________________
जनः॥ ३३ ॥ प्रत्यूचुस्तेऽपि यस्य स्वं सहायोऽसि महामहाः। तद्राज्ये विघ्नमाधातुं न देवोऽपि प्रगल्भते ॥ ३४॥पर |श्रीवीरसेनस्य सुता शृङ्गारसुन्दरी । अस्ति सौभाग्यतः स्वर्गिसुन्दरीणां विजित्वरी ॥३५॥ कौशलं कलयामास कलास सकलास्वपि । साजात्येन सरस्वत्या क्लृप्तसाहायकेव सा ॥ ३६ ॥ तस्या हृदा परित्यक्त कौटिल्यं कुन्तलैः श्रितम् । कुन्तलैरुज्झिता मध्यमध्यासामास तुच्छता ॥३७॥ मुक्तामध्येन दृग्द्वन्द्वमध्युवास विशालता । दृग्द्वन्द्वेन च निर्मुक्ता सूक्ष्मता शिश्रिये मतिम्॥३८॥वक्रता च परित्यक्ता मत्या भेजे भुजायुगम् । त्यक्ता सरलता तेन नासावंशमशिश्रियत् ॥३९॥ त्रिभिर्विशेषकम् । मन्ये सर्वोत्तमैः स्त्रैणपरमाणुभिरद्भुतैः । यां व्यधत्त विधिस्तत्र शेषैः स्वयोषितः पुनः॥४०॥ दृष्ट्वाऽन्ये धर्नृपो दध्यौ योग्यां पाणिग्रहस्य ताम् । अस्या निष्प्रतिरूपायाः प्रतिरूपोऽस्तु कः पतिः॥४१॥ पप्रच्छ च महामात्यानुचितं दुहितुः पतिम् । तेऽप्यूचुर्देवदेव्येषा साक्षादेवावतेरुषी ॥ ४२ ॥ तदस्या दृश्यते देव ! दुर्लभः संनिभः पतिः। अतः स्वयंवरस्तस्या दमयन्त्या इवोचितः॥४३॥ स्वयंवरे प्रभूतेषु संभूतेषु हि राजसु । कदाऽपि प्राप्यते कोऽपि प्रतिरूपः सुतापतिः॥४४॥ नृपोऽप्यवेत्य तद्युक्तं कर्तुकामः स्वयंवरम् । जवादाहाययामास सर्वतो युवभूपतीन् ॥४५॥ परितः पुरमावासान् जन्यावासानिवाद्भुतान् । शतशः कारयामास तद्वासाय नृवासवः॥ ४६॥ शालिसूपाज्यतैलाम्बुतृणपूलादिसञ्चयान् । तेषु व्यदीधपद्भूमान्नौचित्यं क विपश्चिताम् ॥४७॥ आकारणाय युष्माकं न्ययुक्ष्महि वयं पुनः । तत्प्रसद्य प्रसद्येत प्रपूरयत तन्मुदः॥४८॥ पृथ्वीशः प्रत्युवाचाथ वाचा चारुविचारया । वीरसेनमहीशेन स्फीतप्रीतिवशात्मना ॥४९॥ अहो ! व्यधीयतास्माकमाकारणमसङ्गतम् । ज्यायसां तत्र नास्माकमागन्तुं समयो यतः
दा० २०