमालोक्य पुरतः सानुरागिणी । युक्तं कैरविणीवासीद्विकसन्नेन कैरवा ॥ १४१ ॥ उज्जीवितां सुतां दृष्ट्वा हृषितः क्षितिरक्षिता । हर्षपीयूषवर्षिण्या भाषया तमभाषत ॥ १४२ ॥ मन्ये कारुण्यपुण्यानामग्रण्यं त्वां महीतले । यत्ते परोपकारैककुशलाः सकलाः
Page #292
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१४॥
5555555555
कलाः ॥ १४३ ॥ जननी जनयन्ती मा तं धराभारकारिणम् । पराति न जरीहर्ति शक्तिमानपि यः कुधीः ॥ १४४ ॥
नवमः कुलोच्चतादि निश्चिक्ये वृत्तेनैवाद्भुतेन ते । रत्नाकरं विनाऽन्यत्र न रत्नप्रसवो यतः॥१४५॥ तथाऽपि निजसंबन्धस्निग्ध- प्रकाश। दुग्धस्रवा गवा । पारणं कारयास्माकं कर्णतर्णकयोः सखे !॥ १४६ ॥ ततः स्वपितुराख्यादि संक्षेपेण स आख्यतः । सन्तो| हि परनिन्दायामिव मन्दा निजस्तुतौ ॥ १४७॥ सिंहलेश्वरभूभर्तुरवगम्य तमङ्गजम् । उन्मिमेष विशेषेण हर्षस्तस्य क्षितीशितुः॥१४८ ॥ अथायमर्थयामास तं कन्यापाणिपीडने । कुलीनश्च कलावांश्च जामाता कस्य नो मतः॥१४९॥ नान्वमस्त कुमारस्तत्प्रियाविरहपीडितः । विपद्यपि हि. नोज्झन्ति प्रपन्नां प्रीतिमुत्तमाः ॥ १५० ॥ जगौ पुनर्नरेन्द्रस्तं त्वादृशो दुहितुः पतिः। पूर्णः सर्वगुणैः पुण्यैरगण्यैरेव लभ्यते ॥१५१॥ किञ्च त्वां यद्यम कन्यां न पाणौ कारयाम्यहम् । प्रतिज्ञालोपजं पापमुपद्रवति मां तदा ॥ १५२ ॥ अथवाऽलं बहूतेन कन्या त्वय्यनुरागिणी । त्वदीयोपकृतिक्रीती. नहि कामयते परम् ॥ १५३ ॥ तत्पाणिपीडनेनास्याः सुधापानसधर्मणा । चिन्तासप्ताचिराचान्तं चेतः शीतीकुरुष्व नः ॥ १५४ ॥ इत्यागृह्य प्रसह्यायं राज्ञा पाणावकार्यत । तां कन्यां पुण्यलावण्यामसामान्यमहोत्सवैः ॥ १५५ ॥ पाणिमोक्ष
क्षणे क्षोणिवासवः प्रीतमानसः। अदत्त हास्तिकाश्वीयसुवर्णाचं सुतापतेः ॥ १५६ ॥ सुधाधवलितं सौधं विधाप्य वसुधामाधवः। सुतया सहितं प्रीत्या जामातरमतिष्ठिपत् ॥ १५७ ॥ राज्ञा सन्मानितोऽप्येवं विना धनवतीमसौ । तयोपचर्यमा-18॥१४॥
णोऽपि न कापि प्राप निवृतिम् ॥ १५८ ॥ अर्ति तस्य परं कोऽपि कोविदोऽपि विवेद न । सरस्वतामिव सतामस्ताचं हृदयं यतः॥ १५९ ॥ शयानः प्रखरे शस्ते तद्वियोगवशादयं । निर्मलं पालयामास शीलं मुनिरिवानिशम् ॥ १६०॥
ROCALCCCCCC
Page #293
--------------------------------------------------------------------------
________________
ध्या परस्परम् । भुवि शय्यते प्रतिप्रदं नवोचितं पित्रोर्जगृहेऽभिप्रया विस्मिता साऽपि
जातु मास्मोद्विजिष्टेयमिति प्रीतिसुधामयैः। सोऽजनं सरसालापैरपिप्रिणदपि प्रियाम् ॥१६१ ॥ सुधाधारासधर्मायां। प्रेमगोष्ठ्यां परस्परम् । जातायामन्यदाऽवादीन्मुदा रत्नवती पतिम् ॥१६२॥ पल्यङ्केष्वप्यनेकेषु तपनीयमयेष्वपि । मनिनेव त्वया देव ! किमेवं भुवि शय्यते ॥१६३॥ सपत्नीश्रवणान्नूनमीयामेषा धरिष्यति । योषितां हि तदाख्यापि विषादपि विशिष्यते ॥ १६४ ॥ स्वलाघवपराऽप्रीतिप्रदं नैवोचितं वचः। एवं विचिन्त्य स माह समयोचितमुत्तरम् ॥ १६५॥ देवि ! देशान्तरं द्रष्टुं निर्गच्छन् सदनादहम् । शीघ्र मिमिलिषुः पित्रोर्जगृहेऽभिग्रहाविति ॥ १६६ ॥ पालनीयं मया शीलं शयितव्यं च भूतले । भूयो यावन्न वंदेऽहं पितृपादाम्बुजद्वयम् ॥१६७॥ तत् श्रुत्वा विस्मिता साऽपि तमुवाच वचस्विनी। शस्यस्त्वमसि नो कस्य पित्रोर्यस्येशी रतिः॥ १६८॥ कस्यापि मानसे राजहंसीव विशदा सदा । विलासं तनुते माता-1 पितृभक्तिर्महात्मनः ॥१६९॥ स किं पुत्रो न यः पित्रोः पवित्रः परिचर्यया । सा किं वधूर्विधत्ते या भक्ति श्वशुरयोनहि?* ॥ १७॥ तन्मे मनोऽपि ते मातापित्रोचरणवारिजम् । वरिवस्थितुमुत्कण्ठामकुण्ठां कुरुतेऽधुना ॥ १७१॥ ततः स्वनगरे स्वामिन् ! सद्यः पादोऽवधार्यताम् । देवस्यापि भवेदेवं फलेग्रहिरभिग्रहः॥ १७२ ॥ वाचोयुक्तिमिमां तस्या निशम्य । हृदि विस्मितः । गंस्यते शीघ्रमेवेति स तदुक्तमनूक्तवान् ॥ १७३ ॥ व्यमृशच्च मनस्येवमियद्भिर्दिवसैरहम् । प्रेयस्याः कापि पूर्वस्या न वार्तामपि लब्धवान् ॥ १७४ ॥ तत्किं मद्विरहातैव तदा साऽपप्तदम्बुधौ । फलकेनाथवा दूरद्वीपान्तरमवा-15 तरत् ॥ १७५ ॥ ततो रहः शुभं तस्या दैवज्ञं प्रच्छति स्म सः। सोऽपि मङ्घ तमाचख्यौ वीक्ष्य ज्योतिषचक्षुषा ॥ १७६॥ अस्ति द्वीपान्तरे वाऽपि जीवन्ती दयिता तव । उद्यम निर्मिमाणश्च लप्स्यसे तामसंशयम् ॥ १७७ ॥ प्रीतस्तद्वाचमाचम्य *
SHOWCASSASOOG
Page #294
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १४३ ॥
सुधामुचमिमामसौ । स्वर्णालङ्कारदानेन मौहूर्तिकमतूतुषत् ॥ १७८ ॥ अथायं चिन्तयामास तामातुं कमुपक्रमम् । कुर्वे | देशान्तरस्थोऽहमनया च नियन्त्रितः ॥ १७९ ॥ मद्वियोगातुरौ मातापितरौ च निरन्तरम् । मत्प्रवृत्तिमजानन्तौ दुःखमानेष्यतस्तराम् ॥ १८० ॥ अतो गत्वा गृहं मातापितरौ प्रणिपत्य च । तत्पार्श्वे च विमुच्यैतां तामवाप्तुमुपक्रमे ॥ १८२ ॥ ततो गत्वा द्रुतं भूपं स प्रणम्य व्यजिज्ञपत् । द्रष्टुं मे पितरौ देव ! बाढमुत्कण्ठते मनः ॥ १८२ ॥ दुःखायेते वियोगान्मे सुतरां पितरावपि । ततो गृहाय गन्तुं मामनुजानीहि सत्वरम् ॥१८३॥ निश्चित्य तदभिप्रायं ततः पृथ्वीपतिर्जगौ । निणींतगमनत्वेन त्वां निषेद्धुं न शक्नुमः ॥ १८४ ॥ नापि प्रेषयितुं शक्तास्त्वद्वियोगभयाद्वयम् । वदामः किन्तु तूर्ण ते पुनरस्तु समागमः ॥ १८५ ॥ ततो गन्तुं नृपस्तस्मै महापोतं समार्पिपत् । हृदयाह्लादनोन्निद्वैर्द्रविणैः परिपूरितम् ॥ १८६ ॥ नेपथ्यैगूमनःपथ्यैर्भूषणैरपदूषणैः । सञ्चक्रे चावनीशक्रः पुत्र जामातरं च तम् ॥ १८७ ॥ प्रस्थातुमुद्यतां पुत्रीमवनन्तुमुपे - युषीम् । क्ष्मापतिः शिक्षयामास गिरा द्राक्षासदृक्षया ॥ १८८ ॥ भक्तिः श्वशुरयोर्नित्यं पत्यौ प्रीतिरकृत्रिमा । अनीता सपत्नीषु ननान्दृषु विनीतता ॥ १८९ ॥ बन्धुषु स्निग्धता सम्यग् वात्सल्यं च परिच्छदे । कुकर्मविरतिः पुण्यनिरतिः प्रियवाक्यता ॥ १९०॥ लज्जालुता यथौचित्यं दानमित्यादयो गुणाः । स्त्रीणां वितन्वते स्येष्ठां प्रतिष्ठां श्वशुरालये ॥ १९१ ॥ परमं मण्डनं शीलं पालनीयं सदोज्वलम् । आमुष्मिकैहिकश्रीणां निदानमिदमेव यत् ॥ १९२ ॥ एतान् पतिव्रताधर्मान् शुद्धानाराधयेस्तथा । स्वकीयवंश सौधा वैजयन्तीयसे यथा ॥ १९३ ॥ ततस्तया समं शस्ते मुहूर्ते कृतमङ्गलः । कुमारः क्ष्मापतिं नत्वा प्रतस्थे स्वपुरं प्रति ॥ १९४ ॥ ममेवोपासना कार्या कुसारस्येति शिक्षितम् । साहाय्याय सह प्रैषीद् रुद्राख्यं
नवमः प्रकाशः ।
॥ १४३ ॥
Page #295
--------------------------------------------------------------------------
________________
मन्त्रिणं नृपः ॥ १९५ ॥ स्वयं चाम्बुनिधेस्तीरावधि संप्रेष्य तं नृपः । कष्टेनैव न्यवर्तिष्ट बाष्पाविलविलोचनः ॥ १९६ ॥ कुमारः पोतमारुह्य प्रियाऽमात्ययुतस्ततः । यियासुः सिंहलद्वीपं प्राचालीदविलम्बितः ॥ १९७ ॥ नियोज्य सर्वकार्येषु सचिवं सरलाशयः । लीलायते स्म सोऽस्तोककौतुकालोकनादिना ॥ १९८ ॥ अयमुच्चैः स्थितः पोतमध्य मध्यासितस्तया । दिद्युते पालकारूढः पौलेम्येव दिवस्पतिः ॥ १९९ ॥ अन्यदा पुण्यलावण्यां दृष्ट्वा रत्नवतीं रहः । रुद्रो निद्राणधीरेवं विममर्श दुराशयः ॥ २०० ॥ आस्यं पूर्णशशी रदच्छदयुगं जात्यप्रवालद्वयं दन्ता निर्मलमौक्तिकानि मणयः पाणिक्रमस्था नखाः । वैडूर्यावरणौ सुवर्णकलशौ नूनं स्तनौ तज्जनाः स्थाने रत्नवतीति नाम निगदन्त्यस्याः प्रशस्याकृतेः ॥ २०१ ॥ कटाक्षयति हर्षेण यमेषा कमलेक्षणा । सफलं जीवितं तस्य किं पुनः स्वीकरोति यम् ॥ २०२ ॥ न चेयं विद्यमानेऽस्मिन् कुमारे स्वीकरोति माम् । तदेनमर्णवे क्षिवा कुर्वे प्रणयिनीमिमाम् ॥ २०३ ॥ बहुलक्षमितं वित्तं पोतस्थं सर्वमप्यदः । अयलोपनतं चैवं मदायत्तं भविष्यति ॥ २०४ ॥ सर्वोऽप्ययं परीवारो वशवर्त्ती पुराऽपि मे । विशिष्य दानसम्मानैरधुना | सन्दधे च तम् ॥ २०५ ॥ इति निष्टका दुष्टात्मा स तस्यापचिकीर्षया । छिद्रं गवेषयामास विधोरिव विधुन्तुदः ॥ २०६ ॥ | परिवारमसौ ग्रास द्विगुणीकरणादिना । सर्वमावर्जयामास नृपराज्यजिघृक्षुवत् ॥ २०७ ॥ इदं दुष्कर्म पाप्मायं मा कुर्वन् मम पश्यतः । इतीव भानुरात्मानं तिरोधत्तास्तसानुना ॥ २०८ ॥ मलीमसत्वमासेदुस्तमोभिर्नितमां दिशः । कुमारस्यापदं वीक्ष्य जातदुःखा इवाखिलाः ॥ २०९ ॥ अमुमापदमापन्नमवलोक्य कृपालवः । परित्रातुमिव प्रादुर्बभूवुर्दिवि तारकाः ॥ २१० ॥ तदा शरीरकार्याय शय्योत्थायं स्थिराशयः । कुमारः पोतपर्यन्तप्रदेशमुपजग्मिवान् ॥ २११ ॥ स च्छिद्रान्वेष
Page #296
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः प्रकाशन
॥१४४॥
|
कन्दर्पपवनोद्भुतः ॥
विलम्बनाप्यनाग
यानित्युच्चैः पूच्चका
णोन्निद्रस्तं तथा वीक्ष्य हर्षितः। नरकान्तरिवात्मानमर्णवान्तरपातयत्॥२१२॥ इत्यकृत्यमयं कृत्वा सुष्वाप शयने सुखम् । दुराशयाः सुखायन्ते जातदुष्कर्मसिद्धयः॥२१३ ॥ लोभो वह्निरिवैकोऽपि नानाऽनर्थकरो नृणाम् । किं पुनः प्रबलोसर्पिकन्दर्पपवनोद्धतः॥ २१४ ॥ इतश्च वासवेश्मस्था दुहिता जगतीपतेः । पत्युः प्रत्यागमं दक्षा प्रतीक्षामास सा क्षणम् ॥२१५॥ साशङ्कमानसा तस्य विलम्बेनाप्यनागमे । विष्वग् गवेषयामास सखीभिस्तं स्वयं च सा ॥२१६ ॥ तथाऽपि तसंप्राप्तौ भो ! भो! धावत धावत । पपात क्वापि मत्प्रेयानित्युच्चैः पूच्चकार सा ॥२१७ ॥ जाते च तुमले मन्त्री कपटस्फटपाटवः । किं जातमिति सोद्वेगं ब्रुवाणः समुपेयिवान् ॥ २१८ ॥ क पपात कथं वाऽयं विलोकयत रे द्रुतम् ।। इत्यसौ रचयामास मायावचनचातुरीम् ॥ २१९ ॥ अथ सा हा स्मराकार ! हा सारगुणसुन्दर ! हा नाथ ! प्रस्थितः क्वासि मां विमुच्य स्वकिङ्करीम् ॥ २२० ॥ शरणं मे त्वमेवेति क्रन्दन्ती शोकविक्लवा । झम्पामपांनिधौ दातुमुदयस्त पतिव्रता ॥ २२१ ॥ युग्मम् ॥ ततो मन्त्री करे कृत्वा तामाचष्ट वदिष्टवाक् । विलापं देवि ! मा कार्षीः स्थिरीकुरु निजं ४ मनः ॥ २२२ ॥ मेलयिष्यामि तं सद्यो विलोक्य निजपत्तिभिः । सम्प्रत्येवाथवा वार्धिसमुत्तारादनन्तरम् ॥ २२३ ॥ स है चेजात् मृतस्तर्हि मेलयिष्यामि बान्धवान् । तत्र स्वजनसांमत्ये त्वया कार्य यथोचितम् ॥ २२४ ॥ सम्प्रत्येव पुनःप्राणत्यागस्तव न सङ्गतः। यदन्यदपि नो कार्य सहसा किं पुनर्मुतिः ॥ २२५ ॥ न चाप्यते ध्रुवं सैव त्वयाऽनुमृतया पतिः। जन्तूनां गतयो भिन्नाः स्वस्वकर्मवशा यतः॥ २२६ ॥ जीवन्ती भवती क्वापि लभेताऽपि स्ववल्लभम् । नरो जीवन्नवामोति भद्राणीति न किं श्रुतम् ॥ २२७ ॥ एवमाश्वासिता सामवाक्यैनिकृतिसंस्कृतैः । मन्त्रिणा नियमाणा सा तस्थौ
Page #297
--------------------------------------------------------------------------
________________
विरहदःस्थिता ॥ २२८ ॥ निकृत्या नाविकैः सोऽपि जलान्तस्तं व्यलोकयत् । न पुनः क्वापि स प्रापि यतो दरेस पातितः॥२२९॥ अथाशु चालयामास पोतवाहैः स वाहनम् । स तीरे सरितां पत्युः प्राप्तः स्यादिति तांब्रुवन् ॥२३॥ तस्याः प्रीणयितुं चित्तं प्रीत्यालापादिकान् व्यधात् । नानोपायान् स मायावी पूर्वसंस्तवकैतवात् ॥ २३१॥ अन्यदा तद्वियोगेन विलपन्तीं मुहुर्मुहुः । जजल्प लुप्तलजस्तामेकान्ते सचिवब्रुवः ॥ २३२ ॥ देवि! किं शोकमस्तोकं विदधासि मुधाऽधुना । ये गतास्ते गता एव वलन्ते न पुनः क्वचित् ॥ २३३ ॥ तदिदानी निदेशं मे देवि ! देहि प्रसेदुषी । विदांकुरु त्वदादेशवशंवदममुं जनम् ॥ २३४ ॥ प्रभूतं वित्तमायत्तं रक्तोऽहं ते नवं वयः। ततः समाधिमाधाय विधेहि वचनं मम ॥ २३५ ॥ इति मन्त्रिवचः शीललुण्टाकं कर्णयोः कटु । कालकूटमिवापीय भृशं संतापमाप सा ॥ २३६ ॥ दध्यौ च स्वधिया नूनमनेनैव दुरात्मना। चिक्षिपे क्वापि मे प्रेयान् पयोराशौ कदाशया ॥२३७ ॥ अत एव परीवारः सकलः कुटिलात्मना । प्रागेव स्ववशीचक्रे दानमानादिनाऽमुना ॥ २३८ ॥ तदेवमसहायाया अबलाया ममाधुना । स्वशीलपालनोपायं मृत्युमेव विभावये ॥ २३९ ॥ परं मां मानसोल्लासवामाङ्गस्पन्दनादयः। ज्ञापयन्ति प्रियप्राप्तिमासन्नां ज्ञानिनो यथा ॥ २४०॥ तत्किं मिलेदपि क्वापि जीवन्मे जीवितेश्वरः । विचित्रता विपाकस्य यतः प्राक्तनकर्मणाम् ॥ २४१ ॥ अतः पालयितुं शीलं सचिवं वश्चयेऽधुना । चक्रे दारुणि यद्वेधो वक्र एव वितीर्यते ॥ २४२॥ यदि तीरे पतिः प्राप्तः स एव शरणं तदा । तदप्राप्तौ पुनर्मृत्युः स्वहस्तगत एव मे ॥ २४३ ॥ एवं विचिन्त्य कृत्यज्ञा विहस्य तमुवाच सा । वरं व्यधा यदात्मीयमभिप्रायमजिज्ञपः ॥ २४४॥ ममाप्यभीष्टमेवेदं रहितायास्तदाशया। इदं वक्तुं पुनर्मन्दा मन्दाक्षवशतोऽभवम्
Page #298
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः प्रकाश
॥१४५॥
॥ २४५ ॥ शैशवादावयोः प्रीतिलतायाः सह वासतः। प्ररूढा हृदयावापे सफला साऽस्तु साम्प्रतम् ॥ २४६॥ परं तन्मूतिकर्तव्यमकृत्वैतन्न सङ्गतम् । यतो जनापवादः स्यादेवं दुःश्रव आवयोः॥२४७॥ ततो देशान्तरे गत्वा कृत्वा तस्यौद्धदेहिकम् । यथारुचि विधास्यामो न स्यादेवं हि दुर्यशः ॥ २४८॥ इति तस्या वचः कर्णसुखमाकर्ण्य धीसखः । मुदितः प्रेरयामास पौतमाशु नियामकैः ॥ २४९ ॥ अथ नीतः स दुर्वातैरावर्त द्रागभज्यत । पोतस्तस्याधमस्येव पापप्राग्भार|भारितः ॥ २५० ॥ ततो रत्नवती प्राप्य फलक तीरमाययो । शीलं सर्वत्र जन्तूनां रक्षायै खलु दीक्षितम् ॥ २५१॥ तस्मै कां कां बलिं कुर्वे वेधसेऽहं सुमेधसे । तत्र कुमन्त्रिणो येन सौनिकादिव बकरी ॥२५२ ॥ एवं विमृश्यती वन्यफलादिकृतजीविका । सा प्रापत् कुसुमपुरं प्रेरिता शुभकर्मभिः ॥ २५३ ॥ निशम्य साऽपि लोकेभ्यस्तत्तीर्थ प्रियमेलकम् । तप्यमाना तपस्तत्र तस्थौ धनवती यथा ॥ २५४ ॥ तथैवार्णवमुत्तीर्य पुरे तत्र स मत्र्यपि । दैवाइष्टमिव प्राप स्वपापफलवर्णिकाम् ॥ २५५ ॥ वचश्चातुर्यतस्तत्र रञ्जयित्वा स भूभुजम् । अमात्यपदमादत्त शीलिते हि रतिर्नृणाम् ॥ २५६ ॥ तदा सिंहलसिंहस्तु पातितस्तेन पाप्मना । केनाप्यदृश्यरूपेण पाणिना द्रागुपाददे ॥२५७ ॥ उत्तार्य चार्णवं काऽपि मुमुचे | तापसाश्रमे । त्रायते पुण्यमापन्नमापदं महतीमपि ॥ २५८ ॥ अथ तत्र स्थितः सुस्थः सोऽन्तर्मानसमामृशत् । कीदृशी
मन्त्रिपाशस्य तस्य विश्वस्तघातिता ॥ २५९ ॥ युवत्यां यदि वा चित्ते लोभाकुलितमानसः । स नूनं मामपांपत्यौ पातया|मास पातकी ॥२६०॥ यद्वा लोभान्धितात्मानः किं कुकर्म न कुर्वते । लोभ एव यतो मूलं सर्वदुष्कृतवीरुधाम् ॥२६१॥ ततो न दूषणं तस्य किन्तु मे प्राच्यकर्मणाम् । व्याप्रियन्ते हि तान्येव संपदे विपदेऽपि च ॥ २६२ ॥ ही कर्म प्रतिकूल
॥१४५॥
Page #299
--------------------------------------------------------------------------
________________
मे पर्वस्या विरहं स्त्रियाः । यद्वितीर्याप्यतृप्तं सद्वितीयस्याः पुनर्ददे ॥ २६३ ॥ तथा स्फूर्जति पुण्यं मे प्राच्य किश्चित्पचे-1 लिमम् । अब्धौ मजन् यतः केनाप्यत्रानायिषि तत्क्षणात् ॥ २६४ ॥ तन्मया नूनमातेने सुकृतं खण्डितं पुरा । तादृशस्य | यतस्तस्य दृश्यते फलमीदृशम् ॥ २६५ ॥ एवं विमर्शशाणेन कुमारः स निशातधीः । जातधैर्यसमुन्मेषस्तमीशेष समापि-15 पत् ॥ २६६ ॥ अथोदयाद्रिमारुक्षत्तीक्ष्णांशुः केन धीमता । कुमारोऽयमरक्षीति निरीक्षितुमिव क्षितौ ॥२६७ ॥ तमांस्यपास्य तिग्मांशुरुदयन् वदतीव तम् । विपदन्तरितां सन्तः प्रपद्यन्ते सुसंपदम् ॥ २६८ ॥ तस्य व्यपगते विघ्ने सूता इव शकुन्तयः। जाने जयजयध्वानं वितेनुस्तुमुलच्छलात् ॥२६९॥ कुमारस्यापदं दृष्ट्वा सद्यः प्रलयमापुषीम् । मुदेव समपद्यन्त प्रसन्नवदना दिशः ॥ २७० ॥ ततः प्रातस्त्यमातत्य देवतास्मरणादिकम् । पर्णशालां विशालाक्षः स विवेश तपस्विनाम् ॥ २७१॥ शर्मणे धर्मकर्माणि निर्ममाणांस्तपस्विनः । तपःपवित्रितांस्तत्र स निरीक्ष्य विसिष्मिये ॥ २७२ ॥ केऽपि पद्मासनासीना वसानाश्चर्महारिणम् । परमात्मानमीक्षन्ते मीलिताक्षा जितेन्द्रियाः॥ २७३ ॥ जपमालामुपादाय वरमालामिव |श्रियाः । जपन्ति केऽपि निष्कम्पा नासाग्रन्यस्तहग्युगाः॥२७४॥ सादरं केऽपि नीवारं सुकुमारं मृगार्भकैः। बालैरिव | जलेनामादयन्ति दयालवः ॥ २७५ ॥ स्नेहपूरैरिवापारैः पल्वलेभ्यः समाहतैः । जलैः केचन सिञ्चन्ति स्वयमारोपितां स्तरून् ॥ २७६ ॥ सेवन्ते केऽपि पञ्चाग्निं दुष्कर्माणि दिधक्षवः । ऋते जिनमतं क्वापि विवेकः किमु वर्त्तते ॥ २७७ ॥ इति पश्यन्नसौ प्राप तापसेशितुराश्रमम् । नमश्चक्रे च कल्याणीभक्तिः कुलपति मुदा ॥ २७८ ॥ दत्त्वा कुलपतिः प्रीति[पीयूषवृषमाशिषम् । सच्चकार कुमारं तमासनालापनादिना ॥ २७९ ॥ अथ तस्याङ्गमालोक्य सर्वाङ्गीणसुलक्षणम् । मुदि
Page #300
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः प्रकाश
॥१४६॥
तश्चिन्तयामास मानसे तापसेश्वरः॥ २८०॥ गरिष्ठामचिरादेव प्रतिष्ठामस्य भाविनीम् । भालमालपति स्पष्टमष्टमीन्दु-1 सहोदरम् ॥ १८१॥ राजलक्ष्मीसरोजाक्ष्याः खेलितुं हृदयस्थलम् । कलधौतचतुःशाललीलामस्यावलम्बते ॥ १८२॥ |चापचक्रादिलक्ष्माणि भूषयन्ति कराम्बुजम् । भवित्रीमस्य भूभर्तृसंपदं न वदन्ति कम् ॥२८३॥ अयमूर्ध्वमशेषाणां भविता
माभृतामिति । ख्यापयत्यूर्द्धरेखाऽस्य तलपादविभूषणम् ॥ २८४ ॥ प्रतीयते यमाकृत्या गुणानामेकमास्पदम् । तदयं भाग्ययोगेन प्राप्यते दुहितुः पतिः॥ २८५ ॥ ततस्तमूचिवानेष हर्षोन्मेषस्मितेक्षणः । आकृत्यैव तवाख्यायि पुरुषोत्तमता सखे ! ॥ २८६ ॥प्रथयामः किमातिथ्यमुचितं ते वनेचराः। अस्माकं नहि हृद्यानि खाद्यानि फलजीविनाम् ॥२८७॥ नापि नस्त्यक्तसङ्गानां स्वर्णरत्नादिकं धनम् । तदेतयातिथेयी ते कन्ययैवास्तु वास्तवी ॥ २८८ ॥ अथ भूपाङ्गभूः स्माह किमवादीरसङ्गतम् । व्रतस्थिता यदेषा हि न पाणिग्रहमर्हति ॥ २८९ ॥ पाणिपीडनमेतस्यास्तन्वानः पीड्यतेतराम् ।। व्रतलोपकृतैः स्फातपातकैः सातघातकैः॥२९० ॥तापसः पुनराचष्ट जगृहे नानया व्रतम् । शृणु वृत्तान्तमेतस्या मूलतः कथयामि ते ॥२९१॥ पृथिवीभूषणं नाम पुरं स्वःस्पर्धि ऋद्धिभिः । जितशत्रुर्नृपस्तत्र पवित्रचरितोऽभवम् ॥२९२॥ कलितः कमलादेव्या दिव्याभिर्भोगभङ्गिभिः। सुभगं बुभुजे राज्यं चिरं शच्येव वासवः ॥ २९३ ॥ अन्यदा क्षणदाशेषे दध्यौ वेधा प्रबुद्धवान् । प्राज्यं राज्यमिदं भुञ्ज प्राच्यपुण्यवशादहम् ॥ २९४ ॥ सावशेषे च तस्मिन्मे युक्तं भूयस्तदर्जनम् । न|हि निष्ठितसर्वस्वो नव्यमर्जयितुं प्रभुः॥ २९५ ॥ सञ्चितं पुण्यमेवैक परलोके सुखावहम् । इहाप्यसुखदायिन्यो देहबन्धुश्रियः पुनः ॥ २९६ ॥ परत्र जायते दुःखी प्राणी पुण्येन वर्जितः । देशान्तरे यथा पान्थः पाथेयेन विना कृतः ॥२९७ ॥
SASOSCHISIERRICC05649
॥१४॥
Page #301
--------------------------------------------------------------------------
________________
ततः प्रगेऽहमुत्तुङ्गवैराग्येण तरङ्गितः । सचिवादीननुज्ञाप्य राज्ये पुत्रमतिष्ठिपम् ॥ २९८ ॥ ततः सार्ध सधर्मिण्या तापसव्रतमाददे । क्रमान्मां स्वपदे न्यस्य गुरुश्च त्रिदिवं ययौ ॥ २९९ ॥ इयं च राज्यकालेऽभूगर्विणी मे सधर्मिणी । व्रतविघ्नभिया किन्तु नासौ गर्भमजिज्ञपत् ॥ ३००॥ तनयां जनयामास प्रशस्ते समये च सा । इमां लावण्यपुण्याङ्गी जानकमिव मेदिनी ॥ ३०१॥ अस्या गुणप्रशस्याया रूपातिशययोगतः । वयं रूपवती नाम सप्रमोदमदद्महि ॥३०२॥ वर्धमाना शरीरेण सौन्दर्येण च सा क्रमात् । अनुरूपवराप्राप्त्या चिन्तां वर्द्धयति स्म नः॥ ३०३ ॥ अस्याः पचेलिमैःप्राच्यैः प्रणुनः पुण्यकर्मभिः। अतर्कितमुपागास्त्वं वरः सर्वगुणाकरः॥ ३०४ ॥ तदनात्तव्रता तुभ्यमियं कन्या प्रदीयते । पाणौ कुरुष्व निःशङ्कमेतां चिन्तां च भंग्धि नः॥ ३०५॥ इति तस्याग्रहात्तस्याः पाणिग्रहममस्त सः। तापसोऽपि प्रशस्तेऽह्नि तद्विवाहं प्रचक्रमे ॥ ३०६ ॥ सौभाग्येनानुरागिण्या कन्यया विज्ञया द्रुतम् । कथञ्चिदपि सोऽज्ञापि दिव्यवस्तुद्वयं पितुः ॥ ३०७॥ पाणिमोक्षक्षणे कन्यापाणिमादाय तं स्थितम् । प्रीत्या कुलपतिः प्राह प्रार्थयस्व यथेप्सितम् ॥ ३०८ ॥ कुमारस्तमथावादीदिव्यातिशयशालिनीम् । देहि खट्वां च कन्थां च तयोरेवहि मे स्पृहा ॥ ३०९॥ अथ वैखानसो वीक्षापनश्चिन्तितवानिति । बभूव गृहभेदो मे कुर्वेऽहं किमु सम्प्रति ॥ ३१० ॥ ददामि यदि नास्मै ते वचनं मे तदाऽन्यथा । महान्तो हि न मुश्चन्ति प्राणान्तेऽपि निजं वचः॥ ३११॥ अमुं विमुच्य कः पात्रमेतयोदिव्यवस्तुनोः। पात्रे च वस्तु |विन्यस्तं गुणाय स्याद्रीयसे ॥ ३१२॥ इत्यामृश्य तपस्वीशस्तस्मै तवयप्यदात् । सहर्षमाचचक्षे च शृणु माहात्म्यमेतयोः ॥ ३१३ ॥ इयं खट्वा स्वमारूढं नयति व्योमगामिनी । क्षणादभीप्सितं स्थानं विद्या विद्याधरं यथा ॥ ३१४ ॥ असौ
MOCRACTESCRECRUIRSACROM
Page #302
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १४७ ॥
च स्वर्णदीनारशतं दत्ते दिने दिने । अभ्यर्च्य याचिता कन्था यथा कल्पद्रुमञ्जरी ॥ ३१५ ॥ तदा भूपाङ्गभूस्ता भिस्तिसृभिः शुशुभेतमाम् । साम्राज्यहेतुभूताभिर्मूर्त्ताभिरिव शक्तिभिः ॥ ३१६ ॥ कुलपत्युपरोधेन दिनान् कतिपयानयम् । तत्राश्रमे स्थितोऽन्येद्युरन्तः स्वान्तमचिन्तयत् ॥ ३१७ ॥ अहो ! कर्मविपाकस्य काऽप्यपूर्वा विचित्रता । क्वापि संपद्यते संपदापत् क्वापि च मे यतः ॥ ३१८ ॥ द्वितीया मे प्रिया क्वापि पापिना तेन मन्त्रिणा । गृहीता ज्ञायते नैव जीवन्ती यदि वा मृता ॥ ३१९ ॥ नैमित्तिकेन जीवन्ती प्रोचे प्राच्यप्रिया तु मे । अतस्तामधुना लब्धुं युक्तः कर्त्तुमुपक्रमः ॥ ३२० ॥ अयं ततस्तपस्वीशमनुज्ञाप्य प्रियान्वितः । कन्यामादाय खद्वायामारुरोह नृपात्मजः ॥ ३२१ ॥ स्थाने धनवती यस्मिन् व्रज तस्मिन्नितीरिता । खट्वा सा कुसुमपुरोद्यानं सद्यः समासदत् ॥ ३२२ ॥ अत्रान्तरे रूपवती पीड्यते स्म पिपासया । ततः स वियतः खद्वां जगतीमुदतीतरत् ॥ ३२३ ॥ कन्थाखद्वान्वितां कान्तां स निवेश्य तरोस्तले । कूपमाप समीपस्थ - |मानेतुं जलमञ्जसा ॥ ३२४ ॥ स यावज्जलमादत्ते तावत्कूपान्तरस्थितः । तं सखायमिवाचख्यौ फणी मानुषभाषया ॥ ३२५ ॥ करुणां प्रगुणां कृत्वा सखे ! मां कृष कूपतः । महात्मानो यतः क्वापि नोपकारपराङ्मुखाः ॥ ३२६ ॥ तं तथा वाक्यमा लोक्य विस्मयस्मेरमानसः । कुमारः कृपया क्रष्टुमुत्तरीयममुञ्चत || ३२७ ॥ तदालम्व्याविलम्बेन ततस्तत्पार्श्वमागतः । ददंश दन्दशूकस्तमनुरूपं हि तस्य तत् ॥ ३२८ ॥ तद्विषस्यानुषङ्गेण कुमारः कुब्जतां ययौ । संश्लेषेण प्रदोषस्य सङ्कोचमिव पङ्कजम् ॥ ३२९ ॥ स्वं रूपं वीक्ष्य तादृक्षं सविलक्षस्तमाख्यत । सर्प ! मामुपचक्राणं सुन्दरं प्रत्युपाकृथाः ॥ ३३० ॥ ततो जजल्प सर्पस्तं सखे ! मा खेदमुद्वह । आपन्नेनापदं स्मार्यस्त्वयाऽहं निजमित्रवत् ॥ ३३१ ॥ तदा प्रत्युपकारं ते
नवमः प्रकाशः।
॥ १४७ ॥
Page #303
--------------------------------------------------------------------------
________________
करिष्येऽहं यथोचितम् । इत्युक्त्वा जग्मिवानाशु भुजङ्गो दृगगोचरम् ॥ ३३२ ॥ ततः किमिदमित्युच्चैर्वितर्काकुलमानसः। अयं पानीयमानीय प्रियोपान्तमुपागमत् ॥ ३३३ ॥ तामुवाच च सस्नेहमिदमम्बु पिब प्रिये !। सा पुनस्तं तथारूपमैक्षतापि न संमुखम् ॥ ३३४ ॥ असौ स्ववल्लभत्वेन तमप्रत्यभिजानती । बहुधोक्ताऽपि तन्नीरं पपौ नैव पतिव्रता ॥ ३३५॥ खट्वां कन्यां च गृहानमेनमेषा न्यषेधयत् । मत्स्वाम्येवानयोः स्वामी न तु त्वमिति वादिनी ॥ ३३६ ॥ ततो मन्दाक्षतो वीक्षापन्नस्त्यक्त्वा स्मितेक्षणाम् । कुमारो नगरे गच्छंश्चिन्तयामास दुखितः ॥ ३३७ ॥ परिणामो दुरन्तो मे कटरे प्राच्यकर्मणाम् । दुःखस्योपरि दुःखं मे ददनोद्विजतेऽपि यः॥ ३३८ ॥ मिलितुं पूर्वकान्तां मे प्रस्थितस्यापराऽप्यहो! । दूरीबभूव दैवस्य कीदृग् विलसितं हहा ॥ ३३९ ॥ यदि वा महतामेव संपदः स्युस्तथापदः । क्षयवृद्धी विधोरेव तारकाणां तु नो यतः॥ ३४० ॥ इति धैर्यसमुन्मेषसमाहितमना मनाक् । स विवेश पुरं क्लुप्तकुलरूप इवामरः॥ ३४१॥ सा च रूपवती कूपं परितस्तमितस्ततः। पतिं गवेषयामास यूथभ्रष्टा यथा मृगी ॥ ३४२॥ भ्रामं भ्रामं वनस्यान्तर्निविण्णा तमनापुषी । दुःस्था तत्तीर्थमाकर्ण्य तत्रास्थात्साऽपि ते इव ॥ ३४३ ॥ तप्यमानास्तपस्तीनं शिलोञ्छकृतपारणाः । त्रिसन्ध्यं जिनमर्चन्त्यः स्मरन्त्यः प्राणनायकम् ॥ ३४४ ॥ सेवां चक्रेश्वरीदेव्यास्तन्वाना मौनमाश्रिताः । दयितास्तस्य तिस्रोऽपि समयाकुर्वते स्म ताः॥ ३४५॥ युग्मम् ॥ तथास्थिताः स्वलावण्यावज्ञातत्रिदिवस्त्रियः। ता विलोक्य न के लोका विकल्पमिति तेनिरे॥३४६॥ किमु साधयितुं विद्यामेता विद्याधरस्त्रियः। अस्मिन् सातिशये तीर्थे तप्यन्ते दुस्तपं तपः॥३४७॥ मुक्त्वा श्मशानवेश्मानं किं वा दिग्वाससं हरम् । गङ्गोमाकृत्तिकाः प्राप्तुं तपस्यन्ति पतिं परम् ॥ ३४८॥ किं वा दैवा-
Page #304
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१४८॥
नुभावेन वियुक्ताः स्वस्वभर्तृतः । काश्चित्तदाप्तये देवीं निषेवन्ते कुलस्त्रियः ॥ ३४९ ॥ कौतुकेन जनैः लृप्तास्तासामालापनाकृते । पाञ्चालीनामिवोपाया भेजुः सर्वेऽवकेशिताम् ॥ ३५० ॥ नो शृङ्गारमयी न कौतुकमयी नो हास्य केलीमयी नो | संगीतमयी न मण्डनमयी नो कामलीलामयी । नो संग्राममयी न विस्मयमयी नो काव्यकेलीमयी ताः संभाषयितुं ककाऽ भवदलं स्थैर्य ह्यमूषामहो ! ॥ ३५१ ॥ अन्यदा श्रीयुगादीशं नमस्कर्तुमुपागतः । कुमस्तिस्रोऽपि तास्तत्र पश्यति स्म | सविस्मयम् ॥ ३५२ ॥ मङ्गपलक्षयामास कुजस्ता दयिता निजाः । न पुनस्ताः स्वकान्तं तं रूपान्तरतिरोहितम् ॥ ३५३ ॥ दर्श दर्शमिमाः स्मेरविस्मयो विममर्श सः । अहो ! तिस्रोऽपि मे कान्ताः कथं संजग्मिरे स्वयम् ॥ ३५४ ॥ कथं मां प्राप्तु | कामाभिरेताभिर्दुस्तपं तपः । तप्यते तीर्थमागत्य तापसीभिरिवानिशम् ॥ ३५५ ॥ कथं पालयितुं शीलमेताभिरतिदुष्करम् । योगिनीभिरिवाजस्रं मौनव्रतमुपाददे || ३५६ ॥ अहो ! शृङ्गारहास्यादिसुन्दराभिर्विदूषकैः । कथाभिः क्षोभ्यमाणाऽपि भनक्त्येकाऽपि न व्रतम् ॥ ३५७ ॥ तदासां शीलनैश्चल्यधीरतादक्षतादयः । गुणाः पथि गिरां पान्थीभवन्त्यवितथाः कथम् ॥ ३५८ ॥ भाष्यमाणा मयाऽप्येता वक्ष्यन्ति नहि सम्प्रति । प्रस्तावोचितमाधास्ये विमृश्येति स निर्ययौ ॥ ३५९ ॥ अथाकर्ण्य तथावृत्तं तासामवनिवासवः । ता निरूपयितुं क्षिप्रं प्राप तत्तीर्थमुन्मनाः ॥ ३६० ॥ प्रणम्यादिमम| र्हन्तं सामन्तादिसमन्वितः । ययौ चक्रेश्वरीदेवीमन्दिरे मेदिनीश्वरः ॥ ३६१ ॥ नत्वा चक्रेश्वरीं तासां दृष्ट्वा सौन्दर्यसंपदम् । अचित्रीयत धात्रीशस्ताः पप्रच्छ च वत्सलः ॥ ३६२ ॥ वत्साः ! का यूयमत्रैवं निविष्टाः केन हेतुना । ततस्ता न्यग्मुखीभूताः प्रत्यवोचन्न किञ्चन ॥ ३६३ ॥ पुनः पुनर्नृपेणोक्ता अपि प्रत्युत्तरं न ताः । व्यतारिषुस्ततः क्ष्माभृदादिक्षत
नवमः प्रकाशः ॥
॥१४८॥
Page #305
--------------------------------------------------------------------------
________________
4564560
विदूषकान् ॥ ३६४ ॥ एता भाषयत क्षिप्रं भाषितैः कृतकौतुकैः। ततस्तेऽभिदधुर्बद्धस्पर्धं वैनोदिकीः कथाः॥३६५॥ तरुणीजनमुत्कर्ण कुर्वाणाः श्रवणादपि । उत्तरङ्गितङ्गाराः कथाः केचिदचीकथन् ॥ ३६६ ॥ स्फारहास्यवशोत्फुल्लगल्लीभूतसभासदः । केचन स्फोरयांचक्रुर्वक्रोक्तीश्चित्रकारिणीः॥३६७ ॥ तथाऽपि चक्षुरुन्मेषमपि तेषु न संमुखम् । चकार काऽप्यहो ! तासु दूरमास्तां तु भाषणम् ॥ ३६८ ॥ अधरां कन्धरां किन्तु ताविधायावतस्थिरे । दृष्ट्वा च तास्तथाऽवस्था व्यस्मयन्त नृपादयः ॥ ३६९ ॥ घोषयामास भूपोऽथ पटहं कौतुकात्पुरे । य एता निजवैदुष्या भाषयिष्यति योषितः ॥ ३७० ॥ स्वकन्यां कुसुमवतीं तस्मै दास्यामि धीमते । अपिस्पृक्षन्न के तं च कुमारास्तामभीप्सवः॥ ३७१॥ परं कलावतस्तत्र विलोक्य विफलोद्यमान । कोऽप्यस्य संनिधौ राधावेधस्येव न जग्मिवान् ॥ ३७२ ॥ अथात्मानं निजाः कान्ता निवेदयितुमुन्मनाः । कुमारः प्रतिभास्फारः कुनाकारस्तमस्पृशत् ॥ ३७३ ॥ तत्रायुक्तैस्ततो नीतः संसदं विस्मिताशयैः । कुजः प्रणेमिवान् भूपं हस्तविन्यस्तपुस्तकः॥ ३७४ ॥ संमान्यासनदानाद्यै स्तमवोचत भूपतिः। पुस्तिका तव का पाणी किं |किं वेत्सि च कुनक! ॥३७५॥ कुनो जगाद भूमीन्द्र ! सुरेन्द्रेण प्रसेदुषा । इयं मे पुस्तिकाऽदायि सर्व जानामि चानया |॥ ३७६ ॥ ततः करे गृहीत्वा तां छोटयित्वा च कौतुकात् । यावद्वाचयति मापस्तावदाख्यत कुनकः ॥ ३७७ ॥ महा
राज! द्विजातो यः स एतामद्भुताक्षराम् । शक्तो वाचयितुं यस्माद्वरः सुरपतेरयम् ॥ ३७८ ॥ ततस्तत्राक्षरावीक्ष्य वीक्षापन्नमना नृपः। द्वैजात्यव्यत्ययं स्वस्य मन्यते स्म स्वमानसे ॥३७९॥ लोके च लाघवं मा भूदेवं मनसिकृत्य सः। पुरोहितमुपान्तस्थमवोचत सविस्मयम् ॥ ३८॥ अमुष्या दक्ष ! कीदृक्षा लक्ष्यतामक्षरावली । व्यलोकत च वेगात्तां पुरोभूय
Page #306
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः प्रकाश
॥१४९॥
पुरोहितः॥ ३८१ ॥ सूक्ष्मयाऽपि दृशा तत्र रेखामप्येष नैक्षत । ततो दूनमना सोऽपि मेने स्वं मेदिनीशवत् ॥ ३८२ ॥ भोत्स्यते यदि मामेवमधमं वसुधाधवः । तदायं कुपितो मह्यमपमानं प्रदास्यति ॥ ३८३ ॥ एवं विचिन्त्य धौन पुरोधा नृपमभ्यधात् । स्वामिन्नेकमपीदृक्षं वीक्ष्यतेऽन्यत्र नाक्षरम् ॥ ३८४ ॥ मन्त्री रुद्रोऽपि तत्रस्थः कौतुकात्तां व्यलोकत । वर्णिकामपि वर्णस्य न पुनर्निरवर्णयत् ॥ ३८५॥ ततः स चिन्तयामास नूनं मे न कुलीनता । भूपादिष्वपि पश्यत्सु न वीक्षे कथमन्यथा ॥ ३८६ ॥ यदि वा मम पापस्य युक्ता तादृशता ध्रुवम् । तस्याः स्वस्यापि वाऽचिन्ति शीललोपो मया यतः॥ ३८७॥ यतः
"गुप्तानि यानि जन्यन्ते जनन्या यौवनान्धया । तानि शीलं विलुम्पन्तस्तनया हि विवृण्वते ॥१॥" | मा ज्ञासिषुश्च भूपाद्या इदं मे लाघवावहम् । एवं विचिन्त्य सोऽप्येतां प्रशशंस पुनः पुनः॥ ३८८ ॥ एवं सर्वोऽपि तत्रस्थो दर्श दर्श शशंस ताम् । यशस्कामितया कस्को न मृषा खलु भाषते ॥ ३८९ ॥ मन्त्री रत्नवतीं दृष्ट्वा विज्ञीप्सुरभवन्नृपम् । परं नाख्यत् क्षणं कुब्जकौतुकालोककाम्यया ॥ ३९० ॥ अहंपूर्विकया लोकैर्नीयमानां करात्करम् । समयॆ पुस्तिका कुजमथाख्यक्षितिनायकः॥३९१॥ कुज ! सद्योऽपि वाद्यन्तामेतास्तिस्रोऽपि योषितः। नमो जिनेभ्य इत्युक्त्वा टू सोऽपि वक्तुं प्रचक्रमे ॥ ३९२॥
राजन्नाकर्ण्यतामस्ति द्वीपः सिंहलसंज्ञया । भुनक्ति तत्र साम्राज्यं राजा श्रीसिंहलेश्वरः ॥ ३९३ ॥ सूनुः सिंहलसिंहोऽस्य यः सिंहसमविक्रमः । त्रातां मत्तेभतः पाणौ चक्रे धनवती कनीम् ॥ ३९४ ॥ सौभाग्येन जनैर्दत्तमुपालम्भ मही
CLCCASSAMRAGES
॥१४९॥
Page #307
--------------------------------------------------------------------------
________________
भुजे । आकर्ण्य खिन्नवान् गेहान्निरगात् स प्रियान्वितः ॥ ३९५ ॥ इत्याकर्ण्य स्वनाथस्य कथां धनवती द्रुतम् । हर्षमाणोन्मुखीभूय तं कान्तमिव वीक्षते ॥ ३९६ ॥ पुनर्जजल्प कुब्जोऽपि ततो युक्तः स कान्तया । प्रतस्थे यानपात्रेण वार्द्धां द्वीपान्तरं प्रति ॥ ३९७ ॥ दैवाच्च स्फुटिते पोते स पपात सरित्पतौ । वक्ष्येऽग्रे प्रातरित्युक्त्वा कुजो बध्नाति पुस्तिकाम् ॥ ३९८ ॥ ततो धनवती क्षिप्रं तदुपान्तमुपेयुषी । निपत्य पादयोः कुजं जल्पति स्म कृताञ्जलिः ॥ ३९९ ॥ पोतस्य स तदा भङ्गे कुमारः पतितोऽम्बुधौ । किं जीवत्यथवा नेति वद सद्यः प्रसद्य मे ॥ ४०० ॥ ततः कुनः पुनः प्रोचे राजन्नेकां मनस्विनीम् । अवीवदमहं प्रातर्वादयिष्ये परे पुनः ॥ ४०१ ॥ नृपोऽप्यवोचदप्येते संप्रत्येवाभिलापय । शीघ्रायते यदत्रार्थे सर्वेषामपि मानसम् ॥ ४०२ ॥ अवोचत ततः कुब्जः श्रूयतां तर्हि सादरम् । अथासौ फलकं लब्ध्वा कुमारोऽब्धिमलङ्घयत् ॥ ४०३ ॥ प्राप्तो रत्नपुरे रत्नवतीं रत्नप्रभात्मजाम् । उपयेमे समुज्जीव्य सर्पेणोपद्रुतामसौ ॥ ४०४ ॥ इति श्रुत्वा भृशं हृष्टा दध्यौ रत्नवती हृदि । पत्युर्ममापि वृत्तान्तं यथावत्कथयत्ययम् ॥४०५॥ ततः साऽपि द्रुतं तस्योन्मुखीभूयोन्मिषेक्षणा । सहर्षा वीक्षते कुजं चकोरीव सुधाकरम् ॥ ४०६ ॥ धनवत्यपि जीवन्तमवेत्य मुदिता पतिम् । भर्तुरेकतयाऽन्योन्यं भगिनीं मन्यते स्म ताम् ॥ ४०७ ॥ कुलोऽपि पुनराचष्ट ततोऽनुज्ञाप्य भूपतिम् । सपत्नीकः स पोतेन प्रतस्थे स्वपुरं प्रति ॥ ४०८ ॥ तमन्यदाऽर्णवे रत्नवतीरूपविमोहितः । रुद्रो रौद्रपरीणामः पातयामास पातकी ॥ ४०९ ॥ अग्रतस्तस्य संबन्धमभिधास्ये प्रगे पुनः । इत्युक्त्वा मौनमाश्रित्य संवृणोति स पुस्तिकाम् ॥ ४१० ॥ ततो रलवती शीघ्रमुपागत्य तदन्तिकम् । धनवत्याऽन्विता कुजमुवाच रचिताञ्जलिः ॥ ४११ ॥ प्रसद्य पदमेकं मे पुरतः प्रतिपाद्यताम् । पतितः सरि
Page #308
--------------------------------------------------------------------------
________________
दानप्रदीपे
नवमः प्रकाशन
॥१५॥
यहा अभाप्यत तृतीया तु
ततः पुनर्जगोपऊनन्दनीम् । कन्धालदासससः ॥ ४२९ ॥ इत्याविषण्णास्ताश्च
तांपत्यौ स जीवत्यथवाऽन्यथा ॥४१२॥ इतश्च सचिवो दध्यौ धिग्मे दुष्कर्मचेष्टितम् । यन्मे दुश्चरितं सर्व प्रकटीक्रिय| तेऽमुना ॥४१३ ॥ साम्प्रतं किमहं कुर्वे नृपप्रत्यक्षमक्षमः। कुजं मारयितुं रत्नवती वारयितुं तथा ॥ ४१४॥ पृच्छन्त्याः पुरतोऽमुष्याः सर्वमप्येष वक्ष्यति । निग्रहीष्यति मां क्ष्माभृत्तदाकर्ण्य च मन्युमान् ॥ ४१५॥ ततः सम्प्रति नश्यामि यद्वा पश्यामि तावता । पश्चादपि हि नश्यामि पोतमारुह्य वेगतः॥४१६॥ ततो नृपं जगौ कुनो द्वितीयाऽप्यवनीपते । अभाष्यत तृतीया तु प्रभाते भाषयिष्यते ॥४१७ ॥ जगौ राजाऽधुनैवैतामपि कोविद ! वादय । करोत्यायल्लक चित्ते यदर्धकथिता कथा ॥ ४१८ ॥ ततः पुनर्जगौ कुजः पातितो मन्त्रिणाम्बुधौ । केनापि सहसोत्पाट्य स मुक्तस्तापसाश्रमे ॥ ४१९ ॥ तत्र रूपवती पाणौ कृत्य तापसनन्दनीम् । कन्याखट्दासमेतोऽत्र पुरोद्यानमवाप सः ॥ ४२० ॥ पानीयार्थं गतः कूपे सर्पणायमदश्यत । अग्रतः समये वक्ष्ये इत्युक्त्वा जोषमास सः ॥ ४२१॥ वृत्तान्तं स्वपतेः श्रुत्वा रूपवत्यप्यमोदत । स्निह्यन्ति स्म च तिस्रोऽपि मिथोज्ञातैकभर्तृकाः ॥ ४२२ ॥ पत्युरापदमाकर्ण्य विषण्णास्ताश्च तं जगुः । प्रसद्यादिश्यतां तस्य वृत्तान्तं शीघ्रमग्रतः॥ ४२३ ॥ इत्थमत्यर्थमेताभिः प्रार्थ्यमानोऽपि कुनकः । जगाद नाग्रतः किन्तु हृदि दध्यौ धियांनिधिः ॥ ४२४ ॥ पतिव्रतात्वमेतासामहो ! कीदृशमद्भुतम् । यदेता भृशमुल्लेसुः श्रुत्वा पत्युः कथामपि ॥ ४२५ ॥ एता कथमजानत्यः पत्युवृत्तान्तमग्रतः। भृशं ताम्यन्ति तीरस्थाः शफर्य इव निर्जलाः ॥ ४२६ ॥ स्वरूपज्ञापनेऽप्येता नहि सम्प्रत्यमूदृशम् । मामप्रत्यभिजानत्यः प्रपत्स्यन्ते पतिव्रताः ॥ ४२७ ॥ किञ्चायं सचिवः सौवदुष्कर्माकर्णनावधि । मयि कोपारुणक्रूरदृष्टिः स्पष्टमुदीक्ष्यते ॥ ४२८ ॥ अयं मां साम्प्रतं भूपप्रत्यक्षं हन्तुमक्षमः।
प्यमोदत
संपणायमदश्यत । अग्रतः समयनन्दनीम् । कन्थाखदासमेतोनापि सहसोत्पाट्य स मुक्तता
॥१५
॥
Page #309
--------------------------------------------------------------------------
________________
यथाऽवसरयोगं तु जिघांसुः किल दृश्यते ॥ ४२९ ॥ ततो भवामि जामाता नृपतेरस्य सम्प्रति । नापकर्तुमलं स्यान्मे यथाऽयं सचिवब्रुवः॥ ४३० ॥ ध्यात्वेति कुजकस्तस्य शुभंयोः समयोऽग्रतः। वक्ष्ये वृत्तान्तमित्येताः समाश्वास्य नृपं जगौ ॥ ४३१॥ राजन्नेता अभाष्यन्त मया तिस्रोऽपि योषितः। तत्प्रतिज्ञा स्वकन्यायाः प्रदानेन प्रमाणय ॥ ४३२॥
ततस्तदीयमात्रादिवार्यमाणोऽपि भूपतिः। ददौ तस्मै निजां कन्यां प्रतिज्ञाभङ्गभीरुकः॥ ४३३ ॥ शोषं श्रयेत सरितां६ कमिता भजेत शैत्यं कृशानुरुदयेत रविः प्रतीच्याम् । कम्पेत मेरुरमृतद्युतिरुत्तपेत लुम्पन्ति जातु ननु सत्पुरुषाः प्रति
ज्ञाम् ॥ ४३४ ॥ पाणिग्रहे च नैवात्र कस्यापि प्रमदोदयः। अनुरूपवराभावे विवाहो हि विडम्बना ॥ ४३५॥ परं स्वभर्तृवृत्तान्तज्ञापनाप्रमनायिताः । तिम्रोऽपि तत्र गीतानि जगुस्ता मधुरस्वरम् ॥ ४३६ ॥ पाणिमोक्षक्षणे कुजो जगाद जगतीपतिम् । मह्यमश्वीयसौवर्णहास्तिकादि प्रदीयताम् ॥ ४३७ ॥ ततः कोपविशालाक्षः श्यालकः कुजमालपत् । तुभ्यं रे कुन ! फूत्कुर्वन् सर्प एव प्रदास्यते ॥ ४३८ ॥ स एव दीयतामेवमुक्ते कुब्जेन तत्क्षणात् । कुतोऽप्यागत्य निःशूकं दन्दशूको ददंश तम् ॥ ४३९ ॥ ततः स तद्विषावेगव्याप्ताङ्गः प्राप्तमूर्छनः । लुठति स्म महीपीठे छिन्नमूल इव द्रुमः ॥ ४४०॥ तं तथाऽवस्थमालोक्य व्याकुलीभवदाशयाः । विलेपुरिति ता बाष्पपूरप्लावितलोचनाः॥४४१॥ हाऽस्मन्मनोऽम्बुजे हंस ! हाऽवतंस ! कलावताम् । दुर्दर्शा दुर्दशा केयमभूदाकस्मिकी तव ॥ ४४२ ॥ त्वां विना वल्लभेनास्मात्कः संयोजयितुं क्षमः। निशावियुक्तचक्रेण चक्रीमिव दिवाकरम् ॥ ४४३॥ ऋते त्वां प्राज्ञ ! नःप्रेयोवियोगदवसंभवम् । को निर्वापयिता तापमवन्या इव वारिदम् ॥ ४४४ ॥ अस्माभिस्तव रे दैव ! किमपाराधि दुर्विध! । यत्त्वयाऽस्मदभीष्टोऽयमीदृशीं नीयते
Page #310
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥ १५१ ॥
दशाम् ॥ ४४५ ॥ आः पाप ! सर्प ! रे दूरमपसर्प इशोः पथः । तवेदृग् दुष्टचेष्टस्य स्पष्टमेव द्विजिह्वता ॥ ४४६ ॥ राजनस्माकमेतस्मान्नान्यः प्रियनिवेदकः । अमुना साकमस्माकमतो मरणजीविते ॥ ४४७ ॥ इति सोरः शिरस्ताडं विलप - न्तीरतीव ताः । दर्श दर्श न सङ्क्रान्तदुःखाः के केऽरुदन् जनाः ॥ ४४८ ॥ नृपाङ्गजा सुरूपं तं कुमारं दिव्यशक्तितः । | पश्यन्ती जाततद्रागा तदा दध्यौ विषेदुषी ॥ ४४९ ॥ सर्वाङ्गेष्वस्य सौभाग्यमहो ! नेत्रनियन्त्रणम् । मूर्खत्वादेव भाषन्ते कुजमेनं पुनर्जनाः ॥ ४५० ॥ मयि पुण्येन शून्यायां विधेः केयं प्रतीपता । यन्मे विवाह एवास्य दुर्दशेयमजायत ॥४५१ ॥ अयं प्राच्यैः पतिः पुण्यैरगण्यैरेव लभ्यते । कौतस्कुतानि मे तानि तावन्त्येनं लभेय यैः ॥ ४५२ ॥ न चास्यासंभवे पाणौकुर्वेऽहं कञ्चनापरम् । भ्रमरी मालतीपुष्पं मुक्त्वाऽन्यत्र रमेत किम् ॥ ४५३ ॥ अतोऽमुना समं नूनं दत्तदक्षिणपाणिना । मृतिर्वा जीवितव्यं वा साम्प्रतं मम साम्प्रतम् ॥ ४५४ ॥ पतिव्रतोचितां चिन्तामेवमातत्य सत्यधीः । तुरीयीभूय सा तासां व्यपद्विलाशया ॥ ४५५ ॥ ततो दुहितृवैधव्यविधुरः स धराधवः । कुलस्य कारयामास प्रतीकारान् भिषग्वरैः ॥ ४५६ ॥ परं कोऽपि गुणस्तस्य मृतस्येवाभवन्न तैः । विना निदानज्ञानं हि फल्गुरेव प्रतिक्रिया ॥ ४५७ ॥ तदा पर्ष द्यशेषायां विषीदन्त्यां स धीसखः । जहर्ष मलिनात्मैव प्रीयते हि परापदि ॥ ४५८ ॥ अथ प्रियाप्तिनैराश्यविसंस्थुलित| चेतसः । प्रावृतंस्ताः सतीधुर्याश्वर्या स्वोदरदारणे ॥ ४५९ ॥ अत्रान्तरे स्वमाकारमारिवान् स्फारकान्तिमान् । अयं देवकुमारश्रीः कुमारः समजायत । ४६० ॥ तं पतिं प्रत्यभिज्ञाय ताश्चोल्लसितमानसाः । परमां मुदमापन्ना विरेमुः स्वविघाततः ॥ ४६१ ॥ रूपं सर्पोऽपि दैव्यं स्वं दिव्याभरणभासुरम् । प्रादुश्चकार प्राचीनं पुण्यराशिमिवात्मनः ॥ ४६२ ॥ दर्श
नवमः प्रकाशः
॥ १५१ ॥
Page #311
--------------------------------------------------------------------------
________________
तामभूत धर्मसरोवाधर्मकाया मलासुका ४७२ ॥ मुनयोऽन्यदानि समादायामास
दर्श नरेशाद्याः कुमारममरं च तम् । बभूवुर्विस्मयोन्मेषादनिमेषेक्षणाः क्षणम् ॥ ४६३ ॥ अथ भूपः सुपर्वाणमवोचत |सविस्मयम् । देव ! कस्त्वं कुतश्चागाः कुमारः पुनरेषकः॥ ४६४ ॥ इति पृष्टः सुरप्रष्ठस्तमाचष्ट पटिष्टवाक् । वृत्तान्तमावयोर्भूप ! शृणु विस्मयकारणम् ॥ ४६५ ॥ | अत्रैव भरतक्षेत्रे पुरं धनपुराभिधम् । पृथिव्यां पप्रथेऽन्वर्थ यन्नाम धनऋद्धिभिः॥४६६॥ तस्मिन् धनञ्जयश्रेष्ठी प्रष्ठः पुण्यवतामभूत् । यो धनञ्जय एवार्थिदारिद्यदुमदाहतः ॥ ४६७ ॥ जज्ञे धनवती तस्य जाया मायाविवर्जिता। | यन्मनो मीनवल्लीनं जैनधर्मसरोवरे ॥ ४६८॥ धनदेवस्तयोः सूनुर्धनदत्तस्तथापरः । अजायतां जिनोपज्ञपुण्यनैपुण्यशालिनौ ॥ ४६९ ॥ पितर्युपरते सद्मधर्मकार्येषु धुर्ययोः। व्यतीयाय तयोः प्रीतिमयः कालः कियानपि ॥४७॥ परं स्म
कलहायेते सततं दयिते तयोः । स्वभावेन महेलासु कलहो नहि दुर्लभः॥ ४७१॥ ततो विभज्य तौ वित्तं विभिदाते | विदांवरौ । विपश्चितोऽनुतिष्ठन्ति यथासमयमेव हि ॥ ४७२ ॥ क्रशीयस्तामुपेताऽपि ततश्च प्रीतिरेतयोः । प्रतिपच्चन्द्रलेखेव स्फायते स्म दिने दिने ॥ ४७३ ॥ सदने धनदेवस्य निदाघे मुनयोऽन्यदा । पित्तोपतयत्यर्थ भैषज्याय समाययुः ॥ ४७४ ॥ ससंभ्रमं समुत्तस्थौ धनदेवो विलोक्य तान् । उच्चैःस्थितानि सौख्यानि समादातुमना इव ॥ ४७५ ॥ शिरस्तिलकितं तन्वंस्तदीयपदरेणुना । तानवन्दत सानन्दमयं विनयवामनः ॥ ४७६ ॥ ततो निमन्त्रयामास तानसौ शुद्धमानसः। प्रासुकांशुकभक्ताद्यैः पात्रे कस्य हि नादृतिः॥ ४७७ ॥ तन्निषेधे कृते युक्त्या भैषज्ये ज्ञापिते च तैः । दुग्धं स्वचित्तवस्निग्धं सितायुक् स उपानयत् ॥४७॥ व्यजिज्ञपच्च तानेष हर्षोन्मेषस्मितेक्षणः । एषणीयमिदं पूज्याः ! गृह्यतामनु
सातामनुः
Page #312
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१५२॥
गृह्य माम् ॥ ४७९ ॥ ततोऽवधार्य तच्छुद्धिं साधवस्तुम्बकं दधुः। तितारयिषयेवास्य पतितस्य भवार्णवे ॥४८॥
नवमः अक्षेपेण निचिक्षेप सोऽपि तत्र सितापयः। निषेक्तुमिव सर्वेष्टप्रदं पुण्यसुरद्रुमम् ॥ ४८१ ॥ रोमाञ्चछद्मना तस्य दानक
प्रकाश ल्पद्रुमाङ्कराः। रेजुस्तदा महानन्दफलसंपत्तिहेतवः॥ ४८२ ॥ धनदत्तोऽपि सानन्दं मुनिभ्यः शुभभावतः । दत्तवानेवमेवेक्षुरसस्य घटमन्यदा ॥ ४८३ ॥ परमेष ददानस्तं कुटुम्बे धृततृप्तिकः । त्रिर्भावं खण्डयामास मण्डयामास च स्वयम् ॥ ४८४ ॥ अन्वमूमुदतां तौ च दानपुण्यं निजं मुहुः । वृद्धये सुकृताम्भोधेः कौमुदी ह्यनुमोदना ॥ ४८५॥ धनदेवः क्रमान्मृत्वा देवोऽहमभवं दिवि । धनदत्तः पुनर्भूप! वभूवायं नृपाङ्गभूः॥ ४८६ ॥ भैषज्यदानपुण्येन दिव्यां संपदमासदम् । भार्याचतुष्टयाद्धि कुमारोऽयमिमां पुनः॥४८७॥ एवं ब्रुवति गीर्वाणे चारणः श्रमणाग्रणीः । श्रीयुगादि| जिनं नन्तुं तत्रागाद्गगनाध्वना ॥ ४८८ ॥ निवासमिव पुण्यानां तपसामिव शेवधिम् । तं निभाल्य समे सभ्या अभ्युदस्थुः ससंभ्रमम् ॥ ४८९ ॥ श्रमणोऽपि जिनं नत्वा निषसाद तदाग्रहात् । महाशया हि सर्वत्र प्रार्थनाभङ्गभीरवः ॥ ४९० ॥ अथ प्राच्यं तयोर्वृत्तं नृपेण प्रनितो मुनिः। तथैव कथयामास यथा देवः पुरा जगौ ॥ ४९१ ॥ ततः प्रणम्य |पप्रच्छ कुमारः प्राञ्जलिमुनिम् । कथं बभूव मे वार्धिलङ्घनं कुनतादि च ॥ ४९२ ॥ ततो जगौ मुनीन्द्रस्तं मन्त्रिणा पातितोऽम्बुधौ । उत्पाट्यानेन देवेन नीतः प्रेम्णा त्वमाश्रमम् ॥ ४९३ ॥माऽपकार्षीदयं द्वेषी मन्त्री त्वामुपलक्षयन् । इत्यत्रा-18
॥१५२॥ जग्मुषस्तेन वितेने तव कुजता ॥ ४९४ ॥ तेनैव सर्पदंशादि हितायैव तवादधे । तपनो हि जगत्प्रीत्यै तातपीति तपात्यये ॥ ४९५ ॥ युवाभ्यामद्भुता ऋद्धिरेषा भैषज्यदानतः। आसेदे पात्रदानं हि निदानं सर्वसंपदाम् ॥ ४९६ ॥ परं त्वं प्राक् ।
Page #313
--------------------------------------------------------------------------
________________
त्रिधाभावच्छेदजोदीर्णकर्मणा । कान्तात्रयवियोगाब्धिपाताद्यापदमासदः॥४९७ ॥ फलाय महते पात्रे दत्तं स्वल्पमपि ध्रुवम् । संयमोत्सर्पणाकारि किं पुनः प्रासुकौषधम् ॥ ४९८ ॥ श्रूयते रेवती नाम श्रमणोपासिकाग्रणी । गोशालकविनिर्मुक्ततेजोलेश्याऽतिसारिणः ॥ ४९९ ॥ श्रीमद्वीरस्य कौष्माण्डपाकदानप्रभावतः। जिनः सप्तदशो भाविसमये भविता ध्रुवम् ॥ ५००॥ युग्मम् ॥ इत्येतां वाचमाचम्य वाचंयमशिरोमणेः । कुमाराद्याः समे सभ्या जहृषुधीसखं विना ॥५०॥ कुमारस्तु समुल्लासिशुभाशयविशेषतः । जातजातिस्मृतिः प्राच्यं वृत्तान्तं स्वं तथैक्षत ॥ ५०२॥ ततः स तुङ्गसंवेगसुभगं |भावुकाशयः। मुनीश्वरान्तिके सम्यक् श्राद्धधर्ममुपाददे ॥५०३ ॥ परेऽपि प्रत्यपद्यन्त सम्यक्त्वाचं नृपादयः। रत्नाकरमुपेतस्य कस्य नो रत्नसङ्ग्रहः ॥ ५०४ ॥चारणः श्रमणः साधुरुत्पपात दिवं ततः। नेतुं धर्म प्रपेदानान् गतिमुच्चैस्तमामिव ॥ ५०५ ॥ देवोऽप्यवाप्तसम्यक्त्वः स्मार्योऽहं समये त्वया । एवं कुमारमालप्य प्रमना दिवमाप सः॥ ५०६ ॥ ततो जामातरं भूपः सच्चकार प्रमोदवान् । प्रशस्तहस्तिजात्याश्वस्वर्णरत्नादिदानतः ॥ ५०७॥ वधायादिक्षदारक्षान् नृपस्तस्य च मन्त्रिणः । इहापि दुश्चरित्राणां शास्ता खलु महीपतिः॥ ५०८॥ तद्वधं स्फारकारुण्यः कुमारस्तु न्यवारयत् । यतश्चन्दनवत् सन्तोऽपकारेऽप्युपकारिणः ॥ ५०९॥ ततो निर्वापयामास नरेशस्तं स्वदेशतः। दूरमेवापसार्यो हि मलवन्मलिनात्मकः ॥ ५१०॥ समं कान्ताचतुष्केण भोगाननुभवंश्च सः । कुमारस्तस्थिवांस्तत्र कियन्तं समयं सुखम् ॥ ५११॥ सुतप्रवृत्तौ निर्दिष्टः सिंहलेश्वरभूभुजा । जनः कुमारमाकर्ण्य तत्रान्येधुरथागमत् ॥ ५१२॥ कुमारोऽपि तमालोक्य सस्नेहं परिषस्वजे । अप्राक्षीच्च स्वपित्रादि क्षेममक्षामहर्षभाकू ॥ ५१३ ॥ सोऽप्यूचे कुशलं पित्रोः परिवारस्य चास्ति ते । परं
Page #314
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १५३ ॥
त्वद्विरोद्वेगः संतापयति तन्मनः ॥ ५१४ ॥ तदा त्वद्विरहे किश्च पित्रादीनां प्रसारिभिः । नेत्राश्रुभिरभूदम्भो नावातार्य समन्ततः ॥ ५१५ ॥ त्वद्वियोगानलज्वालाजालव्यालुप्तवेतनाः । तिष्ठन्ति कष्टतः पित्रादयो लेप्यमया इव ॥ ५१६ ॥ मदादयस्ततोऽमात्यैस्त्वां गवेषयितुं जनाः । प्राहीयन्त प्रतिद्वीपं प्रतिदेशं च सर्वतः ॥ ५१७ ॥ अहं द्वीपाकरग्रामपुरादिषु परिभ्रमन् । भवन्तं क्वापि न प्रापं निष्पुण्य इव शेवधिम् ॥ ५१८ ॥ साम्प्रतं तु प्रसर्पन्त्या कीर्त्याsत्र त्वामवागमम् । तदद्य देव ! संपेदे फलेग्रहिरुपक्रमः ॥ ५१९ ॥ अथ स्वदर्शनानन्दसुधानिस्यन्दयोगतः । आश्वासयाशु पित्रा - |दीन् वियोगविषमूर्च्छितान् ॥ ५२० ॥ इत्याकर्ण्य वचस्तस्य बाष्पप्लुतविलोचनः । कुमारः खेदमेदस्वी चेतस्वीति व्यचि - न्तयत् ॥ ५२१ ॥ विषयार्णवनिर्मग्नं धिग् मामधममङ्गजम् । दुर्दशामीदृशीं येन निन्यिरे जनकादयः ॥ ५२२ ॥ पवित्राः खलु ते पुत्रा ये पित्रोः प्रीतिकारिणः । नाहं पुनस्तयोश्चित्तसन्तापैकनिबन्धनम् ॥ ५२३ ॥ अधुनाऽपि स्वसङ्गत्या प्रमोद्य पितरौ निजौ । मम तच्चरणाम्भोजपरिचर्या हि युज्यते ॥ ५२४ ॥ ततस्तं साकमाकार्य स गत्वा नृपतिं जगौ । ममाहूति| कृते प्रेषि जनोऽयं जनकादिभिः ॥ ५२५ || जनकाद्याश्च विद्यन्ते मद्वियोगेन दुःस्थिताः । धत्ते तत्सङ्गमोत्कण्ठामकुण्ठां तेन मे मनः ॥ ५२६ ॥ अतो मां स्वपुरं गन्तुमनुजानीहि वेगतः । नृपोऽपि तं गृणाति स्म प्रेमपूरकिरा गिरा ॥ ५२७ ॥ वत्स ! व्रजेति वचनं प्रणयप्रहीणं तिष्ठेत्यमङ्गलमवाचि भवेदुपेक्षा । तत्किं ब्रवीमि विमृशाम्यथवा किमाशु प्रीतिं वियोगविधुरौ पितरौ नयस्व ॥ ५२८ ॥ इत्यनुज्ञाय संमान्य दिव्यवस्त्रादिदानतः । कुमारं सह नन्दन्या विससर्ज नरेश्वरः ॥ ५२९ ॥ ततो भार्याचतुष्कादिसमेतः सह कन्थया । खट्टां दिव्यानुभावेन विस्तृतामारुरोह सः ॥ ५३० ॥ स तया सिंह
नवमः प्रकाशः ।
॥ १५३ ॥
Page #315
--------------------------------------------------------------------------
________________
लद्वीपक्रीडोद्यानं क्षणादगात् । ततो जनः पूरोभूय भूपमेवमवर्धयत् ॥ ५३१॥ विषादस्त्यज्यतां देव ! प्रमोदश्च विधीयताम् । चतुष्कान्तादियुक् प्राप्तो यदने नन्दनस्तव ॥ ५३२॥ नृपोऽपि तनयप्राप्तिप्रमोदैरुदरंभरिः । पुरान्तः कारयामास जनरेवं महोत्सवम् ॥ ५३३ ॥ मञ्चाः प्रकृप्तरोमाञ्चाः प्रपञ्च्यन्ते पदे पदे । रम्भास्तम्भाप्तशोभाश्च तोरणाश्चत्वरान्तरे ॥ ५३४ ॥ राजवर्त्मसु दाप्यन्ते कौमाम्भ छटाः स्फुटाः । स्थाने स्थाने वितन्यन्ते स्वस्तिका मौक्तिकालिभिः ॥ ५३५॥ उत्तम्भन्ते समुत्तुङ्गाः पताकाः प्रतिमन्दिरम् । भ्रमद्भमरझङ्काराभिरामाः कुसुमनजः॥ ५३६ ॥ दृशो शैत्यं सृजन नृत्यं कार्यन्ते पुरनायिकाः। मृदङ्गादीनि वाद्यानि वाद्यन्ते गर्जदम्बरम् ॥ ५३७ ॥ रसस्फीतानि गीतानि गायन्ति कुलयो|षितः । वदन्त्युच्चैःस्वरं बन्दिवृन्दानि बिरुदावलीः ॥ ५३८॥ तुरङ्गमादियानानि सज्यन्ते भूषणादिभिः । ब्रजन्ति मन्त्रि-18 सामन्तप्रमुखास्तस्य संमुखम् ॥ ५३९ ॥ इत्युत्सवेष्वतुच्छेषु सितमातपवारणम् । दधन् मूर्ध्नि निजं प्राच्यदानपुण्यमिवोज्वलम् ॥ ५४०॥ चारुचामरयुग्मेन प्रतापश्रीयशःश्रियोः। विलासाय सिताम्भोजयुगेनेव विराजितः॥ ५४१॥ व्यर्थयन्नर्थिनां दौस्थ्यलिपिं प्रार्थितदानतः । खट्वां तामधिरूढाभिः कान्ताभिस्ताभिरन्वितः॥ ५४२ ॥ सिन्धुरस्कन्धमारूढः |कुमारः प्रौढवैभवः । ऋद्धया विस्मापयन् पौरान पितुः प्रासादमासदत् ॥ ५४३ ॥ चतुर्भिः कलापकम् ॥ अथोत्तीर्य गजा
देष हर्षोत्कर्षोन्मिषेक्षणः। आस्थानीमास्थितं भक्त्या प्रणनाम महीपतिम् ॥५४४॥ नृपोऽपि तमभिष्वज्य सुधावरिवो|क्षितः। भाषते स्म प्रमोदाश्रुपल्वलायितलोचनः॥५४५ ॥ अस्मानतीतपदियन्ति दिनानि वत्स! त्वद्विप्रयोगभवदुःख-15 दवानलो यः । त्वत्सङ्गमप्रमदबाष्पजलप्लवोऽयं तं सर्वमेव निरवीवपदद्य सद्यः॥ ५४६ ॥ त्वदर्शनानन्दरसेन नेत्रे सौहि
Page #316
--------------------------------------------------------------------------
________________
नवमः प्रकाशः।
दानप्रदीपे || त्यमत्यन्तमुपागते नः। अथ स्ववृत्तामृतपायनेन पिपासितं प्रीणय कर्णयुग्मम् ॥५४७ ॥ कुमारेऽथ स्ववृत्तोक्तिप्रस्तावे
नमितानने । जनो जगाद तद्वृत्तमादितः सर्वमद्भुतम् ॥ ५४८॥ तदाकर्ण्य नृपः प्रीतविस्मितः सुतरां सुतम् । राज्ये ॥१५४॥
न्ययुक्त धर्म च समाराध्य दिवं ययौ ॥५४९ ॥ अथ सिंहलसिंहभूपतिः पितृसाम्राज्यमहार्यमाश्रितः । दीनादिषु दानमन्वहं तन्वानः स निदानवर्जितम् ॥ ५५० ॥ जिनमन्दिरसुन्दरान्तरां विदधानो वसुधामनारतम् । गृहिधर्ममनन्तशर्मणे चिरमारोधयति स्म शुद्धधीः ॥ ५५१ ॥ प्रपाल्य स श्रावकधर्ममेवं समीयिवांल्लान्तकदेवलोकम् । ततो विदेहेषु गमी स ४ मुक्तिं कर्माणि निर्मूल्य सुहृत्सुरश्च ॥ ५५२ ॥ एवं निशम्य मुनिभेषजदानपुण्यं पूर्वोक्तबन्धुयुगलाद्भुतऋद्धिहेतुम् । तत्रादरं | कुरुत भव्यजनाः! सनापि वृण्वन्ति येन निखिलाः सुखसंपदो वः॥ ५५३ ॥ ॥इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरि
शिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे
पात्रभैषज्यदानफलप्रकाशनो नवमः प्रकाशः ॥ ग्रं०॥५९४ ॥
॥१५४॥
Page #317
--------------------------------------------------------------------------
________________
॥ अथ दशमः प्रकाशः ॥
श्रीवीरः शर्म निर्मातु निर्ममोऽपि द्विजन्मने । दरिद्राय दयार्द्रात्मा देवदूष्यमदत्त यः ॥ १ ॥ अथ वस्त्रप्रदानाख्यो धर्मोपग्रहदानगः । प्रभेदः पुण्यमेदस्वी सप्तमः परिकीर्त्यते ॥ २ ॥ यथा कल्पमनल्पेन भावेन गृहमेधिना । वस्त्रं धर्मो पकारार्थम नगाराय दीयताम् ॥ ३ ॥ न च निर्ग्रन्थतावाधि तद्दानं नोचितं यतेः । तस्य संयमरक्षायै तदनुज्ञा यदागमे ॥ ४ ॥ यदुक्तमोघनिर्युक्तौ चतुर्दशपूर्विश्रीभद्रबाहुप्रणीतायाम् —
"पत्तं पत्ताबंधी पायडवणं च पायकेसरिआ । पडलाई रयत्ताणं गुच्छउ पायनिजोगो ॥ १ ॥”
" तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥ २ ॥” "एए चैव दुवालसमत्तग अइरेगचोलपट्टो अ । एसो उ चउदसविहो उवही पुण थेरकपंमि ॥ ३ ॥” " जिणा बारसरुवाणि थेरा चउदस रूविणो । अजाणं पण्णवीसं तु अउ उ उवग्गहो ॥ ४ ॥” इति ॥ द्विधा धर्मो हि साधूनां सचेलाचेलभेदतः । द्वाविंशतेर्जिनेशानां सचेलः खलु शासने ॥ ५ ॥ मानवर्णाद्यनैयत्यं विशेषं ख्यापयेदिह । सहशब्दो यथा लोके सरूपोऽयमिति स्तुतौ ॥ ६ ॥ ऋजुप्राज्ञा यतो जीवाः समये मध्यमार्हताम् । यथाशुद्धं ततः सर्वे वसनं तेऽन्वमंसत ॥ ७ ॥ धर्मः पूर्वान्त्यतीर्थेशतीर्थे पुनरचेलकः । नञ्शब्दो नाभिधत्तेऽत्र सर्वथा चेलवर्जनम् ॥ ८ ॥ किन्त्वस्य वर्णमानादिनियमं गमयत्ययम् । विभात्यनुदरा कन्येत्यादिवाक्ये यथा जने ॥ ९ ॥ पूर्वे ऋजु| जडा जीवा जडवक्राश्च पश्चिमाः । तत्तीर्थे विहिता तेन वस्त्रादिषु नियन्त्रणा ॥ १० ॥ यदुक्तं केशिगौतमीयोत्तराध्ययने —
Page #318
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १५५ ॥
" अचेलगो अजो धम्मो जो इमो संतरुत्तरो । देसिओ वंद्धमाणेण पासेण य महायसा ॥ १ ॥" " एगकज्जपवन्नाणं विसेसे किन्तु कारणम् । लिङ्गे दुविहे मेहावी कहं विप्पच्चओ न ते ॥ २ ॥ " "केसिमेवं बुवाणं तु गोअमो इणमब्बवी । विन्नाणेण समागम्म धम्मसाहणमिच्छिअं ॥ ३ ॥” "पच्चयत्थं च लोअस्स नाणाविहिविगप्पणम् । जत्तत्थं गहणत्थं च लोगे लिंगप्पओअणं ॥ ४ ॥” इति ॥ जिना विनाऽपि वेषेण वीक्ष्यन्ते ये विभूषिताः । तेऽप्यङ्गीकुर्वते देवदूष्यं दीक्षाक्षणे स्थितेः ॥ ११ ॥ वस्त्रग्रहेण निर्ग्रन्थो न च स्यात्सपरिग्रहः । स्मृता मूर्खेव तत्त्वज्ञैर्यतस्तस्य निबन्धनम् ॥ १२ ॥ यदुक्तं दशवैकालिके— "जं पि वत्थं च पायं वा न सो परिग्गहो वृत्तो"
न च सर्वोपधेस्त्यागो जिनकल्पेऽपि वर्तते । द्वयादिद्वादशान्तो हि तस्मिन्नपि स सम्मतः ॥ १३ ॥ तदुक्तमागमे"दुगतिगच उक्कपणगं नवदसइकारसेव बारसगं । एए अट्ठ विअप्पा जिणकप्पे हुंति उवहिस्व ॥ १ ॥”
ततश्चारित्रिणे वस्त्रं शशाङ्ककिरणोज्ज्वलम् । स्वभोगमलिनं दद्याच्छुद्धं श्रद्धाश्चितः सुधीः ॥ १४ ॥ यत्यर्थं यन्नहि व्यूतं न क्रीतं नापि चाहृतम् । न धौतं नात्तमन्येभ्यस्तद्वस्त्रं शुद्धमभ्यधुः ॥ १५ ॥ जामात्रादिषु वस्त्राद्यं ददते बहवो जनाः । सुपात्रे यः पुनर्दते दातृता तस्य शस्यते ॥ १६ ॥ धन्यास्त एव देवेन्द्रा विनिद्राः सेवनेऽर्हताम् । न्यस्यतो दिव्यवासों से जिना या ननु मन्धते ॥ १७ ॥ शुद्धं संयमिने वस्त्रं वितरंस्तत्त्वतः सुधीः । परिधापयते सम्यक् संयमश्रीकुमारिकाम् ॥ १८ ॥ परिधापनतः प्रीता सा च निर्वृतिदायिनी । तं पाणौकुरुते नूनं तस्मिन्नेष्यति वा भवे ॥ १९ ॥ यतीन्द्राय
दशमः प्रकाशः
॥ १५५ ॥
Page #319
--------------------------------------------------------------------------
________________
प्रदते यः सिचयं रुचिराशयः। प्राप्नोति संपदं प्रौढामयं ध्वजभुजङ्गवत ॥२०॥ तथाहि|४अस्ति स्वस्ति कृतावासः प्रवासः शश्वदश्रियाम् । देशः श्रीमालवो नाम ललामो भरतावनेः॥ २१॥ यो मालव इति | ख्याति कलयन्नपि संततम् । रमाणामाकरश्चित्रमन्तःपृथिवि पप्रथे ॥ २२॥ तत्रास्त्युज्जयिनी नाम पुरीः सर्वाः पुरीः पराः । स्वनाम सार्थयामास या विजित्य निजश्रिया ॥ २३ ॥ अर्थकामावपि स्वस्य निकामं हितकाम्यया । पवित्रीकुर्वते सन्तो यत्र धर्मोपयोगतः ॥ २४ ॥ बभूव संनिधौ तस्या धनधान्यादिऋद्धिभाकू । शालिग्राम इति ग्रामः सधर्मा संपदा पुराम् ॥ २५ ॥ दधिदुग्धमतिस्निग्धं भक्ष्यं चक्षुरसं जनाः। यत्राश्नन्तः कणेहत्य सुधामप्यवमन्वते ॥ २६ ॥ तत्र क्षत्रशिरोरत्नमसपत्नपराक्रमः । निजान्वयगुहासिंहः सिंहपालो भटाग्रणीः॥ २७॥ भार्या तस्य यशोदेवी शीलं रूपश्रिया समम् । मन्दाक्षेण समं दाक्ष्यं दानं प्रियगिरा सह ॥ २८ ॥ गाम्भीर्यमार्जवेनामा विनयः सह विद्यया । यस्यामश्रान्तमत्यन्तप्रीत्येव समगंसत ॥ २९ ॥ युग्मम् ॥ तयोस्त्रिवर्गसंसर्गसुभगं भावुकाः सुखम् । व्यतीयुर्वत्सराः शर्मभासुरा वासरा इव ॥३०॥ अन्येद्युः सा यशोदेवी दिव्यस्वमनिवेदितम् । बिभरामासुषी गर्भ रत्नगर्भेव शेवधिम् ॥ ३१॥ यथाऋतुहिताहारविहारादिपरायणा । सा गर्भ पालयामास स्वजीवितमिवापरम् ॥ ३२ ॥ तस्या हिंसानृतस्तेयादयो गर्भानुभादावतः । बभूवुर्दोहदाः पुण्यद्रोहदाः केचिदादितः॥ ३३ ॥ प्रावर्तत तदप्यस्यास्तनिर्माणेन मानसम् । जिहीते निजमर्यादा
क्षुब्धोऽप्यम्बुनिधिः किमु ॥ ३४ ॥ दयादेवार्चनादीनदानादौ तु प्रसह्य सा । प्रावर्तिष्ट विशिष्टात्मा दुष्टारिष्टनिपिष्टये ॥ ३५॥ ततः पुण्यमयास्तस्या दोहदा उदगुः क्रमात् । यथाऽभ्यासं परीणाम: प्राणिनां हि प्रवर्तते ॥ ३६॥ यथेप्सितं
PRAKASHASASAROKAR
Page #320
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१५६॥
है|च तान् भर्ता दुप्पूरानप्यपूरयत् । स्त्रीणां प्रसेदिवान् प्रेयान् जङ्गमो हि सुरद्रुमः ॥ ३७॥ तिरोहितोऽप्यसौ गर्भादशमः पित्रोः प्रीतिमवीवृधत् । किमिन्दुरभ्रगर्भस्थः सागरं नोत्तरङ्गयेत् ॥ ३८ ॥ प्रासूत समये सूनुमन्यूनशुभलक्षणम् । कृत- प्रकाशः। सूतिगृहोद्योतं रत्नं रत्नखनीव सा ॥ ३९ ॥ विधाय बहुधा स्वच्छमतुच्छं जनुरुत्सवम् । पितरौ राजपालेति नाम तस्य 8 वितेनतुः॥४०॥ प्रतिपद्धिमधामेव वर्धमानः क्रमादयम् । पित्रादिबन्धुदृष्टीनां सुधावृष्टिरिवाभवत् ॥४१॥ अध्यापयदुपाध्यायात् सकलास्तं कलाः पिता । हेनोऽपि घटितस्यैव जनमण्डनता यतः ॥ ४२ ॥ यौवनं जीवनं सर्वयुवतीजनचक्षुषाम् । प्रापुषस्तस्य रूपश्रीः स्मरगर्वमपामुषी ॥ ४३ ॥ औदार्येण समं भेजे वक्षस्तस्य विशालताम् । जाते कन्तविश्रान्ते नेत्रे पितृगिरा समम् ॥ ४४ ॥ कृशतामुदरं तस्य स्मयेन सममानशे । सहैव यशसा बाहुयुगं दीर्घमजायत ॥ ४५ ॥ माहात्म्येन समं नासा तस्योन्नतिमवापुषी । पाणिपादं प्रपेदे च सदिमानं समं गिरा ॥४६॥ तेजसा सममुद्भेद तस्य श्मश्रु समाश्रयत् । भालं च कलयामास विस्तारं प्रज्ञया सह ॥४७॥ अधत्तामधरौ तस्य जनैः सह सरागताम् । विनयेन समं पीनं बभासे चांसयोर्युगम् ॥४८॥ इत्यन्योन्यं कृतस्पर्धाऽनुबन्धे इव बन्धुरे । रूपश्रीगुणसंपच्च तं रङ्गादा-18 लिलिङ्गतुः॥४९॥ भेजुः सौभाग्यसौरभ्यलोलुभा रभसान्न के । तं पद्ममिव निश्छद्मसुहृदः षट्पदा इव ॥५०॥ पुरा
क्रीडादिषु क्रीडां तन्वानः सुहृदन्वितः । स्वैरं विलोकयामास कौतुकानि स नैकथा ॥५१॥ कालेन कियता तस्मिन् | ॥१५६॥ है सङ्गतं खङ्गसङ्गतः। द्यूतव्यसनमादर्श श्यामत्ववदुपाधितः॥५२॥ पीयूषत्विषि लक्ष्मेव कार्पण्यमिव लक्ष्मणे । वाक्पारु
ध्यमिव त्यागे क्षारत्वमिव वारिधौ ॥ ५३ ॥ कुनीतिरिव साम्राज्ये कण्टकित्वमिवाम्बुजे । दोषमुन्मेषयामास कुमारेऽत्र
में नासा तस्योन्नतिमा पपासुदरं तस्य स्मयेन सममान वक्षस्तस्य विशाल
यामास विस्तारं च बदिमानं स यशसा बाहुयुगे
Page #321
--------------------------------------------------------------------------
________________
दा० २७
दुरोदरम् ॥ ५४ ॥ युग्मम् ॥ ही नीचसङ्गतिः सर्वदोषजीवातुरौषधिः । एतया कितवश्चक्रे यदयं गुणवानपि ॥ ५५ ॥ महीयसोऽपि माहात्म्यं हीयते हीन सङ्गतेः । स्यादपेयं न किं वारि वारुणीभाजनस्थितम् ॥ ५६ ॥ दीव्यमानः समं द्यूतकारिभिश्छल चारिभिः । सारं स हारयामास वारंवारमसारधीः ॥ ५७ ॥ पुत्रस्योपेक्षिता तातस्तत्पापेनोपलिप्यते । इति ध्यात्वाऽन्यदा वप्ता तमशिक्षत दक्षधीः ॥ ५८ ॥ वत्स ! स्वच्छमते ! द्यूतं तव सर्वगुणात्मनः । न युज्यते गजस्येव लुठनं पांसुलावन ॥ ५९ ॥ कैतवं जातसङ्केतनिकेतः सकलापदाम् । निःशेषाणां च दोषाणां विख्याता खानिरक्षया ॥ ६० ॥ प्रचण्डतमदोर्दण्डताण्डवास्तेऽपि पाण्डवाः । दुरोदरानुरागेण कं कं नापुः पराभवम् ॥ ६१ ॥ भुञ्जानः प्राज्यमैश्वर्य स धीरललितो नलः । द्यूतेन श्रूयते नीतो दशां श्रवणदुःश्रवाम् ॥ ६२ ॥ तन्मुञ्च कैतवं सर्वकैतवैकनिकेतनम् । महत्त्वमश्रुषे येन वर्धमानं दिने दिने ॥ ६३ ॥ हितशिक्षामिति द्राक्षासदृक्षामपि बीजिना । प्रसह्य ग्राह्यते स्मायं वाजी घृतगुडं यथा ॥ ६४ ॥ कियन्तं समयं चायं जनकस्योपरोधतः । तस्थौ व्यवस्थया सेतुबद्ध सिन्धुप्रवाहवत् ॥ ६५ ॥ प्रावर्तत पुनर्द्यते पूर्वाभ्यासवशादसौ । पानीयं नीयमानं हि न स्यादूर्द्ध चिरं स्थिरम् ॥ ६६ ॥ पित्रा द्विस्त्रिनिषिद्धोऽपि पूर्ववद्धितमिच्छता । स द्यूतं न जहाति स्म व्यसनं हि सुदुस्त्यजम् ॥ ६७ ॥ विपाको नान्यथा कर्त्तुं शक्यते पूर्वकर्मजः । इति निश्चित्य वप्ता तं प्रत्युदास्त प्रशस्तधीः ॥ ६८ ॥ तादृशं व्यसनं सूनोर्निरीक्षितुमिवाक्षमः । सिंहपालो यथाकालं परलोकमुपेयिवान् ॥ ६९ ॥ स कृत्वा पैतृकं कृत्यमातस्थे तदवस्थताम् । यत्राविष्टं मनो यस्य स तत्रैव हि रज्यति ॥ ७० ॥ निर्भरं बिभरामास व्यसनं स पणे तथा । यथा भुक्तवतस्तस्योद्धानः पाणिः पणालये ॥ ७१ ॥ द्यूतेन महिमा तस्य नश्यति।
Page #322
--------------------------------------------------------------------------
________________
दशम: प्रकाशा
दानप्रदीपेम समन्ततः। किमु कजलयोगेन हीयते नावदातता ॥ ७२ ॥ तेनैव व्यसनेनास्य क्रमेण सकलं धनम् । त्रुव्यति स ॥१५७॥
जलं पालिधंसेन सरसो यथा ॥ ७३ ॥ तं जगादान्यदा माता भोक्तुं भवनमागतम् । रन्धनायेन्धनान्यद्य भुक्त्वा वत्स समानय ॥ ७४ ॥ भुक्त्वा सोऽपि समादाय परशुं कानने ययौ । दृष्ट्वा महादुमं तत्र प्रहर्तुं यावदुद्यतः॥७५ ॥ दिविष्ठस्तदधिष्ठाता तावदाचष्ट तं स्फुटम् । मा मा भाजीरिमं वृक्षं महाशय ! ममालयम् ॥ ७६ ॥ इति कर्णसुधां वाचमाक
योत्कर्णिताननः । न्यवृतत् स तरुच्छेदात् पापादिव सदास्तिकः ॥ ७७॥ ततः प्रसन्नतापन्नः साक्षाद्यक्षस्तमाख्यत । |तुष्टवानस्मि ते शिष्ट ! वरं वृणु यथेप्सितम् ॥ ७८ ॥ अहो ! भाग्यमहो! पुण्यमिति संपन्नविस्मयः । सम्यग्भक्तिरथानम्य राजपालस्तमालपत् ॥ ७९ ॥ समग्रमपि साम्राज्यलक्ष्मीभोगसुखादिकम् । सुलभं दुर्लभं त्वेकमवनौ देवदर्शनम् ॥ ८॥ तप्यन्ते शतशस्तपांसि विधिवन्मन्त्रादिकं जप्यते प्राप्यन्ते व्ययमृद्धयः पितृवने कष्टं निशा नीयते । सह्यन्ते | दहनाहुतिप्रभृतयः क्लेशा यदाशापरैर्जातं यन्न मृतेऽपि पुण्यवशतस्तद्देवतादर्शनम् ॥ ८१॥ ततस्त्वदर्शनं देव ! समासाद्य | दुरासदम् । जातवानस्मि सिद्धार्थः कमर्थ प्रार्थये पुनः॥ ८२॥ दर्शनं किल देवस्य न मोघमिति गीयते । प्रार्थयस्व ततो भद्र ! वरं कमपि सत्वरम् ॥ ८३ ॥ इत्युक्तः स पुनस्तेन देवेन ध्यातवानिदम् । न मे व्यसनिनः स्थास्त्र जातमप्यधुना धनम् ॥ ८४॥ ततः कुर्वे वरं न्यासे सम्प्रतीति विचिन्त्य सः। ऊचे यदा स्मरामि त्वां तदा दद्याः स्वदर्शनम् ॥ ८५॥ अमित्युक्त्वा तिरोधत्त सुपर्वा स्वप्नदृष्टवत् । अन्योऽप्यन्यानि काष्ठानि गृहीत्वा गृहमागमत् ॥ ८६॥ दीव्यं स्तथैव सोऽन्येधुः परिधान पणीकृतम् । हारियामासिवान् कस्य नश्यति व्यसनान्न धीः॥ ८७ ॥ ततो देवकुलोत्तीर्ण जीर्ण ध्वज
॥१५७॥
Page #323
--------------------------------------------------------------------------
________________
मवाप्य सः। सततं पर्यधादन्यपरिधानावाप्तितः॥८८॥ अथ ध्वजभुजङ्गेति गीयते स्म जनैरसौ। आख्या खलु मनुप्याणां व्यापारस्यानुसारिणी ॥ ८९ ॥ द्युम्नं निर्गमयामास कैतवेन न केवलम् । धर्मशर्मगुणख्यातिनामान्यपि स मूलतः ॥९० ॥ जज्ञे तस्य तथोन्निद्रं दारियं धृतदेविनः । यथाऽदनेऽपि संदेहस्तद्गहे समपद्यत ॥ ९१ ॥ अन्यदा जननी तस्य पचनीयाद्ययोगतः। न पाकं रचयामास कार्य नाकारणं यतः॥९२ ॥ जीर्णध्वजांशुकं घृष्टनखं पाण्डुरपाणिकम् । कुल
स्येव कलङ्क तं भुक्तये गृहमागतम् ॥ ९३ ॥ अश्मन्तमन्तराखेलिमूषकं च निरीक्ष्य सा। विषादविवशा सूनुं न्यगदद्गद्गसदस्वरा ॥ ९४ ॥ युग्मम् ॥ कोऽयं त्वया ददे द्यूतदवाग्निः कुलकानने । फलदा धर्मकामार्था येनादह्यन्त मूलतः॥ ९५॥15
अभूत्तवपिता पुत्र ! परेषामुदरंभरिः । तव तु स्वोदरस्यापि भरणे न प्रभूष्णुता ॥ ९६॥ सर्वेष्वप्यधिकारेषु दधौ ग्रामे प्रधानताम् । पिता ते न तु कोऽपि त्वां वीक्षतेऽपि पुरःस्थितम् ॥ ९७॥ पितुः कीर्ति च वित्तं च वर्धयन्ति परे सुताः। त्वया तु तद्वयं लुप्तमहो! तव सुपुत्रता ॥ ९८ ॥ स्वर्णाद्याभरणैरन्ये भूषयन्ति स्वमातरम् । त्वं तु धूतवशात्तस्यास्तानि सर्वाण्यहारयत् ॥ ९९ ॥ जातस्त्वं सकलज्ञातिचित्तसंतापकारणम् । तनयः सवितुस्तस्य शनिर्दिनमणेरिव ॥ १०॥ द्यूतेनानुदिनं हानि नीयमानैरपि त्वया । निर्वाहस्ते पितृद्युम्नरद्य यावदजायत ॥ १०१॥ तव चित्तमहोरात्रं रक्तं यत्र पणालये । किं न गच्छसि रे कुत्स्य ! भोक्तुं तत्रैव निस्त्रप! ॥ १०२ ॥ इति निर्भर्सितो मात्रा त्रपया नमिताननः । विषण्णो म्लानतामाप हिमानीदूनपद्मवत् ॥ १०३ ॥ ततस्तदैव स त्यक्त्वा मन्दिरं खेदमेदुरः। फलादिविहिताहारःप्रापदुज्जयिनी पुरीम् ॥ १०४॥ तत्रापि द्विवरात्रेण प्रावर्तत तथैव सः। जन्तुना कर्मवात्या हि तृणेनेवानुगम्यते ॥ १०५॥ तथाऽपि
Page #324
--------------------------------------------------------------------------
________________
दशमः प्रकाशः।
दानप्रदीपेद्यूतसध्रीचश्चौर्यक्रौर्यानृतादयः । अमुं नाशिश्लिषुर्दोषाः कर्मणो हि विचित्रता ॥ १०६ ॥ दीव्यन्नगण्यमन्येद्युः सारं हार
यति स्म सः। द्यूते हारिधुरीणा हि जय एव दुरासदः॥१०७ ॥ अथायमधमर्णत्वाद्याचितः कितवैर्धनम् । सर्वथा निर्ध॥१५८॥
नत्वेन न प्रदातुमपारयत् ॥१०८॥ दुष्कर्मभ्य इव स्वस्य ततस्तेभ्यः पलाय्य सः। भीतो देवकुले क्वापि सरःपाली न्यलीयत ॥ १०९॥ परीतो बहुभिः पृष्ठ्यै महो नाम सार्थपः। प्रणुन्न इव तत्पुण्यैस्तत्तटाकं तदागमत् ॥ ११०॥ पायं पायं जलं पृष्ट्याः पुरतः प्रस्थिताः पथि । तेष्वेकः पातयामास गोणीमन्तःसरोजलम् ॥१११॥ विना ध्वजभुजङ्गेन तहु-15 कर्मावलीमिव । भ्रंशमानां ततस्तां च पश्यति स्म न कश्चन ॥११२॥ कथं द्रव्यं मया देयमेतेभ्य इति चिन्तया । दिशो विलोकमानस्तु स वीक्षामास तां तथा ॥ ११३ ॥ अथ सार्थपतिर्धष्टगोणीकं वीक्ष्य तं वृषम् । विषादविवशो नष्टजीवितव्य इवाभवत् ॥ ११४ ॥ जनैः समं व्यलोकिष्ट तामसौ सर्वतः सरः। न पुनः प्राप कुत्रापि हस्तच्युतसुवर्णवत् ॥ ११५ ॥ भ्रमन्नितस्ततः शून्यमानसः सार्थनायकः । तत्रान्तिकस्थमालोक्य पृच्छति स्म तमादरात् ॥ ११६ ॥ व्यलो
क्यत महाभाग ! गोणी पृष्ट्यस्य पृष्ठतः । केनाऽपि हियमाणा वा पतन्ती वा क्वचित्त्वया॥११७ ॥ सकला सा हि सौवलादीनारपरिपूरिता । सर्वस्वमस्ति सार्थस्य जीवितव्यमिवापरम् ॥११८ ॥ तां विना सकलः सार्थः सपद्यपि विपद्यते । * अर्थो हि प्रथमे प्राणाः प्रथिताः प्राणिनां यतः॥ ११९ ॥ ततो भद्र ! त्वमस्याश्चेत् सद्भावमवबुध्यसे । तदा मा समा
चश्व सन्तः परहिता यतः॥१२०॥ इति सामगिरा पृष्टस्तेनायं मुमुदेतमाम् । परद्रोहादिकं पापं नूनं तेने मया पुरा ॥ १२१ ॥ ईदृशी दुरवस्था मां मन्थाति कथमन्यथा । सम्प्रत्यपि कथंकारं तत्कुकमें विनिममे ॥ १२२॥ न चास्य वञ्चने
SAUSASSES
Page #325
--------------------------------------------------------------------------
________________
BASI
द्रोहकृतमेव भवेदघम् । सर्वसार्थनृणां प्राणप्रहाणजमपि स्फुटम् ॥ १२३ ॥ किश्च न्यायार्जितं वित्तं पैतृक निरजीगमम् ।। अन्यायोपात्तमेतत्तु कथं स्थाता मदन्तिके ॥ १२४ ॥ इति निश्चित्य चेतस्वी समीचीनमुवाच सः । दारिद्येऽपि परद्रोहं | नाद्रियन्ते हितैषिणः ॥ १२५ ॥ सार्थेश ! तव सा गोणी पृष्ठ्येन पिबता जलम् । अन्तःसरः प्रदेशेऽत्र पातितास्ति विलो-18 कय ॥ १२६ ॥ एवं तद्वाक्यमापीय पीयूषमिव हर्षितः । तस्माच्चकर्ष सार्थेशस्तामति च स्वचित्ततः ॥ १२७ ॥ अथाधिगतगोणीकस्तमुपागत्य सार्थपः। देहे मुदमिवामान्तीं गिरमुद्रिति स्म सः॥ १२८ ॥ अहो ! निर्लोभता काऽपि भाति ते 2 भुवनाद्भुता। यदेतादृशि दौःस्थ्येऽपि न ते द्रोहमयी मतिः॥ १२९ ॥ परोपकारिता शस्या कस्यासौ नहि तावकी। गुणैकग्रासकेनापि या न लोभेन जग्रसे ॥१३०॥ शोषं श्रयेत सरितां कमिता भजेत शैत्यं हुताश उदयेत रविः प्रती
च्याम् । कम्पेत दैवतगिरिन तु जातु सन्तः प्राणात्ययेऽपि परवश्चनमाचरन्ति ॥ १३१ ॥ अस्मान् दर्शयता नूनं गोणी| * गुणनिधे ! त्वया । प्रथमा महतां पतौ निजा रेखाऽपि दर्शिता ॥ १३२॥ न केवलं त्वयाऽस्माकं ददे गोणी गुणीश्वर!18
तदेकायत्तवृत्तीनां जीवितव्यमपि स्फुटम् ॥ १३३ ॥ तदेवं भवते पूर्वमुपकारं वितेनुषे । न मे भवति सर्वस्वं ददानस्याप्यपर्णता ॥ १३४ ॥ तथाऽपि चित्तनिवृत्यै त्वां प्रत्युपचिकीरहम् । उन्मूलिता समूलं स्यादन्यथा हि कृतज्ञता ॥ १३५॥ तदेतस्या गृहाणार्ध दीनाराणां मुदे मम । एवं ह्यनुगृहीतः स्यां त्वया सौहार्दशालिना ॥१३६ ॥ ततो ध्वजभुजङ्गस्तं | सगौरवमिदं जगौ । जातवानस्मि सार्थेश ! सिद्धार्थस्तव मानतः॥ १३७ ॥ परोपकार पुण्यमगण्यमविनश्वरम् । मुक्त्वा सहानुगं गृहे कथमर्थमतादृशम् ॥ १३८ ॥ कतरं यदि वाकार्षमुपकारमहं तव । त्वयाऽधमर्णता स्वस्य यदेवमभिधीयते |
AGRAA
SARS
Page #326
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१५९॥
दशमः प्रकाशन
&॥१३९ ॥ इयं दौनारगोणी ही तव पुण्यैरलभ्यत । जज्ञे मम पुनर्धन्य ! तत्र दर्शकमात्रता ॥ १४०॥ मयि हीनेऽप्य-
सीमानं सम्मानं तन्वता त्वया । एतस्याप्युपकारस्य चक्राणः किं न निष्क्रयः॥ १४१॥ किं च द्यूतप्रसक्तस्य प्रत्तमण्यमितं धनम् । पानीयमिव न स्थास्तु शये मम महाशय !॥ १४२ ॥ ततो द्रव्यमिदं नैव भवदीयमुपाददे । खया समं समं कालं प्रीतिरेवास्तु वास्तवी ॥ १४३ ॥ अथास्य दुःस्थितस्यापि संतोषं वीक्ष्य हर्षितः। पप्रच्छ स्वच्छधीः सार्थनाथः प्रथितसौहृदः ॥ १४४ ॥ कस्त्वं कुत्र च वास्तव्यः कुतस्तव ददृशी । चिरं तिष्ठसि दुःखीव वद केनात्र हेतुना ॥ १४५॥ इत्युक्तः स जगौ सम्यक सर्व स्वोदन्तमादितः । सौहार्द हि प्रपेदाने मृषोधं न निवेद्यते ॥ १४६ ॥ अहो! नै स्वेऽप्यनीहत्वमस्येति हृदि विस्मितः । तद्दानेऽभ्यर्थयामास सार्थेशस्तमथो पुनः ॥ १४७॥ गोणीयं वालनक्रीती त्वदीया सकलाऽप्यभूत् । ततस्तदर्धमादातुं निषेधः किं विधीयते ॥ १४८॥ इत्थं भूयोऽर्थ्यमानोऽपि नाददे तदसौ सुधीः। महान्तः परवित्ते हि दौर्गत्येऽपि गतस्पृहाः ॥ १४९ ॥ ततो निर्लोभतां तस्मिन्निभाल्य भुवनामृताम् । भामहः प्रेम निस्सीम भेजे रज्येन्न कस्तथा ॥ १५० ॥ प्रमोदादुपदां तस्मै चकार स उदारधीः । मणिस्वर्णमयं पट्ट रनसारिविराजितम् ॥ १५१॥ स च ध्वजभुजङ्गेन जगृहे तढाग्रहात् । स्वभावादेव दाक्षिण्यमगण्यं हि महात्मनाम् ॥ १५२॥ चित्ते च चिन्तयामास तमादाय महाशयः। दिनमेकमपि स्थाता नायं मे यतदेविनः ॥ १५३ ॥ तदनेन महापुंसः कस्याप्युपकृतिर्मम । विधातुमुचिता सैव जीवितं हि विपश्चिताम् ॥ १५४ ॥ एवं मनसि कृत्यासौ प्रश्नयामास भामहम् । कुत्र नीवृति युष्माकं प्रस्थातुमयमुद्यमः ॥ १५५ ॥ सोऽप्यमुं कथयामास व्यवसायविधित्सया । प्रयातुमुद्यतो दक्ष ! दक्षिणस्यामहं दिशि
भुवनामृतामसारिविराजचिन्तयामा
॥१५९॥
%25
Page #327
--------------------------------------------------------------------------
________________
४॥ १५६ ॥ प्रोचे ध्वनभुजङ्गेन तर्हि तत्र महीभुजे । मदीयमुपदीकार्यमिदं पट्टादिकं त्वया ॥ १५७ ॥ अहो! परोपकार
कसारताऽस्य गरीयसी। दौःस्थ्येऽपीत्यथ सार्थेशः सविशेष विसिष्मिये ॥ १५८ ॥ त्वयाऽपि प्रतिपत्तव्यं वचनं मम |किश्चन । इत्युक्त्वा पट्टमादत्त प्रदातुं तत्र सार्थपः ॥ १५९ ॥ अनिच्छतेऽप्यतुच्छात्मा तस्मै कतिपयं धनम् । प्रसह्य चाप-1 यामास प्रीतिवड्याः फलं ह्यदः॥१६०॥ अथ सार्थपतिश्चित्ते सुस्थितः प्रस्थितः पुरः। हर्षात् संप्रेष्य तं सोऽपि पुरान्तःप्राप निर्भयः॥१६१॥ तत्र स्वं तेन वित्तेन स प्राप यदपर्णताम् । धारयन्ति न संपत्तौ ऋणं खलु मनीषिणः॥१६२ ॥ हर्षेण प्रेषते स्मैष जनन्याश्च धनं कियत् । त एव हि सुता मातुर्दोगत्येऽपि स्मरन्ति ये ॥१६३ ॥ स्थितस्तत्रैव स द्यूतं रममाणो|ऽन्तरान्तरा । निनाय समयं पुण्यविपाकं तु प्रतीक्षितुम् ॥ १६४ ॥ इतश्च प्रस्थितः सार्थपतिः कतिपयैर्दिनैः । अपाचीशः पुरी प्रापदरिमर्दनभूभुजः॥ १६५॥ आस्थानीमास्थितं पृथ्वीपतिं प्राभूतपूर्वकम् । स ननाम नृपोऽप्येनं यथार्ह सममानयत् ॥ १६६॥सच सारियुतं पट्ट भूभुजे तमढौकयत् । मूर्त ध्वजभुजङ्गस्य भक्तिरागमिवोज्वलम् ॥ १६७॥ ऊचे च देवपादानामुज्जयिन्यां निवासिना । प्रैषि ध्वजभुजङ्गेन कुमारेणोपदा मुदा ॥१६८॥ दर्श दर्श मणिस्वर्णमयं तं पट्टमहृतम् । भूपः सर्वेऽपि सभ्याश्च परमाश्चर्यमाययुः॥ १६९ ॥ अथासौ विस्मयोद्वेलपयोधिलहरीमिव । पर्षदध्यक्षमाचख्यौ हर्षतः मापतिर्गिरम् ॥ १७ ॥ अहो ! उत्तमता तस्य कस्य नो विस्मयावहा । यदेष प्रैषतेदृक्षं प्राभृतं मग्यवीक्षिते ॥ १७१॥ न स्वाजन्यं न संलापं न प्रेम न च दर्शनम् । अपेक्षन्ते महान्तोऽन्योपकारे वारिदा इव ॥ १७२ ॥ सतां या श्रूयते शास्त्रे सर्वत्राप्युपकारिता । सत्यां प्रत्याययामास तामद्य स महाशयः॥ १७३ ॥ तस्याकृत्रिममैव्यस्य पूर्वमित्युप
Page #328
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१६०॥
1
चषः । सर्वसाम्राज्यदानेऽपि नाहमानृण्यमनुवे ॥ १७४ ॥ तथाऽपि तत्कृते चित्तहृत्तये मत्तदन्तिनाम् । शतानि पञ्च सार्थेश ! त्वत्सार्थे प्रेषितास्म्यहम् ॥ १७५ ॥ तदमी दन्तिनो नेया भवता प्रतिगच्छता । इत्युक्त्वा सत्कृतं भूपः सुस्थाने तमतिष्ठित् ॥ १७६ ॥ कालं कियन्तं तत्राथ क्रयविक्रयिकामयम् । सुखं चक्रे महीशक्रप्रसत्तिप्राप्तविक्रमः ॥ १७७ ॥ | सार्थपः सोऽथ सिद्धार्थः प्रज्ञाप्य पृथिवीपतिम् । दन्तीन्द्रांस्तानुपादाय व्यावर्त्तत गृहं प्रति ॥ १७८ ॥ अहो ध्वजभुजङ्गस्य भाग्यवैभवमद्भुतम् । हस्तिपश्ञ्चशतीं यस्मै हर्षतः प्रेषते नृपः ॥ १७९ ॥ अहो ! परोपकारः कोऽध्यपूर्वः कल्पपादपः । फलं फलति तत्कालं योऽचिन्तितमपीदृशम् ॥ १८० ॥ इति चित्रीथितस्वान्तः स्मरस्तं मित्रमन्वहम् । दिनैः कतिपयैः प्राप पुरीमुज्जयिनीमसौ ॥ १८१ ॥ जनादाकर्ण्य सार्थेशमागच्छन्तमतुच्छधीः । जगाम संमुखं सोऽपि कुमारः स्फारसंमदः ॥ १८२ ॥ तावुभावपि दूरेऽपि परस्परनिरीक्षणे । पितापुत्राविव प्रीत्योल्लासमासेदतुस्तमाम् ॥ १८३ ॥ प्रमोदेन तदाऽन्योन्यगाढालिङ्गनसङ्गतौ । अविन्दतां न तौ भेदं देहयोर्मनसोरिव ॥ १८४ ॥ क्षेमपृच्छादिरालापः प्रावर्तत मिथस्तयोः । | सन्तो विधातुमौचित्यं सर्वत्रावहिता यतः ॥ १८५ ॥ अथ स्वं सार्थमावास्य सरसस्तस्य पार्श्वतः । केणिकायां समाकार्य सार्थे शस्तमचीकथत् ॥ ९८६ ॥ तं सोपकरणं पट्टे प्राभृतं प्रहितं त्वया । दक्षिणापथनाथाय ढौकयामासिवानहम् ॥ १८७॥ ततस्तेन गरीयांसं प्रसादमुपसेदुषा । हस्तिपञ्चशतीयं ते प्राहीयत महीयसा ॥ १८८ ॥ महानुभाग ! भाग्यानि तवाभङ्गानि जाग्रति । प्रजिघाय यतस्तुभ्यं भूपः पञ्चशत द्विपान् ॥ १८९ ॥ प्रायः सर्वे परे धर्माः फलन्ति हि भवान्तरे । फलं परोपकारस्तु सद्यो दद्यादिहाऽप्यहो ? ॥ १९० ॥ युक्तं ते संपदः सद्यः संपद्यन्ते स्वयंवराः । यत्तवेद्दशदौर्गत्येऽप्युपकार
दशमः प्रकाशः ।
॥१६०॥
Page #329
--------------------------------------------------------------------------
________________
9A%%%
4545455555453
परा मतिः॥ १९१॥ प्राणत्यागो व्रतस्येव शीर्यस्येव महाहवः। कषपट्टः परीक्षायामुपकारस्य दुःस्थता ॥ १९२॥ एभिः। शभैरिभ राज्यमर्जितं भुज्यतां त्वया । यतः साम्राज्यसंपत्त्यै प्रभुरेकोऽप्यनेकपः ॥ १९३ ॥ अथ पञ्चशतीहस्तिप्राप्तिप्रमु|दिताशयः। कुमारः प्रेमविस्तारतारमेवमुवाच तम् ॥ १९४ ॥ अहो ! उदारता तस्य दृश्यतां काऽपि भूपते। पट्टमात्रात् प्रतिप्रैषीदियतो यो द्विपान् मम ॥ १९५॥ उदारचित्ता हि कृतोपकारादाधिक्यतः प्रत्युपकुर्वतेऽन्यम् । महाद्रुमाः पश्य ततो यतोऽपि यच्छन्त्यतुच्छानि फलानि पुंसाम् ॥ १९६ ॥ किञ्च संपदियं यन्मे महिमा स तु तावकः । अम्भोजस्य
हि या शोभा स प्रभाव प्रभापतेः॥१९७ ॥ महीभुजा गजानेतांस्तेन प्रेरणा प्रहिण्वता । कथङ्कारं दुरन्तां ही निन्येऽx ४ हमधमर्णताम् ॥ १९८॥ न च प्रत्युपकारेण राज्ञस्तस्य दवीयसः । आत्मानमनृणीकर्तुमलङ्कर्मीणता मम ॥ १९९॥
प्रतिप्रेषयितं तस्मै शक्तिर्नापि द्विपान्मम । स्वयं च स्थापनेऽमीषां यावज्जीवमृणं भवेत् ॥२०॥ तदेतैरपि मे युक्ता कर्तु कस्याप्युपक्रिया । सारं तदेव सारं हि येनोपक्रियते परः॥२०१॥ सालः फलेन जलदः सलिलेन शुक्तिर्मुक्काफ-18 लेन धरणी कणधोरणीभिः। निश्चेतना यदि परोपकृतौ प्रसक्ता मत्येस्त दा न कथमस्तु सचेतनो यः॥२०२॥ एवं विचार्य चेतस्वी कुमारः माह भामहम् । अतः परं पुनः कुत्र प्रस्थातुं त्वमुपस्थितः॥२०३ ॥ कन्यकुजपुरे गन्तास्मीति प्रत्याह भामहः । तदुच्यतां पुरे तत्र कः प्रधानं विशेषतः॥२०४॥ इति तेन पुनः पृष्टः स्पष्टमाचष्ट सार्थपः । महेभ्याः सन्ति भूयांसस्तत्र श्रीदसमश्रियः ॥ २०५॥ परं निरुपमागण्यलावण्यरसवाहिनी । अस्ति पण्याङ्गना देवदत्ता या भूषणं |पुरः॥ २०६॥ देवैनमियं देवी दीयते स्म मुदे नृणाम् । इतीव सान्वयं नाम यस्या गायन्ति नागराः॥२०७॥ सर्वा
ARREARCANESS
Page #330
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १६१ ॥
ङ्गगुणनिर्माणविद्विषः खलु वेधसः । जज्ञे घुणाक्षरन्यायादेषा दोषैरदूषिता ॥ २०८ ॥ निभालयन्तः सौभाग्यं तस्यास्त्रिभुवनाद्भुतम् । सुरस्त्रैणं तृणायापि मन्यन्ते नहि कामिनः ॥ २०९ ॥ चातुर्यादिगुणौघेन तस्याः सौभाग्यवैभवम् । भूष्यते स्म विशेषेण सुवर्ण मणिना यथा ॥ २१० ॥ भेजे या नीचवंश्याऽपि सदाचारैकचारुताम् । पद्मिनी पङ्कजाताऽपि नैर्मल्यं किमु नाश्रिता ॥ २११ ॥ तस्याः कुटिलता केशपाशे तरलता दृशोः । मुखे दोषाकरत्वं च नान्यथा सर्वथा पुनः ॥ २१२ ॥ दोषांश्चापल्य कौटिल्यदौः शील्या स्नेहतादिमान् । त्यजन्ती निजजातेः साऽपकीर्तिमुदतीतरत् ॥ २१३ ॥ इत्यस्याश्चरितं चेतश्चमत्कारैककारणम् । निशम्य विस्मितः स्माह कुमारः सार्थपं पुनः ॥ २१४ ॥ रमणीषु शिरोमण्यै ग्रामण्ये गुणशालिनाम् । मदीया दन्तिनस्तस्यै ढौकितव्या इमे त्वया ॥ २१५ ॥ शक्तः परोपकारे हि मादृशोऽपि त्वदाश्रयात् । नभःपारीणतामेति मृगः किं नेन्दुमाश्रितः ॥ २१६ ॥ ततस्तदुपकारित्वनिःस्पृहत्वादिविस्मितः । साथैशः प्रथितानन्दं तदुक्तं प्रत्यपद्यत ॥ २१७ ॥ अथ तेन कुमारेणानुगतः कियतीं भुवम् । हस्तिनस्तानुरीकृत्य प्रतस्थे सार्थनायकः ॥ २१८ ॥ कन्यकुलपुरं प्रापदल्पेन समयेन सः । अत्रान्तरे च यत्तत्र प्रवृत्तं तन्निशम्यताम् ॥ २१९ ॥ एकदा तत्र भूपालः पणीकृतमतङ्गजम् । तया गणिकया साकं दीव्यति स्म दुरोदरम् ॥ २२० ॥ क्रमेण हारयामास हस्तिपञ्चशतीं च सा । आढ्यत्वेऽपि च तां दातुं नाशकत्तदसत्त्वतः ॥ २२१ ॥ दीयमानं तया द्युम्नं नादत्ते तदवक्रयम् । भूपस्तद्रूपलुब्धात्मा यतस्तां स्वीचिकीर्षिति ॥ २२२ ॥ शतानि दन्तिनः पञ्च न मे यावत्प्रवेशिताः । तावदायत्तया भाव्यं ममैव सुतनो ! त्वया ॥ २२३ ॥ न च कस्यचिदन्यस्य ग्रहीतव्या भृतिस्त्वया । एवं नृपोऽधमर्णत्वाद्वाग्बन्धं तामजिग्रहत् ॥ २२४ ॥ दुरपास्यं
1
दशमः प्रकाशः ।
॥ १६१ ॥
Page #331
--------------------------------------------------------------------------
________________
ततः पारवश्यं शल्यमिवान्वहम् । सत्यव्रता वहन्ती सा खिद्यते स्म दिवानिशम् ।। २२५ ॥ अत्र चावसरे प्राप्तस्तस्याः पुण्यविपाकतः । तस्यै समर्पयामास सार्थपस्ताननेकपान् ॥ २२६ ॥ अमी ध्वजभुजङ्गेन कुमारेण गुणांस्तव । श्रुत्वा मुदितचित्तेन प्राहीयन्तेत्युवाच च ॥ २२७ ॥ सप्रमोदः समासेदे तानासाद्य तदा तया । यदग्रतस्तृणं मेरुः समुद्रोऽपि च गोष्पदम् ॥ २२८॥ यथावसरमायातश्चुलुकोऽपि हि वारिणः । अमितां प्रीतिमाधत्ते किं पुनः करिणां शताः ॥ २२९ ॥ ततो हर्षवशावेशविकस्वरविलोचना । जगाद गणिका कोऽसौ कुमारः कीदृशश्च सः ॥ २३० ॥ अथ सााग्रणीः सम्यक | स्वरूपं तामजिज्ञपत् । तस्य जातिस्थितिद्यूतसर्वाद्भुतगुणादिकम् ॥ २३१॥ इयतां हस्तिनां प्राप्तिः कुतस्तस्येति वेश्यया ।
|पुनः पृष्टः स आचष्ट स्पष्टं तद्वत्तमादितः ॥ २३२ ॥ अथ कर्णातिथीभूतैरौदार्यादिभिरद्भुतैः । तद्गुणै रञ्जितस्वान्ता तं ||जगी गणिकाग्रणी ॥ २३३ ॥ हस्तिपञ्चशती द्यूते विजित्य जगतीभुजा । नीत्वाऽधमर्णतामेवं सङ्कटे पातिताऽस्म्यहम् M॥२३४ ॥ ततो मम निमजन्त्याश्चिन्ताम्भोधौ गतावधौ । हस्तिनः प्रेषयन्नेष जज्ञे हस्तावलम्बनम् ॥ २३५ ॥ अहो!
उदारता तस्य जने नीचेऽप्यसंस्तुते । लीलया प्रेषयामास दन्तीन्द्रानियतोऽपि यः॥ २३६ ।। वडवाग्निसमानाः स्युरुद
रंभरयो न के। पर्जन्यवत्स एवैकः परार्थंकपरः पुनः॥ २३७ ॥ धरन्ति धरणीभारं शेषाद्याः ख्यातिरेव सा । स्थूललदिक्षास्तु ताहक्षा महान्तः परमार्थतः ॥ २३८ ॥ अहो ! कथमदृष्टोऽपि स इत्थं मामुपाकृत । अभ्रच्छन्नोऽथवा भानुः किं
न प्रीणाति पद्मिनीम् ॥ २३९ ॥ तदस्मै महते हेतुं विनैवेत्युपचक्रुषे । दत्ते वित्ते प्रभूतेऽपि मम न स्यादपर्णता ॥ २४०॥ समापिपं ततस्तस्मै प्राणानेव निजानहम् । प्राणदानं प्रधानं हि सर्वस्मादपि दानतः॥ २४१॥ यावज्जीवमतस्तेषां स
Page #332
--------------------------------------------------------------------------
________________
दानप्रदीपे
दशम: प्रकाशः।
॥१६२॥
एवैकः पतिर्गतिः। यथा वल्ली प्ररोहाणामुपकर्ता महीरुहः॥ २४२॥ एकशो निजकिकाः परिचर्यामवेक्षितुम् । स सद्यः स्वपदाम्भोजैः पूज्यो यमपि त्वया ॥ २४३ ॥ इति संदेशसध्रीची तस्मै विज्ञप्तिपत्रिका । प्रेष्यमाणा मया भक्त्या त्वया ग्राह्यानुगच्छता ॥ २४४ ॥ इत्युक्त्वा चारुचीराद्यै स्तं सद्यः सच्चकार सा । पत्यौ सत्या तदा भक्तिस्तत्सुहृद्यपि सा यदि ॥ २४५॥ ततस्तदैव भूभर्तुरनेकपसमर्पणात् । साऽऽत्मानमनृणीकृत्य वाग्बन्धाब्धिमतीतरत् ॥ २४६ ॥ एते त्वया कुतः प्राप्ता इति पृष्टा जगाद सा । राजन् ! ध्वजभुजङ्गेन मह्यं प्रीत्या प्रजिध्यिरे ॥ २४७ ॥ नितान्तमवनीकान्तस्तन्निशम्य विसिष्मिये । तादृश्युदारता कस्य निर्मिमीते न विस्मयम् ॥ २४८ ॥ वारंवारं कुमारं तं स्मारं स्मारं स्मरातुरा । अथात्वरिष्ट सा द्रष्टुं रथाङ्गीव निशि प्रियम् ॥ २४९ ॥ न दुकूलं न ताम्बूलं न स्नानं न विलेपनम् । न गीतं न च संगीतं तं विना तन्मुदेऽभवत् ॥ २५० ॥न परं तं विना शून्यं पूर्ण द्रव्यैः स्वमन्दिरम् । अमस्त साद्भुताकारकुमारं पुरमप्यदः ४॥ २५१ ॥ परोपकारस्य महानुभावता निभाल्यतां काऽप्यनिभा सभासदः। यतः पणत्यप्यनुरागमान्तरं बभारतस्मिन्नविलोकितेऽप्यसौ ॥ २५२ ॥ अथ सार्थेशसार्थे सा लेखं प्रैषत हर्षतः । तस्मै स्वयं विवाहस्य सत्यङ्कारमिव स्फुटम् ॥२५३ ॥ तमुपादाय सार्थेशः कृतार्थक्रयविक्रयः। प्रस्थितः क्रमतः प्राप पुनरुज्जयिनी पुरीम् ॥ २५४ ॥ तत्र ध्वजभुजङ्गस्य मिलितः प्रीतिपूर्वकम् । सार्थेशः करिदानाचं वृत्तान्तं व्यक्तमुक्तवान् ॥२५५॥ त्वदीयेनोपकारेण धनसारेण हारिणा। मानसं वासयामाहे तथा तस्याः समन्ततः ॥ २५६ ॥ नृपाद्यन्ययुवारब्धा प्रवृद्धा वासनास्ततः। निर्मूलं सकलाः सद्यो यथा दूरमपासरत् ॥ २५७ ॥ त्वयि स्नेहातिरेकेण तया मह्यं समर्पितम् । दुकूलादिमहादानं निजनेत्रैः पवित्रय ॥ २५८ ॥
सभासदः!
सा लेख
शकृतार्थक्रया
॥१६२॥
Page #333
--------------------------------------------------------------------------
________________
तत्र त्वदागमोत्कण्ठामकुण्ठां हृदि बिभ्रती । प्रेषयामास ते लेखं सुमुखी सा स्वहर्षतः ॥ २५९ ॥ एवमाख्याय तं लेखमर्पयामास भामहः । कुमारोऽपि प्रमोदेन वाचयामास तद्यथा ॥ २६० ॥ स्वस्ति स्वामिक्रमाम्भोजराजिन्युज्जयिनीपुरे । पूज्यध्वजभुजङ्गाख्यभर्तृपादान दुरासदान् ॥ २६१॥ कन्यकुनपुरादेषा देविला स्नेहलाशया। विज्ञापयति भालस्थस्वकरा तव किङ्करी ॥ २६२ ॥ अत्रास्ति कुशलं तत्रभवत्पादप्रसादतः। निजं क्षेमाद्यमावेधमथ कार्य निवेद्यते ॥ २६३ ॥ आधमर्ण्यमहं निन्ये त्वयैवमुपकुर्वता । यथा सर्वार्थदानेऽपि नाथ ! नापर्णतां श्रये ॥ २६४ ॥ तत्तवोपकृतिक्रीती नेतर्जाताऽस्मि किङ्करी । शरणं हि ऋणाधिक्ये न परं भृत्यतामृते ॥ २६५ ॥ यथा रथाङ्गी रजनौ रथाङ्गं यथा मयूरी नववारिवाहम् । यथा चकोरी शशिनं तथेश! विलोकितुं त्वामहमुत्सुकाये ॥ २६६ ॥ तदैव सफलं देव ! जीवितं यौवनं च मे । त्वत्सङ्गममहारङ्गसुभगं भावुकं यदा ॥ २६७ ॥ त्वां विना शून्यमुद्यानं शुन्यमेतनिकेतनम् । दिशः शून्या मनः शून्यं शून्याद्वैतं समस्ति मे ॥ २६८॥ विलेपनाशनस्नानहास्यलास्योत्सवादिकम् ।सुभग ! त्वद्वियोगेन निखिलं मे विषायते ॥ २६९ ॥ त्वद्वियोगकृतं दुःखं त्वयि दृष्टे विलीयते । भुवो ग्रीष्मभवो धर्मो घनेनैव हि शाम्यति ॥ २७० ॥ ततो देव ! निजप्रेष्यां त्वदेकायत्तजीविताम् । प्रसद्यागम्यतां सद्यः संभाषयितुमत्र माम् ॥ २७१॥ पिपासिते मम दृशौ त्वल्लावण्यसुधारसम् । पायं पायं यथा धत्तः सौहित्यमिति मङ्गलम् ॥ २७२ ॥ इति तल्लेखमुल्लेखि हर्षरोमाञ्चकञ्चकः । वाचं वाचं वचस्वी स सविस्मयमवोचत ॥ २७३ ॥ अहो ! तस्याः सुसौजन्यमहो! प्रेमप्रधानता । अहो ! विनयनैपुण्यमहो। वचनपद्धतिः॥ २७४ ॥ सार्थेशोऽप्याह लेखोतं सम्यगेवावगम्यताम् । अहं न्यक्षमिदं साक्षाद्यद्वीक्षामास चक्षुषा ॥२७५॥
**ALICHOSAT +370809
दा०२८
Page #334
--------------------------------------------------------------------------
________________
दानप्रदीपे
तन्मुक्तान्यपरिष्वङ्गां वियोगार्ता पतिव्रताम् । मेलितुं मित्र! तां क्षिप्रं साम्प्रतं तव साम्प्रतम् ॥ २७६ ॥ अहं प्रतिष्ठमानो-1| दशमः
प्रकाश ऽस्मि स्मरणीयः सखे । त्वया । इत्युक्त्वा प्रस्थितः सार्थनाथः स्थानं निजं ययौ ॥ २७७ ॥ सचेताश्चिन्तयामास कुमारोऽथ स्वचेतसि । कृतज्ञानां हि मूर्धन्या धन्या पण्याङ्गनाऽपि सा ॥ २७८ ॥ आजन्म मय्यदृष्टेऽपि प्रतीते कितवेऽपि या। वहत्यकृत्रिमं प्रेम पत्याविव पतिव्रता ॥ २७९ ॥ भूपतिप्रभृतीन यूनोऽनुरक्ताञ् श्रीमतो द्विधा । स्वैरिण्यपि मयि । स्निग्धा गणयामास या तृणम् ॥ २८ ॥ मदीयविरहार्ता या कुलस्त्रीष्वपि दुर्लभम् । दधौ पतिव्रताधर्ममकुलीनाऽपि | दुष्करम् ॥ २८१ ॥ तदेषा नहि सामान्या मान्या नूनं मनस्विनाम् । विलोकयितुमेतां च गन्तुं मे तत्र युज्यते ॥२८॥ तत्रैवागममिच्छन्त्या नूनमन्यूनरक्तया । तया दक्षतया प्रैषि न प्रीतिप्राभृतं मम ॥ २८३ ॥ कन्यकुलपुरं किश्च दृष्ट | स्यादद्भुतास्पदम् । गुणाय किल धीराणां देशान्तरनिरीक्षणम् ॥ २८४ ॥ विमृश्येति मनस्वी स सपदि प्रस्थितस्ततः । | वसुधा विविधाश्चर्यबन्धुरामवधारयन् ॥ २८५ ॥ सतीमतल्लिकामेतां द्रष्टुमुत्कण्ठुलाशयः । कन्यकुब्जपुरः सीमामवाप स्वल्पवासरैः ॥ २८६ ॥ युग्मम् ॥ भुक्त्वा पुरे विशामीति नीतिज्ञश्चिन्तयन्नयम् । क्षणं तस्थौ वने कोऽपि नागरश्चागमत्तदा ॥ २८७ ॥ कर्मस्थायकृतस्तत्र सूत्रधारानवेश्य सः। किमेतदिति पप्रच्छ नागरं स्नेहसागरम् ॥ २८८ ॥ सोऽप्युवाच पुरेऽत्रास्ति नीतिसारो नरेश्वरः। यस्य नीतिप्रधानत्वादन्वर्था पप्रथेऽभिधा ॥ २८९ ॥ तेन निष्पाद्यमानाऽस्ति | वापीयं पुण्यकाम्यया । निजं पञ्चकुलं चात्र तच्चिन्तायै न्ययुङ्ग सः॥ २९ ॥ दत्ते स्म नव लक्षाणि स्थूललक्षः स
॥१६३॥ तद्विधौ । मेने येन हि यत्पात्रं स तस्मिन्नाहतो भवेत् ॥ २९१ ॥ पृथिवीखननं धूलीवहनं घटनाश्मनाम् । इत्यादीनि 81
Page #335
--------------------------------------------------------------------------
________________
जना नानाकर्माण्यत्र प्रकुर्वते ॥ २९२ ॥ जघन्यमध्यमोत्कृष्टास्तत्र कर्मकृतस्त्रिधा । क्रमात्तदहभोज्याझ्या भुक्तिशाला अपि त्रिधा ॥ २९३ ॥ तथैव तत्कृते तत्र त्रिविधाः परिवेषिकाः । सर्वत्रापि हि नौचित्यं विमुञ्चन्ति विपश्चितः ॥ २९४ ॥ इत्याधुक्त्वा गते तस्मिन् भोजनार्थितया स्वयम् । तत्र ध्वजभुजङ्गोऽपि कर्म कर्तुं प्रवृत्तवान् ॥ २९५ ॥ अथ मध्यंदिने कर्मकरेषु सकलेवपि । परीक्ष्य भोज्यमानेषु भुक्तिशालास्वनुक्रमम् ॥ २९६ ॥ धूलिधूसरमण्याभं तं जीणेमलिनाशुकम् । हीनोऽयमिति तत्पङ्को तत्रायुक्ता न्यवीविशन् ॥ २९७ ॥ अवटीटाथ लम्बोष्ठी पिङ्गाक्षी पीवरोदरी । कूपगल्ला सूर्पकर्णी कुरूपा कपिलालका ॥ २९८ ॥ आनाभिलम्बिवक्षोजा च वसाना पटच्चरम् । पाणि श्लेष्ममलक्लिन्नं रूक्षयन्ती स्ववाससि २९९ ॥ क्रमेण परिवेषन्ती काऽप्यलक्ष्मीरिवाङ्गिनाम् । परिवेषयितुं प्रेष्या तस्याप्यन्तिकमागमत् ॥ ३०॥ त्रिभिर्विशेषकम् ॥ बीभत्सामिव तां मूर्त्तामवलोक्य जुगुप्सितः। आमध्ये दूरमेधीति निषिषेध स रोषतः ॥ ३०१॥ तं निरीक्ष्य निषिध्यन्तमभाषन्ताधिकारिणः । अबुभुक्षुरिव प्रेष्यां किमेतां प्रतिषिध्यसि ॥ ३०२ ॥ तानथाचष्ट स स्पष्टमियं द मह्यं न रोचते । कुत्सनीया मलक्लिन्ना कुरूपा परिवेषिका ॥ ३०३ ॥ पिशाचीमिव दृष्ट्वैतां कम्पते हृदयं मम । अक्षामा
ऽपि बुभुक्षा च पलायामास मूलतः ॥ ३०४ ॥ देयो भवद्भिराहारो यादृशस्तादृशोऽपि मे । परमाकार्यतां काऽपि सुरूपा परिवेषिकी ॥ ३०५॥ ततः प्रहस्य ते प्रोचुरीदृक् सौभाग्यशालिनः । गणिका देवदत्ता ते भोजनं दातुमेष्यति ॥ ३०६ ॥ इत्थं नानामिथोवक्रव्यावलोकी वितन्वतः । उपहासपरानेतान् साक्षेपमयमाख्यत ॥ ३०७ ॥ किं भो ! हसथ युष्मासु ददत्स्वप्यमितं धनम् । नाटयत्स्वपि चाटूनि संमुख नेक्षतेऽपि या ॥ ३०८॥ देवदत्तैव सा पण्यकामिन्यत्र समेत्य मे।
Page #336
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१६४॥
दशमः प्रकाशः।
CASSES
भुक्तिं चेद्भक्तितो दत्ते किं हारयथ रे तदा ॥ ३०९॥ इति तस्योदितं मद्यपीतप्रलपितायितम् । मन्वानाः साभिमानास्ते ला प्रत्यवोचस्तमुद्धताः ॥ ३१ ॥ एवं स्याद्यदि सर्वस्वं हारयामस्तदा वयम् । जायते तु न चेदेवं हार्यते किं तदा त्वया
॥३११ ॥ इत्याक्षिप्तः स तै|ढं शिर एव पणो मम । इदमेव हि मे द्रव्यमिति धीरतयोच्चरन् ॥ ३१२ ॥ स्वबाधाधा|यिनी संधामिमां दुर्विध मा विधाः । इत्यन्यैर्वार्यमाणोऽपि पणायामास मस्तकम् ॥ ३१३ ॥ युग्मम् ॥ अस्मिन्नर्थे च माध्यस्थ्यमास्थितान् स्थविरानयम् । कांश्चन ग्राहयामास साक्षिणः सुविचक्षणः ॥ ३१४ ॥ अत्र ध्वजभुजङ्गाख्यः कितवस्तव गौरवम् । द्रष्टमुज्जयिनीपुर्याः प्राप्तोऽस्ति परिचर्यताम् ॥ ३१५॥ इति सद्यः स संदेशमादेशात्प्रतिभूनृणाम् । सिद्धमन्त्रमिवाक्रष्टुमेनां केनाप्यजिज्ञपत् ॥ ३१६ ॥ ततोऽतर्कितमायातं स्वकान्तं तमवेत्य सा । आश्चयौत्सुक्यहर्षादिभावसङ्करमा| सदत् ॥ ३१७ ॥ सर्वाङ्गं स्फारशृङ्गारमारचय्य तदैव सा । चलितालीवृता कान्तालोकनोत्कलिकाकुला ॥३१८ ॥ चित्तं तूर्णक्रमाघातैः कम्पयन्ती पणाय ताम् । गायन्तीव गुणांस्तस्य मञ्जमञ्जीरशिञ्जितैः ॥ ३१९ ॥ सृत्वरैः सर्वतः स्वर्णरत्नभरणभाभरैः । स्फोरयन्तीव तत्कीति तत्र वापीमवाप सा ॥३२०॥ युग्मम् ॥ दृशौ तस्याः प्रभूतेषु भूषितेष्वपि पेततुः। तस्मिन्नेव जरद्वस्त्रे प्रेमैव ह्याहतेः पदम् ॥ ३२१॥ मारस्फारतराकारं तं दृष्ट्वा स्मेरलोचना । नत्वा विज्ञपयामास विनयानम्रमस्तका ॥३२२॥ स्वामिन् ! ममापि जागर्ति प्राग्रं भाग्यमभङ्गरम् । अहं स्वदर्शनेनाद्य यदन्वग्राहिषि त्वया ॥३२३॥ पवित्रीक्रियतां देव ! प्रसद्य निजमन्दिरम् । स्वकीयचरणाम्भोजरजोराजिभिरञ्जसा ॥३२४॥ अथोवाच कुमारस्तां सम्प्रत्यत्रैव सुन्दरि! । प्रगुणीक्रियतां भोज्यं गृहे भुक्त्वा तु गम्यते ॥ ३२५ ॥ ओमिति प्रतिपद्यासौ सद्यश्चेटीभिरद्भुताम् ।।
॥१६४॥
Page #337
--------------------------------------------------------------------------
________________
विधाप्य भुक्तिसामग्रीं भक्त्येति तमुपाचरत् ॥ ३२६ ॥ क्षालयन्तीव दौर्भाग्यकलङ्कं तस्य साखिलम् । सुगन्धिसलिलैः कोष्णैः सस्नेहं तमसिष्णपत् ॥ ३२७ ॥ हृदालवालफुल्लायाः प्रीतिवल्ल्या दलैरिव । इयं चित्तानुकूलैस्तं दुकूलैः पर्यदीधपत् ॥ ३२८ ॥ बाहुल्येन बहिःस्नेहरसैः प्रसृमरैरिव । सा चारु चर्चयामास हर्षात्तं यक्षकर्दमैः ॥ ३२९ ॥ तस्य प्रकटतां नीतैरौदार्यादिगुणैरिव । मणिस्वर्णमयैस्तं सा भूषयामास भूषणैः ॥ ३३० ॥ सलावण्यां नवां प्राज्यरसां निजतनूमिव । सा तं रसवतीं सर्वै रङ्गैश्चङ्गामबूभुजत् ॥ ३३१ ॥ विशालतालवृन्तेन सा स्वयं तमवीजयत् । दूरादुत्सारयन्तीव तस्य | दुष्कर्मसंचयम् ॥ ३३२ ॥ सम्यगाचम्य ताम्बूलं मूलं प्रेममहीरुहः । कर्पूरपूररोचिष्णु तस्मै दत्ते स्म सा स्वयम् ॥ ३३३ ॥ तदा तया तथाऽवर्जि सद्योऽयं परिचर्यया । सत्यमेव प्रतीयाय यथा सार्थेशवाचिकम् ॥ ३३४ ॥ विलोक्योपचरन्तीं तं तां हुताशमृतेऽपि ते । पणायितसमस्तस्वा दन्दह्यन्ते स्म निर्भरम् ॥ ३३५ ॥ तत्तादृक्कौतुका लोक स्फुरदस्तोकविस्मयाः । मिलिता नागरास्तत्र संलापं तेनिरे मिथः ॥ ३३६ ॥ भवनेऽप्यवनी भर्तुर्याति यानं विना न या । साऽप्यहो ! | पादचारेण पार्श्वमस्य समीयुषी ॥ ३३७ ॥ पार्थिवादिषु मुख्येषु प्रार्थकेष्वर्थपूर्वकम् । या वक्रं वक्रयामास स्वदासीवास्य साऽप्यभूत् ॥ ३३८ ॥ अहो ! अस्याद्भुता शक्तिर्व्यक्त्या केन प्रमीयताम् । क्रीतेव स्ववशीचक्रे येनोपाधिं विनाऽप्यसौ ॥ ३३९ ॥ तत्किं कश्चिदयं देवः कृत्रिमं रूपमावहन् । किं वा विद्याधरः कोऽपि विद्याबलतिरोहितः ॥ ३४० ॥ एवं जना न केऽनल्प कल्पनारङ्गसङ्गताम् । रसज्ञां नर्तयामासुः प्रतिवृन्दं पदे पदे ॥ ३४१ ॥ अथानुज्ञाप्य भूपालं कृप्ततोरणधोरणि । उत्तम्भितपताकालि कारयामास सा पुरम् ॥ ३४२ ॥ सुखासनतुरङ्गादिसामग्रीमद्भुतामसौ । कृत्वाऽऽकार्य
Page #338
--------------------------------------------------------------------------
________________
दानप्रदीपे
-ASEARSA
पुरीलोकं पुनस्तमभिजग्मुषी ॥ ३४३ ॥ नत्वा स्वामिन् ! महीनाथं सनाथं क्रियतां गृहम् । त्वां विना शून्यमेवेदं यथा है। दशम: जीवं विना वपुः ॥ ३४४ ॥ एवं तया स विज्ञप्तस्तदानीतं नृपद्विपम् । आरुरोह महातेजा बिडौजाः स्वर्गजं यथा ॥३४५॥ प्रकाशः। अथोपकारपुण्यं तु वहन्नातपवारणम् । यशसाऽभिनवेनेव चामरौघेन राजितः ॥ ३४६ ॥ सुखासनस्थया हर्षात्तयाऽनुगतपद्धतिः। प्रीतवारवधूवारवितीर्णधवलध्वनिः ॥ ३४७ ॥ परोपकारपुण्येन प्रौढिमारूढवानयम् । इत्यादिस्तुतिवाचालान् प्रीणयन् मागधान् धनैः॥ ३४८ ॥ सर्वाङ्गाभरणोद्भूतप्रभाप्राग्भारदम्भतः । प्रकाशं प्राच्यपुण्यस्य जनानां दर्शयन्निव ॥ ३४९ ॥ वाद्यमानमहावाद्यनिनादेन निमन्त्रितैः । सद्यस्त्यक्तरुदत्पाकपाकप्रभृतिकर्मभिः ॥ ३५० ॥ गृहद्वारा-13 दिगैः स्मेरलोचनाञ्जलियोगतः। निपीयमानलावण्यपूरः पौराङ्गनागणैः॥ ३५१॥ तया गणिकयाऽत्यर्थ व्यर्थितप्रार्थना
शतैः । कामुकैस्तत्र वास्तव्यैः सविशेषमवेक्षितः ॥ ३५२ ॥ कौतुकालोकनोत्तालपौरलोकपरिष्कृतः । पुरः प्रतिपदारब्ध|संगीतादिकडम्बरः ॥ ३५३ ॥ तेषां वापीनियुक्तानामुढेग इव मूर्तिमान् । स प्राप पृथिवीपालप्रतोलीमतुलद्युतिः ॥ ३५४ ॥ नवभिः कुलकम् ॥ अथोत्तीर्य गजादेष तयाऽपितमुपायनम् । पुरस्कृत्य महीपालं विनयेन प्रणेमिवान् ॥३५५॥ भूपो निरूप्य तद्रूपं प्रतिरूपं तु दस्रयोः। विस्मितः स्वागतोत्यादिप्रकारैः सच्चकार तम्॥३५६॥जगाद देवदत्ताऽपि येन मे देव ! हेलया। हस्तिपञ्चशती प्रैषि स एव पुरुषोत्तमः ॥ ३५७ ॥ अनेन नूनमन्यूनदानव्यसनशालिना । अहं स्वेनोपकारेण मूल्यक्रीतीव निर्ममे ॥ ३५८ ॥ तस्मादाजीवितं जज्ञे ममायं प्राणनायकः । अत्रार्थे त्वदनुज्ञाऽस्तु श्रीदृष्टिरिव ॥१६५॥ नाणके ॥ ३५९ ॥ नृपस्तयेति विज्ञप्तः सस्मितं प्रत्यवोचत । को नानुमन्यते विज्ञः संबन्धमनुरूपयोः ॥ ३६० ॥ गुणि
AAAAAACANCERS
Page #339
--------------------------------------------------------------------------
________________
नामग्रणीरेष त्वं चाद्भुतकलास्पदम् । योगस्तधुवयोरस्तु रतिप्रद्युम्नयोरिव ॥ ३६१॥ अथ राजप्रसादेन कुमारः प्राप्तविक्रमः । उज्जगार गिरं वेलामिव दुग्धमहोदधिः॥ ३६२ ॥ जीयन्ते स्म मया वापिनियुक्ताः सकलं धनम् । दाप्यता देव ! तल्लभ्यं सभ्याः प्रतिभुवोऽत्र मे ॥ ३६३ ॥ क्षोणीशस्तानथाचख्यौ समक्षीकृत्य साक्षिणः। किं न ध्वजभुजङ्गाय दीयते पणितं धनम् ॥ ३६४ ॥ ततस्ते जगदुदीनवदना मेदिनीश्वरम् । मौग्ध्येन गृहसर्वस्वमस्माभिरपणाय्यत ॥ ३६५॥ प्रमाणं देवपादानामादेशः सर्व एव नः। परं भवेद्यथावृत्तिस्तथाऽस्मभ्यं प्रसद्यताम् ॥ ३६६ ॥ कुमारः स्फारकारुण्यभारितोऽथ नृपं जगौ । मयाऽध दयया तेषां मुक्तमधं तु दाप्यताम् ॥ ३६७ ॥ ततः प्रीतो नृपस्तेषां विभाज्य निजमत्रिणा । सोदरस्येव तस्याशु सर्वस्वार्धमदीदपत् ॥ ३६८ ॥ इति प्राप्तनृपामानसम्मानं स महामहम् । तमानिन्ये निजागारं कुमारं सा पतिव्रता ॥ ३६९ ॥ अथ तस्य कुमारस्य तेजसेव पराजितः । लज्जमानो जगत्साक्षी जगाम दृगगोचरम् ॥ ३७० ॥ प्रियालोकमुदा स्मेरे नेत्रे तस्याः स्वजिष्णुनी । निभाल्य नलिनावल्यान्यमील्यत भयादिव ॥ ३७१ ॥ निजं| संहरतस्तेजस्तदंशा इव भास्वतः । तस्थिवांसस्तदावासे तदा दीपा दिदीपिरे ॥ ३७२ ॥ कलानां निलयः सौम्यः सुवृत्तः सुमनःप्रियः। कुमारस्तमृहे व्योम्नि सोमः सममुदीयिवान् ॥ ३७३ ॥ शङ्के पङ्केरुहं त्यक्त्वा लक्ष्मीय॑क्षाऽपि भेजुषी । मुखारविन्दमेतस्यास्तदा संमदमेदुरम् ॥ ३७४ ॥ भृशं विकाशमासेदुः कैरवाणि न केवलम् । किन्तु तस्या वयस्यानामा-|
स्यान्यपि समन्ततः ॥ ३७५ ॥ मन्ये रजन्यास्तारुण्ये रागो गगनतोऽगमत् । तस्या हृदयमेतस्य तत्राभावः कुतोऽन्यथा 3 M॥ ३७६ ॥ अथागुरुस्फुरद्धूपवासिते वासवेश्मनि । मौक्तिकस्तबकाकीर्णविस्तीर्णोल्लोचरोचिते ॥ ३७७ ॥ शय्यां प्रस्तीर्य
Page #340
--------------------------------------------------------------------------
________________
दानप्रदीपे
१६६॥
45S5HRSSHREER
विस्तीर्णा दिव्यास्तरणहारिणीम् । उद्दामकामवाहस्य खेलितुं तु खलूरिकाम् ॥ ३७८ ॥ नानास्थानाश्रितां मञ्जव्यञ्जनां
दशम: | रुचिरस्वराम् । सा तमध्यापयामास समग्रां भोगमातृकाम् ॥ ३७९ ॥ त्रिभिर्विशेषकम् ॥ दिव्याङ्गरागशृङ्गारताम्बूलाधु- प्रकाशा |पचारतः । तदीयादयमन्वर्थी क्षणदां मन्यते स्म ताम् ॥ ३८०॥ दत्ते चित्तेप्सितं तस्मै भोजनाच्छादनादिकम् । सा| प्रेम्णा सम्यगाराद्धा स्वर्मणीवानणीयसा ॥ ३८१ ॥ अहो ! धर्मस्य माहात्म्यमगम्यं चर्मचक्षुषाम् । यदस्मै कामितं दत्ते द्युम्नं पण्यरमण्यपि ॥ ३८२॥ क्रीडतो रतिपीयूषवाप्यामाप्यायनासृजि । बहवोऽपि तयोरेवं मुहर्तन्ति स्म वासराः |॥ ३८३ ॥ अन्यदा मातुरस्मार्षीत्सुखोत्कर्षेऽप्यसौ सुधीः । कुलीनतोचितं चित्ते चिन्तयामास चार्तितः ॥ ३८४ ॥ धिग्मामधममूर्द्धन्यं निराधारां स्वमातरम् । त्यक्त्वा तीर्थमिवाराध्यं यः स्वैरित्यमशिश्रियम् ॥ ३८५ ॥ पवित्राः खलु ते पुत्रा जननीमन्वहं निजाम् । शुश्रूषन्ते सहर्ष ये प्रयता देवतामिव ॥ ३८६ ॥ भूयादजननिस्तस्य मुधाम्बायौवनच्छिदः । नमस्यति न यः प्रातः स्वमातुश्चरणाम्बुजम् ॥ ३८७ ॥ दिनं तदेव सानन्दं स क्षणः क्षणकारणंम् । यस्मिन् मातुः पदाम्भो
जरजो मे तिलकायते ॥ ३८८ ॥ तं च चिन्ताञ्चितस्वान्तं साऽवगत्य सचेतना । प्रेमपूरं किरन्तीव सविषादमभाषत R॥ ३८९ ॥ बाधते व्याधिराधिर्वा चिन्ता वा देव ! काऽपि ते । यत्तवाजातपूर्वाऽद्य दृश्यते विमनस्कता ॥ ३९० ॥ तव
दुःखं च संक्रान्तमादर्श इव मे हृदि । तन्नाथ ! कथ्यतां सद्यो यदि गोप्यं न वर्तते ॥ ३९१ ॥ ततो विहस्य स प्राह|3|॥१६॥ |प्रिये ! किमिदमौच्यत । गोप्यं किमस्ति तद्वस्तु यदपह्नवतेऽपि ते ॥ ३९२ ॥ न व्याधिप्रमुखं किंचिद्बाधते मम मानसम्।। सपत्राकुरुते किन्तु मातुर्विरहजा व्यथा ॥ ३९३ ॥ पतिचित्तानुवृत्त्या या चेष्टते सा पतिव्रता । एवं विचिन्त्य साऽप्यस्य
SAGASKOSLAOSAS
Page #341
--------------------------------------------------------------------------
________________
प्रतिशब्दमिवावदत् ॥ ३९४ ॥ ममाप्युत्कण्ठते चेतो मेलितुं तव मातरम् । सतीनामेव हि श्वश्रूनिदेशः शेखरायते ॥ ३९५ ॥ भवदीयपुरस्यापि दिदृक्षा मम विद्यते । नमस्या खलु नो कस्या निजकान्तस्य जन्मभूः ॥ ३९६ ॥ ततः प्रसद्य मां नीत्वा तत्र पादोऽवधार्यताम् । याति क्वापि किमु त्यक्त्वा कौमुदी कौमुदीपतिः ॥ ३९७ ॥ इति तद्वाचमाचम्य द्राक्षामिव स हर्षितः । प्रोचे प्रिये ! निजप्रीतिरनुरूपं न्यरूपयः ॥ ३९८॥ परं तत्यजुषो गेहमनेहा मेऽभवद् बहः । | यथावत्तेन तत्रत्या प्रवृत्तिर्नावबुध्यते ॥ ३९९ ॥ नापि च ज्ञायते तत्र वस्तुं संप्रति योग्यता। अत्र भूपप्रसादस्तु कल्पदुरिव पुष्पितः ॥ ४०॥ ततस्तावदहं पूर्व तत्र गच्छामि कामिनि ! । मत्वा स्थित्यहतामाशु त्वामाकारयिताऽस्म्यहम् ॥४०१॥नो चेन्मातरमाकार्य तूर्णमेताऽस्मि तेऽन्तिकम् । त्वमास्स्व तावदत्रैव पवित्राचारचारिणि ! ॥४०२॥ संभाष्येति सहर्ष तां तया निर्मितमङ्गलः । सारेण परिवारेण स चचालाविलम्बितम् ॥ ४०३ ॥ शालिग्रामस्य सीमायामायांतः स्वल्पकालतः। विश्रान्तः स तरुच्छाये ध्यायति स्म महाशयः॥४०४॥ भूयांसो दिवसा जाता निशान्तान्मे निरीयुषः । न च काश्चन साश्चर्यामूर्जितामृद्धिमार्जिजम् ॥४०५॥ यां प्राप्य प्रीयते माता चिराय विरहार्दिता । यथातपर्तुसंतप्ताऽवनी कादम्बिनीं नवाम् ॥ ४०६ ॥ युग्मम्। सर्वाङ्गीणगुणापूर्णा लेभे लीलावती च या ।साऽपि पण्यमहेलेत्यवहेलैकनिबन्धनम् ॥ ४०७॥ ऋद्धिप्रभवमौज्वल्यमप्राप्तं निजमाननम् । मातुरत्यर्थदुःस्थायाः कथंकारं प्रदर्शये॥ ४०८ ॥ अनुलोमं च मे दिष्टं तत्तदिष्टाप्तितः स्फुटम् । अनुलोमे नृणां चास्मिन् व्यवसायः फलेग्रहिः॥४०९॥ संपदाप्तौ परं सद्यः किमिदानीमुपक्रमे । आः स्मृतं वृक्षयक्षस्य निक्षेपोऽस्ति वरो मम ॥ ४१०॥ दैवीभाषा च पाषाणरेखावन्न मृषा खलु ।
Page #342
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१६७॥
दशम: प्रकाशः।
विमृश्येति मनस्वी तद्वक्षोपान्तमवाप सः॥ ४११॥ त्रिः परीय तरुं भक्त्या पुष्पाद्यैः पर्यपूपुजत् । सुगन्धिना च धूपेन धूपयामासिवानयम् ॥४१२॥ एवं कृतसपर्याको यक्षं दक्षं सुखाकृती। वरं स प्रार्थयामास न्यास नैयासिको यथा॥४१॥ यक्षोऽप्याख्यत्तमध्यक्षः कं वरं वितरामि ते । सोऽप्युवाच पुरं सर्ववस्तुयुक्त विधेहि मे ॥ ४१४ ॥ अथायं तत्क्षणादेव देवस्तत्र पुरं नवम् । नाकस्य प्रतिकायं तु चकार स्वकशक्तितः॥ ४१५ ॥ तन्मध्ये वसुधेशार्हः सौधः शुद्धमणीमयः। रेजे ध्वजभुजङ्गस्य पुण्यपुञ्ज इवोज्वलः ॥ ४१६ ॥ सेनानीश्रेष्ठिसामन्तमन्त्र्याद्यां महागृहाः । अभितस्तमशोभन्त राज| हंसा इवाम्बुजम् ॥ ४१७ ॥ परः सहस्रा आवासाः स्वयंभुव इवोत्थिताः । सामान्यजनतायोग्याः सर्वतस्तान् विरेजिरे ॥४१८ ॥ विशालस्तत्पुरं सालः परीयाय समन्ततः । शेषः क्षमायाः समुद्धारादुद्विग्न इव निर्गतः॥४१९ ॥ व्यराजत जलापूर्णा परिखा परितः पुरम् । स्नेहेनेवाम्बुधिर्लक्ष्मीं संभाषयितुमागतः ॥ ४२० ॥ तत्र वापीतटाकादिनिपानानि पदे पदे । बभुव॑जभुजङ्गस्य कीर्तिवल्लीमिवोक्षितुम् ॥ ४२१॥ नानास्थानाहृताः स्वर्णरत्नतारादिधोरणीः । यक्षस्तत्र ववर्षा-2 म्बुधारा धाराधरो यथा ॥ ४२२ ॥ जनानानायमानायमन्यस्थाननिवासिनः । वासयामास तत्रासौ सुराजेव सहस्रशः ॥ ४२३ ॥ वनादिस्थायिनोऽश्वादीनानीयानीकनेतृवत् । चतुरङ्गबलं तत्र सोऽविलम्बममीमिलत् ॥ ४२४ ॥ एवं सर्वाङ्गचङ्गस्य तस्य द्रङ्गस्य रङ्गतः। जने सुरपुरेत्याख्यां यक्षः ख्यापयति स्म सः॥ ४२५ ॥ अथ च्छत्रेण पर्वेन्दुगर्वसर्वकष|श्रिया । मूर्ड्सि मूर्तिमता कीर्तिस्तोमेनेव विराजितः॥४२६ ॥ सर्वाङ्गस्फारशृङ्गारभासुरीकृतदिग्मुखः । स्वर्णविष्टरमारूढः पूर्वाचलमिवांशुमान् ॥ ४२७ ॥ प्रभापूरद्वयेनेव कुण्डलद्वितयोद्भुवा । चारुचामरयुग्मेन वीज्यमानांसमण्डलः ॥ ४२८॥
RECOGNICALOCALSARSONAGACA
॥१६७॥
Page #343
--------------------------------------------------------------------------
________________
| तदा त्वस्थापितामात्यसामन्तादिमहाजनैः। रौप्यस्वर्णमयैः कुम्भैरभिषिक्तः सुराज्ञया ॥ ४२९ ॥ सेव्यतामेष भूपाल इति | क्षितिपतीन् परान् । ख्यापयद्भिरिवातोयैः शब्दायितदिगम्बरः॥४३०॥ स्निग्धस्वदृष्टिदानेन सुधावृष्टिसधर्मणा। जनानुजीवयन्नन्यकुराज्यविषदुःखितान् ॥४३१॥ सुरेण स्थापयामाहे महेन महता पुरे । राज्ये ध्वजभुजङ्गोऽयमहो !पुण्यस्य वलिगतम् ॥४३२॥ सप्तभिः कुलकम् ॥ सौहार्देन मयाऽदत्त राज्यायास्मै महात्मने। द्रोग्धा यो मुग्धधीस्तस्मै द्रोग्धाऽस्मि प्राणघाततः ॥ ४३३ ॥ एवमुद्घोष्य साक्षेपं क्षणाद्यक्षस्तिरोदधे । राजा ध्वजभुजङ्गश्च राज्यं पालयति स्म सः॥ ४३४ ॥ अथ सद्यो महीजानिर्निनसामास मातरम् । साफल्यं श्रयते लक्ष्मीः स्वान्ययोः खलु दर्शिता ॥ ४३५ ॥ चतुरङ्गचमूचकैः कम्पयन्| भूभृतो द्विधा । शक्रस्पर्धिष्णुऋद्ध्याऽथ शालिग्रामं जगाम सः ॥ ४३६ ॥ स पौरेणोपदापूर्व ग्रामेशेन सविस्मयम् । प्रणतो नृपतिः प्रीत्या नमस्यामास मातरम् ॥ ४३७ ॥ तं भास्वन्तमिवादभ्रां प्रभां बिभ्राणमद्भुताम् । निभाल्य भृशमुल्लासमासदत्पद्मिनीव सा ॥ ४३८ ॥ भृशं विस्मापयामास न परं निजमातरम् । ऋद्ध्या प्रवृद्धया किन्तु सकलं लोकमप्ययम् ॥ ४३९ ॥न परं सरसालापैः प्रीणयामास स प्रसूम् । किन्तु निस्तुल्यनेपथ्यदानाद्यैरपि सादरम् ॥४४०॥ दर्शयन्तः परं स्नेहं सद्यस्तं स्वजनादयः। हर्षात् सिषेविरे वृक्षं पक्षिणः फलितं यथा ॥ ४४१ ॥ अथासौ सिन्धुरस्कन्धम-18 धिरोप्य स्वमातरम् । नृपः सुरपुरं प्राप प्रोच्छ्रितोत्तुङ्गतोरणम् ॥ ४४२ ॥ संभ्रान्ता देवतादत्तं साम्राज्यं श्रुतपूर्विणः। न के नेमुः स्वयं भूपास्तमुपायनपाणयः॥ ४४३ ॥ प्रभूतैः प्राभृतैस्तस्य नानानृपतिनिर्मितैः । ऋद्धिः प्रववृधे सिद्धधुनीवापरसिन्धुभिः॥४४४ ॥राज्ञा तेन निजाः कन्या राजन्याः पर्यणीनयन् । महता सह संबन्धं विधत्ते बुद्धिमान्न का
Page #344
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१६८॥
है॥४४५ ॥ सप्रेमाऽन्तःपुरस्त्रीभिः परीतोऽपि महीपतिः। सस्मार देवदत्तां तां मालती मधुकृद्यथा ॥४४६ ॥ अथा
दशमः |प्तपुरुषानेष प्रेषयामास हर्षतः। तामानेतुं पुरे तत्र मुधासंधा हि नो बुधाः॥४४७॥ कन्यकुजपुरे प्राप्ताः प्रीत्या ते प्रकाशः। सत्कृतास्तया। प्रोचुस्तां प्राप्तसाम्राज्यस्त्वामाकारयति ध्वजः॥४४८॥ निशम्य स्वामिनः साऽपि संपदं मुमुदेऽद्भुताम् । प्रियस्य संपदः प्राप्तिः कस्य न स्यात्प्रियङ्करा ॥ ४४९॥ मुदा च हृदि सा दध्यावहो ! तस्य कृतज्ञता । तादृशीमृद्धिमाप्तोऽपि यो मां सस्मार सत्वरम् ॥ ४५०॥ भक्त्या नम्रनृपैः पाणौ कारितोऽपि च यः कनीः। मन्वानः प्रेमनिःसीममानेतुं प्राहिणोदिमान् ॥ ४५१ ॥ ततो यन्मे दिनं शून्यमेतस्य वरिवस्यया । तदजागलजोरोजसमानं मन्यते मनः ॥ ४५२ ॥ तत्रस्थमथ पृथ्वीशमापृच्छय सपरिच्छदा । सा द्रव्यराशिमादाय सद्यः प्रास्थित तैः समम् ॥ ४५३ ॥ प्रयाणैस्त्वरितैः प्राप्ता दृष्ट्वा पत्यु:पुरश्रियम् । दिव्यां वप्रादिकां चित्ते चित्रीयामास सा भृशम् ॥४५४॥ प्रेमपूरमिवामान्तमन्त
द्रविणसंचयम् । समग्रमुपदीकृत्य नृपति प्रणनाम सा ॥ ४५५ ॥ हर्षमाणो विशेषेण सर्वद्रव्यापदानतः । नरेशः सरसा&ालापैः प्रीणयामास तां सतीम् ॥ ४५६ ॥ गुणोत्कर्षवतीमेतामकार्षीन्महिषीं नृपः। मानाय यदमानाय गुणा न तु कुला-1 दिकम् ॥ ४५७ ॥ अयत्नोपनतं राज्यं भुञ्जानः प्राज्यमूर्जितम् । व्यराजत तथा राजा पौलोम्येव दिवस्पतिः ॥ ४५८॥ अन्यदा श्रीयशोधर्मसूरयः श्रुतभूरयः । तत्रातिमात्रमाहात्म्यवैभवाः समवासरन् ॥४५९॥ पुरुहूतमिवामा मर्त्या इव मही-18|॥१६॥ पतिम् ।पौराः सप्रीतिपूरास्तं गुरुं नन्तुमुपागमन् ॥ ४६० ॥राजा ध्वजभुजङ्गोऽपि निशम्यागमनं गुरोः । हर्षप्रकर्षसोल्लेखस्तत्क्षणान्नन्तुमागमत् ॥ ४६१ ॥ भालं भूरेणुपूरेण कर्पूरेणेव चित्रयन् । धात्रीशः श्रेयसी भक्तिस्तं ववन्दे मुदा गुरुम् ।
Page #345
--------------------------------------------------------------------------
________________
॥ ४६२ ॥ अथ संतोष्य पीयूषवृषा धर्माशिषा नृपम् । गुरुः कृतशुभारम्भां प्रारेभे धर्मदेशनाम् ॥ ४६३ ॥ तथाहि
गतसारेऽत्र संसारे चिन्तामणिरिवाङ्गिनाम् । मानुष्यप्रमुखा धर्मसामग्री खलु दुर्लभा ॥ ४६४ ॥ एकैकस्मिन क्षणे सप्तदशकृत्वः श्रिता मृतिम् । निगोदेषु नयन्तेऽसुमन्तोऽनन्तमनेहसम् ॥ ४६५॥ तिष्ठन्ति ते तदुद्वत्ताः क्षितितोयाग्निवायुषु । प्रत्येकमप्यसंख्याता उत्सर्पिण्यवसर्पिणीः॥ ४६६ ॥ ततो निर्गत्य ते बोधिविकला विकलाक्षताम् । प्राप्तास्तिठन्ति संख्याता वर्षलक्षाः सुदुःखिताः॥४६७ ॥ ततः पञ्चाक्षतिर्यक्षु जलस्थलखचारिषु । ते पापपटवः पूर्वकोटी स्तिठन्ति कष्टतः॥४६८ ॥ ततः श्वनेषु ते प्राप्ताः पापप्राग्भारभारिताः। कालं नयन्त्यसंख्यातं सुखांशेनाप्यवीक्षिताः ॥४६९ ॥ ततो गिरिसरिद्रावन्यायाल्लब्ध्वाऽपि मर्त्यताम् । अनार्यत्वेन नो केचिद्धर्मनामापि जानते ॥४७॥ केचित्तथा|ऽऽर्यदेशेऽपि जाता म्लेच्छादिजातिषु । विचेष्टन्ते यथाऽनन्तं दुःखायन्ते भवे पुनः॥४७१ ॥ मिथ्यात्ववासिताः केऽपि शभां जाति श्रिता अपि । सद्धर्म न प्रपद्यन्ते मद्यपीता इव स्थितिम् ॥ ४७२ ॥ जाताः श्राद्धकुले केऽपि गताक्षत्वादिदूषिताः। न शक्ता धर्ममारार्द्ध दातुं तद्धनवद्धनम् ॥ ४७३ ॥ सर्वाक्षपाटवेऽप्यन्ये रोगाविष्टवपुष्टमाः । धर्मकर्मसु नालं स्युर्व्यवसायेष्विवालसाः॥४७४ ॥ अनामयाविनोऽप्यन्ये नरास्तनुतरायुषः। निर्वोढुं पुण्यमप्रौढागार्हस्थ्यमिव दःस्थिताः ॥४७५॥ दीर्घायुषोऽपि केऽप्युग्रमोहनहिलिताशयाः । शुश्रूषन्तेऽपि नो धर्म मुमूर्षव इवौषधम् ॥ ४७६ ॥ केऽपि प्रसह्य वार्यन्ते धर्म शुश्रूषवोऽपि ही। आलस्याद्यैर्यथा द्वाःस्थैः पृथ्वीनाथं दिदृक्षवः॥४७७॥ शृण्वतोऽप्यवगृह्णन्ति केऽपि तं नाल्पमेधसः । सम्यक् सौवर्णवाणिज्यं यथा लावणतैलिकाः॥४७८ ॥ केचिन्निचितकर्माणो जानन्तोऽपि
AXAXSXXAAN**
दा०२९
%**%
Page #346
--------------------------------------------------------------------------
________________
दानप्रदीपे
दशम: प्रकाशः।
॥१६९॥
|निजे हृदि । नहि श्रद्दधते धर्म खलाः परगुणं यथा ॥ ४७९ ॥ केऽपि श्रद्दधतोऽप्येनं विषयासक्तचेतसः । नानुतिष्ठन्ति | ही भूताविष्टा इव दिवानिशम् ॥ ४८०॥ एवं विनैकमप्यङ्गं भजते न प्रभूष्णुताम् । अयं धर्मरथः श्रेयःपथप्रस्थापने नृणाम् ॥ ४८१॥ इमां धर्माङ्गसामग्री तदासाद्य दुरासदाम् । मा प्रमादिष्ट भो भव्याः ! धर्मे शमैककामणे ॥ ४८२ ।। धर्मः कुकर्मनिर्माथी हयं निस्सीमसंपदाम् । धर्मो वनमयं वर्म बिभ्यतां भाववैरितः॥ ४८३ ॥ धर्मेण जन्यते शर्म |
घनेनेव वनस्पतिः । कुठारेणेव पानेन मूलादुन्मूल्यते पुनः॥ ४८४ ॥ धर्मेण संपदः सर्वाः पापेन पुनरापदः । अत्रार्थे र है पृथिवीनाथ ! भवानेव निदर्शनम् ॥ ४८५ ॥ इत्याकावनीजानिर्जनाश्चानन्दमासदन् । मनो धिनोति नो कस्य स्वाभीष्टचरितश्रुतिः॥४८६ ॥ राजाऽथ मुदितो जल्पन मय्यहो ! गुर्वनुग्रहः । अपृष्टमपि मे वृत्तं यदाचष्टे स्वयं गुरुः॥४८७॥ प्रसद्यादिश्यतामेतदिति क्षितिभुजा गुरुः । विज्ञप्तः कथयामास भवं तस्य पुरातनम् ॥ ४८८ ॥ ___ क्वापि पापमहावल्यां पल्यां निस्तुल्यदोर्बलः । प्रचण्डश्चण्डपालाख्यः पल्लीपतिरजायत ॥४८९ ॥ यस्य शौण्डीर्यमुदण्डदोर्दण्डानामपि द्विषाम् । मदज्वरापनोदायाभैषज्यायत भीषणम् ॥ ४९० ॥ समर्थानप्यमेयार्थान् सार्थान् गणति-| थीनसौ । वित्तानि दुरितानीव लुण्टं लुण्टममीमिलत् ॥४९१॥ग्रामान् रमाभिरामान् स भञ्ज भञ्जमगञ्जितः । निजमूर्जेस्वलं राज्यमजीजनदनार्यधीः ॥ ४९२ ॥ साटकाकर्षणं स्त्रीणां मुनीनां वसनग्रहम् । कुर्वाणो निघृणत्वेन ललज्जेऽपि न जातु सः॥ ४९३ ॥ पापः पापर्द्धये प्रापदन्यदा सपदातिकः । सक्कापि विपिने ताहव्यापारः खलु तादृशाम् ॥४९४॥ गीर्वाणाकर्षकप्रेड्डदतिशेषविशेषितः । तत्रासन्नावना सूरि रिसाधुस्तदा ययौ ॥ ४९५॥ निष्कृपश्चापमारोप्य दृष्ट्वा सित
CANAACANCSCACANCIENTROLX
॥१६॥
Page #347
--------------------------------------------------------------------------
________________
लिपटान् स तान् । क्रुधा दधाव दुध्योनः शकुनिश्चटकानिव ॥ ४९६ ॥ मुश्चत त्वरितं मुण्डाः रे रे वस्त्राणि निस्त्रपाः।।
नो चेद्भवदसून हतु वेगायन्ते ममाशुगाः॥ ४९७ ॥ इत्याक्रोशन्नयं यावत्प्रजिहीर्षति तानृषीन् । तावत्तत्तपसाऽऽकृष्टा
देवता तमतस्तभत् ॥ ४९८ ॥ पृष्ठतः पुरतो वाऽपि पदमात्रमशक्वन् । प्रयातुं क्वाप्ययं स्थाणुर्निखात इव जातवान् &॥४९९ ॥ तदा स वेदयामास वेदनां दिव्यशक्तिजाम् । प्रतिरोममलिस्तोमदष्टाङ्ग इव दुस्सहाम् ॥ ५००॥ बिये बिये
ऽस्मि भोःप्रेष्याः ! मङ्गु रक्षत रक्षत । इत्यमन्दं स चक्रन्द क्रन्दयन् पादपानपि ॥५.१॥ तं तथाऽवस्थमालोक्य हाहाकारकरैर्जनैः। चाल्यमानोऽपि नाचालीत् स शैल इव निश्चलः॥५०२॥ तस्य पीडोपशान्त्यर्थ क्रियमाणा प्रतिक्रिया। पदातिभिहताशस्य घृताहुतिरिवाभवत् ॥ ५०३ ॥ हहा ! किमस्य संजातमिति चिन्तातुरो गुरुः। तस्थिवान् सपरीवारस्तत्पुरः करुणाकरः॥५०४ ॥ जिघांसतो यतीनस्य समपादि दशेदृशी । एवं विचिन्त्य तभृत्याः प्रणत्य गुरुमूचिरे ॥ ५०५॥ तव स्वामिन्नसीमानं महिमानमजानता । कुधियाऽस्मदधीशेनापराद्धं यत्क्षमस्व तत् ॥ ५०६ ॥ स्वैरं विजृम्भते यस्य हृदन्धङ्करणी कुधीः। सन्मार्गस्खलने दोषस्तस्य विश्वनमस्य ! कः॥५०७॥ ततः सद्यः प्रसद्यामुं मुञ्च वाचंयमेश्वर ! । महान्तमपि यन्मन्तुं महीयांसः सहिष्णवः॥ ५०८॥ ततः माह गुरु हमपचक्रेऽस्य किञ्चन । मित्रे च | यदमित्रे च यतयस्तुल्यवृत्तयः॥ ५०९॥ किन्तु हन्तुमना अस्मानकस्मादेष धावितः । स्वयं स्तम्भित एवेत्थमस्माभिनिरभाल्यत ॥ ५१०॥ द्रोहं पिपीलिकाभ्योऽपि प्राणान्तेऽपि न तन्महे । कुर्महे दुःखमीदृक्षममुष्य खलु ते कथम् ॥ ५११॥ मानसं प्रत्युतास्माकमाकस्मिकममूदृशम् । व्यसनं पश्यतामस्य सुतरां परितप्यते ॥ ५१२ ॥ ततस्ते पत्तयः
Page #348
--------------------------------------------------------------------------
________________
दानप्रदीपे
दशम: प्रकाश
॥१७०॥
AAAAAACHAR
सोऽपि चण्डपालस्तथावपुः । किंकर्तव्यतया मूढास्तस्थुरत्यर्थदुःस्थिताः ॥ ५१३ ॥ अत्रान्तरे रविज्योतिस्तर्जन्ती है निजतेजसा । भास्वराभरणा प्रादुरास शासनदेवता ॥ ५१४ ॥ प्रणम्य गुरुराज सा सामर्ष तानभाषत । अहं जिनक्रमाम्भोजभ्रमरी शासनामरी ॥ ५१५॥ यतीनमुं जिघांसन्तमवगम्योपयोगतः। सहसाऽहमिहागत्य स्तम्भयामास वः प्रभुम् ॥ ५१६ ॥ न पाप्मानममुं मुञ्चे दुराचारैकचारिणम् । यः साधुभ्योऽपि विश्वैकबन्धुभ्योऽपचिकीर्षति ॥५१७॥ मुखे पञ्चाङ्गलीः क्षिप्त्वा पल्लीशस्ते च तां जगुः । देवि ! वेदनया प्राणाः प्रयान्तः सन्ति सम्प्रति ॥५१८ ॥ इतः प्रभृति |नातन्मो मुनीनामवमाननम् । ततः प्रसद्य मुश्चाद्य सतां हि न चिरं रुषः॥ ५१९ ॥ तानवादीत्ततो देवी क्षमयित्वा गुरुत्तमम् । धर्म जिनोदितं सद्यो यद्ययं प्रतिपद्यते ॥ ५२० ॥ तदा गुरुक्रमाम्भोजरजःस्पर्शवशादसौ । व्यसनान्मुच्यते सूर्योदयादिन्दिन्दिरो यथा ॥ ५२१ ॥ अन्यथा खलु तन्मोक्षे ऋभुक्षा अपि न क्षमः । एवमुक्त्वा तिरोधत्त सद्यः सौदा|मिनीव सा ॥ ५२२ ॥ ओमिति प्रतिपन्नेऽथ तं गुरुक्रमरेणुना । भाले तिलकयामासुश्चन्दनेनेव सेवकाः ॥ ५२३ ॥ | स्वस्थावस्थामथास्थाय पल्लीनाथः पृथुर्मुदा । प्रणम्य विनयानम्रः क्षमयामास तं गुरुम् ॥ ५२४ ॥ सोऽपि तं पापसंतापव्यापनिर्वापकुल्यया । प्रापयन्त्या परां प्रीतिं गिरा पल्लीपतिं जगौ ॥.५२५ ॥ मनागपि न दूनोऽस्मि तन्मे का क्षमणा सखे । किमनामयकायस्य क्रियते हि प्रतिक्रिया ॥ ५२६ ॥ किन्त्विमा कुमतिं मुञ्च नीचाचारप्रचारिणीम् । रज्वेवाशु यया जीवः क्षिप्यते नरकावटे ॥ ५२७ ॥ राजन्नैश्वर्यमूर्जस्वि भुञ्जानोऽप्यतिनिन्दितम् । पापीयः कर्म धाय्यादि त्वं मुधा विदधासि किम् ॥ ५२८ ॥ द्रुह्यन्तो दम्भसंरम्भैः परेभ्यो धनलोलुभाः । व्यसनप्रापकत्वेन द्रुह्यन्ति ध्रुवमात्मने
॥१७॥
Page #349
--------------------------------------------------------------------------
________________
45555555555
॥५२९ ॥ परद्रोहेण ये मुग्धा ऋद्धिं विदधतेऽधमाः। प्रदीपनेन ते वेश्मप्रकाशं किल तन्वते ॥ ५३० ॥ परबन्धवधद्रोहद्रव्यापहरणादयः। जघन्यतोऽपि जायन्ते जन्तोः प्रेत्य दशाहताः॥ ५३१॥ वरं परगृहे दास्यं नैःस्व्यं वा सुचिरं वरम् । प्रभूतोऽपि परद्रोहप्रभवो विभवो न तु ॥ ५३२ ॥ यदेव रोचते स्वस्मै तत्परस्मै विधीयते । अहिंसादिमयं धर्मनिस्पन्दं तं विदुर्बुधाः॥५३३ ॥ ततः कुमार्गमुत्सृज्य जिघांसुमिव दूरतः। सखायमिव तं धर्म स्वीकुरुष्व सुखाकरम् | ॥५३४ ॥ एवं गुरूपदेशेन कतकेनेव कश्मलम् । सद्यस्तस्य मनस्तोयं शुध्यति स्म समन्ततः॥ ५३५ ॥ ततोऽसौ त्रसजन्तुनाममन्तूनां विघातनम् । प्रबुद्धः स्थूलचौर्य च यावज्जीवमवर्जयत् ॥ ५३६ ॥ पन्थानमिव तद्भष्टः सम्यग्धर्ममवाप्य सः। प्रमोदो दमेदस्वी मनस्वी तं व्यजिज्ञपत् ॥ ५३७ ॥ मयि वात्सल्यमुन्मील्य पदैः पल्ली पवित्रय । नीचस्यापि न किं वेश्म करैरिन्दुः प्रकाशयेत् ॥ ५३८॥ सोऽपि तस्याग्रहात्पल्लीमवाप सपरिच्छदः । न क्वापि प्रार्थनाभङ्गं कुर्वते हि महाशयाः॥ ५३९ ॥ अथ स्वर्णभृतं स्थालं भक्तिपूरमिवोज्वलम् । पल्लीपतिरुपानीय जजल्प प्राञ्जलिर्गुरुम् ॥५४०॥ मया सन्मार्ग आसेदे प्रसादेन तव प्रभो!। गृह्यतामनुगृह्याशु तदेषा गुरुदक्षिणा ॥ ५४१॥ ऋषिमुख्योऽप्यथाचख्यौ निःसङ्गं जैनदर्शनम् । ततो द्विजातिवज्जातु गृहीमो नैव दक्षिणाम् ॥ ५४२॥ किञ्च विज्ञ! हिरण्यादि द्युम्नं नादद्महे वयम् । छायातपाविव द्युम्नसंयमौ यद्विरोधिनौ ॥ ५४३ ॥ न दानमपि वित्तस्य निर्ग्रन्थायोचितं सताम् । कामक्रोधादयस्तेन वर्धन्ते हि व्रताहिताः॥५४४ ॥ शुद्धमाहारवस्त्रादि दीयते हि चरित्रिणे । तस्य संयमयोगानामुपकाराय यद्भवेत् ॥ ५४५ ॥ त्वयाऽस्मदुपदेशेन धर्मोऽयं यदुपाददे । तेनैव प्रीणिता राज्यदानादप्यधिक वयम् ॥ ५४६ ॥ गुरोर्वीक्ष्येति
%AA-%AA-%ARRANC+S
Page #350
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १७१ ॥
संतोषं स विशिष्य विस्मिष्मिये । निर्लोभता हि निर्दम्भा कस्य नाद्भुतकारणम् ॥ ५४७ ॥ शुद्धानि सन्मनांसीव ततः प्रमुदिताशयः । गुरवे ढौकयामास वासांसि प्रासुकानि सः ॥ ५४८ ॥ देयदायकयोः शुद्धिमवधार्य विशुद्धधीः । स्वीचकार | गुरुस्तानि तस्य पुण्यैः प्रणोदितः ॥ ५४९ ॥ प्रतिपन्नार्थनिर्वाहे तस्य द्रढयितुं मनः । निःसङ्गोऽप्ययमस्तोकमुपश्लोकयति स्म तम् ॥ ५५० ॥ मुनीनामपि मान्योऽसि यदा जन्म कुत्रर्त्मनि । आम्नातिनोऽपि ते चिसं धर्मतत्त्वे न्यलीयत ॥ ५५१ ॥ कल्पद्रुमिव दुष्प्रापं धर्मं पालयतस्तव । सुलभा एव भाविन्यो मर्त्या मर्त्यविभूतयः || ५५२ ॥ परं सम्यगमुं | धर्म स्वात्मानमिव पालयेः । प्राणान्तेऽपि न मुञ्चन्ति सन्तो हि स्वीकृतं व्रतम् ॥ ५५३ ॥ सम्यक् तं शिक्षयित्वेति व्यहागुरुरन्यतः । प्रकाशना मुनीशानां न ह्येकत्र रवेरिव ॥ ५५४ ॥ अथ पल्लीपतिः सम्यग्धर्मवर्मितधीः शुभाः । भावना | भावयामास पूर्वीहोहासलालसाः ॥ ५५५ ॥ प्राचीना ये दुराचारविवशा दिवसा ययुः । सपत्राकुर्वते ते मां कृतद्रोहा | इवाधुना ॥ ५५६ ॥ जज्ञे मानुष्य मुख्याऽद्य सामग्री मे फलेग्रहिः । पापिनाऽपि मया प्रापि धर्मः सम्यगयं यतः ॥ ५५७ ॥ अहो ! कारुण्य पुण्यत्व महो ! सत्यैकनिष्ठता । अहो ! प्रवृत्तिरस्तेये धर्मेऽस्मिन् किं न सुन्दरम् ॥ ५५८ ॥ एतस्यामपि यत्पल्यां श्रीगुरुः समवासरत् । मरुनीवृति तन्मन्ये मरुत्तरुरवातरत् ॥ ५५९ ॥ अहं निरयसुनायाः पार्श्व नीतोऽपि पाप्मभिः । अहो ! पशुरिव त्राणो गुरुणा करुणावता ॥ ५६० ॥ तपःप्रभानिभा तस्य कस्य नो विस्मयावहा । यया यान्ति सुपर्वाणः स्वर्वाण इव वल्गया ॥ ५३१ ॥ अहो ! त्रिभुवनस्यापि शस्या तस्य निरीहता । दीयमानमपि स्वर्ण | नाददे यो विदांवरः ॥ ५६२ ॥ मयि पापेऽप्यहो ! कापि कृपाऽनल्पीयसी गुरोः । मदाग्रहेण वासांसि निःसङ्गोऽयं यदा
दशमः प्रकाशः ।
॥ १७१ ॥
Page #351
--------------------------------------------------------------------------
________________
ददे ॥५६३॥ भवे भवेऽपि मे भूयादीहरभद्रङ्करो गुरुः। जीवातुरार्तजीवानां सम्यग्धर्मोऽयमेव च ॥ ५६४ ॥ इति | सद्ध्यानशुद्धाम्बुशोधितामितकश्मलः । स विपद्यानवद्यात्मा भवान् राजन्नजायत ॥ ५६५ ॥ यत्प्रासुकांशुकानि प्राक मुनिभ्यस्त्वमदा मुदा । तेन पुण्येन साम्राज्यमिदमूर्जितमार्जिजः॥५६६ ॥ सौभाग्यमुज्वलयशश्चिरमायुरोजः स्फूर्तिर्विभूतिरतुला सुकुलप्रसूतिः । सर्वेष्टसङ्गतिरनिष्टविनष्टता च पूर्वोप्तपुण्यफलदस्य फलान्यमूनि ॥ ५६७ ॥ अवस्कन्दादिना यत्तु त्वया दुष्कर्म निर्ममे । तत्प्रायश्चिक्षिपे क्षिप्रं गर्हणानिन्दनादिभिः॥ ५६८॥ तस्य क्षीणावशेषस्य विपाकेन पुनर्भवान् । भवेऽत्र द्यूतदौर्गत्यप्रमुखं दुःखमन्वभूत् ॥ ५६९ ॥ एवं पूर्वभवं सम्यग् निशम्य ध्वजभूपतिः। विस्मितानन्दितस्वान्तो दध्यौ निर्धातधीहदि ॥ ५७० ॥ प्रभावः पात्रदानस्य वाक्पथे पथिकः कथम् । यत्राहं वस्त्रमात्रेण राज्यं प्राज्यमुपार्जितम् ॥ ५७१ ॥ पातकैः पात्यमानस्य कटरे नरकावटे । अभून्मे ध्यातमात्रोऽपि धर्मोऽयमवलम्बनम् ॥ ५७२ ॥ एवमभ्यूहतस्तस्य विशुद्धाभ्यवसायतः। जाता जातिस्मृतिः कर्मक्षयोपशमयोगतः॥५७३ ॥ अथ प्राच्यभवं सौवं स्मृत्वा | ह्यस्तनवृत्तवत् । गुरुं जगाद भूमीन्द्रः प्रमोदोन्निद्रलोचनः ॥ ५७४ ॥ न्यगादि सम्यगेव प्राग्भवो मे भगवंस्त्वया । जातिस्मरणतः प्रेक्षे यतोऽहमपि तं तथा ॥ ५७५ ॥ अहो ! भगवतो ज्ञानं सीमानं नावगाहते । भूतभाव्यपि यत्तेन प्रत्यक्षमिव वीक्ष्यते ॥ ५७६ ॥ मादृशोऽपीदृशीमृद्धिं येन धर्मेण लम्भितः। मह्यं सम्यगय सद्यः प्रसद्य प्रतिपाद्यताम् ॥ ५७७ ॥ ततः श्रीगुरुणा प्रत्तं द्वादशवतसुन्दरम् । श्राद्धधर्म स जग्राह साक्षिणं मोक्षसंपदः॥ ५७८ ॥ चिन्तामणि| मिव प्राप्य दुरापं धर्ममार्हतम् । प्रीतः प्रणम्य सूरीशं नृपः स्वावासमासदत् ॥ ५७९ ॥ प्रासादानार्हतान् दत्तप्रसादान
ARKARINAKASHANKARRANGA
Page #352
--------------------------------------------------------------------------
________________
दानप्रदीपे
दशमः
११७२॥
ARASHTRA
जनतादृशाम् । प्रतिमाः शातकुम्भादिमयीराहाददायिनीः॥ ५८० ॥ भक्तियोगादमूल्यानि वात्सल्यानि सधर्मणाम् । कृताघवञ्चनाश्चारुरचनाः श्रीजिनाचेनाः॥ ५८१ ॥ यात्राः पवित्रितामात्र वित्तास्तीर्थेषु भूरिषु । कृपारसपयःपारीरमारीरात्मनीवृति ॥ ५८२ ॥ तन्वानः पुण्यकृत्यानि स स्वमेव न केवलम् । अनैषीदुन्नतिं किन्तु मतमप्याहतं परम् ॥५८३॥ चतुर्भिः कलापकम् ॥ भुक्त्वा चिरं राज्यमथो स धर्ममाराध्य सौधर्मदिवं जगाम । च्युतस्ततः स्तोकभवैरपास्तसमस्तकर्मा शिवमेष गन्ता ॥ ५८४ ॥ इत्यद्भुतं ध्वजभुजङ्गमहीभुजङ्गवृत्तं सुपात्रवसनार्पणपुण्यमान्यम् । आकर्ण्य पुण्यमतयो यतिशुद्धवस्त्रदानैकतानमनसः सततं भवन्तु ॥ ५८५॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरि
शिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे
पात्रवस्त्रदानफलप्रकाशनो दशमः प्रकाशः ॥ ग्रन्थानम् ॥ ६०२॥
CARRORSCOREGAOCRACK
॥१७॥
Page #353
--------------------------------------------------------------------------
________________
॥ अथ एकादशः प्रकाशः॥ श्रीगौतमः शर्म स निर्मिमीतां सतां प्रभुर्यः परमान्नपाच्या । तावन्मितानामपि तापसानामकारयत्पारणमेकयाऽपि॥२॥
अथ धर्मार्थदानस्य प्रभेदः पुण्यमेदुरः। सुपात्रपात्रदानाख्यः स्पष्टं निष्टक्ष्यतेऽष्टमः ॥१॥ देयं पात्रं सुपात्राय नेतुं |स्वं पात्रतां बुधैः । यतो मुक्त्यङ्गतां प्राहुस्तस्य धर्मोपकारतः॥२॥ तथाहि___ मोक्षः कर्मक्षयाधीनस्तत्क्षयश्चरणाश्रयः। चरणं वपुरायत्तं वपुराहारकारणम् ॥ ३ ॥ विना पात्रं न चाहारं शक्तो |भोक्तुमलब्धिकः । जिनादिर्लब्धिमानेव भजते पाणिभोजिताम् ॥ ४॥ लब्धिशून्यो विना पात्रमश्नन् पशुरिवाश्नुते । विडम्बनामनेकानां जन्तूनां च विराधनाम् ॥ ५॥ लब्धिश्चैदंयुगीनानां मुनीनां न मनागपि । अतो मुक्त्यङ्गतां तस्य विदुस्तात्पर्यवेदिनः ॥६॥ अंभस्कुम्भसहस्रेऽपि क्षिप्ते येषां न पाणितः। स्पन्दते बिन्दुरप्येको मन्त्रैरिव नियन्त्रणात् ॥७॥
आत्तदीक्षाः स्वशिष्याणां दिदर्शयिषया पथः। जिनेन्द्रा गृहृते तेऽपि पात्रं प्रथमपारणे ॥ ८॥ जिनं दृष्टान्तयन्तो ये भुञ्जते पाणिभाजनाः। नहि मार्गप्रवृत्तास्ते जिनाज्ञाभङ्गसङ्गतः॥९॥ यदुक्तं श्रीदशवैकालिके
"पिंडं सिजं च वत्थं च चउत्थं पायमेव य । अकप्पिन इच्छिज्जा पडिग्गहिज कप्पिअं॥१॥" | तुम्बकादिमयं दातुं यतिभ्यस्तच्च युज्यते । यतीनां तादृशस्तस्य यदनुज्ञा जिनागमे ॥ १०॥ तदुक्तं श्रीस्थानाङ्गे
"निग्गंथो वा निग्गंथी वा तउ पायाई धारित्तए वा परिहरित्तए वा । तंजहा-लाउअपाए १ दारुपाए २ मट्टिआपाए ३" इति ॥ शास्त्रान्तरेऽपि
NERGAOCALCREA
TOR
Page #354
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१७॥
"अलाबु दारुपात्रं च मृन्मयं विदलं तथा । एतानि यतिपात्राणि मुनिः स्वायंभुवोऽब्रवीत् ॥१॥” इति ।
एकादश नवधातुमयं पात्रं कल्पते कल्पशाखिनाम् । निर्ग्रन्थतां निगृह्णाति यतस्तस्य परिग्रहः ॥११॥ तदुक्तं श्रीदशवैकालिके
प्रकाशा ___"कंसेसु कंसपाएसु कुण्डमोएसु वा पुणो । भुञ्जन्तो असणपाणाई आयारा परिभस्सई ॥१॥” इति ॥
मूर्छा मलिम्लुचारेका पलिमन्थः कलिस्तथा । इत्याधनर्थसार्थस्य धातवो हेतवो ह्यमी ॥ १२॥ यतिभ्यः सङ्गतं दातुं पात्रं शास्त्रोक्तमेव तत् । जिनोपज्ञं यतः पुण्यक्रिया सर्वा हितावहा ॥ १३ ॥ मोक्षस्याङ्गेषु योगेषु व्यापूतानां तपस्वि-18 नाम् । दत्त्वा पात्रं न के पात्रं भवेयुः शिवसंपदाम् ॥ १४ ॥ विधिना यः सुपात्राय पात्रं दत्ते पवित्रधीः । स्वयंवरास्तमायान्ति श्रियो धनपतिं यथा ॥१५॥ तथाहि| स्वविभूतिपराभूतपुरुहूतपुरं पुरम् । जज्ञेऽचलपुरं नाम ललाम स कलावनेः॥१६॥ यत्र रात्रौ मणिज्योति?ति-| | तेषु समन्ततः । धनिनोऽदीदिपन् दीपं मङ्गलायैव वेश्मसु ॥ १७॥ रेजे. पराक्रमाक्रान्तदिक्चक्रः शक्रविकमः । तत्र शत्रुतमःसूरः सूरतेजा नरेश्वरः॥१८॥ यस्य धाराधरो धाराजलं युद्धे व्यतस्तरत् । क्षणात्तृणोद्गमश्चित्रं शत्रुवक्रेष्वभूत् पुनः॥ १९ ॥ जज्ञे धनपतिस्तत्र व्यवहारिशिरोमणिः । यस्यानिशं मनोमीनो लीनो धर्मजलाशये ॥२०॥ यथौ-18 |चित्यं सुपात्रादौ तन्वानो दानमन्वहम् । स्वमर्थसार्थमत्यर्थ कृतार्थीकुरुते स्म सः॥२१॥ तस्य प्रतिकलं पुण्यविपा
॥१७३॥ केन पदे पदे । संपदः स्फातिमासेदुः पयोदेनापगा इव ॥ २२ ॥ परोपकारशालिन्या सततोपचयाढ्यया । साधारण इवा| रामः संपदा ख्यातिमाप सः ॥ २३ ॥ कार्पण्याद्यगुणावासस्तस्याभूत्पातिवेश्मकः । तत्र निष्पुण्यमूर्धन्यो धनावहवणिक्
Page #355
--------------------------------------------------------------------------
________________
परः ॥ २४ ॥ यत्र यत्र सवाणिज्ये रिक्थं न्यास्थत दुःस्थितः । तत्र तत्र त्रुटिस्तस्य हस्तन्यस्ताम्भसो यथा॥ २५ ॥ चौरादयोऽप्युपद्रोतुमाद्रियन्ते स्म तद्धनम् । सर्व प्रतीपतामेति प्रतिकूले हि कर्मणि ॥ २६॥ कालेनाल्पीयसाऽप्येष निःशेषमपि पैतृकम् । धनं निर्णाशयामास दवाग्निरिव काननम् ॥ २७॥ फाल्गुनोर्वीरुहामास तस्यावासः पुरातनः। यतो निःस्वतया तस्य नोपचक्रे कदाऽप्ययम् ॥ २८ ॥ श्रीणां धनपतेः पत्युदृष्टिदौष्टवपिष्टये । रराज कज्जलश्लेष इवैष प्रातिवेश्मिकः ॥ २९ ॥ दर्श दर्श तथावस्थौ विभाव्यते स्म तौ जनैः । स्फीते मूर्तिमती पुण्यपापे इव पुरातने ॥ ३०॥ तथा तमुपदुद्राव सदोन्निद्रा दरिद्रता । यथैहत स विक्रेतुं स्वं निकेतनमप्ययम् ॥ ३१॥ ततो धनपतिस्तस्य मूल्येन जगृहे गृहम् । शरण्यः पुण्यवानेव जायते सर्वसंपदाम् ॥ ३२॥ स तद्भुवि नवावासं प्राररम्भददम्भधीः । प्रवर्धते हि सौधादिसमृद्धिर्धनवृद्धितः॥ ३३ ॥ तन्निदेशाज्जनास्तत्र प्रवृत्ताः खनितुं मुदा । तस्य प्रौढां श्रियं गूढामिव प्रादुश्चिकीर्षवः ॥३४॥ खन्यमाने जनस्तत्र प्रादुरास महानिधिः। तस्य मूर्त इवागण्यपुण्यराशिः पुरातनः ॥ ३५॥ तस्य भोक्तुमिव प्राज्यं पुण्यभोज्यं पचेलिमम् । सौवर्णानि विशालानि तत्र स्थालानि रेजिरे ॥ ३६॥ पातुं तत्रत्यलोकानामिव तस्य * यशःसुधाम् । चारुकञ्चोलकश्रेणिस्तत्राराजत राजती ॥३७॥ तस्यावासमुपेतायाः कमलाया इवासितुम् । चकासामास सौवर्णमासनं तत्र भासुरम् ॥ ३८ ॥ पुण्यलक्ष्मी कनी तस्य नव्यां पाणौचिकीर्षतः । अलङ्कर्तुमिवाराजत्तत्रालङ्कारधोरणी 8 |॥ ३९ ॥ तस्य पूरयितुं कामान् कामकुम्भा इवामृताः। शातकुम्भमयाः कुम्भा बभुस्तत्र विभासुराः॥४०॥ जात्यरलोत्करस्तस्मिन्नाविरासीदसीमरुकू । श्रेष्ठः श्रेष्ठीशितुस्तस्य गुणौघ इव मूर्त्तिमान् ॥४१॥ तथाविधं निधिं दृष्ट्वा विस्मयो
Page #356
--------------------------------------------------------------------------
________________
एकादश प्रकाशः।
दानप्रदीपे लत्तानलोचनः । हृष्टः संजगृहे सद्यः स्वगृहे स गृहेश्वरः ॥४२॥ अथ पूर्वगृहस्वामी लोभान्धीकृतधीर्वणिक् । तमादातुं
समं तेन कलिं प्रक्रमते स्म सः॥ ४३ ॥ मदीयपूर्वजैः पूर्व निधिरत्र न्यधीयत । इतीह स्थविरालापं शतशः श्रुतपूर्व्यहम् ॥१७४॥
॥४४॥ किन्तु तस्याप्तये स्थाननैयत्यानवधारणात् । मया मूढमतित्वेन न कदाऽप्युपचक्रमे ॥४५॥ तस्मादयं निर्विमर्श मदीयो मम दीयताम् । न युज्यते तवादातुं परकीयतया पुनः॥४६ ॥ इत्याद्यलीकं जल्पाकः परिकल्प्य जजल्प सः। न खलु स्खलना क्वापि मृषाभाषेकजीविनाम् ॥४७॥ ततो धनपतिः श्रेष्ठी शिष्टोचितमुवाच तम् । यदि भद्र ! त्वदीयोऽयं निधिरादीयतां तदा ॥४८॥ प्रतीतिः परमत्रार्थे प्रतीतजनसाक्षिकम् । उत्पाद्यतां यथा सद्यस्तुभ्यमभ्येति शेवधिः ॥४९॥ स वणिक् पुनरूचे तमहो ! ते काऽपि चातुरी । प्रतीतिं याचसे यन्मां निधौ मद्नेहनिर्गते ॥५०॥ ईदृशीं चातुरीं त्यक्त्वा समर्पय निधिं मम । सम्प्रत्येवान्यथा गत्वा पूत्करिष्ये नृपाग्रतः ॥५१॥ इत्युन्मत्तमिव स्वैरं प्रलपन्तमसङ्गतम् । मार्गाध्वन्यधियः क्रुद्धा ज्ञातिवृद्धास्तमभ्यधुः॥५२॥ अलीककल्पनाजालवाचाल ! किमशृङ्खलम् । रारटीषि त्वमुल्लुण्ठ इव धर्मनयातिगम् ॥ ५३ ॥ नहीयन्तमयं कालं त्वद्वंश्येन परेण वा । श्रुतपूर्वोऽथवा ज्ञातपूर्वस्त्वत्पूर्वजाहितः॥५४॥ सम्प्रति त्वस्य भाग्येन निधौ प्रादुर्बभूवुषि । किं मुधा मुग्धसंबन्धमुद्गुणन्न हृणीयसे ॥५५॥ बहुधा वसुधायां हि निधानानि पदे पदे । प्रादुष्यन्ति पुनः पुण्यप्रसादादेव देहिनाम् ॥ ५६ ॥ भवन्गेहभुवः स्वामी बभूवायं निधेरपि । गोः प्रभुर्जायमानस्तद्गर्भस्यापि भवेन्न किम् ॥ ५७ ॥ न च किंचिद्विवादेन निर्निदानेन लभ्यते। प्रत्युतागन्तुकानेकविपदामयमास्पदम् ॥ ५८ ॥ अन्यायेन धनाशां च दुर्मेधा विदधाति यः। तमापदः प्रपद्यन्ते सुहृद
॥१७४॥
Page #357
--------------------------------------------------------------------------
________________
दा० ३०
श्चतुरो यथा ॥ ५९ ॥ तथाहि
पुरे हेमपुरे नाम शैशवे श्रितसौहृदाः । चत्वारस्तनया राजमन्त्रिश्रेष्ठिपुरोधसाम् ॥ ६० ॥ समानवयसस्तुल्यकालं | सुखितदुःखिताः । चेलुर्देशान्तरेऽनेक कौतुकालोकनोत्सुकाः ॥ ६१ ॥ भूयांसं मार्गमुख्य कान्तारे क्वाप्युषामुखे । तस्थुः सिकतिले शाखितले ते धीरचेतसः ॥ ६२ ॥ न भवेज्जाग्रतो भीतिरिति नीतिविदो व्यधुः । क्रमेण याममेकैकं जागर्यमिति ते स्थितिम् ॥ ६३ ॥ जाग्रति श्रेष्ठिपुत्रेऽथ शयितेष्वितरेषु च । शिखरे शाखिनस्तस्य शब्दः समुदभूदिति ॥ ६४ ॥ भूयानर्थः समस्त्यत्र किन्त्वनर्थेन वेष्टितः । यदीच्छसि तदा सद्यो भवन्तमुपतिष्ठते ॥ ६५ ॥ इत्याकर्ण्य गिरं श्रेष्ठिनन्दनोऽनर्थ भीरुकः । मा मेति स्पष्टमाचष्ट वणिजो हि गृहं भियाम् ॥ ६६ ॥ यामेऽप्येवं द्वितीये च तृतीये च भयद्रुतौ । तद्द्रव्यं नाद्रियेते स्म पुत्रौ मन्त्रिपुरोधसोः ॥ ६७ ॥ तेषु निद्रायमाणेषु तुर्ययामे तु राजसूः । गिरं तामेव शुश्राव जाग्र| दत्युग्रसाहसः ॥ ६८ ॥ व्यक्तं भुङ्क्ते श्रियं धीरो न भीरुर्यद्व्यथाक्षमः । कर्णः स्वर्णेन भूष्येत चक्षुस्त्वञ्जनरेखया ॥ ६९ ॥ एवं विचिन्त्य स्वच्छन्दमागच्छेति जगाद सः । ततस्तस्य पुरोऽपतद्दीप्ताङ्गः स्वर्णपूरुषः ॥ ७० ॥ तं निभालय प्रभातेऽथ मुदितास्ते प्रतस्थिरे । मिथो रात्रिकथालापसमर्थितपथाः पुरः ॥ ७१ ॥ जातायां भुक्तिवेलायां श्रेष्ठिधीसखनन्दनौ । जग्मतुर्भोज्यमानेतुं कश्चन ग्राममन्तरा ॥ ७२ ॥ आवामेव सुवर्णस्य भवावः स्वामिनाविति । ध्यात्वा तौ दुर्मती भक्त विषेणाकं वितेनतुः ॥७३॥ तौ च प्राप्तौ तदादाय बाह्याभ्यामपि दुर्धिया । तथैव ध्यातपूर्विभ्यां जन्नाते निशितासिना ॥७४॥ भुक्तौ तावपि सद्भक्तं यमावासमवापतुः । सपद्यपि भवेत्पापमत्युग्रं हि फलेग्रहि ॥ ७५ ॥ इत्यन्यायेन ते वित्तं च सुहृदः
Page #358
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१७५॥
स्पृहयालवः । इहैव निधनं प्रापुः परत्र नरकव्यथाः॥७६ ॥ तदन्यायमयीमेतां दुर्मतिं दूरतस्त्यज । मुश्चामुं च मुधा वाद हितं स्वस्य यदीहसे ॥ ७७॥
एकादशः । इति वृद्धैनिषिद्धोऽपिनासौ तत्याजतं कलिम् । प्रयासेऽपिशुनः पुच्छं नहि मुञ्चति वक्रताम् ॥७॥ साम्प्रतं नार्यमाणोऽस्ति
प्रकाशः। युम्माभिर्मम शेवधिः प्रभाते यदि भूभर्तुः समक्षममुमाददे॥७२॥ तदा शक्तिःप्रमाणं मे युष्माभिः खलु वीक्ष्यताम् । इत्युक्त्वा सहसोत्थाय स जगाम निजं गृहम् ॥ ८॥ असत्यभाषिणस्तस्य मुखं वीक्षितुमक्षमः। जगत्साक्षी तदा मन्ये द्वीपान्तरमदुद्रुवत् ॥८१॥मा मृषा दुष्ट ! भाषिष्टा मत्युरन्तिक एव ते । इतीव गगनाग्रस्थाश्नुकूजुस्तं शकुन्तयः॥८२॥ दिशः कश्मलतां ध्वान्तनिकरेण न केवलम् । भेजुः किन्तु तदात्माऽपि पाप्मपूरेण सर्वतः॥८३॥ कथं निधि ग्रहीष्यामि |दण्डयिष्याम्यमुं कथम् । इति क्लिष्टपरीणामपरितः स्वपिति स्म सः ॥ ८४ ॥ पातकेनेव मूर्तेन रौद्रध्यानसमुद्भुवा। कृष्णेन |
दन्दशूकेन स तस्यां निश्यदश्यत ॥ ८५॥ तदायं नरकासातवर्णिकामिव नाडिकाम् । वेदनां वेदयामास विषावेगोत्तर|ङ्गिताम् ॥ ८६ ॥ सङ्गतिर्नास्य पापस्य युक्तेतीव वितळ सः। दूरतस्तत्यजे प्राणैर्द्विजैरिव जनङ्गमः ॥ ८७॥ कीर्ति निकृ
न्तति विपत्तिशतानि दत्ते दुःखानि यच्छति सुखानि तनूकरोति । धर्म लुनाति दुरितानि च यस्तनोति सेवेत कः कृत|मतिस्तमसत्यवादम् ॥ ८८ ॥ अथो धनपतेः पुण्यं पापं तस्य च तादृशम् । साक्षात् कर्तुमिव प्राप कर्मसाक्षी नभोऽङ्गणम् ॥ ८९ ॥ तमुदन्तमथाकर्ण्य वदति स्म मिथो जनः । निधिर्धनपतेः पुण्यैर्बुवमाविबभूव सः ॥९०॥ अयं लोभाभिभूत-150 त्वादसद्भूतमवोचत । निष्पुण्येन हि नानेन स द्रष्टुमपि पार्यते ॥९१॥ हहा! कथमकालेऽपि कालधर्म जगाम सः। यदि ॥१७५॥
HIGHICIEROGIRI
Page #359
--------------------------------------------------------------------------
________________
RRCH45%
वायत्तमेवेदं तस्यासद्भूतवादिनः ॥ ९२ ॥ अयं नूनमभाग्यानां ग्रामणीर्दुर्गताग्रणीः। निधानाढ्यं निजं धाम दरमुज्झांचकार यः॥ ९३ ॥ धत्ते धनपतेः पुण्यमगण्यं जागरूकताम् । यन्निधिं लीलया लेभे परगेहगमप्ययम् ॥ ९४ ॥ अयं पूर्वभवे नूनं तपोऽतप्यत दुस्तपम् । श्रियोऽमुं स्वयमायान्ति यदर्णवमिवापगाः ॥९५॥ एवं तयोस्तदा कीर्त्यपकीर्ती विस्फु-द रत्तरे । विरेजतुर्जने गङ्गायमुने इव सङ्गते ॥ ९६ ॥ अथ तं पिशुनः कोऽपि निधिं नृपमजिज्ञपत् । परेषामुपतापे हि भुजङ्ग इव दुर्जनः॥९७॥ नृपेणाकारितः श्रेष्ठी सद्यः संसदमासदत् । निःशङ्का एव सर्वत्र पवित्रचरिता यतः ॥ ९८॥ राज्ञा पर्यनुयुक्तोऽयं व्यक्तमेव तदुक्तवान् । वक्तव्यं नानृतं क्वापि नृपादौ तु विशेषतः ॥ ९९ ॥ सम्यक् तदुक्तमाकर्ण्य विस्मयोत्कर्णिताननः । ददानो बहुमानं तं जगाद मुदितो नृपः ॥ १०॥ निधिः श्रेष्ठिस्तवोत्कृष्टैः पुण्यैः प्रादुरभुदयम् । | इयन्तं समयं कोऽपि तं नाप कथमन्यथा ॥ १०१॥ युक्तमेतमुपादातुं कुर्वन्तं कलहं त्वया । अदशहन्दशकस्तमन्यायं ज्ञातवानिव॥१०२॥अतो मे सर्वथा नायमादातुमुपपद्यते। मेदिनीशो ह्यनादेयमाददानोन नन्दति॥१०॥यदुक्तं नीतिशास्त्रे
"अनादेयं न गृह्णीयात् परिक्षीणोऽपि पार्थिवः। न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥१॥" तदेनं स्वयमादत्स्व स्वच्छन्दमुपभुङ्ग च । त्वदीयसुकृतेनेव व्यतीर्यत मयाऽप्ययम् ॥ १०४ ॥ इत्युक्तः सत्कृतस्तेन विसृष्टः श्रेष्ठिपुङ्गवः । गृहं जगाम मालिन्यमाननं पिशुनस्य च ॥ १८५॥ प्रशस्ते च क्षणे सर्वशुभलक्षणभूषितम् । अध्युवास नवावासमसौ वाणिज्यवासवः ॥ १०६ ॥ प्रीणयन्तो जनं वृद्धिं नयन्तः पुण्यकाननम् । प्रावर्तन्तोत्सवास्तस्य घनाः प्रावृषिजा इव ॥१०७॥ पुरुषार्थत्रयी तेन निधिना तस्य सन्ततम् । स्फातिमासेदुषी दानभोगार्था हि श्रियः सताम्
Page #360
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १७६ ॥
॥ १०८ ॥ अन्यदा संविदादर्शसंक्रान्तभुवनत्रयः । क्षालितान्तर्मलस्तत्र केवली समवासरत् ॥ १०९ ॥ सरोरुहं सुरैर्भाव - भासुरैस्तत्र हैमनम् । विशालं खेलनायेव धर्मलक्ष्म्या विनिर्ममे ॥ ११० ॥ विशुद्धपक्ष रोचिष्णुस्तत्त्वातत्त्वविवेककृत् । मुनिःश्वेतांशुकस्तत्र स आसामास हंसवत् ॥ १११ ॥ तस्यागमनमाकर्ण्य प्रमोदभरभासुराः । भूपः श्रेष्ठी च पौराश्च वन्दका तमुपागमन् ॥ ११२ ॥ त्रिः परीय धरारेण्वा चन्दनेनेव संमदात् । भालं तिलकयन्तस्ते प्रणेमुस्तं मुनीश्वरम् ॥ ११३ ॥ प्रोज्जृम्भनयनाम्भोजाः पर्युपास्यां विधित्सवः । निषेदुस्ते पुरस्तस्य भूपतेरिव पत्तयः ॥ ११४ ॥ अथो गिरा साम्बुपयोदग जिगभीरया धर्मगुरुर्जगाद | सन्मार्गमानेतुमिवाङ्गभाजः शब्दायमानः कुपथप्रवृत्तान् ॥ ११५ ॥ रूपायुरारोग्यबलादिसंपदुपेतमासाद्य मनुष्यजन्म । धर्मे प्रयत्नः सततं सुधीभिर्विधीयतां स्वात्महितैकतानैः ॥ ११६ ॥ धर्मो वपुर्वैभवबान्धवेभ्यो विशिष्टतां स्पष्टमुरीकरोति । यतोऽयमेकान्तहितः परत्र सहानुगामी न पुनस्तथाऽमी ॥ ११७ ॥ कल्पद्रुम स्वर्मणिकामकु म्भप्रायाः पदार्थाः प्रथितप्रभावाः । नियोगितां धर्ममहानृपस्य राज्ये वितन्वन्ति तदैकगृह्याः ॥ ११८ ॥ उपायते प्राज्यमनेन राज्यं गुणव्रजेनेव यशो विशालम् । परश्वधेनेव वनं समूलमुन्मूल्यते चाखिलदुःखजालम् ॥ ११९ ॥ मलीमसं वास इवोदकेन धर्मेण नैर्मल्यमहो ! क्षणेन । आनीयतेऽनन्तभवोपनीतप्रभूतपापैर्मलिनोऽपि जीवः ॥ १२० ॥ तनूमतां दुर्गतिपातुकानां सपातकानामचिरेण धर्ता । धाता पुनस्तान् सुगतौ यदेष बुधैस्ततो धर्म इति प्रणीतः ॥ १२१ ॥ इहैव कीर्त्ति सुमतिं प्रतिष्ठां धर्मः समृद्धीर्विविधा विधत्ते । स्वर्गापवर्गाद्भुत संपदस्तु परत्र चिन्तातिगताः प्रदत्ते ॥ १२२ ॥ निषेवणीयः स्वहितैषिणा तद्दिवानिशं श्रीजिनधर्म एव । यथास्थितोपायविनाकृतो हि नैवाश्नुते सम्यगुपेयसिद्धिम् ॥ १२३ ॥ दान
एकादशः प्रकाशः ॥
॥१७६॥
Page #361
--------------------------------------------------------------------------
________________
शीलतपोभावभेदादेष चतुर्विधः। तत्र दानं निदानं हि सर्वासां शर्मसंपदाम् ॥ १२४ ॥ शीलं कृतसुखोन्मालं देशतः सर्वतोऽपि वा। गृहस्थानां यशःस्थूलङ्करणं शरणं श्रियाम् ॥ १२५॥ पूर्वोपार्जितदुष्कर्मद्रुमदावानलोपमम् । बाह्याभ्यन्त|रभेदेन तपो द्वादशधा स्मृतम् ॥ १२६ ॥ पुण्यधान्यान्यशेषाणि प्ररूढानि मनोऽवनौ । फलन्ति कृतिनां शुद्धभावनाजलयोगतः॥ १२७ ॥ विशिष्य दानधर्मे तु गृहिणामुपयोगिता । दानेनालकृता लक्ष्मीर्यतः स्निह्यति गहिने ॥ १२८ ॥ कतकेन यथार्णासि वासांसि पयसा यथा। तथा दानेन शुद्ध्यन्ति धनानि गृहमेधिनाम् ॥ १२९ ॥ सर्वेषामपि दानानां पात्रे दानं विशिष्यते । तत्सौष्ठवाविनाभूता तत्फले हि विशिष्टता ॥ १३० ॥ अहो ! प्रभावः पात्रस्य दत्तं चित्तप्रमोदतः। यत्र स्वल्पमपि स्वर्गापवर्गश्रीनिवन्धनम् ॥ १३१ ॥ सुपात्रदानमाराध्य विराध्य च यथाक्रमम् । भवन्ति भविनः प्रेत्य सं-15 पदामापदां पदम् ॥ १३२ ॥ दृष्टान्तः स्पष्ट एवात्र प्रत्यक्षः खलु लक्ष्यताम् । अयं धनपतिः श्रेष्ठी वणिक् स च धनावहः ॥ १३३ ॥ इति तद्वाक्यमाकर्ण्य भूपालाद्याः सभासदः। प्रमोदविस्मयोत्ताननयनं तेनुराननम् ॥ १३४ ॥ अहो! गुरोः प्रसादो मे यदयं मामुदाहरत् । इति श्रेष्ठी विशेषेण जहर्षोन्मिषितेक्षणः ॥ १३५॥ ततः श्रेष्ठीशितुः पूर्वपुण्यश्रुतिकुतू-18 हली । प्रश्नयामास सोल्लासमुशिः केवलीश्वरम् ॥ १३६ ॥ कथं धनपतिः पात्रदानमाराधयत् पुरा । कथं विराधयामास धनावहबणिक् पुनः ॥ १३७॥
अथो गुरुणाति म ग्रामे सुन्दरनामनि । बभूवतुरुभौ सूरधीराह्वानौ कुटुम्बिनौ ॥ १३८ ॥ तत्र सूरः स्वभावेन कृपालुः सरलाशयः । भवेदासन्नभद्राणां मप्तिः सन्मार्गसङ्गिनी ॥ १३९ ॥ अनुरागोऽनगारेषु व्यलासीत्तस्य मानसे ।
Page #362
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१७७॥
एकादशः प्रकाशा
गुणलक्ष्मीमृगाक्षीणां भूषणायेव यावकः॥ १४०॥ धीरस्तु निजदुष्कर्मपरिपाकातिरेकतः। क्रमेलक इव द्राक्षारामे धर्मे पराङ्मुखः ॥ १४१॥ तयोरासन्नवासेन मिथः प्रीतिरजायत । प्रकृतौ त्वन्तरं भूरि कादम्बबकयोरिव ॥ १४२॥ सदने|ऽन्येद्यराद्यस्य तत्पुण्येनेव नोदिताः। शैक्षस्य पात्रभिक्षायै भिक्षवः समुपागमन् ॥ १४३॥ अथाभ्युत्तस्थिवांस्तेषामेष हर्षविशेषतः। आगन्तूनामगण्यानां पुण्यानामिव पुण्यधीः ॥ १४४ ॥ भक्त्या प्रणतपूर्वी तान् स ऊचे रचिताअलिः । अहो ! मध्यपि पूज्यानां प्रसादविशदं मनः॥ १४५ ॥ समृद्धान्यपि सौधानि विहाय व्यवहारिणाम् । अतर्कितमनाहूता यदागमत मद्गृहम् ॥ १४६॥ समता भवतां तत्रभवतां भुवनाद्भुता । समृद्धे दुर्विधे वा यद्भवन्तस्तुल्यवृत्तयः ॥ १४७ ॥ इदं प्रासुकमन्नाद्य प्रसद्य मयि गृह्यताम् । येन वा भवतामथेः प्रार्थयध्वं तदाशु माम् ॥१४८॥ इति निर्णिक्तभक्त्या तं वदन्तं यतयो जगुः । वयं शैक्षस्य पात्रार्थमागमाम गृहं तव ॥ १४९ ॥ अथायं मुदितः सद्यः सदनान्त:स्थितं क्वचित् । प्रासुकं पात्रमादाय यावदायाति दायकः॥ १५०॥ वयस्यस्तावदायासीत्तस्य वेश्म स्वकार्यतः । इमं पात्रं प्रयच्छन्तमवगम्य जगाद च ॥ १५१॥ ईदृशं मित्र ! किं पात्र नेत्रप्रीतिविधायकम् । ऋते वेतनमेतेभ्यो व्रतिभ्यो वितितीर्षसि ॥ १५२ ॥ शौचाचारपराञ्चोऽमी परवञ्चनचञ्चवः । उचिता नहि दानस्य निकृत्येकनिकेतनम् ॥ १५३ ॥ किञ्च विक्रीतमेतत्ते भवेल्लाभाय भूरये । तदेतेभ्यः प्रदानेन मा स्म निर्जीगमो मुधा ॥१५४ ॥ इत्थं तद्वाक्यमाकर्ण्य कर्णयोः क्रकचोपमम् । सूरो रुष्टमनाः स्पष्टं तमभाषिष्ट निष्ठुरम् ॥ १५५ ॥ हा मूढ ! किमिदं निन्द्यमवादि वचनं त्वया । विदधीत सुधीनिन्दाममीषां कस्तपस्विनाम् ॥ १५६ ॥ निवृत्तान् सर्वपापेभ्यः प्रवृत्तान् पुण्यकर्मसु । गर्हमाणोऽहणायोग्यान्
॥१७७॥
Page #363
--------------------------------------------------------------------------
________________
नाजिहेरपि किं यतीन् ॥ १५७ ॥ यद्येतेभ्योऽपि विश्वकवन्येभ्यो न प्रदीयते । दुर्विदग्ध ! तदा कस्मै परस्मै दास्यते वद ॥ १५८ ॥ एतेषु दीयमानं हि धनं सर्वातिशायिने । फलाय जायते बीजं क्षेत्रेषु प्रवरेष्विव ॥ १५९ ॥ एवं निवार्य वादात्तं न तु दुष्परिणामतः । सद्यः स पात्रमादाय श्रमणान्तिकमागमत् ॥ १६० ॥ अन्तर्मुदमिवामातीं बहिष्प्रसृमरां वहन् । सर्वाङ्गसङ्गिनी हर्षरोमहर्षावलिच्छलात् ॥ १६१ ॥ स्वचित्तमिव निष्पकं पाणी पात्रं विधाय सः। मार्गयन्निव पुण्यानि विनयात्तान् व्यजिज्ञपत् ॥ १६२ ॥ युग्मम् ॥ मयि प्रसादमाधाय प्रासुकं गृह्यतामिदम् । तेऽप्युपाददिरे सम्यक शुद्धतामवबुध्य तत् ॥१६३॥ गच्छतस्तांश्च सप्ताष्टपदानि समुदाऽन्वगात् । दृढीकर्तुमिवामीभि मेयं पात्रसंपदोः॥१६॥ भक्त्या मुनीश्वरान् सम्यगनुगम्य गृहागतः। विशुद्धया धिया दध्यौ सूरः संमदपूरतः॥ १६५॥ अद्य मन्येऽहमात्मानमग्रण्यं पुण्यशालिनाम् । मुनयः स्वपदन्यासैर्यत्पुनन्ति स्म मे गृहम् ॥ १६६ ॥ कृतार्थाः संपदो मेऽद्य सफलं चाद्य जीवितम् । मुनीनामुपकाराय यन्मे पात्रमजायत ॥ १६७ ॥ इति प्रसृतयाऽजस्रमनुमोदननीकया । अपिस्फवदयं पात्रदानपुण्यदुमं निजम् ॥ १६८ ॥ स विपद्यानवद्येन विधिना विशदाशयः । जज्ञे धनपतिः श्रेष्ठी प्रष्ठः शिष्टात्मनामयम् ॥१६९॥ साधुभ्यः श्रद्धया यत्प्रागयं पात्रमदान्मुदा । तेनाभूत् स्वर्णकुम्भादिविभूतीनां विभुः स्वयम् ॥ १७० ॥ यत्सौभाग्यमभङ्गरं यदसमं साम्राज्यमूर्जस्वलं यन्माहात्म्यमनश्वरं प्रसृमरा यत्कीर्तिरात्यन्तिकी । यदीर्घायुरदूष्यसौख्यसुभगं यत्संपदो नापदः सोऽयं पात्रसुदत्तवित्तमहिमा निर्दम्भमुज्जम्भते ॥ १७१ ॥ संक्लिष्टाध्यवसायेन संचितामितदुष्कृतः। जज्ञे विपद्य धीरस्तुत दरिद्रः स धनावहः॥ १७२॥ पात्रे दानमयं पूर्व दुर्बुद्धिनिषिषेध यत् । तेन दुर्गतता तस्य यावज्जीवमजायत ॥ १७३ ॥
Page #364
--------------------------------------------------------------------------
________________
दानप्रदीपे
११७८॥
अकालेऽपि च कालाहिः कालधर्म निनाय तम् । विराद्धदानधर्माणामापदो हि पदे पदे ॥ १७४ ॥ न ये निर्मिमते धर्म-18 एकादश मधमास्ते हि मानवाः । निर्मिमाणानिषिध्यन्ति ये पुनस्तेऽधमाधमाः॥ १७५ ॥ तदुधाः ! पात्रदानादौ धर्मे यत्नो विधी-16 प्रकाशः। यताम् । अपरेषां तदुत्साहविधाने चावधीयताम् ॥१७६॥ एवं गुरूक्तमाकये सभ्या भूपादयः समे । अमात्रप्रमदाः पात्रदानसादरतां दधुः ॥ १७७ ॥ श्रुत्वा भवं निजं प्राच्य श्रेष्ठीशो हृष्टमानसः । सुपात्रे पात्रमात्रस्य दानं कीहर महाफलम् ॥ १७८ ॥ इति सद्ध्यानतो जातिस्मृतिमासाद्य तत्क्षणात् । स्ववृत्तमैक्षत न्यक्षं साक्षादेव यथोदितम् ॥ १७९ ॥ युग्मम् ॥ अथाचष्ट गुरु श्रेष्ठी प्राप्य त्वद्वाक्यदीपकम् । अज्ञानध्वान्तपूरेऽपि पूर्व स्वं भवमैक्षिषि ॥ १८०॥ भगवन् ! जैनधर्मस्य सम्यगफलमवागमम् । कल्पद्रुरिव यः सद्यो दत्ते चित्तेप्सिताः श्रियः॥१८१॥ धर्मोऽयं शरणं भूयादाभवं मे भवे भवे। अधुनापि प्रभो ! धर्मममुं देहि प्रसद्य मे ॥ १८२ ॥ विज्ञप्येति गुरूपान्ते प्रत्यपादि प्रमोदतः। स देशविरतिं दूतीमिव मुक्तिमृगीदृशः ॥ १८३ ॥ सुपात्राय मया पात्रं प्रासुकं देयमित्ययम् । जग्राह चाय्यभावेन यावज्जीवमभिग्रहम् ॥१८४॥ प्रत्यपद्यन्त भूपाद्याः सम्यक्त्वाद्यं परेऽपि च । कस्कः श्रेयस्करं दृष्टफलं नाद्रियते सुधीः ॥ १८५ ॥ ततः केवलिनं नत्वा 8 तन्वा धर्ममयं मनः। भूपालः पौरलोकश्च श्रेष्ठी च गृहमागमन् ॥१८६॥अथ राज्यमिव प्राज्यमहद्धर्ममुपायं सः । मुदितः पालयामास सदाचरणसादरः ॥१८७॥ सपर्यामास वर्याभिः सपर्याभिर्जिनेश्वरान् । दत्तचित्तप्रसादांश्च प्रसादान् स व्यदी- ॥१७॥ धपत् ॥ १८८ ॥ प्राशुकाशनपानाचैः स यतीन् प्रत्यलाभयत् । साधर्मिकांश्च भोज्याद्यैरमानं सममानयत् ॥ १८९ ॥ तीर्थ-18 यात्रादिसंपन्नशासनोन्नतिशाणया । नित्यं सम्यक्त्वरलं स नितान्तमुदतीतिजत् ॥ १९० ॥ स द्विरावश्यकं पथ्यक्रिया
Page #365
--------------------------------------------------------------------------
________________
*
*
कौशलशालिधीः । निहन्तुमघरोगौघं भैषज्यमिव भेजिवान् ॥ १९१ ॥ समितिप्रयतः पर्वदिने धैर्यनिधिर्दधौ । प्रहन्तुमालन्तरारीणां कृपाणमिव पौषधम् ॥ १९२ ॥ नेतुं शिवरमारामां स मन्त्रमिव वश्यताम् । उदारचेताः सस्मार नमस्कारम
नारतम् ॥ १९३ ॥ चिरं प्रपाल्याद्भुतपुण्यकृत्यपवित्रमेवं परिपूर्णमायुः । प्रवर्धमानाध्यवसायशुद्धिः श्रेष्ठीश्वरः स्वर्गसमृद्धिमाप ॥ १९४ ॥ ततः स लब्ध्वा सुकुलावतारमवाप्तपूर्वी परमां समृद्धिम् । पवित्रचारित्रमवाप्य मुक्ति समेष्यति क्षिप्तसमस्तकर्मा ॥१९५॥ इत्यद्भुतं धनपतेर्यतिपात्रदानपुण्यप्रभावसुभगं चरितं निशम्य । तत्रावधत्त सततं सुधियः! यथा व: स्वच्छन्दमेव वृणुते शिवसौख्यलक्ष्मीः ॥ १९६ ॥
॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसंताने श्रीदेवसुन्दसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे
सुपात्रपात्रदानफलप्रकाशन एकादशः प्रकाशः॥ ११॥
*
*
*
*
*
Page #366
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १७९ ॥
॥ अथ द्वादशः प्रकाशः ॥
समृद्धिर्वर्धमानाः श्रीवर्धमानः प्रभुः क्रियात् । यस्यागमः क्षमः सम्यग् विवेके गुणदोषयोः ॥ १ ॥
अथ प्रस्तूयते दाने व्याख्यानं गुणदोषयोः । सगुणस्यापदोषस्य तस्य मुक्त्यङ्गता यतः ॥ १ ॥ आशंसा १ ऽनादरो २ दाने पश्चात्तापो ३ विलम्बिता ४ । गर्वश्चेति स्मृताः ५ पञ्च दोषास्तद्व्यत्यये गुणाः ॥ २ ॥ कैवल्यादपरं दानफलमुत्तानबु द्धयः । यदाशंसन्ति दातारस्तामाशंसां विदुर्बुधाः ॥ ३ ॥ द्विधाऽभ्यधायि सा प्राज्ञैरैहिकी पारलौकिकी । या दातुरिह कीर्त्यादिकामना साऽऽदिमा भवेत् ॥ ४ ॥ सर्वर्द्धिदेन दानेन स्पृहयन्नैहिकं फलम् । विक्रीणाति महारलं वराकः शाक| मुष्ठिना ॥ ५ ॥ न तावद्युज्यते दानं पुण्यकामस्य कीर्त्तये । तत्काग्या क्लिष्टधीर्दानपुण्यं हारयते यतः ॥ ६ ॥ न चायमश्रुते कीर्त्ति सत्यां प्रत्युत हास्यताम् । सतामुपैति गीतादौ तदुपाये कृतादृतिः ॥ ७ ॥ दानं बहुफलं पात्रे बीजं शम्बाकृते यथा । विशुद्धः परिणामो हि दातुस्तत्रैव संभवेत् ॥ ८ ॥ कीर्त्तिकामस्य तु प्रायः पात्रे न रमते मतिः । तदन्यत्रादृतिस्तस्य यतः स्वाभीष्टसिद्धये ॥ ९ ॥ नाप्यर्थसिद्धयेऽनर्थध्वंसार्थं वार्थमुत्तमः । ददीत यदिमौ पूर्वकर्माधीनाविहाङ्गिनाम् ॥ १० ॥ अनाशंसुः पुनः पात्रयोगभावोग्रतादिना । इहैव लभते जातु फलं तद्व्यत्यये तु न ॥ ११ ॥
निशम्यतामत्र निदर्शनं द्वयोः स्त्रियोर्जरत्योः प्रतिवेश्मवासयोः । छाद्मस्थ्ययुग् वीरजिनः क्वचित् पुरे जगाम कस्याश्चन धाम पारणे ॥ १२ ॥ अथेयमानन्दरसोर्मिवर्मिता तत्त्वोक्तिभिर्वासितसप्तधातुका । ससंभ्रमोत्थाभिगमादिकादरं जिनाय | शुद्धान्नमदत्त भक्तितः ॥ १३ ॥ हर्षादवृष्यन्त तदा तदङ्गणे सुगन्धिपुष्पोदकवर्षभूषिताः । सार्द्धाः सुरैर्द्वादश हेमकोटयो
द्वादशः प्रकाशः ।
॥ १७९॥
Page #367
--------------------------------------------------------------------------
________________
| नेदुस्तथा दुन्दुभयः स्वयं दिवि ॥ १४ ॥ अहो ! अहो ! दानमिति स्तुतिं मुहुर्विधाय जग्मुस्त्रिदिवं दिवौकसः । इदं च तस्याः प्रतिवेश्मिनी स्वयं ददर्श सर्व व्यमृशश्च दुर्गता ॥ १५ ॥ लब्धं मयाऽप्यौपयिकं धनाप्तये ततोऽन्यदा साऽपि सहर्षमानसा । निमन्त्र्य कस्मैचन लिङ्गजीविने मिष्टाशनं दातुमढौकतोन्मनाः ॥ १६ ॥ मुदा ददाना जरती खमुन्मुखं निरीक्षते सा मुहुरुन्मिषेक्षणा । तथा च तां वीक्ष्य जगाद लैङ्गिको भद्रे ! किमुच्चैर्मुखमीक्षसे भृशम् ॥ १७ ॥ वृद्धाऽभ्य| धादम्बरतः पतिष्यति स्वर्ण कदाद्यापि न किं पतेदिति । विलोकमानाऽस्मि पुनर्जगौ व्रती दिवः कुतः काञ्चनपातसंभवः ॥ १८ ॥ साऽप्याह पूर्वेद्युरिहैव साधवे भक्ते प्रदत्ते प्रतिवेश्मयोषिता । दिवः सुवर्ण न्यपतत् पुनर्ब्रती विज्ञाततद्वृत्तत| याऽऽह सस्मितम् ॥ १९ ॥ तत्त्वं गृहान्तस्त्वरितं व्रज ब्रज त्वदीयया वासनयाऽनया दिवः । सुदुस्तपैर्मे च तपोभिरीदृशैः संभाव्यते प्रस्तरपात एव यः ॥ २० ॥ तामित्युदित्वा स जगाम लैङ्गिको वृद्धाऽपि कालं कथमप्यजीगमत् । अतो | निराशंसतयेह धीधनाः ! प्रवर्तनं दानविधौ विधीयताम् ॥ २१ ॥
नापि प्रेत्याधिपत्यादि वाञ्छन् यच्छत्यतुच्छधीः । तनयत्यङ्गिनां दानपुण्यं तत्कामना यतः ॥ २२ ॥ दत्ते धर्मः समग्रोऽपि विनाऽऽशंसां फलं परम् । अनन्तगुणहीनं तु तया मालिन्यमापितः ॥ २३ ॥ भवान्तरेऽपि तद्भोगयोगेन विकृतिं गतः । नयते दुर्गतिं विष्णुप्रतिविष्णूनिवाङ्गिनम् ॥ २४ ॥ युग्मम् ॥ दाता भवेदनाशंसुर्विशुद्धाध्यवसायवान् । स्वःसौख्यादिकमाशंसुर्न पुनर्जायते तथा ॥ २५ ॥ तथाहि
वसन्तपुरमित्यस्ति पत्तनं श्रीनिकेतनम् । श्रमणोपासकस्तत्र यक्षाख्यः स्थूललक्षधीः ॥ २६ ॥ पवित्रयत्ययं वित्तं पात्र
Page #368
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वादशः प्रकाशा
॥१८
॥
5555
त्राकृत्य कृत्यवित् । ऋद्धिः पुण्योद्भवा पुण्यवतां पुण्यानुबन्धिनी ॥ २७ ॥ अन्यदा सदनं तस्य सदनन्तगुणो यतिः । आजगाम तपोधाम सुदत्तो दत्तधीव्रते ॥ २८ ॥ दृष्ट्वा हृष्टस्तमायान्तमभ्युस्थाय ससंभ्रमम् । घृतभाजनमुत्क्षिप्य सहर्ष यक्ष आख्यत ॥ २९॥ प्राज्यं मे भगवन्नाज्यं गृहाणानुगृहाण माम् । सुदत्तोऽपि यतिस्तस्य पुरः पात्रममण्डयत् ॥ ३०॥ हर्षोत्कर्षवशोल्लासिसर्वाङ्गपुलकाङ्करः । दानकदक्षधीर्यक्षो घृतं दातुं प्रचक्रमे ॥ ३१ ॥ अनेनाध्यवसायेन विशुद्धेन सुधीः शुभम् । किं किं निर्माति कर्मायमित्युपायुक्त संयतः॥ ३२॥ पात्रं घृतेन पुण्येन स्वं च पूरयति स्म सः । तथाऽपि न्यषिधन्नैव मुनिरन्योपयोगवान् ॥ ३३ ॥ घृतं प्रपतितं भूमौ पात्रादाकण्ठपूरितात् । मनोऽपि च तदा दातुर्विशुद्धाध्यव|सायतः॥ ३४ ॥ हहा ! कीहक् प्रमत्तोऽयं यतिलुब्धोऽथवाधिकम् । पूर्णेऽप्याज्येन पात्रे यद्वाचाऽपि न निषिध्यति ॥ ३५॥ तहत्तेन किमस्येति संक्लिष्टपरिणामतः । दिव्यायुर्वन्धतः साधुः पतन्तं यक्षमाख्यत ॥ ३६ ॥ मा मा पत महाभाग! यक्षोऽप्याख्यदुषा ऋषिम् । पतत् किं वार्यते नाज्यमुन्मत्तोऽसि ध्रुवं मुने! ॥३७॥ पतद्धृतमिति श्रुत्वाऽवधत्ते स्म यतिघृते । विषण्णस्तत्तथा प्रेक्ष्य स मिथ्यादुष्कृतं ददौ ॥ ३८ ॥ रुष्यन् यक्षस्तमाचख्यावियम्त समयं मुने!। गतोऽभूः व तु यन्मिध्यादुष्कृतं ददसेऽधुना ॥३९॥ घृतं पतत्त्वयाऽवारि तथाऽपि नहि तस्थिवत् । इदं न ते निदेशे हि यत्तिष्ठति निवारितम् ॥ ४०॥ तं सुदत्तोऽभ्यधत्ताथ दुर्वाक्यैरेभिरुद्धतैः। किं स्वं मुष्णासि यत्तेऽसौ स्फोटकोदग्धकोपरि ॥४१॥ ब्रूते साधुरसंबद्धं किमेतदिति चिन्तयन् । यक्षः सामर्षमाख्यत्तं सरोषं किन्तु भाषसे ॥ ४२ ॥ ऋषिराख्यन्न मे रोषः कश्चनास्ति क्षमावतः। यथावस्थितमर्थ तु कथयामि सुनिश्चितम् ॥ ४३ ॥ सवैलक्ष्यमवग् यक्षः कोऽयं व्यतिकरः प्रभो!।
॥१८॥
Page #369
--------------------------------------------------------------------------
________________
साधुरप्यभ्यधाद्भद्र! त्वमुन्निद्रमनाः शृणु ॥४४॥ अहं ते प्राविशं वेश्म त्वं घृतं दातुमुद्यतः । भावं च वीक्ष्य ते शुद्धवर्धमानं विसिध्मिये ॥४५॥ श्रुतेनाहमुपायुक्षि दिव्यायुस्त्वयि बन्नति । सौधर्मादिषु कल्पेषु गन्तुं च प्रावृतद्भवान् ॥ ४६॥ वर्धमानशुभध्यानात्प्राप्तस्त्वं यावदच्युतम् । घृतेऽनवहितश्चासं त्वदायुर्बन्धबद्धधीः॥४७॥ प्रपपात घृतं पात्रान्मयि चानुपयोगिनि । तदा च त्वं निरैक्षिष्ठाः प्रपतन्नच्युतान्मया ॥४८॥ अहं ततश्च मापप्त इति त्वां प्रत्यभापिपि । क्लिष्टाशयश्च निःशेष दिव्यायुरुदवीवलः ॥४९॥ यदा पुनस्त्वमुल्लुण्ठमभाषिष्ठाः प्रदुष्टधीः । तदोदलितसम्यक्त्वस्तियंगायुर्बबन्धिथ ॥५०॥ ततो मयोच्यथा दग्धोपर्ययं स्फोटकस्तव । यत्त्वयाऽनाशि देवायुस्तिर्यगायुरवन्धि च ॥५१॥ इत्थं यथास्थमेवार्थमचीकथमहं तव । न तु द्वेषसमुन्मेषः कोऽपि मे हृदि वर्तते ॥५२॥ इत्याकर्ण्य स निर्विण्णः सानुतापमवोचत । प्रसीद भगवन् ! भूयो धरस्व घृतभाजनम् ॥ ५३ ॥ घृतदानात्पुनर्येन दिव्यायुर्बन्धमादधे । सोऽप्याह घृतदानेन सुरायुर्नहि बध्यते ॥ ५४॥ विशुद्धाध्यवसायो हि सुरायुर्बन्धकारणम् । अयं पुनर्विनाशंसां सुपात्रे ददतां भवेत् ॥ ५५ ॥ आशंसया भवेदातुः क्रयविक्रयिकस्थितिः । अतो दानमनाशंसं प्रशंसन्ति मनस्विनः ॥५६॥ इत्युक्त्वा मुनिरन्यत्र विजहार यथागमम् । यक्षः पुनः सवैलक्ष्यः स्वमनिन्ददनिन्द्यधीः॥ ५७॥ दानधर्ममनाशंसमथाराध्य यथाविधि। जगाम सुगतिं यक्षः पदमप्यक्षयं क्रमात् ॥ ५८॥ द्वैधा शंसां विना पात्रदानतः कोऽप्युदारधीः । इहापि विन्दते कीर्ति|संपदाद्यं यथा धनः ॥ ५९॥ तथाहि
श्रियां विश्रामभूमः सुसीम इति विश्रुतः। तस्मिन् जगन्मनोहारी व्यवहारी धनाह्वयः॥६०॥ औदार्य विनयो
दा०३१
Page #370
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१८१॥
SHREERSHNEERS
लज्जा चातुर्य चेति सद्गुणाः । बभुः स्वभावतस्तस्मिन् रोहणे मणयो यथा ॥ ६१॥धनश्रीस्तस्य कान्ताऽपि तत्समान- द्वादशः गुणा बभौ । पुण्योपचयलभ्या हि दम्पत्योः समशीलता ॥ ६२॥ समयामृतसूरीन्द्रस्तत्रान्येधुरुपागमत् । रवेरिव यतो प्रकाशन धर्मगुरोरन्योपकारिता ॥ ६३ ॥ समं स पौरलोकेन प्रणनाम गुरुं धनः । शुभकृत्ये यतो भद्रप्रकृतेः सहकृत्त्वता ॥ ६॥ गुरोर्देशनया देशविरतिं प्रत्यपादि सः। सुकरा हि सकर्णस्य सुवर्णस्येव संस्क्रिया ॥६५॥ अथायं गृहमागत्य भार्या धर्ममजिज्ञपत् । साऽपि तं प्रतिपेदाना सत्यो हि स्युः पतिव्रताः॥६६॥ प्रत्यहं त्रिर्जिना_दिपुण्यकृत्यानि स व्यधात् । नावश्यकविधौ जातु प्रमाद्यन्ति विवेकिनः ॥ ६७ ॥ एकान्तरमभुक्तायं पात्रदानपुरस्सरम् । तदेव भोजनं यत्र गुरुदत्तावशिष्टता ॥ ६८ ॥ सञ्चित्तपरिहारादिनियमानयमादृतः । प्राणवत्पालयामास महान्तो हि दृढव्रताः ॥ ६९ ॥ धर्ममारा-2 ध्यतोऽप्येवं प्राच्यं कर्मान्तरायिकम् । तस्योदगादनुल्लवयं निजच्छायेव तद्यतः॥७॥ ततः स्तोकदिनैस्तस्य दस्युवयादियोगतः। अहीयत धनं सेतुभङ्गादिव सरोजलम् ॥ ७१ ॥ इह ह्याराधितो धर्मः परत्र सुखकारणम् । सुखासुखे पुनः प्राच्यकर्मोदयनिमित्तके ॥ ७२ ॥ अमुष्य निर्धनत्वेऽपि धर्मोऽधिकमदीप्यत । न वर्धते किमम्भोधिभीष्मग्रीष्मसमागमे | ॥ ७३ ॥ प्राकृतोक्तिभिरप्यस्य धर्मो नैवामलिन्यत । रजोभिरौर्वरैर्जात्यरत्नतेजो हियेत किम् ॥ ७४॥ अन्येद्युस्तं जगौ भार्या गच्छ सद्मनि मे पितुः। ततश्च धनमानीय स्वामिन् ! वाणिज्यमातनु ॥७५ ॥ परं तदेष नेयेषनैःस्खे मानी यियासति । स्वजनान्तर्नहि क्वापि किं पुनः श्वशुरौकसि ॥ ७६ ॥ तं पुनर्बहुधा मुग्धा प्रेरयामास साऽनिशम् । सोऽपि दाक्षिण्यतस्तत्र गमनं प्रत्यपद्यत ॥ ७७ ॥ प्रशस्ते दिवसे सक्तुशम्बलः स उपोषितः । प्रतस्थे सुस्थितस्वान्तः प्रति श्वशुरमन्दि
Page #371
--------------------------------------------------------------------------
________________
रम् ॥ ७८ ॥ द्वितीये दिवसे क्वापि पारणार्थं स्थितः पथि । दध्यौ कथं विना पात्रदानं कुर्वेऽद्य भोजनम् ॥ ७९ ॥ एतावन्त्यप्युदप्राणि किं मे भाग्यानि जाग्रति । यदरण्येऽपि कोऽप्यत्र कुतोऽध्येति यतीश्वरः ॥ ८० ॥ इति ध्यायन्नयं पश्यन् | दिशः क्षणमवास्थित । साध्वयोगे दिगालोकः श्रद्धालोः खलु सत्फलः ॥ ८१ ॥ इतश्च पुरि भिक्षायै पक्षक्षपणपारणे । व्रजंस्तत्राययौ कोऽपि साधुर्धर्म इवाङ्गवान् ८२ ॥ तं दृष्ट्वा हृष्टचित्तोऽयमभ्युत्थाय ससंभ्रमम् । प्रणम्य श्रेयसी भक्तिः | सक्तुभिः प्रत्यलाभयत् ॥ ८३ ॥ स कृतार्थमथात्मानं मन्वानः पारणं व्यधात् । प्रस्थितश्चाग्रतः प्राप तुर्येऽह्नि श्वशुरालयम् ॥ ८४ ॥ सच्चक्रुः श्वशुराद्यास्तं परं नैवार्पिपन् धनम् । दरिद्रं नाद्रियन्ते हि प्रायशः स्वजना अपि ॥ ८५ ॥ परस्मैददते प्रायो जनाः प्रत्यर्पणाशया । न संमुखमपीक्षन्ते निःस्वस्य कथमन्यथा ॥ ८६ ॥ ततः संतोषतृतात्मा ववले स निरा कुलः । सम्माने वाऽपमाने वा महान्तस्तुल्यवृत्तयः ॥ ८७ ॥ स्वग्रामसरितस्तीरे प्राप्तश्चिन्तयति स्म सः । मनोरथैर्गणतिथैः प्रेयसी प्रजिघाय माम् ॥ ८८ ॥ तथाऽवस्थं च मां दृष्ट्वा तस्या भावि महत्तमम् । दुःखं तस्मादमुष्याश्च मा स्म भूदसमञ्जसम् ॥ ८९ ॥ ध्यात्वेत्यकर्कशानर्कभासुरान् वृत्तकर्करान् । गृहीत्वा गणशो ग्रन्थौ रतबन्धं बबन्ध सः ॥ ९० ॥ विधाय शिरसि ग्रन्थि जगाम निजधाम सः । दयिताऽपि तथाऽऽयान्तं कान्तमालोक्य पिप्रिये ॥ ९१ ॥ अभ्युत्थानादिकां तस्य प्रतिपत्तिं व्यधत्त सा । तस्माच्चादाय तं ग्रन्थिमन्तर्वेश्म न्यवीविशत् ॥ ९२ ॥ कुशलालापपीयूषपाणगोष्ठीं | तया समम् । विधाय कृतभुक्त्यादिकृत्यः सुष्वाप स क्षणम् ॥ ९३ ॥ तया कौतुकतो ग्रन्थौ रत्नान्युग्रथिते सति । प्रादुरासन् प्रदीप्राणि नानारत्नखनाविव ॥ ९४ ॥ अहो ! ते पितुरौदार्थमहो ! वत्सलता त्वयि । अनयैर्घ्यदयं रतैर्जामातर
Page #372
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१८॥
द्वादशः प्रकाश
|ममानयत् ॥९५ ॥ इत्युपश्लोकयन्तीनां सखीनां तां स्मिताननाम् । हर्षसांराविणं तस्य तदा निद्रां व्यदुद्रुवत् ॥ ९६॥ किमेतदिति संभ्रान्तः शय्योत्थाय दुतं धनः। दृषदोऽपि मणीभूता वीक्ष्यमाणो विसिष्मिये ॥ ९७ ॥ विस्मयस्मेरनेत्रं तं दयिता स्माह सस्मितम् । त्वमप्यदृष्टपूर्वीव किं रत्नानि विलोकसे ॥ ९८॥ सोऽप्यूचे श्वशुरादानप्रस्तरग्रहणादिकम् । ततो जज्ञे जनः सर्वो विशेषेण सविस्मयः॥ ९९ ॥ इतश्चाध्यक्षतामेत्य जगौ शासनदेवता । भो ! मुग्धाः! विस्मयध्वे किं शृणुतात्र यथास्थितम् ॥ १०॥ धनेन मुनयेऽनेन दत्ता यत्पथि सक्तवः । पात्रदानस्य तस्यायं महिमाऽश्ममणित्वकृत्
॥१०१॥ प्रहारा अपि हाराः स्युः संपदीस्युस्तथाऽऽपदः। मणीभवन्ति दृषदः पात्रदानान्न किं भवेत् ॥१०२॥ इत्युक्त्वा ४सा तिरोधत्त तदृष्ट्वा च जना मुदा । तुष्टुवुस्तं मुहुः पात्रदाने चादरमादधुः॥ १०३ ॥ स प्रतिष्ठां ययौ रत्नैरप्रतां दानिनां
वरः। महिमानं न के दत्ते लक्ष्मीरौदार्यभूषणा ॥१०४॥ सुचिरं धर्ममाराध्य पात्रदानपवित्रितम् । गतिं दिव्यामयं लेभे पक्रमेण परमामपि ॥ १०५॥ इत्थं निराशंसतया द्विधाऽपि सुपात्रदाने सुधियोऽवधत्त । निर्विघ्नमेवोभयलोकसंपद्यथा | समग्रा वृणुते स्वयं वः ॥ १०६ ॥ आशंसा ॥१॥ । तथा न कापि मेधावी दद्यादानमनादरम् । तत्तथा कीर्तये नेह प्रेत्य न श्रेयसे च यत् ॥१॥ ददीताल्पमनल्पं वा यथासंपत्ति सन्मतिः । परमादरसंपन्नं दानश्रेयान् स एव यत् ॥२॥ दानमादरनिर्मुक्तं विद्या विनयवर्जिता । तपः शमविनाभूतं त्रयं क्लेशाय केवलम् ॥३॥ सुपात्रे तु विशेषेण नहि कुर्यादनादरम् । तदवज्ञा यतो दातुः प्रत्युत प्रत्यवायकृत् ॥४॥ अवजानन सुपात्रं हि तद्गुणानवजज्ञिवान् । अवज्ञयेव दूनास्ते नोपसर्पन्ति जातु तम् ॥ ५॥ तदभावे
॥१८॥
Page #373
--------------------------------------------------------------------------
________________
4%*
**
*4-15***
*
भवेद्दोषदूषितात्मा पुमानिह । तथा च कुरुते पापं ततश्चाप्नोति दुर्गतीः॥ ६॥ किञ्च-अनादरं ददानस्य शुभो भावोऽप-5 चीयते । तथा च हीयते पुण्यं तैलहानौ प्रदीपवत्॥७॥ पुण्येन हीयमानेन फलमप्यस्य हीयते। उपेयस्यापकों हि स्यादुपायापकर्षतः॥८॥ दद्यादतोऽनवद्यात्मा दानमादरसुन्दरः । कायवाड्मानसैः क्लृप्तस्त्रिविधस्तत्र चादरः ॥९॥ पात्रं निभाल्य संभ्रान्ताभ्युत्थानमभियायिता । हर्षाश्रूणि मुखोल्लासः सर्वाङ्गं पुलकोद्गमः॥१०॥ इत्यानन्दानुभावौघसुभगीभूतमूर्तिकः। ददीतोत्तमपात्राय तद्धि गौरवमर्हति ॥११॥ अहो ! मे फलितं पुण्यैः सुप्रभातमहो! मम । यद्हं जङ्गमः कल्पद्रुमः स्वामिंस्त्वमागमः॥ १२ ॥ इदमन्नमिदं पानमिदं स्वादिमखादिमम् । अशेषमेषणीयं च गृह्यतामनुगृह्य मे॥१३॥ | इत्यादरवचोयुक्तिव्यक्तनिर्णिक्तभक्तिकः । सुधीर्ददीत पात्राय सूक्तिर्दाने हि शस्यते ॥ १४ ॥ तदेव सत्फलं दानं यत्प्रि
योक्तिपुरस्सरम् । नापरं तु यतःप्रेत्य फलं तस्य विसंस्थुलम् ॥ १५॥ ___ अत्रार्थे शृणुताख्यानं यत्पुराणे प्रणीयते । पुरा युधिष्ठिरो राज्यं बुभुजे हस्तिनापुरे ॥१६॥ सोऽष्टादशसहस्राणि भोजयामास तापसान् । प्रत्यहं हैमपात्रेषु जानन् दानफलां श्रियम् ॥ १७॥ न्ययुत चानुजं भीमं तदाकारणकर्मणि। स्वयं स्वसदृशा वा हि युक्त पात्रनिमन्त्रणम् ॥ १८॥ भीमः स्वभावतो भीमः किं पुनः स गदान्वितः। यत्तद्वचोभिराक्रोशन न्यमन्त्रयत तान् द्रुतम् ॥ १९॥ ततोऽभवन् भयोद्धान्ता भुञ्जाना अपि ते कृशाः। प्राज्यं द्विधाऽपि सद्भोज्यं छागीव वृकसंनिधौ ॥२०॥ तान् कृशानन्यदाऽदर्शद्धर्मसूर्विषसाद च । हा भक्त्या भोज्यमानानामप्येषां कृशता किमु ॥२१॥ ततस्तद्धेतुमप्राक्षीद्विदुरं स विदांवरम् । सोऽपि सम्यग् विनिश्चित्य यथास्थं तमचीकथत् ॥ २२॥ वृकोदरो न
*
*5
***
Page #374
--------------------------------------------------------------------------
________________
द्वादशः प्रकाश
दानप्रदीपे
है दुर्वाक्यविपाकं दर्शितं विना । सुशिक्षो भविताजन्ममुद्धतप्रकृतिर्यतः ॥ २३ ॥ एवं विमृश्य शल्यारिर्गन्धमादनपर्वते ।
प्रैषीद्यक्षान्तिके हूतिकैतवेन वृकोदरम् ॥ २४ ॥ वीक्ष्य यक्षस्तमायान्तं मुखमाच्छाद्य तस्थिवान् । भीमस्त्वभीरपानैषीन्मङ्घ ॥१३॥ | तस्य मुखाञ्चलम् ॥ २५ ॥ दृष्ट्वा च शूकरस्येव मुखं तस्य भयंकरम् । स्वर्णवर्ण पुनः कार्य विस्मितो यक्षमाख्यत ॥ २६ ॥
एकाकी वससे नित्यं पर्वते गन्धमादने । किमियं काश्चनी काया किमिदं शौकरं मुखम् ॥ २७॥ यक्ष उवाच-अर्थदानं रत्नदानं मुखे नाभूत सुभाषितम् । तेनेयं काश्चनी काया तेनेदं शौकरं मुखम् ॥२८॥ शुभाशुभे हि जीवानां ध्रुवं प्राकमहेतुके । मया पूर्व ददे द्रव्यं नोचे तु रुचिरं वचः॥ २९ ॥ तस्मादिदं शरीरे मे वैसंस्थुल्यमजायत । यद्यथा क्रियते कर्म तत्तथा प्रेत्य भुज्यते ॥३०॥ मुखं वीक्षयितुं कस्याप्यक्षमो यामि नो पुरे । अत्रायाते च कस्मिंश्चित्स्थगयामि हियाननम् ॥ ३१॥ त्वां तु शिक्षार्थमेवात्र प्राहैषीदग्रजः सखे ! । अतः सर्वत्र दुर्वाक्यं त्याज्यं दाने विशिष्य तु ॥ ३२॥ तथेति प्रतिपद्याथ भीमो हीमान् ययौ पुरम् । नित्यं निमन्त्रयामास तापसांश्च प्रियोक्तिभिः ॥ ३३ ॥ अयं ज्ञानक्रियापात्रमयं सर्वगुणाकरः । तदस्मै युज्यते दातुं सारं सद्मनि यन्मम ॥ ३४ ॥ अस्मै यथाविधि प्रत्तमत्यल्पमपि भावतः। भवत्यनल्पलाभाय संगमादेरिव ध्रुवम् ॥ ३५ ॥ इत्यान्तरादरोल्लासः पात्रे दयान्महामनाः । सद्वित्तपात्रयोगो हि सफलश्चि
त्तसङ्गतः॥ ३६ ॥ परमं हि समस्यापि धर्मस्याङ्गं सुभावना । तत्फलातिशयः सर्वो यतस्तन्नान्तरीयकः ॥ ३७॥ ददतोऽपि है विना भावं केचिन्नाचवते फलम् । केऽप्यदत्त्वाऽपि सद्भावा लभन्ते परमं फलम् ॥ ३८॥श्रूयते परमश्राद्धो जिनदत्ता-
भिधः सुधीः । वास्तव्यः पुरि वैशाल्यां जीर्णश्रेष्ठीति विश्रुतः॥ ३९ ॥ तत्रोद्यानस्थितं वीरं चतुर्मासीमुपोषितम् । स
॥१८॥
Page #375
--------------------------------------------------------------------------
________________
प्रत्यहमसेविष्ट पारणैकनिविष्टधीः ॥ ४० ॥ चतुर्मास्यतिमाहे च निमन्त्र्य स्वामिनं मुदा । निजं धामाजगामायं जिनार्वादि चकार च ॥ ४१ ॥ जिनाध्वदत्तदृग् दध्यौ जिनदत्तः स्थितोऽङ्गणे । दास्यामि स्वामिनेऽमूनि भोज्यानि प्रासुकान्यहम् ॥ ४२ ॥ ध्रुवं धन्योऽस्मि संपूर्णपुण्योऽस्मि धाम्नि यन्मम । स्वयमेष्यति विश्वेशः पारणं च करिष्यते ॥ ४३ ॥ हर्षाच्चाभिगमिष्यामि समायान्तं जगत्प्रभुम् । त्रिः परीय च सानन्दं वन्दिष्ये तत्पदाम्बुजम् ॥ ४४ ॥ पारयित्वा च तं पाणौ करिष्ये मोक्षसंपदम् । तस्यै दर्शनमप्यस्य किं पुनः पारणं यतः ॥ ४५ ॥ इत्यनुक्षणवर्धिष्णोर्विशुद्धाध्यवसायतः । बबन्धाच्युतकल्पायुरददानोऽप्ययं तदा ॥ ४६ ॥ तावता श्रीमदोद्रीवाभिनवश्रेष्ठिनो गृहे । तदादेशाज्जिने दास्या पारिते देवताडितम् ॥ ४७ ॥ दिव्यदुन्दुभिमश्रौषी देषोऽतिविषसाद च । हा ! ध्रुवं मन्दभाग्योऽस्मि मुधाऽभून्मे मनोरथः ॥ ४८ ॥ युग्मम् ॥ तादृग्भावस्तदायं चेन्नाश्रोष्यद्देवदुन्दुभिम् । केवलज्ञानमप्याप्स्यद्भुवं भावविशुद्धितः ॥ ४९ ॥ दानं विनाऽप्ययं भावाद्दिव्यां तामृद्धिमार्जिजत् । दत्त्वाऽप्यभिनवश्रेष्ठी न तु किंचित्तदुज्झितः ॥ ५० ॥ अयं प्रत्युत दुष्कर्म निर्ममेऽर्हदवज्ञया । नावज्ञा हि शुभा पात्रे सर्वस्मिन् किं पुनर्जिने ॥ ५१ ॥ तद्गृहे रत्नवृष्ट्यादि निर्ममे यत्तु नाकिभिः । तदर्हद्भक्तिविवशैर्न तु तद्भावरञ्जितैः ॥ ५२ ॥ अतः सर्वत्र संपूर्णफलाय स्पृहयालुना । सद्भावपावितं दानं देयं पात्रे विशिष्य तु ॥ ५३ ॥ इत्याराध्यति दानं यस्त्रिविधादरसुन्दरम् । सोऽश्नुते संपदं श्लाध्यामपरः पुनरन्यथा ॥ ५४ ॥ तथाहि
तमालिनीनामपुरी प्रतीता चैत्याग्रजाग्रवजमालिनी या । तस्यां गरीयश्चतुरङ्गसेनः श्रीमित्रसेनोऽजनि मेदिनीशः॥५५॥ मित्रं च मन्त्री च बभूव तस्य दधद्यथार्थामभिधां सुमन्त्रः । तरङ्गिणीकान्तमिवापगायं समालिलिङ्गुर्मतयः समग्राः ॥५६॥
Page #376
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१८४॥
तत्रान्यदोद्यानमलश्चकार गुरूत्तमः श्रीविनयन्धराख्यः। अवन्दतामु च मुदा समेत्य नृपः सुमन्त्रश्च पुरीजनश्च ॥ ५७॥
द्वादशः पुण्योपदेशं गुरुरप्यमीषां प्रचक्रमे कर्णसुधायमानम् । दुष्णापमासाद्य मनुष्यजन्म धर्मो विधेयः सततं सुधीभिः ॥५८॥
प्रकाशः। धर्मेण सर्वा अपि संपदो हि भवन्ति नव्याम्बुभृतेव वल्यः। नश्यन्त्यवश्यं विपदश्च नैशास्तमःसमूहा नवभास्वते च ॥५९॥ दानादिभेदादयमभ्यधायि चतुर्विधस्तत्र च दानमग्यम् । यतस्तदेवाद्रियते जिनेन्द्रैः पूर्व सभायामुपदिश्यते च ॥ ६॥ दानेषु सर्वेष्वपि पात्रदानं विदुः प्रधानं श्रुतवेदितारः। महान् यतः पात्रतदन्यक्लुप्तो घनाम्बुवत्तस्य फले विशेषः ॥ ६१॥ तत्राप्यदम्भादरमेव दातुः प्रधानमङ्ग ब्रुवते फलट्टेः । यतस्तदुत्कृष्ट्यपकृष्टिसृष्टं स्यात्तत्फले सौष्ठवदौष्ठवादि । ६२ ॥अना-15 |दरं ये ददते सुपात्रे परत्र ते स्युर्धनिनो नरेन्द्र !। प्रदीयते यैः पुनरादरेण भवन्ति नित्यं किल भोगिनस्ते ॥ ६३ ॥ श्रुत्वेति भूपो हृदि संदिहानः प्रोचे मुनीन्द्रं भगवन् ! विशेषः । को भोगिनां स्याद्धनिनां च शब्दाद्वयेऽप्यमी ह्याहुरभिनमर्थम् ॥ ६४ ॥ विना न दृष्टं प्रतियन्ति मन्दधियः समीचीनमिति प्रतयं । तं प्रत्यवादीसुगुरुयानां राजन्नमीषां| सुमहान विशेषः ॥ ६५ ॥ परं त्वदीयं पुरकन्यकुजनिवासिनौ संशयमिभ्यधुर्यो । हरिष्यतोऽमुं निधिदेवभोगदेवौ यदेवं भवतः प्रतीतिः ॥ ६६ ॥ ओमित्युदित्वा नृपतिस्तथैव चिकीः स्वकीयं गृहमाजगाम । ध्रुवं स एवोत्तमधीगुरूक्तां गिरं है तथेति प्रतिपद्यते यः॥ ६७ ॥ प्रैषीन्मनीषी च नृपः सुमन्त्रमन्त्रीश्वरं तत्र पुरे तदर्थम् । प्रमाद्यति प्रत्ययितोपदिष्टे स्वका
॥१८४॥ | यसिद्ध्यौपयिके सुधीः कः॥ ६८ ॥ दुतं गतः सोऽपि च कन्यकुनं पृच्छन् जनं विंशतिहेमकोटेः। जगाम गेहं निधिदेवगेहिब्रुवस्य निःस्वामिकवद्गतथि ॥ ६९ ॥ मार्जारवत् पिङ्गदृशं निशाटमिवावटीटं खनकाल्पकर्णम् । पिशाचवद्भसरके
Page #377
--------------------------------------------------------------------------
________________
शमुष्ट्रलम्बौष्ठकण्ठं किरिदन्तुरास्यम् ॥ ७० ॥ स्थूलोदरं जातजलोदरं तु जीर्णे वसानं मलिने च वस्त्रे । नखादिसंस्कारविवर्जिताङ्ग मुनीशवत्स्नानविनाकृतं च ॥ ७१ ॥ शुम्भावलिव्यूतिविहस्तहस्तं समं वणिग्भिः कलहायमानम् । तद्वारि दारिद्र्यमिवाप्तमूर्ति मन्त्री नरं कञ्चन पृच्छति स्म ॥ ७२ ॥ क्व वर्त्तते भो ! निधिदेवगेही वैदेशिकोऽहं सचिवः समागाम् । शङ्काकुलः सोऽपि जजल्प तेन किं ते निमित्तं सचिवोऽप्युवाच ॥ ७३ ॥ अभ्यागतस्तस्य समागतोऽस्मि श्रुत्वेति कर्ण - कचं तु वाचम् । उपेयिवान् मृत्युदशामिवायं श्यामायितास्यः सचिवं तमूचे ॥ ७४ ॥ अहं स एवाहह कष्टमेतैर्घुणैरिव प्राघुणकैरजस्रम् । सुदारुणैर्दारुरिव व्यदारि भद्र ! त्वमप्येहि तदून पूर्यै ॥ ७५ ॥ अनादरेऽपीप्सितनिश्चयाशावशेन तद्वेश्म विवेश मन्त्री । सुखावहा सा ह्यवमाननाऽपि संपद्यते यत्र निजेष्टसिद्धिः ॥ ७६ ॥ स तत्र धात्रा विहितांवरस्य रूपं निरू|प्येव तदानुरूप्यात् । पिशाचडिम्भैरिव धूलिधूम्रैर्बालैः क्षुधार्तैः परिखेद्यमानाम् ॥ ७७ ॥ वर्णेन काकीं करभीं च गत्या खरीं स्वरेणाकृतिशूकरीं च । काचादिभूषां दयितां तदीयां साक्षादलक्ष्मीमिव वीक्षते स्म ॥ ७८ ॥ युग्मम् ॥ चिकीर्षुरप्येष जिनार्चनादि न तगृहाचार इति व्यधान्नो । यतो वृषाणामिव न प्रवृत्तिरभ्यागतानां क्वचन स्वतन्त्रा ॥ ७९ ॥ मध्यं दिनेऽध्यास्त समं स तेन शीर्णासने भोक्तुमपूतपात्रैः । तयोः कफाक्तेन तया करेण कुल्माषतैलादि च पर्यवेषि ॥ ८० ॥ तादृक्कदन्नं सचिवस्य तस्य जगाम नाधो गलकन्दलस्य । कदाऽप्यनायाततयेव पूर्वं सम्यक्तदध्वानमबुध्यमानम् ॥ ८१ ॥ श्रेष्ठी तु सद्योऽपि तदप्यभुक्त यच्छीलितं तेन सदा तदेव । निरीक्ष्य चारोचकिताममुष्य मन्दाक्षवान् दुग्धममार्गयच्च ॥ ८२ ॥ तत्रानयन् दुग्धममुग्धकोऽपि समेऽप्यकस्मात्स्खलिति स्म कण्ठः । हस्ताच्च्युतं तस्य च दुग्धभाण्डं तदाशया
Page #378
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥ १८५ ॥
सार्धमभज्यताशु ॥ ८३ ॥ आचम्य किञ्चित्परिभुक्तमुक्तभक्तः कथंचित्सचिवोऽप्युदस्थात् । स्वयं क्षिपन् खादिरचोचमास्ये श्रेष्ठी च तस्याप्यतिथेरदत्त ॥ ८४ ॥ दुश्चेष्टितं तस्य गृहस्य पश्यन् हृद्याकुलो विस्मयखेदहास्यैः । मन्त्री तमत्रापि तदन्वकार्षीत् कुर्वन्ति यज्ज्ञाः समयानुरूपम् ॥ ८५ ॥ स्वल्पेऽपि कुर्वन्नथ लभ्यदेये पदे पदे यं कलहं वणिग्भिः । बभ्राम विश्राममृतेऽपराह्नममात्ययुक्तः पुरि वातकीव ॥ ८६ ॥ गृहागतः सायमयं विशीर्णां शय्यां स्वकीयां कुथितां च कन्धाम् । तस्मै ददौ रङ्क इव स्वयं तु विनांहिशौचं स्वपिति स्म भूमौ ॥ ८७ ॥ तद्वित्तदुर्वृत्तवितर्कखट्टा कम्प्रत्वकन्था कुथितत्वदुःस्थम् । निद्रा सुमन्त्रं परिमुच्य दूरं जगाम मानिन्यपमानितेव ॥ ८८ ॥ इयं भवन्ती मम कोटियामा कथं त्रियामाऽपि समापनीया । इत्यर्तिभाजोऽस्य कुतोऽप्यकस्मादयं ध्वनिः कर्णपथे प्रतस्थे ॥ ८९ ॥ रे मुग्ध ! किं दुग्धमदित्स्यतास्मै त्वं युक्तिकुण्ठः किल वण्ठ ! सत्यम् । अयं त्वनौचित्यविधिस्तवायमवार्यत क्षीरघटोपमर्दात् ॥ ९० ॥ किमेतदित्युन्मिषचक्षुषोऽग्रे काऽप्यस्य दिव्या युवतिर्जगाम । वण्ठेऽपि तद्वृत्तमबुध्यमाने निन्ये कथंचित्स निशां सचिन्तः ॥ ९१ ॥ प्रातस्तमापृच्छय स भोगदेवधनीशितुर्धाम जगाम मन्त्री । सर्वाङ्गसनीकमनेक रुक्मकुम्भं विमानं तु दिवोऽवतीर्णम् ॥९२॥ द्वाःस्थस्तमभ्युस्थितिपीठदानाद्यौचित्यतः सत्कुरुते स्म तत्र । विवेकिनां वेश्मसु वर्तमाना भृत्या अपि स्युर्विलसद्विवेकाः ॥ ९३ ॥ तदा पदातिप्रकरेण युक्तमुत्तुङ्गदुतुङ्गतुरङ्गमस्थम् । अमन्दबन्दिस्तुतिजातमिष्वकोलाहलं राजकुलादुपेतम् ॥ ९४ ॥ दिव्याङ्गभोगैः सुभगं सुवर्णभूषाभिरुद्भासितदिक्कलापम् । प्रसृत्वरीभिः परितः प्रभाभिः स्वपुण्यराशीनिव दर्शयन्तम् ॥ ९५ ॥ देवेन्द्रमुर्व्यामिव भोगदेवं दृष्ट्वा स मन्त्री द्रुतमभ्ययासीत् । सोऽप्येनमायान्तमवेक्ष्य मङ्गवारुक्षदश्वादभिषस्वजे च ॥ ९६ ॥
द्वादशः प्रकाशः।
।। १८५ ।।
Page #379
--------------------------------------------------------------------------
________________
त्रिभिर्विशेषकम् ॥ क्षेमादिपृच्छासुधया प्रमोद्य श्रेष्ठी तमाकार्य विवेश वेश्म । परिच्छदं वीक्ष्य विसिष्मयेऽस्य विज्ञं विनीतं सुभगं च मन्त्री ॥९७ ॥ सस्नौ समं तेन कवोष्णनीरैः स दिव्यवासांसि च पर्यधत्त । भक्त्या जिनेन्द्रप्रतिमाश्च हैमीरपूपुजद्विभ्रदिव द्विरूपीम् ॥९८ ॥ विधाय चिन्तां पशुबालवृद्धमन्दादिकानामपि भोगदेवः। ययौ समं मन्त्रिवरेण भुक्तिगृहं तदौचित्यचमत्कृतेन ॥ ९९ ॥ न्यवीक्षत न्यस्तचरे स भद्रासने समन्त्री सपरिच्छदश्च । स्वस्यैव कुक्षिभरयो भवन्ति न वापि काका इव सद्विवेकाः॥ १०॥ चतुष्किकास्तत्पुरतो विमुक्ता मुक्ताभिरामास्तपनीयमय्यः। तासु स्थिताः कुण्डलिकाः सुवृत्ता भान्ति स्म चेष्टा इव सजनानाम् ॥ १०१॥ कच्चोलकालीकलितानि तासु स्थालान्यशोभन्त हिरण्मयानि। दिवोऽवतीर्णानि सतारकाणि प्रभाकराणामिव मण्डलानि॥१०२॥ पूर्णेन्दुवक्रा स्मितपद्मनेत्रा सुधां सवन्तीव च सा दृशा च । सौभाग्यमङ्गेष्वखिलेषु दिव्यालङ्कारवारद्विगुणं वहन्ती ॥ १०३ ॥ सुवासिनीभिर्वरभोज्यजातमानाययन्ती परिवेषणाय । पत्नी तदीया विनयोपपन्ना तत्रागमनेहरमेव मूर्ती ॥ १०४ ॥ अत्रान्तरे तत्र पवित्रवृत्तियतिस्तपस्तेज इति प्रतीतः। अलङ्करोति स्म तदीयसन व्योमाङ्गणं भानुरिव प्रभाते ॥ १०५॥ विलोक्य तं मूर्तमिवाथ धर्म निश्छद्मभक्तिः स वणिग्वतंसः। ससंभ्रमोत्थाभिगमादिपूर्व प्रणेमिवान् प्राञ्जलिरूचिवांश्च ॥ १०६ ॥ कल्पद्रुमः प्राप गृहं ममाद्य चिन्तामणिः कामघटादयश्च । पचेलिमप्राक्तनपुण्यलभ्यः प्रभो! यदेष स्वयमागमस्त्वम् ॥१०७॥ प्रसद्य तत्प्रासुकमन्नपानं गृहाण नाथानुगृहाण मां च । मन्ये तमुत्तारयितुं भवाब्धेस्तुम्बं तदने विदधेऽथ साधुः॥१०८॥ शुद्धान्नपानैस्तदपूरि तेन स्वात्मा पुन: पुण्यभरैरपारैः । गत्वा वने साधुरपि व्यधत्त तैः पारणं पुण्यपरायणात्मा ॥ १०९॥ तया सहर्ष परिवेष्यमा
Page #380
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वादशः प्रकाशः।
॥१८६॥
णमथानपानं विविधं मनोज्ञम् । प्रचक्रमे न्यत्कृतदिव्यभोज्यं परिच्छदामात्ययुतः स भोक्तम् ॥ ११०॥ इतश्च सूपेऽन-11 वधानभाजि व्यनीनशागू दधिभाण्डमोतुः। ततः स वैलक्ष्यमयं व्यमृक्षद्धहा ममागः कियदद्य जज्ञे ॥ १११॥ कुर्वे कथंकारमथाहमित्थमत्यर्थचिन्तावति सूपकारे । ग्रामान्तरात्तावदतिप्रभूतं द्रुतं दधि प्राभृतमाजगाम ॥ ११२॥ स्निग्धं सुधापिण्डमिवापरं तद् भुक्त्वा दधि स्निग्धकरैः समन्तैः। श्रीभोगदेवो घनसारसारसुवासितैरम्बुभिराचचाम ॥ ११३ ॥ गुणैरुपेतं दशभिस्त्रियुक्तैस्ताम्बूलमादत्त सुगन्धिभोगः । ददौ स्वहस्तेन च धीसखाय सार्वत्रिकौचित्यविदो हि सन्तः ॥ ११४ ॥ क्षणं स विश्रम्य सुवर्णतल्पे प्रबुद्धवांश्चन्दनलिप्तगात्रः । वार्ताः सुधीः सार्धमनेन धर्मविचारसारा विविधा व्यधत्त ॥११५॥ सायं जिनार्चा विधिवद्विधाय श्रीदेवगुर्वोः स्मृतिपावितात्मा । श्रेष्ठी च मन्त्री च सहसतूलि हिरण्मयं तल्पमलञ्चकार ॥ ११६ ॥ तद्भोगऋद्धिं विविधां हृदन्तायन्ननिद्रः सचिवावतंसः । इमामकस्मादपि दिव्यवाणीमाकर्णयामास भरे निशायाः॥११७॥ निर्वासनामर्हसि सूपपाश! यत्ते प्रमादो दधिभाजने रे। मया तवायं परमद्य सद्यः प्यधायि दध्यानयनेन विद्धि ॥ ११८ ॥ इतस्ततो दिक्षु विदिक्षु चक्षुः क्षिपन्नथ प्रेक्षत धीसखोऽयम् । उद्भासयन्ती ककुभः प्रभाभिर्विभूषितां काञ्चन दिव्ययोषाम् ॥ ११९ ॥ तामासनोत्थायमयं जगाद सविस्मयः काऽसि ? किमित्यवोचः। | साऽप्याह मन्त्रिनिधिदेवभोगदेवद्वयस्यास्मि कुलाधिदेवी ॥ १२०॥ अत्रैत्य चावोचमिदं विदम्भ ! त्वदीयसंदेहभिदेऽवधेहि । अमुष्य वा श्रेष्ठियुगस्य सम्यग् निशम्यतां पूर्वभवस्वरूपम् ॥ १२१॥ अयं पुरा जन्मनि भोगदेवः पात्रे ददौ सादरमेव दानम् । तस्मादभूदद्भुतभोगभागी शुभाय कस्मै विधिवन्न दानम् ॥ १२२॥ पात्रेऽपि दानं निधिदेवकस्तु
॥१८६॥
Page #381
--------------------------------------------------------------------------
________________
RECARSAMAC
निरादरं पूर्वमदत्त मूढः । तस्मादसौ सत्यपि वित्तयोगे तद्भोगयोगं लभते न जातु ॥ १२३ ॥ भेदस्त्वयाऽयं धनिभोगिपुंसोरदर्शि वाच्यश्च नृपस्य गत्वा । इत्येनमावेद्य सुरी तिरोऽभूत् हर्षादनैषीच्च स रात्रिशेषम् ॥ १२४ ॥ सत्कृत्य तेनानुमतः प्रभाते सुमन्त्रमन्त्री स्वपुरं समेतः। संदेहशल्यं नृपतेस्तदिभ्यवृत्तोत्ययस्कान्तवशाच्चकर्ष ॥ १२५ ॥ तौ सादरं धर्ममथ प्रपाल्य क्रमादगातां सुगतिं शिवं च । अतो भृशं सादरता विधेया सुपात्रदानावसरे सुधीभिः॥१२६॥अनादरः॥२॥ __ अनुतापमपापधीस्तथा शुभदाने विदधीत न क्वचित् । स हि तस्य फलं विलुम्पते कनकं ध्मातमिवाननानिलः॥१॥ वितनोत्यनुतापमल्पधीः शुभपात्राय वितीर्य यो धनम् । आरोप्य सुपर्वपादपं विषयूषैः स निषिश्चते खलु ॥ २॥ दान फलदायकं तदा यदि तत्रोदयतेऽनुमोदना । सफला खलु सा कृषिर्भवेत् प्रथते यत्र सुवातपद्धतिः॥ ३॥ जलराशिमिवेन्दुदीधितिर्विपिनं वाऽभिनवाम्बुदावलिः । विधिना विहिताऽनुमोदना सुकृतं स्फातिमवापयत्यलम् ॥४॥न परं परमर्द्धिकारणं निजपुण्यानुगताऽनुमोदना । परपुण्यगताऽपि किन्त्वसौ प्रतिभूरद्भुतसंपदर्पणे ॥ ५॥ मोमोत्ति वितीर्य यः श्रियः सुलभास्तस्य विपर्ययेऽन्यथा । सुधनो मदनश्च दर्यते द्वितयेऽस्मिन् युगपन्निदर्शनम् ॥ ६॥ तथाहि
_भरते मथुरास्ति दक्षिणा शुशुभेऽभ्रंलिहचैत्यशृङ्गगैः। कलशैरनिशं हिरण्मयैर्भात्यर्के पदे पदेऽपि या॥७॥धनदस्य द समो धनर्द्धिभिस्तत्राभूद्धनदाभिधो धनी । जिनधर्मसुधाइदेऽनिशं मीनामास यदीयमानसम् ॥ ८॥ धनमतिरिति तस्य
गहिनी गेहश्रीरिव देहिनी बभौ । यस्यां मणिनेव काञ्चनं रूपं शीलगुणेन दिद्युते ॥ ९॥ अपरा मथुरा तथोत्तरा नगरी स्वर्नगरीगरीयसी । सदनं सदनेकसंपदा मदनस्तत्र धनीश्वरोऽजनि ॥ १०॥ व्यवसायविधित्सयाऽन्यदा मदनस्तां पुरमाप
-%
%
दा० ३२
Page #382
--------------------------------------------------------------------------
________________
द्वादशः प्रकाशः।
दानप्रदीपे दक्षिणाम् । वसतिर्व्यवसाय एव यत्कमलायाः कमलं तु रूढितः॥११॥ धनदेन सहास्य सौहृदं तत्राभूत्क्रयविक्रयादिना।
विदुषां हि विदेशमीयुषां सखिता स्यादुचिता महात्मभिः ॥ १२॥ दुहितातनयौ यदावयोः परिणायोऽस्तु तदा तयो॥ १८७॥
रिति । वाग्बन्धमिमौ वितेनतुः सखितावल्लिविलासमण्डपम् ॥ १३ ॥ धनदे प्रणयं श्रयन्नयं कतिचित्तत्र दिनानि तस्थिवान् । निजधाम जगाम चोन्मनाः संपन्नस्वविधेयसिद्धिकः ॥ १४ ॥ धनदस्य नदीष्णताजुषः पुरुषार्थत्रितयेऽप्यबाधया || तनयो विनयोदितद्युतिः सुधनो नाम सुधीः क्रमादभूत् ॥ १५॥ विनयादिगुणैर्मनोरमा तनयाऽन्यस्य मनोरमाऽजनि। अन्योन्यमपत्यजन्म ताववगम्यानिशमाननन्दतुः॥ १६ ॥ सुंधनाय ततो निजाङ्गजां युवतीजीवनयविनायताम् । मदनो| ददिवान् महामहैः प्रतिपन्नं महतां किमन्यथा ॥ १७॥ वरचीवरभूषणादिभिः सदकान्मिदनश्च तं मुदा । अथ सोऽपि ययौ निजां पुरीं श्वशुरेणानुमतः प्रियान्वितः॥ १८ ॥ स तया सह भोगभङ्गिभिः सुभगीभूतमनेहसं सुखम् । नयति स्म
कियन्तमिभ्यसूः पितृसंपूर्णमनोरथप्रथः॥ १९ ॥ पितरि क्रमतः समाश्रिते परलोकं बहुशोकविक्लवः । स चकार तदौमादेहिकं गृहभारं बिभरांबभूव च ॥ २० ॥ समयेऽथ कियत्यतीयुषि प्रतिवेलं कमला पलायितुम् । प्रावर्तत तस्य समतो
धनदेवेन समं सहाद्य या ॥२१॥ उपदुद्रुवुरस्य दस्यवः परितो वर्त्मसु वर्तिनीः श्रियः। प्रणयादिव पोतगाश्च ता मिमिलुः स्वं जनक सरित्पतिम् ॥ २२॥ सदनेऽपि धनं व्यनीनशन्ननिशं तस्य नृपानलादयः। समुपैति न किं प्रतीपतां प्रतिकूलत्वमिते स्वकर्मणि ॥ २३ ॥ कनकासनकुण्डिकादिकं सवनायाभवदस्य पैतृकम् । कलशाश्च चतुश्चतुष्पमा मणिदुवर्णसुवर्णनिर्मिताः ॥ २४ ॥ कलशाः समकालमेव ते सवनेऽन्येारनेन निर्मिते । नभसा रभसादुदैयरुधृतपक्षा इव दिव्य
55-ॐRERS
॥१८७॥
Page #383
--------------------------------------------------------------------------
________________
त्यजनापमानतः॥२८
तमव करेण कौतुकी जगहेतु
स्थालमहो ! पलाय
शक्तितः॥ २५ ॥ परमप्यखिलं क्षणात्ततः समकालं कनकासनादिकम् । सदनादुदपप्तदम्बरे पतगवातवदस्य पश्यतः ॥ २६ ॥ अथ कौतुकशोकवानयं जिनपूजादि विधाय धीनिधिः । तपनीयमयादिभाजनैः प्रगुणैः प्रारभते स्म भोजनम् ॥ २७ ॥ यदमत्रममुच्यतामुना चरितार्थी कृतमश्नता यदा । द्रुतमेव तदा तदुद्ययौ कुपितं तु त्यजनापमानतः ॥ २८ ॥ अयमाचमनं समाचरश्चपलं स्थालमपि प्रलोकयन् । द्रुतमेव करेण कौतुकी जगृहे दस्युमिव प्रणश्वरम् ॥ २९ ॥ कृतसार्थतयेव तैः समं तदपि स्थालमहो! पलायत । विनिवारयितुं हि पारयेद्वजमानं नियमाणकं च कः॥ ३० ॥ शकलं पुनरस्य तत्करे धृतदाक्षिण्यमिव व्यवास्थित । इति वीक्ष्य विलक्षतांगतो हृदि दध्यौ सुधनः सुधीरिदम् ॥ ३१ ॥ अधुना मम पुण्यशून्यता कथमासीदतिसीमदुःखदा । कमला सकलाऽपि पैतृकी यदहंपूर्विकया मुमोच माम् ॥ ३२ ॥ विषमः खलु | किं बहूच्यते परिपाको मम पूर्वकर्मणाम् । सुगृहीतमपि स्वपाणिना यदिदं स्थालमपि प्रणेशिवत् ॥ ३३ ॥ यदि वा धनयौवनादिके विदितैव क्षणदृष्टनष्टता । सुकृतं पुनरात्मना ध्रुवं तनुते च ध्रुवमेव वैभवम् ॥ ३४॥ विदधे विधिवद् ध्रुवं| मया नहि धर्मः समशर्मदः पुरा । लब्ध्वाऽपि विभूतिम तामधुनाऽभूवमभूतिभाग् यतः॥ ३५ ॥ यतिधर्ममतः श्रये|ऽधुना विपदो यस्तिमिरावलीरिव । सवितेव निहन्ति संपदः पुनरुल्लासयतेऽजिनीरिव ॥ ३६॥ इति रङ्गदभङ्गभावनोभववैराग्यतरङ्गिताशयः। विनयन्धरसूरिसन्निधौ सुधनः संयममाददे मुदा ॥३७॥ अममोऽपि कुतूहलादयं शकलं स्थालभवं सहाग्रहीत् । त्रपया तु कदाऽपि नापरं कमपि ज्ञापयति स्म संयतम् ॥ ३८ ॥ अथ तस्य गृहीतवास्तवग्रहणासेवन|शिक्षताजुषः। परमागमभावितात्मनो गुरुरेकत्वविहारमादिशत् ॥ ३९ ॥ विहरन् धरणी क्रमादयं मथुरामागमदुत्तरा
Page #384
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१८८॥
मथ । सदनं मदनस्य चागमन्नगरे गोचरचर्यया चरन् ॥ ४०॥ उपलक्ष्य च तेषु तेष्वयं कनकस्थालमुखेषु वस्तुषु । सतृषी
द्वादशः इव चक्षुषी मुहुः कुतुकाक्षिप्तमना निचिक्षिपे ॥४१॥ मदनो वदति स्म तं ततः कनके कर्करके च मानसम् । सममेव प्रकाश मुनेस्तदीक्ष्यसे मम लक्ष्म्यां किमिवाभिलाषवान् ॥ ४२ ॥ अथ साधुवरोऽभ्यधादमुं कमलायां नहि काऽपि मे स्पृहा । तव ऋद्धिमवेक्ष्य किन्त्विमां त्वां पृच्छामि सविस्मयाशयः॥४३ ॥ समगस्त विभूतिविस्तरस्तव कौतस्कुत एष उच्यताम् । मदनो हृदयेऽथ शङ्कितोऽप्यवदत्तं प्रति सस्मितो बहिः॥ ४४ ॥ इयमस्ति पितृक्रमागता रचना मे कनकासनादिका । अखिला कमलाऽप्यसौ तथा भवतः पर्यनुयोग एष कः॥४५॥ श्रमणोऽपि जगाद सस्मितं किमिदं भद्र! मृषोद्यमुद्यते । अभवद्भुजिभाजनादिकं सकलं पूर्वमिदं हि मद्गृहे ॥ ४६॥ सुकृते क्षयमागते त्विदं निलयान्मे निखिलं | पलायत । स्थालस्य तु नश्यतः सतो ग्रहणे खण्डमिदं करे स्थितम् ॥४७॥ त्वमतः कुतुकेन पृच्छयसे न पुनस्त्वद्विभवस्य लोभतः। भुजगादिव बाह्यवैभवाद्विभिमः संयमिनो वयं यतः॥४८॥ इति तं विनिवेद्य तन्मुनिः शकलं स्थालसमीपमानयत् । सुचिरं विरहादिवादितं सपदि स्थालमथालिलिङ्ग तत् ॥४९॥ अनलीकमशङ्कधीरथो तमवादीन्मदनः ससम्मदः । निधिवृन्दमदर्शमन्यदा सदनान्तः समुपागतं स्वयम् ॥ ५० ॥ सवनावसरे ममाऽन्यदा नभसागादिदमासनादिकम् । समयेऽथ भुजेः समाययौ सहसा भोजनभाजनवजः॥५१॥ तदियं कमला पुराकृतैः सुकृतैः सङ्घटिता कुतोऽपिEneer मे । न शुभं सुलभं किमङ्गिनामतिदुर्लभमपि स्वभाग्यतः ॥ ५२ ॥ वितथं प्रथमं त्वचीकथं यदहं मन्तुममुं क्षमस्व मे । भगवन् ! निगद त्वमप्यथो व निवासस्तनयोऽसि कस्य च ॥ ५३ ॥ मुनिनाऽपि निजं पुरादिकं चरितं तस्य पुरः प्रकी
SAMACHAR
Page #385
--------------------------------------------------------------------------
________________
तथा समाच निरपरदा
SAROSALA.
रुते वैषयिके सुखे मनः
SARASॐॐ
कार्तितम् । मदनश्च निशम्य तत्तथा स्वसुतायास्तममस्त वल्लभम् ॥ ५४ ॥ अथ सम्मददुःखगद्गदं न्यगदत्तं मदनोऽरुदन्नदः।
दुहितुर्दयितोऽसि मे मुने ! दुहिता सा च निरीक्ष्यतामियम् ॥ ५५ ॥ भवदीयमिदं गृहं मुने ! धनमेतन्निधयोऽप्यमी तथा । बहु किं सकलो मदादिकस्तव निर्देशपरः परिच्छदः॥५६॥ तदिमानसमानसौख्यदान वरभोगानुपभुङ्ग साम्प्रतम् । उपभुक्तसुखः पुनर्वयःपरिणामे चरणं समाचरेः॥ ५७ ॥ अथ भोगपराङ्मुखो मुनिस्तमभाषिष्ट विशिष्टया गिरा। विषवद्विषयाः सुदारुणाः परिणामे बहुदुःखदानतः॥५८॥ चरणं परिमुच्य यः कुधीः कुरुते वैषयिके सुखे मनः। स विधूय सुधारसं ध्रुवं विषमापातसुखं पिपासति ॥ ५९॥ सुरसेन सतस्त्यजन्ति ये विषयांस्ते जगदुत्तमा नराः । स्पृहयन्त्यसतोऽपि ये च तानधमास्तत्त्वविदाममी मताः ॥ ६॥ दधते तु रतिं गतेषु ये विषयेषु स्वयमेव दूरतः। अधमाधमतां दधत्यमी कथमेतांस्तदुपाददेऽधुना ॥ ६१॥ त्यजनं विषयैरिमैः पुनर्मम लाभाय बभूव भूयसे । अमुनैव यतः समासदं चरणं स्वर्मणिवहुरासदम् ॥ ६२ ॥ इत्यादि निगद्य निःस्पृहो विजहार श्रमणेश्वरोऽन्यतः । मदनश्च सुतापतेः कथामधिगत्येति भृशं विसिष्मिये ॥ ६३ ॥ मनसि व्यमृशच्च केन तं कमला द्राक् त्यजति स्म कर्मणा । इयमेकपदे स्वयं पुनः कथमङ्गीकुरुते स्म मामहो! ६४॥ यदि कश्चिदुपैति साम्प्रतं परमज्ञानधरो महामुनिः। तदुपान्तमुपेत्य संशयं तदमुं शल्यमिवोद्धरे हृदः॥६५॥ इति तं विमृशन्तमन्यदागमनं ज्ञानिमुनेरमूमुदत्। नहि पुण्यवतां मनोरथः क्वचन स्यादफलेनहिर्यतः॥६६॥अथ नन्तुमयुः पुरीजना मदनोऽपि प्रमदोन्मना मुनिम् । प्रणिपत्य निविश्य चाग्रतो विधिना शुश्रुवुरस्य देशनाम् ॥६७॥ अथ तं हृदयस्थितं निजं मदनःप्रश्नयति स्म संशयम् । यतिराह तवास्ति मानसे कुतुकं तर्हि शृणु स्थिराशयः॥६॥
विदाममी मताः ॥६. सुरसेन सतस्त्यजन्ति ये
CACANCAASCORCAM
Page #386
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १८९ ॥
धनमित्रसुमित्रसंज्ञितौ सुहृदावत्र पुरे बभूवतुः । प्रथमः प्रथमानवैभवः परमीषत्कृपणः स्वभावतः ॥ ६९ ॥ अपरः पुनरल्पवैभवः सततं दानसमानमानसः । विधिना खलु रत्नदोषिणा वियुते दानधने विडम्बिते ॥ ७० ॥ स्वजनादिजनैरुदीरितो जिनपूजामुनिपूजनादिके । सुकृते बहुधाऽप्यवव्ययद्धनमित्रोऽप्यतिमात्र संपदम् ॥ ७१ ॥ अथ पूर्वकुकर्मतः कुधीनिजदत्ते मुहुरन्वतप्त सः । अहहाऽन्यजनप्रतारणैः कथमर्थो व्ययितो वृथा मया ॥ ७२ ॥ अनुतापमिति प्रतन्वता सुकृतं हानिमनीयताऽमुना । परितः प्रतपस्तपातपः किमु नो शोषयते जलाशयम् ॥ ७३ ॥ मलिनेन च तेन निर्ममे परिणामेन स कर्म कुत्सितम् । अशुभेतर कर्मसंभवः परिणामानुगुणो हि देहिनाम् ॥ ७४ ॥ इतरस्तनुऋद्धिरप्यहो ! निजलाभानुगुणं कियत् कियत् । व्यययांचकृवान् दिवानिशं शुभपात्रेषु पवित्रधीर्धनम् ॥ ७५ ॥ इयदप्यमलं हि मे धनं जिनपूजाद्युपयोगि यद् भवेत् । इति तद्विषयानुमोदना विदधे तेन दिने दिने मुहुः ॥ ७६ ॥ अत एव च तस्य सन्ततं सुकृतं दानजमुत्तरङ्गताम् । श्रयति स्म सुधाकरोदयादिव दुग्धाम्बुधिवारिसञ्चयः ॥ ७७ ॥ अ भवत् परमस्य नन्दनो व्यसनास - तमनाः स ना मनाक् । अमलादपि जातवेदसः किमु धूमो मलिनो न जायते ॥ ७८ ॥ स जुगोप विनाशशङ्कया द्रविणं सारमतः सुतादपि । तस्याभवनिस्तनूभुवो नहि यं विश्वसिति स्वयं पिता ॥ ७९ ॥ अथ दूरदिशं वणिज्यया प्रयियासुः स सुतस्य शङ्कया । कनकादिनिधिरहो ! न्यधाद्धनमित्रस्य गृहेऽतिमैत्र्यतः ॥ ८० ॥ चलितः स्वगृहात्पथि व्रजन् सहसा गूढ विशुचिकावशात् । मृतिमापदपापधीरयं मरणं पाणिगतं हि देहिनाम् ॥ ८१ ॥ स च निर्मलदानपुण्यतो मदनोऽत्रैव पुरे भवानभूत् । विधिना तनुरप्युपासितो जिनधर्मस्तनुतेऽद्भुताः श्रियः ॥ ८२ ॥ अथ सम्यगवेतवृत्तया बहुधाऽयाचि
द्वादश: प्रकाशः ।
॥ १८९॥
Page #387
--------------------------------------------------------------------------
________________
सुमित्रकान्तया । धनमित्रधनी निधिं निजं न पुनस्तेन ददे स लोभतः ॥ ८३ ॥ क्रमतो मृतिमाप्य सोऽप्यभूत् सुधनो | नाम तवाङ्गजापतिः । कमला सहसा जहौ च तं शुभदानानुशयोत्थकर्मणा ॥ ८४ ॥ अपलप्य गृहे न्यवेशि यद्धनमित्रेण निधिः पुरा तव । अधुना भवदीयमन्दिरे सुधनश्रीः स्वयमागमत्ततः ॥ ८५ ॥ शुद्धानुमोदनगुरूकृतदानपुण्यादत्यद्भुतां मदन संपदमासद स्त्वम् । दानानुतापजनिता शुभकर्मतस्तु तत्याज रङ्कमिव तं सुधनं धनौघः ॥ ८६ ॥ श्रुत्वेति सौवचरितं मुदितः प्रपद्य सुश्राद्धधर्ममगमन्मदनः स्वसद्म । चैत्यादिसप्तशुभपात्रनिवेशनेन शुद्धाशयश्च कमलां सफलां चकार ॥ ८७ ॥ अथ सुधनमुनीन्द्रात् प्राप्य चारित्रधर्मं मदनमुनिरबालः पालयामास सम्यक् । विशदचरणयोगाद्वावथ स्वर्गमाप्तौ शिवगतिमचिरेण प्राप्स्यतस्तौ विदेहे ॥ ८८ ॥ पश्चात्तापः ॥ ३ ॥
निर्विम्बं तथा पात्रे दद्यात् हृद्यार्थसिद्धये । विलम्बेन ददानस्य भावः प्रायो हि हीयते ॥ १ ॥ हीयमानः पुनर्भावः पुण्यं खण्डयति स्फुटम् । तदुत्कर्षापकर्षो हि तदेकायत्तजीवितौ ॥ २ ॥ खण्ड्यमाने पुनः पुण्ये दाता तदनुयायिनीः । कृतपुण्य इवामोति खण्डिताः प्रेत्य संपदः ॥ ३ ॥ तथाहि
अस्ति स्वस्तिरमावासगृहं राजगृहं पुरम् । तत्रामात्रगुणश्रेणिः श्रेणिको नाम भूपतिः ॥ ४ ॥ तस्याऽभय इति ख्यातो मुख्यो मन्त्रिष्वजायत । धनावहाभिधः श्रेष्ठी तत्र चाभूद्विभूतिमान् ॥ ५ ॥ भद्रा पुण्यविनिद्रात्मा तस्याजायत वल्लभा । कृतपुण्य इति ख्यातस्तनयोऽजनि चानयोः ॥ ६ ॥ नवार्यमेव तेजस्वी दर्शनीयो नवेन्दुवत् । शुशुभेऽद्भुत सौभाग्यश्रीणां विश्रामधाम सः ॥ ७ ॥ वर्धमानः क्रमेणायं प्रियङ्करणदर्शनः । सकलाः कलयामास कलाः प्रतिपदिन्दुवत् ॥ ८ ॥ कुली
Page #388
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वादशः प्रकाशा
॥१९॥
नां पुण्यलावण्यां धन्यमन्यां तदाप्तितः । तारुण्ये परिणिन्येऽयं कन्यां पितृनिदेशतः ॥९॥ परं स साधुसंसर्गी तथा भोगेष्वरक्त न । यथासङ्गं परीणामः प्रायेण जलजीवयोः॥१०॥ ततस्तं खिड्गगोष्ठीषु श्रेष्ठी तद्भोगकौतुकी। न्ययुत पितरस्तत्त्वहिताः प्रायो हि दुर्लभाः॥ ११॥ अथ ताहग सुहृद्वर्गसंसर्गेण निरर्गलः । यथाकाममयं कामं चकमे पण्यकामिनीः ॥ १२॥ अन्यदाऽनङ्गसेनायां ख्यातायां पण्ययोषिति । अन्वरज्यत्तमामेष मालत्यामिव षट्पदः॥१३॥ तयाऽपि स तथाऽवर्जि स्नानमानाशनादिना । यथा जातु पितुर्मातुर्न सस्मार स्मरातुरः॥१४॥ कोटिशः कुट्टिनी कूटपादावरुदच्यत । रसातलस्थमप्यस्य धनं जीवनमन्वहम् ॥ १५॥ स्नेहात्तस्य पिताप्यर्थ यथाकामीनमन्वहम् । पूरयामास दासीभिरहो ! मोहान्धता नृणाम् ॥ १६ ॥ तस्यैवं द्वादशाब्दानि दिनानीवातिचक्रमुः। कालः स्यादतिजङ्घालस्तन्वङ्गीसङ्गर-17 ङ्गिणाम् ॥ १७ ॥ अक्षोदिष्ठापि तल्लक्ष्मीश्चिक्षिये चिरसंचिता । दुःखितौ पितरौ चास्य देवभूयमुपेयतुः॥१८॥ तथाऽपि कुट्टिनी क्रूरा पूर्ववद्रविणाशया। प्रेषयामास सा चेटी चाटूक्तिषु पटीयसीम् ॥ १९॥ वेगादगादगारं सा कृतपुण्यस्य पातुकम् । भ्रश्यद्भित्तिप्रतोल्यादि व्याख्यातविभवक्षयम् ॥ २०॥ प्राणेशमङ्गलाशंसुस्थूलकौसुम्भवाससम् । साऽपश्यत् प्रेयसीं तस्य तत्राभिनवयौवनाम् ॥ २१॥ दुर्दशां तादृशीं तस्य कृतपुण्यकसद्मनः। विलोक्य स्वस्थतां चास्या भृशं दासी विसिष्मिये ॥ २२ ॥ ऊचे च तां त्वदीशेन प्रहिताऽस्मि तवान्तिकम् । विज्ञातुं कुशलोदन्तमानेतुं च धनं सखि !॥२३॥ आचचक्ष चकोराक्षी साऽपि स्मेरमुखाम्बुजा। प्रियादेशश्रुतिप्रोद्यत्प्रमोदपुलकाङ्करा ॥ २४ ॥ तस्याज्ञा सखि ! कान्तस्य मस्तके मुकुटो मम । क्षमं पुनः किमाचक्षे विपक्षे खलु कर्मणि ॥ २५ ॥ तादृक् स वत्सलस्तातः श्वश्रूः साऽपि प्रियंवदा।
॥१९॥
Page #389
--------------------------------------------------------------------------
________________
दिवं द्वावप्ययासिष्टां धिधिग मे देव ! दौष्ठवम् ॥ २६ ॥ प्रेषं प्रेषमशेष्यन्त ताभ्यां सर्वा अपि श्रियः। प्रियस्य तनय
स्यार्थे धनं को हि धनायति ॥ २७ ॥ इदं पित्रा वितीर्ण मे किञ्चिदस्त्यङ्गभूषणम् । तत्त्वं गृहाण भूयान्मे शीलमेवाङ्गभूभाषणम् ॥ २८ ॥ इत्युदीर्य समुत्तार्य तनोराभरणानि सा । ददौ तस्यै नहि द्वैतं पत्यौ कुलमृगीदृशाम् ॥ २९ ॥ तान्युपा-15
दाय सा दासी विस्मयस्मेरमानसा । चिन्तयन्ती तदौचित्यं स्वसद्म द्रुतमागमत् ॥ ३० ॥ अनङ्गसेनया साधं कृतपुण्यस्य पश्यतः । कुट्टिन्यै साऽपिपत्तानि यथादृष्टं जगाद च ॥ ३१ ॥ अयं वपुरलङ्कारः प्रेषितः कुलयोषिता । उदक्तस्य हि |वित्तोदपानस्य तलमृत्तिका ॥ ३२ ॥ कौसुम्भरसनिर्याससदृशाऽनेन नः सृतम् । इति ध्यात्वा तदौचित्यं कृपालु साऽपि कुट्टिनी ॥ ३३ ॥ सहस्रेण स्वदीनारैरुन्मूर्य स्वयमञ्जसा । तं सर्वमप्यलङ्कारं तस्यै प्रत्यार्पिपत्तया ॥ ३४॥ त्रिभिर्विशेष-| कम् ॥ कुट्टिन्या कामिमान्याऽथ दुहिताऽभिहिता रहः । पुत्रि ! पण्यपुरन्ध्रीणां निर्धनेन जनेन किम् ॥ ३५॥ निर्धनानां च मूर्धन्यः कृतपुण्योऽपि गण्यताम् । तत्पल्या साम्प्रतं प्रेषि यन्निजाङ्गविभूषणम् ॥ ३६॥ तदेष त्यज्यतां पुत्रि ! व्यपेक्षन्ते पणस्त्रियः।न रूपं न च विद्यादि द्रविणैकदृशो यतः॥ ३७॥ इत्यनाकर्ण्यमाकर्ण्य कर्णयोःकचं वचः। कुपिता|ऽनङ्गसेना तां प्रत्युवाच वचस्विनी ॥ ३८ ॥ मात तः परं माता मदीया त्वमसि स्फुटम् । यदेवं कर्णशूलं मे प्रतिकूल प्रजल्प सि ॥ ३९ ॥ परकोटिभिरप्यस्य तैराब्यङ्करणैर्धनैः । वर्षाणि द्वादशप्रत्तैः सौहित्यं किं न तेऽभवत् ॥ ४०॥ गुणै-15 |श्चैतस्य मे चेतो नियेमे निबिडं तथा । पदमप्येकमन्यत्र गन्तुं न क्षमते यथा ॥४१॥ अतिनिर्बन्धमेतस्या दृढं निश्चित्य द्र चेतसि । अक्का शुष्कानना नष्टसर्वस्वेव बभूव सा ॥ ४२ ॥ ततस्तत्प्रेरिता दास्यस्तमपामानयन्मुहुः । निःश्रीके हि सह
SHARE
Page #390
--------------------------------------------------------------------------
________________
RSS
दानप्रदीपे
द्वादशः प्रकाश
-॥१९
॥
स्रांशावप्यर्घ कः प्रयच्छति ॥४३॥ निदानं स्वापमानस्य विमृश्यन्नयमात्मनः । अक्काकर्तृकमेवेदमित्यबोधि बुधः स्वयम् ॥४४॥ समतप्तानुतापेन हुताशेनेव सोऽधिकम् । दुरापः किमु संतापः स्मरोन्मादवतां नृणाम् ॥ ४५ ॥ अथाज्ञातं स | निर्याय निजं मन्दिरमाययौ । अन्यावज्ञा सहन्ते हि न श्वान इव मानिनः॥४६॥ गृहान्तहस्तविन्यस्तकपोलां मलिनांशुकाम् । प्रियां ददर्श स म्लानां हिमदूनामिवाजिनीम् ॥ ४७ ॥ दुर्दशां पश्यतस्तस्य द्वेधाऽपि गृहदुर्दशाम् । धीरस्याप्यैयरुवुःखाच्चक्षुषोबाष्पबिन्दवः॥४८॥ साऽपि दुरात्तमायान्तं विलोक्य विकसन्मुखा । प्रमोदो दिसर्वाङ्गपुलकेति व्यकल्पयत् ॥४९॥ दिष्ट्या किमेष मे पाणौ ग्रहीताऽभ्येति भाग्यतः। यद्वा भाग्यपरीपाको मादृशामीदृशः कुतः॥५०॥ क्षणानिश्चित्य तं पूर्व मनसा परतो दृशा । तदन्वङ्गेन सौत्सुक्यं स्वकान्तं साऽभिजग्मुषी ॥५१॥ तया विहितया तस्य प्रतिपत्त्या तया तया । सुधयेव स निर्वाणः पूर्वः परिभवानलः ॥५२॥ सा भोगमातृका तेन विनीताऽध्यापिता निशि। गर्भरतं बभारान्तः प्रबोधमिव शुद्धधीः॥ ५३ ॥ अन्येषुः स प्रियां प्रोचे मदन्यो नास्ति मूढधीः। तथाऽभून्मयि शास्त्रार्थदृष्टिष्टिरिवोपरे ॥ ५४॥ यन्मया पितरौ क्षिप्तावगाधे दुःखवारिधौ । धनं च निधनं नीतं सर्व पूर्वजसंचितम् ॥५५॥ अलमालप्य पद्माक्षि ! यद्भवत्या कृतं पुनः । तदहं सर्वदोषाणां पदं त्वं तु गुणश्रियाम् ॥५६॥ अधुना तु धनाभावदुःस्थोऽहं करवाणि किम् । भवेद्बहुनृणां येन विभवेन विना पुमान् ॥ ५७ ॥ कुर्वे सुवाणि ! वाणिज्यं धनं किञ्चिद्भवेद्यदि। | इति पृष्टा प्रिया हृष्टा तमाचष्ट विशिष्टधीः ॥५८॥ ममानल्पोऽयमाकल्पः स्वाधीनं हि धनं तव । दीनाराणां सहस्रश्च गृह्यतामनुगृह्यताम् ॥ ५९॥ ततः प्रीतस्तदादाय स वाणिज्यविधित्सया । निशम्य प्रस्थितं प्राच्यां महार्थ सार्थमाययौ
॥१९॥
Page #391
--------------------------------------------------------------------------
________________
॥ ६० ॥ तत्रानुयायिन पत्नीं निवर्त्य प्रीणितां गिरा । अयं विनिद्र एवास्त सुप्तो देवकुले क्वचित् ॥ ६१ ॥ इतश्च तत्र वास्तव्या काचिदिभ्य कुटुम्बिनी । स्थविरा वर्त्तते तस्याः सूनुः सूनुर्विनाकृतः ॥ ६२ ॥ विपेदेऽम्बुनिधौ पोतभङ्गादुत्पात - संभवात् । मा गाद्राजकुले लक्ष्मीरिति वार्त्ता निगोप्य ताम् ॥ ६३ ॥ सार्थं तमेत्य सा किश्चिद्ध्यात्वा तद्रूपविस्मिता । कृतपुण्यकमुत्थाप्य निनाय निजमन्दिरम् ॥ ६४ ॥ त्रिभिर्विशेषकम् ॥ कैषा वर्षीयसी कुत्र किमर्थं मां नयत्यहो ! । इत्येष विस्मयोन्मेषं नीयमानो दधौ हृदि ॥ ६५ ॥ स्नुषाचतुष्टयस्यापि पश्यतो धूर्त्तनिस्त्रपा । सा तस्य कण्ठमालम्ब्य रुदत्येवमवोचत ॥ ६६ ॥ हा वत्स ! स्वच्छवात्सल्य ! विहाय निजमातरम् । एतावन्ति दिनानि त्वं क्व गतोऽसि क्व च स्थितः ॥६७॥ जहृषे जातमात्रस्त्वं पुत्र ! केनापि पापिना । अहं प्रत्यभिजानीहि तवाम्बाऽस्मि न संशयः ॥ ६८ ॥ अर्थतो नामतश्चापि श्रीनिवासोऽसि वत्सल ! । त्वद्वियोगदवाग्निम चिरकालमतीतपत् ॥ ६९ ॥ संगमोऽद्यैव दैवज्ञैः सदैव फलशालिना । | कल्पद्रुणा निशि स्वप्नदृष्टेन च तवोदितः ॥ ७० ॥ सार्थेऽस्मिन् वीक्षमाणाऽहं लेभे त्वामद्य दुर्लभम् । भाग्यैरुज्जागरैरद्य फलिता मे मनोरथाः ॥ ७१ ॥ साम्प्रतं च तव ज्येष्ठसोदरस्य विपत्तितः । तव संपत्तितश्चापमद्वैतं शोकहर्षयोः ॥ ७२ ॥ अमूर्वध्वश्चतस्रोऽमूः श्रियश्चानन्यसंश्रयाः । भवन्तमुपतिष्ठन्ते महाम्भोधिमिवापगाः ॥ ७३ ॥ तदेतासामसामान्यलावण्यातिशयस्पृशाम् । स्त्रीणां श्रीणां च भोगेन सुभगङ्करणो भव ॥ ७४ ॥ इत्याकयक्तिवैचित्र्यमेतस्याः कृतपुण्यकः । विस्फुरद्विस्मयस्मेर चेतोवृत्तिरचिन्तयत् ॥ ७५ ॥ श्रियः स्त्रियश्च प्रत्यक्षं स्वयंवरमिदं द्वयम् । उपस्थितं मनोव्योमप्रसूनैः किं विकल्पनैः ॥ ७६ ॥ ततस्तामवदन्मातर्न स्मरामि किमप्यहम् । स्थविराऽसि त्वमेवेत्यमितिहासं प्रगल्भसे ॥ ७७ ॥
Page #392
--------------------------------------------------------------------------
________________
द्वादशः प्रकाशा
दानप्रदीपे मया तु मातुरादेशश्चक्रे शीर्षशिखामणिः । को हि कामदुधां प्रज्ञो गुर्वाज्ञामवमन्यते ॥ ७८ ॥ चतस्रोऽपि यथैवैताः परि
तरि भर्तरि । अवर्तन्त तथा तस्मिन् प्रेम्णा तद्गुणरञ्जिताः ॥ ७९ ॥ क्रमेण तनयास्तासां जाताश्चतसृणामपि । चत्वार॥१९२॥
६ श्चतुराश्चर्यकारिहारिगुणोत्कराः॥ ८०॥ तत्रास्य क्षणवत्क्षीणा भोगेर्दादशवत्सरी । कालो हि सुखनिर्मग्नैर्गच्छन्नपि न है वेद्यते ॥ ८१॥ स्थविरा स्वार्थसंपत्तिकृतार्थमन्यमानसा । एकान्तवश्यमेकान्ते वधूवर्गमथावदत् ॥ ८२ ॥ संजाता सुत
संपत्तिः साम्प्रतं मुच्यतामयम् । नादरः सहकारेऽपि गृहीतफलसञ्चये ॥ ८३ ।। अभ्यधुस्तास्त्वया दत्तः कान्तः कान्तगुणैकभूः । भुक्तश्चास्माभिरप्येष मातर्न त्यागमर्हति ॥ ८४ ॥ बभाषे स्थविरा रोषभ्रकुटिस्थपुटानना । मदादेशविपर्यासो हलाः! कोऽप्येष वो नवः॥ ८५॥ मा स्म ग्रहीत् स्वमास्माकं भूपाल इति भीतया । कश्चिदप्ययमानीतो मया सन्तान
हेतवे ॥८६॥ इदानीं सूनवोऽभूवन् लक्ष्मीरक्षणयामिकाः । तत्कृष्टरससारेक्षुयष्टिनेवामुना किमु ॥ ८७ ॥ ज्ञात्वा निर्व४ान्धमित्यस्यास्तास्तदा जोषमासत । अयुक्ते वृद्धनिर्दिष्टे शरणं मौनमेव हि ॥८८॥ तस्या ज्ञात्वाऽन्यदा कूटं तास्तस्योच्छी|र्षकेऽमुचन् । अन्तःक्षिप्तमणीन् स्निग्धान् बद्धा वाससि मोदकान् ॥ ८९ ॥ सुखसुप्तः सशय्योऽपि तस्मिन् देवकुले निशि। अमोच्यत स चेटीभिः कुट्टिन्या दुष्टया रयात् ॥९० ॥ स एव च तदा तत्र प्राच्याः सार्थः समाययौ । दवीयोऽपि हि नेदीयः कुरुते भवितव्यता ॥ ९१॥ निद्रात्यये स विज्ञाय वृद्धाचेष्टितमीदृशम् । अनर्जितस्वमात्मानं मुहुर्यावजुगुप्सते ॥ ९२ ॥ प्राच्याः सार्थः समायात इत्याकातितुष्टया । शुद्धये प्रहितः पल्या पदातिस्तावदागमत् ॥ ९३ ॥ भो भद्र! कुशलं तस्याः किं च गर्भेऽभवत्तदा । पृष्टस्तेनेति हृष्टोऽस्मै पत्तिः पुत्रमचीकथत् ॥ ९४ ॥ मोदकांस्तानुपादाय द्रव्यानर्जन
Page #393
--------------------------------------------------------------------------
________________
दर्मनाः। स पश्चात्पातुकैः पादैगृहं प्राप तदन्वितः॥ ९५ ॥ अभ्युत्थानादि सा तस्मिन् चक्रे प्रोल्लसदाशया। संपद्यापदि वा पत्यौ समाः खलु कुलस्त्रियः॥ ९६ ॥ साऽभ्यङ्गादिविधि भर्तुर्विधातुमुपचक्रमे । सुतश्च लेखशालाया भोजनायाययो तदा ॥ ९७ ॥ एक तेभ्यः समाकृष्य सा तस्मै मोदकं ददौ । स दन्तैः खण्डयंस्तं च जगाम च्छात्रमण्डलीम् ॥९८॥दन्तैरखण्ड्यमादत्त मणिं पाणी स भासुरम् । चित्रीयमाणछात्रेभ्यो दर्शयामास चोत्सुकः ॥ ९९ ॥ प्रत्येक स मणिर्वस्तु| किमेतदिति जल्पताम् । तेषां पाषाणसंचारं संचचार करात्करे ॥ १०॥ बालः कन्दलितानन्दः पाणिनान्दोलयन्मणिम्। क्रीडन् जगाम खाद्यार्थं कश्चित्कान्दविकापणम् ॥ १०१॥ तत्र तस्य मणिः पाणेरम्भस्पात्रे पपात च । तदम्भश्च द्विधाभावं द्राक् पापखलमैत्र्यवत् ॥१०२॥ कन्दुवित्तस्तदालोक्य जलकान्त्योऽयमित्यमुम्। निश्चित्य चेतसा धूर्तस्तमेवं बालमब्रवीत् ॥१०३॥ नित्यं दास्यामि ते खाद्यमेतस्मादश्मनःप्रति । इति प्रलोभ्य तं बालं कन्दुवित्तस्तमाददे॥१०॥राज्ञःसेचनको हस्ती प्रविष्टः स्नातुमन्यदा। नद्यामग्राहि पादेषु तन्तुना जलजन्तुना॥१०५॥राजवर्गोऽथ संभ्रान्तस्तदाचख्यौ क्षितीशितुः। शेवधिः सर्वबुद्धीनामयं चाभयमन्त्रिणः॥१०६॥ ततोऽभयकुमारेण भाण्डागारे गवेषितः । जलकान्तः परं नाप्सोनानारत्नौघनिहुतः ॥ १०७॥ मा भूदत्याहितं हस्तिरत्नस्येति कृतत्वरः। पटहेन महीभत सर्वत्रैवमजूघुषत् ॥ १०८ ॥ जलकान्तमणिं वेगाद् यः कश्चिदुपढौकयेत् । परिणेता सुतामर्धराज्योपेतां स भूपतेः॥१०९॥ पटहं स्फुटदानन्दकन्दः कान्दविकोऽस्पृशत् । द्रुतं चावनिकान्ताय जलकान्तं तमार्पयत् ॥११०॥ मणिर्विघटयामास जलमूर्जस्वलप्रभः । ज्ञातमन्तुरिवानेशत् तन्तुः स्थलभयातुरः॥ १११॥ स्वैरं स्तम्बेरमो रेमे कुशली राजवेश्मनि । कन्दुवित्तस्य चित्ते च स्फारः फल
दा० ३३
Page #394
--------------------------------------------------------------------------
________________
दानप्रदीपे ॥१९३॥
अन्यदाहिणीवावेशाय नि
मनोरथः॥११२ ॥ आः पूपिकाय दातव्या कथं कन्या मनोरमा । इति चिन्ता महीकान्तं सन्ततं समतीतपत् ११३॥ द्वादशा ज्ञात्वा भूभर्तुराकृतमभयेन भयङ्करैः । वचोभिस्ताडितस्तथ्यं कथयामास पूपिकः ॥ ११४ ॥ अभयोऽप्यभ्यधात् सत्यं स
प्रकाश एवास्पदमीदृशाम् । सुवर्णाद्रेः सुरद्रूणामपरं हि पदं नहि ॥ ११५ ॥ परिणिन्ये ततः कन्यां सुपुण्यः कृतपुण्यकः।प्राज्य लेभेऽर्धराज्यं च भाग्यैः किं नाम दुर्घटम् ॥ ११६ ॥ तस्य दाक्षिण्यदाक्ष्यादिगुणरत्नमहोदधेः । सहाभयकुमारेण प्रीतिरा-1 सीत्कलावता ॥ ११७ ॥ सोऽन्यदाऽभयमाचख्यौ सखे ! पत्नीचतुष्टयम् । ममास्ति पुत्रमत्रास्ति परं वेद्मिन मन्दिरम् ॥ ११८ ॥ स्मित्वाऽभयोऽभ्यधाच्चित्रं गृहिणीर्वेत्सि नो गृहम् । ततः सर्वोऽपि वृत्तान्तस्तेन पूर्वो निवेदितः॥ ११९॥ प्रासादं कारयामास द्विद्वारमभयस्ततः । द्वारमेकं प्रवेशाय निर्गमाय तथाऽपरम् ॥ १२० ॥ यक्षस्य लेप्यप्रतिमा कृतपु-IN ण्यसमाकृतेः । तत्रान्तः स्थापिता को हि प्रज्ञापारङ्गमः सताम् ॥ १२१ ॥ यो यक्षस्य नमस्यायै न मनुष्यः समेष्यति । सकुटुम्बस्य तस्याधिः सव्याधिः संनिधास्यति ॥ १२२ ॥ इत्युक्तिमभयोपज्ञं परिज्ञाय पुरीजनः। समुपास्त समस्तोऽपि वर्यया तं सपर्यया ॥ १२३ ॥ द्वारेणायान्तमेकेन निर्यान्तमपरेण च । कृतपुण्याभयौ दक्षौ जनं वीक्षांबभूवतुः॥ १२४ ॥ लीलावाचालचूडालबालालम्बितपाणयः । पूर्वपल्यः समाजग्मुः कृतपुण्यस्य ता अपि ॥१२५॥ पत्युः सदृक्षं तं यक्षं दृष्ट्वा स्मृत्वा च साश्रवः । सवेपथुसरोमाञ्चमवोचन्त स्मरातुराः॥ १२६ ॥ भर्तृकर्तृकमस्माकं तच्चेत्स्यात्किलकिञ्चितम् । तुभ्यं ॥१९॥ यक्ष ! परोलक्षान् दास्यामो मोदकांस्तदा ॥१२७॥ दिक्षु चक्षुः क्षिपन्तीभिदृष्टस्ताभिश्च वल्लभः । संदधे चानु तान्पश्च समं पञ्चशरः शरान् ॥ १२८ ॥ तात ! तातेति जल्पन्तः प्रमोदोत्फुल्ललोचनाः। यक्षाङ्कपालीपल्यङ्कमध्यूषुस्तनयास्तदा ॥१२९॥
Page #395
--------------------------------------------------------------------------
________________
कृतपुण्यस्ततः प्राह दिष्ट्यैता मम वल्लभाः । इमे रम्याः कुलव्योमभानवः सूनवश्च मे ॥ १३० ॥ देशत्यागे समादिश्य स्थविरां तां स्थिराशयः । अभयस्तास्तदायत्ता रमा रामाश्च निर्ममे ॥ १३१ ॥ आगादनङ्गसेनाऽपि प्रिय सब्रह्मचारिणम् । यक्षं वीक्ष्य स्मरोन्मादगद्गदं निजगाद च ॥ १३२ ॥ शुभानां शकुनस्वमप्रभृतीनामिदं प्रभो ! । त्वदीक्षणमभूत् पुष्पं फलमस्तु तदीक्षणम् ॥ १३३ ॥ प्रेष्ठस्तयाऽष्टमीचन्द्रभालयाथ निभालितः । ससंभ्रमं समभ्येत्य प्रीत्या चैवमभाष्यत ॥ १३४ ॥ जीवितेश ! बहुक्लेशं प्रतिदेशं पुरे पुरे । मया गवेषितः किन्तु नाप्तोऽसि स्वल्पभाग्यया ॥ १३५ ॥ परं पुरुषमाश्रित्य योऽमवन कदाचन । वेणीदण्डस्य बद्धस्य मोक्षः सोऽस्तु त्वयाऽधुना ॥ १३६ ॥ अभयानुज्ञया सोऽथ प्रेयसीः प्रेमभूयसीः । ताः समादाय पञ्चापि निजं मन्दिरमासदत् ॥ १३७ ॥ सप्तार्चिरिव रोचिष्णुः प्राप्तप्राज्यर्द्धियोगतः । प्रियाकुर्वन् प्रियाः सप्त दीप्यते स्म स तेजसा ॥ १३८ ॥ मोहान्धतमसध्वंसी वैभारगिरिमूर्द्धनि । उदेति स्म तदा वीरजिनेश्वरदिमेश्वरः ॥ १३९ ॥ स्फुरद्गुणमणिश्रेणिः श्रेणिकः क्षोणिवल्लभः । अभयः कृतपुण्यश्च वन्दकास्तमुपागमन् ॥ १४० ॥ सर्वोपलम्भसिद्धार्थः सिद्धार्थकुलकौस्तुभः । भगवान्निर्ममे धर्मदेशनामघनाशिनीम् ॥ १४१ ॥ अथावसरमासाद्य निरस्तवृजिनं जिनम् । विज्ञो विज्ञ - पयामास कृतपुण्यः कृताञ्जलिः ॥ १४२ ॥ जगन्नाथ ! कथङ्कारमुपकारपरोऽपि सन् । निर्मन्तुरपि संप्रापं संपदो विपदन्तराः ॥ १४३ ॥ जगाद दशनज्योत्स्नापूरपूर्णसभः प्रभुः । जन्मनि प्राक्तने वत्स ! त्वमभूर्वत्सपालकः ॥ १४४ ॥ नित्यदौर्गत्यनिर्विण्णः परमान्नमयं महम् । पुरे निरीक्ष्य क्षैरेयीमयाचस्त्वं च मातरम् ॥ १४५ ॥ अम्बा तव निरालम्बा सर्वासंपतिदुःखिता । रुरोद प्रातिवेशिन्यः क्षीरादिकृपया ददुः ॥ १४६ ॥ संस्कृत्य पायसं स्थाले परिवेष्य तवाम्बिका । बहि
Page #396
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥१९४॥
ययौ मुनिश्चागान्मासक्षपणपारणे ॥ १४७ ॥ आसनोत्थायमानन्दरोमाञ्चकवचाञ्चितः । स्थालतः पायसस्यास्मै भागमेक-18
द्वादशः मदास्तदा ॥ १४८॥ इदं मासोपवासस्य स्वल्पमित्युल्लसन्मतिः। पुनरर्धमदास्तस्य सविचारा हि धीः सताम् ॥ १४९ ॥ प्रकाश भागो घृतादिसंपन्नः सर्वः स्थाले ह्यवास्थित । एवं विवेकवांश्चास्मै भाग पाश्चात्यमप्यदाः॥१५०॥ निर्निदानं मुनेर्दानं | दत्तं भागैस्त्रिभिस्तदा । भोगास्तेन तवेदानीं समजायन्त सान्तराः॥ १५१॥ आकण्येवमुभाकर्णिसकर्णः प्रभुदेशनाम् ।। उन्मीलद्विषयोद्वेगः स संवेगमुपागमत् ॥ १५२ ॥ ज्येष्ठे सुते गृहभरं विनिवेश्य धीरः श्रीवीरदत्तमधिगम्य मुनिव्रतं सः। तप्त्वा तपोऽतिविपुलं विधिना विधाय प्रीताशयोऽनशनमूर्द्धगतिं जगाम ॥ १५३ ॥ श्रुत्वेति धन्याः! कृतपुण्यवृत्तं पात्रे |मुदाऽदत्त विना विलम्बम्। वृण्वन्ति यस्मादविलम्बमेव स्वर्गापवर्गाद्भुतसंपदो वः ॥ १५४ ॥ विलम्बिता ॥४॥
तथा गर्व न कुर्वीत दाने पुण्यैकतानधीः। विसंस्थुलं फलं तस्य येन संपादयत्ययम् ॥१॥गर्वश्चाभिदधे द्वेधा स्वतोऽपि परतोऽपि च । कायवाङमनसैर्दाता स्वतो गर्वायते कुधीः॥२॥ शिरोहस्तादिकं व्याल इव प्रोल्लालयन्निजम् ।। दुःखाय स्वान्ययोर्दाता भवेद्दानमदोन्मदः ॥ ३॥ दाता स्वोत्कर्षगर्जाभिर्वाचालमुखगह्वरः । न स्यात्कस्योपहासाय शारदीन इवाम्बुदः॥४॥नास्ति मे सदृशः कोऽपि दातेत्युन्मदमानसः। प्रदाता दानपुण्यानि लघयत्यलघून्यपि ॥५॥ ददानमन्यमालोक्य यः स्पर्धापूर्वकः पुनः । स परोपाधिको गर्वः परिहेयो महात्मभिः॥६॥ विधेया नहि केनापि साध
॥१९४॥ स्पर्धा सुबुद्धिभिः। किं पुनर्बान्धवादिभ्योऽप्यधिकेन सधर्मणा ॥७॥ स्पर्धा धर्मवता धर्मविषयाऽपि मलीमसम्। तनोति मानसं तेन बध्यते कर्म चाशुभम् ॥ ८॥ या पुनस्तुङ्गबुद्धीनां स्पर्धा पुण्यानुबन्धिनी । दशार्णस्येव साऽऽसन्नसिद्धिक
R
Page #397
--------------------------------------------------------------------------
________________
स्यैव संभवेत्॥९॥स स्पर्धेनापि दानेन कोऽपि संपदमश्नुते । परं शुभानुबन्धाय न सा स्थाष्णुश्च नो चिरम्॥१०॥तथाहि
इह नयधर्मप्रचुरा मथुरानगरी गरीयसी ऋद्ध्या । तर्जयतीव दिवं या श्रिया जिनालयपताकाभिः॥११॥ तत्राजनि धनसारः श्रेष्ठी हारः समस्तकृपणानाम् । तस्य क्षितौ निखाता द्रव्ये द्वाविंशतिः कोट्यः॥ १२॥ द्वाविंशतिः पुरान्तर्वाॐाणिज्यनिवेशितास्तथा प्रकटाः । देशान्तरेष्वपि तथा द्वाविंशतिरेव तास्तस्य ॥ १३ ॥ एवमयं षट्पष्टेर्धनकोटीनामधीशिता| ४ तदपि । वित्तं तिलतुषमात्रं न जातु धर्मोपयोग्यस्य ॥ १४ ॥ याचकविलोकनायां लोचनयोस्तस्य लवणमाविशति । अभ्य-8
र्थितः पुनरयं ज्वलन इव ज्वलति कोपेन ॥ १५॥ आकारितः स गोत्रैर्यात्रादिनिमित्तलोकसमवायात् । लुण्टाकप्रकरादिवस पलायामास धनिपाशः॥ १६ ॥ क्वापि प्रसह्य नीतः प्रदानसमये समूछ इव सहसा । स नियन्य दन्तशकटं तस्थौ कष्टेन निश्चेष्टः ॥ १७ ॥ किं बहुना गृहमनुजा अपि भोक्तुं पातुमपि पुरस्तस्य । न विशिष्य शेकिवांसश्चिकित्सक-दू स्येव रोगार्ताः ॥ १८ ॥ सर्वत्रापि च पुर्या कृपणध्वनिरुच्छशाल तस्य तथा । प्रायस्तन्नाम यथा बुभुक्षितः कोऽपि नादत्त ॥ १९॥ शेषेषु पुमर्थेष्विति पराङ्मुखस्यार्थमात्रनिष्णस्य । मम्मणवणिजस्येव प्रययौ कालः कियांस्तस्य ॥२०॥ अन्येद्यः स्वर्णनिधिं गवेषयामास पाणिनोत्खाय । तत्र स वीक्ष्याङ्गारान् विलक्षितास्यो व्यषीदच्च ॥ २१ ॥ अथ भीतोऽन्यनिधीनपि गवेषयन्नेष विषभृतः क्वापि । क्वचिदपि वृश्चिकपङ्कीमत्कोटान् क्वापि चैक्षिष्ट ॥ २२॥ यावत्क्षणं विलक्षः सोऽभूत्तावन्यवेदि केनापि । खलमैत्र्यमिवाभिद्यत जलधौ तत्पोतजातं ते ॥ २३ ॥ अन्येन पुनः प्रोक्तं वर्त्मनि वस्तूनि तव समायान्ति । निःशेषान्युच्छृङ्खलपरिमोषिगणेन मुषितानि ॥ २४ ॥ एवं क्वचन कृशानुः क्वचिदपि चौराः क्वचिद्वणिक्पुत्राः।
Page #398
--------------------------------------------------------------------------
________________
द्वादशः प्रकाशः।
दानप्रदीपे IM कापि नृपाः क्वापि खलास्तदीयमुपदुद्रुवुर्द्रव्यम् ॥ २५॥ अथ दीनमना अमनागविराममितस्ततः स बभ्राम । पश्यन्नाशाः।
शून्या भूतपरिस्यूत इव पुर्याम् ॥ २६ ॥ अन्येारयं दध्यौ वपुर्बलं विद्यते ममाद्यापि । किश्चित्किश्चिद्भाण्डं भाण्डागारे-* ॥१९५॥त
ऽस्त्यखण्डं च ॥ २७ ॥ तद्गत्वा देशान्तरमुपार्जयाम्यर्थमन्यथाऽपि च मे । स्वजनाद्यपमानयुजः श्रेयः स्थानान्तराश्रयणम् ॥ २८ ॥ अत्र हि सर्वत्र पुरे कार्पण्यस्फुरितदुरपवादोऽहम् । क्षीणधनत्वेन पुनर्विशिष्य हास्यास्पदं जज्ञे ॥ २९॥ ध्यात्वेत्यन्तश्चित्तं वित्तं दशलक्षसंख्यमादाय । आरुह्य पोतमब्धि लोभाविष्टः प्रविष्टोऽयम् ॥ ३० ॥ वर्मनि दूरमतीते जलदैराकाशमानशे सहसा । उल्लसितं शितकुन्तैरिव दिशि दिशि विद्युदुद्योतैः ॥ ३१ ॥ सह बद्धस्पर्धाविव जगर्जतुर्जलदसागरौ युगपत् । पोतः पोतस्थानां हृदयैः साकं चकम्पे च॥३२॥ हा दैव ! रक्ष रक्षेतिभाषिषु श्रेष्ठिमुख्यलोकेषु । सद्यो|ऽभिद्यत पोतः साकं सत्कर्मणा तेषाम् ॥ ३३ ॥ श्रेष्ठी ततः स जलधि फलकेनोत्तीर्य तीरमायातःशीतलवाताश्वसितो हृदि दध्यौ खेदमेदस्वी ॥ ३४ ॥ हाहा मया गतधिया क्लेशसहस्रैरुपार्जितो विभवः । कथमेष यत्नलक्षैः सुरक्षितोऽपि क्षणाक्षीणः॥ ३५॥ दत्तं यन्न सुपात्रे स्वयं न भुक्तं न चापि परकार्ये । व्यापारितं स्वचित्तं खाट्कुरुते शल्यमिव तन्म॥३६॥ नैतावतैव तृप्तो दैवश्चक्रे कुटुम्बविरहमपि । इति खेदमेदुरमनाः क्षणं स बभ्राम तीरवने ॥ ३७॥ तावद्ददर्श तत्र स्वर्णाम्बुजसंनिविष्टमनगारम् । सुरविरचितम हिमानं तात्कालिककेवलज्ञानम् ॥ ३८॥ अथ हृष्टमनाः श्रेष्ठी श्रमणप्रष्ठं प्रणम्य विनिविष्टः। पुण्योपदेशमाकर्ण्य पृच्छति स्वच्छतमचेताः॥ ३९ ॥ भगवन्नाजन्माहं कथं नु कार्पण्यभाजनं जज्ञे । विभवो मे भूयानपि कथं च निःशेषतः क्षीणः॥४०॥
॥१९५॥
Page #399
--------------------------------------------------------------------------
________________
SA565455
गुरुराह धातकीखण्डमण्डने भरतसंज्ञिते क्षेत्रे । द्वौ भ्रातरौ समृद्धश्रेष्ठिसुतौ धनदनन्दाडौ ॥४१॥ पितरि परलोक-11 लोकिनि बभार गृहभारमग्रज उदारः। यस्य जिनधर्मकमले मतिः स्म रमते मरालीव ॥४२॥ दीनादिषु निजवित्तं दत्ते टू
स्म स निर्निदानमनवरतम् । महतामम्बुभृतामिव विभूतिरुपकर्तुमेव परम् ॥४३॥ दानाम्बु सुपात्रादौ ववर्ष करनीरद४ स्तथा तस्य । प्रससार यथा दिशि दिशि तत्कीर्तितरङ्गिणीपूरः॥४४॥ अन्येद्युः क्षुद्रमना नन्दस्तदसूययान्धलो दध्यौ।
सर्वत्रापि प्रसरति कीर्तिर्दानेन धनदस्य ॥४५॥ मम पुनरभिधामात्र न कोऽपि गृह्णाति दुर्भगस्येव । विभवस्तूभयभोग्यः कथं मुधा तं विनाशयत्येषः ॥ ४६ ॥ स्तोकैरेव च दिवसैरशेषमप्येष नाशयिष्यति तम् । निजमाभाव्यं विभवं तन्मे युक्तं स्वसाकर्तुम् ॥४७॥ एवं ध्यात्वा धनदाद्भिन्नोऽभूदेष शेखरः कुधियाम् । युक्तः किं सहवासः । सहकारकरीरयोः कापि ॥४८॥ अथ धनदेन स्पर्धा विदधानः श्रद्धया स वन्ध्योऽपि । गर्वेणोद्धरचेता दीनादिषु दानमारेभे ॥ ४९॥ परमवि-15 शेषविदेष स्थाने स्थाने स्वभावकृपणतया । दानावसरे जडमतिरौचित्यव्यत्ययं व्यतनोत् ॥५०॥ ददतोऽपि ततो नासीतथा गरिष्ठा जने प्रतिष्ठाऽस्य । अयथास्थितादुपायान्न यथावदुपेयसंपत्तिः॥५१॥ कीर्ति स्वस्याशृण्वन् श्रावं श्रावं तु सर्वतो भ्रातुः । खेदं खेदं तं प्रति पुपोष स द्वेषिवद्वेषम् ॥५२॥ द्वेषवशादेष ततः कृत्वा पैशुन्यमनृतमवनिभृता । ग्राह-४ यति स्म समग्रं द्रविणं धनदस्य धिगसूयाम् ॥५३ ॥ तत एव जातसंवेगसंगमः साधुसन्निधौ धनदः । प्रव्रज्य तपस्तत्त्वा सौधर्मे सुरवरो जज्ञे ॥ ५४॥ नन्दस्तु निन्द्यमानो बहुधा लोकैरवेतवृत्तान्तः। संतप्तस्तापसतां प्रपद्य मृत्वाऽसुरेष्वजनि ॥५५॥ उद्धृत्य सोऽसुरेभ्यस्त्वमभूर्धनसारसंज्ञितः श्रेष्ठी । दानं पूर्वमदास्त्वं तेनाभूर्भूरिभूतिरिह ॥५६॥ यत्तु स्पर्धा
Page #400
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वादश: प्रकाशन
॥१९६॥
पर्व गर्वमकाः पुरा यशस्कामः । तत्ते कृपणप्रकृतेने संपदो दानभोगफलाः॥ ५७ ॥ तत एवासीः सततं स्फुरदपवाद: पदं च हास्यस्य । मूढो यस्मै यतते लभते हि तदन्यथा भावम् ॥५८॥ क्रोधाध्माततया पुनरजिग्रहद्रव्यमग्रजस्य भवान् । तेन तवाप्येकपदे लक्ष्मीरक्षीयत न्यक्षा ॥ ५९॥ प्रायः स्पर्धाभाजः स्फुरति सतामपि गुणेषु मात्सर्यम् । तेन च मलिनितवृत्तिस्तनोति दुष्कर्ममर्मावित् ॥ ६॥ तथाहि| इहावनिपुरं नाम पुरन्दरपुरोपमम् । जितशत्रुनृपस्तत्र वित्रस्तामात्रशात्रवः॥ ६१॥ राज्यः पञ्चशतान्यस्य प्रशस्यगुणसंपदः । वदान्याः सर्वदा मान्याः पुण्यागण्यादराश्च याः॥ ६२॥ तासु कुन्तलदेवी तु पट्टदेवी बभौ बहिः । तत्त्वतस्त्वपराः सम्यग्धर्मनिश्छद्मकर्मठाः ॥ ६३ ॥ संपन्नाः संपदोऽनल्पास्तासां भूपप्रसादतः। प्रसन्नो हि प्रियः स्त्रीणामतिशेते सुरदुमम् ॥ ६४ ॥ ततोऽद्भुतानि चैत्यानि ताः प्रत्येकमकारयन् । पुण्यमेवोपकुर्वन्ति संपदो हि महात्मनाम् ॥ ६५॥ जिनार्चाश्च सुवर्णादिमयीस्तेषु न्यवीविशन् । उत्तरोत्तरवर्धिष्णुर्भावः पुण्ये सतां यतः॥६६॥ तत्रामात्रानिमाः स्नात्रायुत्सवांस्तेनुरन्वहम् । प्राज्यपूजं यतश्चैत्यं स्वान्ययोबोंधिकारणम् ॥ ६७॥ स्पर्धमाना पुनस्ताभिः कुन्तला कुटिलाशया। तदन्तश्चैत्यमुत्तुङ्गं हिरण्मयमकारयत् ॥ ६८॥ सविशेषमशेषं च तत्र पूजादिकं व्यधात् । प्रयतन्ते हि सस्पर्धाः स्वान्योस्कर्षापकर्षयोः ॥ ६९॥ सरलास्ताः स्वचैत्येषु भक्त्या यं यं महं व्यधुः । तं तं कुन्तलदेवी सा द्विगुणं स्पर्धया व्यधात् ॥७॥ संपदस्या न कस्यास्तु प्रशस्यायाद्भुतामिति । जिनभक्तिं तनोत्येवमन्वमोदन्त तास्तु ताम् ॥७१॥ तस्या व्यनाशयत्पुण्यमतुच्छमपि मत्सरः । विषं दूषयति प्राज्यमपि भोज्यविधि यथा ॥ ७२ ॥ सपत्नीचैत्यगस्तूर्यध्वनिर्माधुर्यवानपि ।
GRAMMARCAN
॥१९६॥
Page #401
--------------------------------------------------------------------------
________________
तस्याः श्रुतौ पतंस्तीतज्वराय समजायत ॥ ७३ ॥ चैत्येषु प्रत्यहं तासां दृष्ट्वा तांस्तान् महोत्सवात् । अहो ! दूयिष्ट सा8 | दुष्टा कौशिकीव रवेः करान् ॥ ७४ ॥ इति प्रद्वेषदुःखार्ता व्याधिनाबाधि साधिकम् । इहाप्येति परीपाकमत्युग्रं हि शुभाशुभम् ॥ ७५ ॥ हिमेनेवाजिनी तेन दुःस्थावस्थामनायि सा । यथा सथूत्कृतं दृष्ट्वा सर्वस्तामजुगुप्सत ॥७६॥ अनासेव्येयमित्येनां दवयामास भूपतिः। परिवारोऽप्यवामस्त कस्यावज्ञा न तादृशि ॥ ७७ ॥ एवमार्ता मृता चैत्यासत्तावजनि सा शुनी । नहि मत्सरिणां पुण्यवतामपि गतिः शुभा ॥ ७८ ॥ सा चकार विहारान्तरेहिरेयाहिरां मुहुः। मोहः प्रेत्य यदभ्येति प्रागभ्यस्तः शुभाशुभः ॥७९॥ मुदा स्वमपि तच्चैत्यमपि ताः पर्यपूपुजन् । सतां न स्वान्यधीः क्वापि किं पुनधर्म्यवस्तुनि ॥ ८०॥ अन्येयुः समवासात्तित्र कश्चन केवली । सान्तःपुरपरीवारः प्रणनाम च तं नृपः॥ ८१॥ देश-| नान्ते तमप्राक्षुः सहर्षाः मापयोषितः । कुत्र कुन्तलदेवी सा गता पुण्यवती मृता ॥ ८२॥ जगाद भगवान् स्पर्धावधि-| ष्णुतरमत्सरा । चकार कुन्तला सर्व पुण्यकर्ममलीमसम् ॥ ८३ ॥ अतुच्छोत्सर्पिमात्सर्यसंचितेन कुकर्मणा । सा विपद्य | शुनी जज्ञे स्वचैत्यासन्नवासिनी ॥ ८४॥ सर्वत्र मत्सरस्त्याज्यः सुकृते तु विशेषतः। काञ्जिकेनेव दुग्धस्य विनाशस्तेन तस्य यत् ॥ ८५ ॥ इत्याकर्ण्य सकर्णास्ताः परं वैराग्यमागमन् । विरज्यन्ति यतो भव्याः फलं श्रुत्वा कुकर्मणाम् ॥८६॥ ततस्ताश्चैत्यमागत्य नमस्कृत्य जिनेश्वरम् । व्यलोकन्त शुनी स्नेहकरुणाविस्मयान्विताः॥ ८७॥ पुरः प्रक्षिप्य भक्ष्यं च जगुः संवेगसंगतम् । भद्रे ! पूर्वभवे चैत्यं त्वयैतन्निरमाप्यत ॥ ८८ ॥ चक्रे दानाद्यसामान्यं पुण्यमन्यदपि त्वया । परमु|त्सारयामास मत्सरस्तत्सम तव ॥ ८९॥ प्राप्ताऽसि मत्सरादेव भर्सेनीयामिमां गतिम् । राज्ञः कुन्तलदेवी हि महिषी
Page #402
--------------------------------------------------------------------------
________________
दानप्रदीपे
द्वादशः प्रकाश।
॥१९७॥
त्वमभूः पुरा ॥९०॥ शृण्वतीति शुनी तासु संभ्रान्ता साऽभ्युदैक्षत । का इमा मयि सप्रेमाः किमिदं निगदन्ति च॥९॥ किमिदं मन्दिरं कुत्र दृष्टपूर्वमिदं च मे । इत्यूहसजुषस्तस्या जातिस्मृतिरजायत ॥ ९२ ॥ आस्मार्षीच्चाखिलं पुण्यमारसर्याचं पुराकृतम् । ततः सा भवनिर्वेदममन्दमुपसेदुषी ॥ ९३ ॥ पौनःपुण्येन च प्राच्यं निन्दयामास दुष्कृतम् । गत्वा चालोचयामास सर्व केवलिनः पुरः॥ ९४ ॥ संविग्नानशनं तस्य पार्थे सा प्रतिपद्यत । परिपाल्य च सप्ताहं देवभूयमुपेयुषी ॥ ९५ ॥ एवं दुष्टपरीपाका स्पर्धा सद्धर्मबाधिका । सर्वत्र सुधिया त्याज्या पुण्यकृत्ये विशेषतः॥ ९६ ॥ | इति पुण्यमयीर्वाणी केवलिनः सौवपूर्वभवगर्भाः। श्रेष्ठी निशम्य हृष्टः परमं संवेगमायासीत् ॥ ९७ ॥ पुण्यैकतानचेता केवलिनं पुनरवोचत श्रेष्ठी । भगवन्नग्रजजीवो दिवश्चयुतो वा न वाऽद्यापि ॥ ९८ ॥ भगवानपि तमुवाच च्युत्वा सौधमतःस ते भ्राता । उदपादि तामलिप्त्यां श्रेष्ठिकुले भूरितरविभवः ॥ ९९॥ तारुण्येऽप्ययमुल्वणवैराग्यादुपगतार्हततपस्यः। लब्ध्वा केवलसंविदमवनौ विहरत्यहं स पुनः॥ १०॥ इत्याकर्ण्य सकर्णस्तुष्टः श्रेष्ठी विमृष्टवानेवम् । अहह मया मुग्धधिया धर्मः पूर्व व्यराध्येवम् ॥ १०१॥ लब्ध्वाऽपि तां विभूतिं येनाहं व्यसनमीदृशमवापम् । भ्राता तु सम्यगाराद्ध्य धर्ममृद्धिं परां भेजे ॥ १०२॥ इत्थं स जातसंवेगसंगमस्तस्य संनिधौ धर्मम् । दर्शनमूलद्वादशगृहिव्रतोपेतमादत्त ॥१०॥ | परिवर्ण्य तुर्यमंशं धनमर्जितं मया पात्रे । अस्पर्धतया दातव्यमित्यभिग्रहमयं जगृहे ॥ १०४ ॥ क्षमयां बभूव गुरुवरमपराधं पूर्वजन्मविहितमसौ । गुरुरप्यपरं देश भास्वानिव भासयामास ॥ १०५॥ स जगाम तामलिप्त्या क्रमात्ततः पुण्यनिष्ठधीः श्रेष्ठी । तत्र च विशुद्धवृत्त्या वाणिज्यं कर्तुमारेभे ॥ १०६ ॥ यदुपार्जयति स्म धनं तस्यांशत्रयमयं पवित्रात्मा ।
॥१९७॥
Page #403
--------------------------------------------------------------------------
________________
RASHANGANGACASHRA
धर्मे न्ययुङ्ग यस्मान्न जात्वसत्यव्रताः सन्तः॥१०७॥ अष्टम्यादी कामयौषधं पौषधं दधत्तत्र । प्रयतो जिनार्चनादौ निनाय ||समयं कियन्तमयम् ॥ १०८॥ अन्येद्युः शून्यगृहे क्रूरतरव्यन्तरस्थितिकराले । भूतेष्ठायां श्रेष्ठी स्थेष्ठमतिः प्रतिमया तस्थौ ॥ १०९॥ अथ तं प्रति मिथ्यादृक् क्रुधातुरो व्यन्तरो बभूवतराम् । न द्रुह्यति किमु दस्युजेगदाहादाय चन्द्राय ॥११॥ स दर्दश तं विशवं निःशूकं दन्दशूकरूपेण । अपराभिश्चाभीक्ष्णं भीषाभिर्भापयामास ॥१११॥ तदपि मनागपि स स्थिरमना न चुक्षोभ शमधृतस्तोभः । कम्पेत किमु सुमेरुः कल्पान्तोद्धान्तवात्याभिः॥ ११२॥ कामं ततः स कुपितः सुरश्चकारास्य वेदनास्तीवाः। एवमुपसर्गयामास यावदुदियाय दिननेता ॥ ११३॥ तदपि तमभिन्नवदनच्छायं कायं तृणं तु मन्वानम् । ध्यानकतानमनसं निरीक्ष्य यक्षः समाचख्यौ ॥ ११४ ॥ धन्यस्त्वमेव मान्यस्त्वमेव पूज्यस्त्वमेव च स्तुत्यः । गृहिणोऽपि तव स्थैर्य यदहार्यममूदृशं धर्मे ॥११५॥ सत्त्वं समस्तसत्त्वातिशायि तव निरुपमस्तथोपशमः । धैर्यमधःकृतमन्दरमहो ! गुणानां तवातिशयः॥११६॥ तत्तुभ्यमस्मि तुष्टो वरं वृणु त्रिदशदर्शनममोघम् । एवं मुहुरुक्तोऽपि प्रतिवक्ति न यावदिभ्यपतिः॥ ११७ ॥ तावजजल्प पुनरपि सुरो निरीहोऽसि यद्यपि महात्मन्! । तदपि मदीयनिदेशात्प्रयाहि मथुरापुरीमधुना ॥११८॥ तत्र गतस्य पुनस्ते द्वाषष्टिद्रव्यकोटयः सपदि। संगस्यन्ते सुकृतादस्मादत्युग्रभावकृतात् ॥११९॥ एवमुदित्वा देवः क्षमयित्वा तं तिरोऽभवत्सद्यः। प्रतिमां च पारयित्वा विमृष्टवान् श्रेष्ठधीः श्रेष्ठी ॥ १२०॥ वित्तेन तेन 5 मम किं विशुद्धजिनधर्मदत्तचित्तस्य । धर्मो ह्यसीमशर्मश्रियां निमित्तं न वित्तं तु ॥ १२१ ॥ अथवा मम कुलपङ्कः कृपणकलङ्कः स पप्रथे तत्र । गत्वा तत्र ततस्तं प्रमा?मुचितं ममेदानीम् ॥ १२२ ॥ किं चाधिगमे वित्तस्य तस्य विश्राणनैः
Page #404
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ १९८ ॥
सुपात्रादौ । कुर्वे सफलीभावं वित्तस्य हि दानमेव फलम् ॥ १२३ ॥ अपि च स्वकीयवर्गो मया समग्रोऽपि तत्र गमनेन । धर्मे दृढीकृतः स्यात्तदीयफलदर्शनद्वारा ॥ १२४ ॥ इति मनसिकृत्य कृत्यं मथुरायामात्मधाम स जगाम । संभालयन् निजनिधीन् निरैक्षत स्वस्वरूपस्थान् ॥ १२५ ॥ ग्राहं ग्राहं येऽर्थं तस्थुर्देशान्तरे वणिक्पुत्राः । श्रुत्वा समृद्धिभाजं भेजुस्ते | फलदमिव विहगाः ॥ १२६ ॥ तस्यावदातवृत्तेर्हस्तमुपैति स्म सर्वमपि लभ्यम् । शुद्धव्यवहृत्या किल कलयत्यनुकूलतां सकलः ॥ १२७ ॥ स प्राप नृपतिमानादचिराञ्च्चौरादिसात्कृतं द्रव्यम् । अनुकूले किल कर्मणि न दुरापं किमपि जन्तूनाम् ॥ १२८ ॥ किं बहुना धनकोढ्यस्तस्य द्वाषष्टिरपि मिलन्ति स्म । सुविशुद्धभावजनितं फलति हि सुकृतं झटित्येव ॥ १२९ ॥ अयमभ्रंलिहशृङ्गं प्रासादं कृतमनः प्रसादमथ । तत्र स्वपुण्यलक्ष्म्या निवासमिव कारयामास ॥ १३० ॥ तत्रोत्सवैरतुच्छैः परितोषितनिखिल वसुमती लोकैः । स्वर्णमयीमादिजिनप्रतिमां स निवेशयामास ॥ १३१ ॥ तत्राध्यरूरुपदयं विभास्वरं शातकुम्भकुम्भमपि । प्राध्यापकीर्त्तितिमिरं निहन्तुमिव बिम्बमहिमरुचेः ॥ १३२ ॥ जीर्णोद्धारादिष्वपि बहुधा स धनं न्ययुङ्क्त बुद्धिधनः । नियमो यथाऽस्य भेजे न मनागपि भङ्गमालिन्यम् ॥ १३३ ॥ इति गर्वेण स मुक्तं तन्वानो दानधर्ममनवरतम् । लेभेऽधिकाधिकतया सुकृतं कीर्ति प्रतिष्ठां च ॥ १३४ ॥ अन्ते सुते निवेशितगृहभारो मासमनशनमुपास्य । सौधर्मे सौधर्मे स्थिरधीरभवत् सुपर्ववरः ॥ १३५ ॥ च्युत्वा ततो विदेहे लब्ध्वा सुकुलादिसकलसामग्रीम् । निर्मूलिताष्टकर्मा शिवंगमी संयमी स शमी ॥ १३६ ॥ इत्थं भ्रातृयुगस्य नन्दधनदाह्वानस्य दानानुगं गर्वागर्वभवं शुभाशुभफलं कृत्वा श्रुतेर्गोचरम् । भव्याः ! दानविधौ सुधौतहृदया मुञ्चध्वमेनं द्विधा गर्व दानफलं झगित्यविकलं सम्यग्
द्वादशः प्रकाशः ।
॥ १९८ ॥
Page #405
--------------------------------------------------------------------------
________________
लभध्वे यथा ॥ १३७ ॥ इत्याराध्यति यः समग्रफलदं श्रीदानधर्म सुधीर्दोषैः पञ्चभिरुज्झितं परिगतं सम्यग्गुणैः पञ्चभिः। भुक्त्वा मानवदैववैभवमयीरत्यद्भुताः संपदः प्रक्षीणाखिलकल्मषः स वृणुते सद्यः श्रियं शाश्वतीम् ॥ ६१॥
॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीजिनसुन्दरसूरिविनेयमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि
ग्रन्थे पात्रदानगुणदोषप्रकाशनो नाम द्वादशः प्रकाशः॥
%%**ॐॐॐॐॐ
SALSA ROSSEXXX
Page #406
--------------------------------------------------------------------------
________________
दानप्रदीपे
॥ अथ प्रशस्तिः
॥
प्रशस्तिः ॥
॥२०॥
सिद्ध्यै श्रीवीरभर्तुः सकलगणभृतामग्रिमो गौतमो वः, सिद्धान्तखर्गिसिन्धोस्तुहिनगिरिरथो पञ्चमः श्री सुधर्मा । जम्बूरम्बूपमानस्तदनु शमवने दिद्युतेऽथ क्रमेण, श्रीवज्रस्वामिनामा गुरुरवगणितखगिरिगौरवेण ॥१॥ विख्यातस्तस्य शाखातिलकमविकलोल्लासिसंवेगरङ्गः, सूरिः शोभामदभ्रां जिनमतमनयच्छ्रीजगच्चन्द्रनामा । खच्छः श्रीचन्द्रगच्छं जगदतिशयिभिर्दुस्तपैस्तैस्तपोभिः, क्षोणौ ख्यातिं तपेति क्षितिपतिजनितां प्रापयामासिवान् यः॥२॥ श्रीमान् देवेन्द्रसूरिः प्रसरदुरुमहा भासयामास भाखां-स्तत्पप्राच्यशैलं दिशि दिशि कमलोलासनेऽलंभविष्णुः । अद्यापि ग्रन्थसार्थः करनिकर इव प्रस्फुरनिर्मिमीते, चित्रं यस्य प्रदीपः शिवपुरपदवीः सर्वतः सुप्रकाशाः ॥३॥ सम्यक्त्वं प्रतिपाद्य गोमुखसुरं शत्रुञ्जये स्थापय-निन्ये प्रौढिमयं ततो जिनमतं श्रीधर्मघोषः प्रभुः । विद्योन्मादिकुवादिना मदगदापस्मारनिःसारणे, यो धन्वन्तरितां दधार बहुधा सिद्धीर्दधानोऽद्धताः ॥ ४॥ श्रीसोमप्रभसूरयः शुशुभिरे शोभाप्रदास्तत्पदे, सूत्रार्थोभयशालिनी प्रतिकलं कण्ठे लुठन्तीतमा । मुक्तावल्लिरिवोज्ज्वला सुभगतामेकादशाङ्गी तथा, यान्निन्ये जगदुत्तमत्वकमला ववे स्वयं लागू यथा ॥५॥ तत्पट्टैकललामसोमतिलकः सूरिर्बभासे ततो, धाता नूनविचित्रशास्त्ररचने सैद्धान्तिकाग्रेसरः । एकच्छत्रमसूत्रयत्रिजगति श्रीधर्मभूमीभुजः, साम्राज्यं दुरपोहमोहकुनृपं निर्जित्य यो धैर्यभूः ॥ ६॥ तेजःश्रीवसतिस्तपागणसमुद्भासैकनिष्णस्ततो, दीपोऽदीप्यत देवसुन्दरगुरुः श्रेयोदशाभासुरः ।
||॥२०॥
Page #407
--------------------------------------------------------------------------
________________
श्रीधामातशासनं कलिनिशि प्राकाशयद्यस्तथा, जज्ञे मन्ददृशामपि स्फुटतया सद्यः सुदर्श यथा ॥ ७ ॥
तत्पट्टपूर्वगिरिमण्डनचण्डभासः श्रीसोमसुन्दरगुरुप्रभवो जयन्ति । विश्वत्रयोत्तमगुणैर्जिनशासनं यैः प्रत्याप्त गौतममिव प्रतिभासतेऽद्य ॥८॥ शिष्यास्तेषाममी ख्याताः, कीर्त्तिधौत महीतलाः । पञ्च प्रपञ्चयन्त्युच्चैरर्हन्मतमहोन्नतिम् ॥ ९ ॥
श्रीमुनिसुन्दरगुरवः, प्रथमाः प्रथमानपरममहिमानः । मारिनिवारणपूर्वैरवदातैर्भद्रबाहुतः प्रति ये ॥ १० ॥ श्रीजयचन्द्रमुनीन्द्राः, द्वैतीयीका जयन्ति गुरुराजाः । ये धिषणातिशयर्धा, धिककुर्धिषणमप्यधिकम् ॥ ११ ॥ सूरीश्वरास्तृतीयाः ख्याताः श्रीभुवनसुन्दराभिख्याः । सौभाग्यादिगुणैर्ये, खनाम नहि वाममर्थतश्चक्रुः ॥ १२ ॥ श्रीजिन सुन्दरगणधरधुर्यास्तुर्या जयन्तु गुणवर्याः । अलमकृत नित्यमुक्तावलीवदेकादशाङ्गी यान् ॥ १३ ॥ श्री जिनकीर्तिमुनीन्द्राः, विदिताश्चन्द्रावदाततरकीर्त्या । ये पञ्चमा अपि गुणैर्न जातु गणनीयतां भेजुः ॥ १४ ॥ विद्यानिधानजिन सुन्दरसूरिशिष्यः श्रीसोमसुन्दर गणेन्द्र निदेश वश्यः । चारित्ररत्नगणिरल्पमतिर्व्यधत्त दानप्रदीपमिममात्मपरार्थसिद्ध्यै ॥ १५ ॥
नवाङ्कवार्धिशीतांशु १४९९ मिते विक्रमवत्सरे । चित्रकूटमहादुर्गे ग्रन्थोऽयं समपद्यत ॥ १६ ॥ षट्सहस्री षट्शती च पञ्चसप्ततिसंयुता ६६७५ । प्रशस्त्या सह निर्णीतमत्र मानमनुष्टुभाम् ॥ १७ ॥ शेष हिस्फारनाले विगुरुदलगणे कर्णिका कर्णिकाद्रौ यावद्वयोमारविन्दे ललितगतिमिमौ राजहंसौ विधत्तः । तावद्दानप्रदीपः शिवपुरपदवीः सुदृशां सुप्रकाशाः कुर्वाणः सर्वतोऽयं प्रवचनभवने दीप्यतां दीप्ररूपः ॥ १८ ॥
Page #408
--------------------------------------------------------------------------
________________ MANA . GICAPAGE MODIODRIODMADRASI 105 SIST252 TOROS COछाछORDROO संपूर्णश्चायं द्वादशप्रकाशात्मा दानप्रदीपनामा ग्रन्थः