SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐ पटीयसी नाव्ये कौशलं कलयन्त्यपि । दानं तदप्रयुञ्जाना न जातु लभते जनात् ॥ २८७ ॥ अतः सम्यक्कियामेव सेवध्वं सिद्धिकाम्यया । न श्रुतं किमु युष्माभिर्यः क्रियावान् स पण्डितः॥ २८८ ॥ इत्याधुत्सूत्रवाद्येष स्थविरैरवहीलितः। बुधैराद्रियते नैव गुरुरप्युत्पथस्थितः ॥ २८९ ॥ धिम् धिक् कुकर्ममर्माविदन्धंकरणमात्मनः । उन्मार्ग नीयते येन विद्वानपि जिनागमम् ॥ २९० ॥ अथासौ तमतीचारमनालोच्य विपद्य च । सौधर्मे त्रिदशो जज्ञे संयमस्यानुभावतः ॥ २९१॥ तत्र वर्षाण्यसंख्यानि दिव्यसौख्यान्यभुक्त सः। ततश्चायुःक्षयेऽच्योष्ट पक्कपर्णमिव दुमात् ॥ २९२ ॥ पद्मखण्डपुरे श्रेष्ठी | धनस्तस्य प्रिया शिवा । तयोः सूनुरनूनश्रीधर्मशर्मा बभूव सः॥ २९३ ॥ पुत्रप्राप्त्याऽनपत्यौ प्राक् पिप्रियातेतमां च तौर चिरेष्टवस्तुयोगेन को वानन्दं न विन्दते ॥ २९४ ॥ पिता तमष्टवर्षीयं हर्षेणाथ क्षणे शुभे । सोत्सवं कारयामास लेखशालानिवेशनम् ॥ २९५ ॥ तमध्यापयितुं यत्नादुपाध्यायः प्रचक्रमे । ज्ञानावज्ञाभवं कर्म प्राच्यं चास्योदगात्तदा ॥ २९६ ॥ ततः किमप्युपाध्यायो नाध्यापयितुमैष्ट तम् । ग्रन्थिलं दारु केनापि शक्यं घटयितुं किमु ॥ २९७ ॥ महाभाष्यमिवामुष्य विषमा मातृकाऽप्यभूत् । तुङ्गदुर्गायते पङ्गोर्गेहस्यापि हि देहली ॥ २९८ ॥ ततः स्वं स्वयमुद्विज्य विससर्ज स पाठकः। 3 नयत्यायासमात्मानमस्थाने कः सचेतनः ॥२९९ ॥ दर्श दर्शमुपाध्यायः स एवं पञ्चभिः शतैः। अचिरान्मुमुचे कूटमणिकटिकैरिव ॥ ३००॥ एकेनापि न शेके तु विनिवेशयितुं हृदि । दुर्मतेर्मातृकाऽप्यस्य कुलिशेनेव निर्मिते ॥ ३०१॥ | ततस्तस्य पिताऽतीवविषादादित्यचिन्तयत् । प्रस्तरस्तनयोऽयं हा विधेयं किं मयाऽधुना ॥ ३०२॥ भूयादजननिस्तस्य जनने वाऽप्यजीवनिः । कलायां कौशलं वापि धत्ते नाध्यापितोऽपि यः॥३०३ ॥ यतः
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy