SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १२६ ॥ प्रापुश्चिन्तारत्नमिव च्युतम् ॥ ४२५ ॥ तल्लाभावधिनिर्मुक्तभक्ता साऽथ तदाप्तये । प्रकल्पितफलाहारा तपस्यति तपस्विनी ॥ ४२६ ॥ राज्ञा नैमित्तिकोऽन्येद्युः पृष्टः स्माह स्वयंवरे । ग्रहीतावलयस्यैतां स्वयमेत्य वरिष्यति ॥ ४२७ ॥ ततः सत्कृत्य तं हेमाङ्गदः संमदमेदुरः । कारयामास सौत्सुक्यं स्वयंवरणमण्डपम् ॥ ४२८ ॥ जनैराजुहवत्सर्वमयं खेचरराजकम् । त्वामाकारयितुं स्वामिन् ! मामिह प्राहिणोत् पुनः ॥ ४२९ ॥ विशिष्य सख्यमापन्नः स तवागममीहते । तत्रागत्य ततः सख्युर्हर्षमुत्कर्षय प्रभो ! ॥ ४३० ॥ ततो महाबलो रत्नपालश्च सपरिच्छदौ । अगातां नगरं हेमाङ्गदविद्याधरेशितुः ॥ ४३१ ॥ परेऽपि खेचरोवींशास्तत्र सद्यः समासदन् । प्रतिपत्तिं च सर्वेषामकार्षीदेष हर्षतः ॥ ४३२ ॥ अयं ततः प्रश| स्तेऽह्नि मश्चेषूच्चेषु मण्डपे । सर्वानुर्वीश्वरान् दिष्ट्या यथा ज्येष्ठमतिष्ठिपत् ॥ ४३३ ॥ अथ गर्जत्सु तूर्येषु सर्वाङ्गीणविभूषणाम् । कन्यामानाययद्राजा तत्रारोप्य सुखासनम् ॥ ४३४ ॥ आदिदेश नरेशस्तां वत्से ! वृणु यदृच्छया । एते वरयितारस्त्वां समेताः सन्ति भूभृतः ॥ ४३५ ॥ ततः प्रत्येकमुर्वीशान् नृपादेशात्प्रगल्भया । कीर्त्यमानान् प्रतीहार्या पश्यन्ती सचंचार सा ॥४३६ ॥ न त्विषं न मुखं तेषां न वक्षश्चक्षुषी न च । न शीर्ष नापि चोष्णीषं न वेषं न नखश्रियम् ॥ ४३७ ॥ न शृङ्गारं न चाकारं वीक्षामास विशिष्य सा । पौनःपुण्येन किन्त्वेकं पाणिं वलयभूषणम् ॥ ४३८ ॥ युग्गम् ॥ तदनङ्कतपाणीस्तान् दर्श दर्श मुमोच सा । दुर्भगानिव सौभाग्यपराभूतस्मरानपि ॥ ४३९ ॥ दृष्ट्वाऽथ वलयाश्लिष्टप्रकोष्ठं दृष्टितु|ष्टिदम् । रत्नपालं भृशं हृष्टा तत्रैवातिष्ठदुन्मुखी ॥ ४४० ॥ प्रतीहार्या त्वदृष्टः प्राग् नोपालक्षि विशिष्य सः । अतो न कीर्तयामाहे व्यक्त्या तद्वृत्तमद्भुतम् ॥ ४४१ ॥ न्यास्थत्तथाऽपि तत्कण्ठे कम्बुकण्ठी वरस्रजम् । यतः स्वयंवरस्त्रीणां प्रमाणं अष्टमः प्रकाशः । ॥ १२६ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy