SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ॥ स्वमनोरुचिः॥४४२॥ निजकन्यावृतं रत्नपालमालोकयन् मुहुः । मित्रं हेमाङ्गदोऽहृष्यदुपलक्ष्य विशिष्य तम् ॥४४३॥ परं विद्याधराधीशाश्चुक्रुधुदुर्धराः परे । अस्मासु खेचरेन्द्रेषु वृणीते भूमिगः कथम् ॥४४४ ॥ वत्रे यद्यपि मौग्धेन कन्ययाऽयमविज्ञया । तदप्यमुं वयं पाणौ कुर्वाणं न क्षमामहे ॥४४५॥ एवं ब्रुवन्तः संभूय भूयांसस्तेन भूभुजा । सार्ध युद्धाय संनद्धा बभूवुस्ते चमूवृताः॥४४६॥ रसेन तिलकं तेन रत्नपालोऽपि क्लुप्तवान् । अभ्यमित्रीणतां तेषां भेजे योद्ध|मुदायुधः॥ ४४७ ॥ करौ व्यापारयामास तथाऽयं वीरपुङ्गवः। काकनाशमनेशंस्ते कान्दिशीकाः यथाऽखिलाः ॥४४८॥ ततः स्वीकृत्य तस्याज्ञां सर्वे संभूय खेचराः। तं पाणौ कारयांचकुस्तां कन्यामद्भुतोत्सवैः ॥ ४४९ ॥ रत्नपालमहीपाय पाणिमोचनपर्वणि । रोहिण्याद्या महाविद्या ददौ हेमाङ्गदो मुदा ॥ ४५०॥ स तेन कृतसांनिध्यः सद्यस्ता विधिपूर्वकम् । साधयामास दुःसाधं धर्मसाधीयसां हि किम् ।। ४५१॥ अथ विद्याधराः सर्वे प्रौढप्राभृतपाणयः। तं सार्वभौमव जुरुभयश्रेणिवर्तिनः॥ ४५२ ॥ ततो विमानमारूढः स नवोढाभिरन्वितः। विद्याधरचमूचक्रपरीतः स्वपुरी ययौ ॥ ४५३ ॥ अथ त्रिखण्डसाम्राज्यमखण्डं पालयन्नयम् । तेने वदान्यमूर्धन्यो दानस्थितिमिति स्फुटम् ॥ ४५४ ॥ स्वर्णस्य त्रिंशतं कोटीः। प्रत्यहं सत्यवाग्वतः। जिनप्रासादबिम्बादो सप्तक्षेच्यामवप्त सः ॥ ४५५ ॥ अहंदादिगुणस्तोमस्तावकान् याचकानयम् । प्रत्यहं प्रीणयामास स्वर्णकोटिद्वयार्पणैः ॥ ४५६ ॥ उद्धर्तुमापदापन्नदीनादीस्ताः सदाऽप्ययम् । दयालुर्व्यययामास दशाहो ! तस्य दातृता ॥ ४५७ ॥ योऽपूर्वमद्भुतं काव्यं कथयामास वा कथाम् । ददौ तास्तावतीस्ताभ्यां प्रत्येकं प्रत्यहं नृपः ॥ ४५८ ॥ गजाश्वपत्तिसामन्तशुद्धान्तादौ गृहव्ययः । कोटयोऽष्टोत्तरात्रिंशत्तस्य नित्यमजायत ॥ ४५९ ॥ एवं रसबला दा०२२
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy