SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ११४ ॥ न चैतानि यतेरेव गदितानि जिनोत्तमैः । यत्पानं श्राद्धमाश्रित्य नान्यदाकर्ण्यते श्रुते ॥ १७ ॥ गृहिणामपि सच्चित्त. त्यागश्च श्रूयते श्रुते । तेषां तस्मादिमान्येव ज्ञायन्ते पारिशेष्यतः ॥ १८ ॥ यदि स्वयं न गृह्येरन्नेतानि गृहिभिस्तदा । | यतेरपि न कल्पन्ते तदर्थारम्भसंभवात् ॥ १९ ॥ जिनाज्ञां मन्यमानेन तेषामन्यतरत्ततः । गृहिणापि गृहीतव्यं प्रासुको दकपायिना ॥ २० ॥ देयं तदेव साधुभ्यः सुधिया भावशुद्धितः । जिनाज्ञयैव यद्दानं निदानं शिवसंपदाम् ॥ २१ ॥ दत्ते यः शमचित्तेभ्योऽनवद्यमुदकं मुदा । निःशेषेभ्योऽपि दुःखेभ्यस्तेने तेन जलाञ्जलिः ॥ २२ ॥ मुनिभ्यः प्रासुकं वारि प्रयच्छन् स्वच्छभावतः । दिव्यां संपदमाप्नोति रत्नपालनृपो यथा ॥ २३ ॥ तथाहि अस्ति स्वस्तिकरस्वर्णमणिप्रासाददीप्तिभिः । पाटलीकृतसर्वाशं पाटलीपुरपत्तनम् ॥ २४ ॥ पुरं विनयपालाख्यः क्ष्मापालस्तदपालयत् । अभूद्विश्रामभूमिर्यः सर्वराजगुणश्रियाम् ॥ २५ ॥ राज्यवल्यालवालः श्रीरत्नपालस्ततोऽजनि । तनयो विनयोलासिसर्वाङ्गीणगुणोदयः ॥ २६ ॥ समकालं तमालिङ्गन् सरङ्गं सकलाः कलाः । तदत्यद्भुतसौभाग्यकृतव्यामोहना इव ॥ २७ ॥ निरुध्यमानं हृदयं कलाभिर्मुखं गिरा पाणियुगं च लक्ष्म्या । विलोक्य सौत्सुक्यमिवालिलिङ्ग सर्वाङ्गमेनं नवयौननश्रीः ॥ २८ ॥ पश्यतां तृप्तये नासीद्वर्यसौन्दर्यवानसौ । भुञ्जानानां तनूदर्याः कदर्यायाः करो यथा ॥ २९ ॥ निषेदिवांसमन्येद्युर्नरेन्द्रं प्रौढपर्षदि । प्रणम्य पाणिमायोज्य प्रतीहारो व्यजिज्ञपत् ॥ ३० ॥ प्रहिता वीरसेनेन राज्ञा हंसपुरेशिता । प्रधानपुरुषा द्वारि प्राप्तास्त्वदर्शनोत्सुकाः ॥ ३१ ॥ शीघ्रम | कारयेत्युक्तौ राज्ञस्तेन प्रवेशिताः । प्राभृतं ते पुर|स्कृत्य भक्त्या नेमुर्नरेश्वरम् ॥ ३२ ॥ अथ तान् सुखमासीनानालापयदिलापतिः । कुशलं वीरसेनस्य श्रीमान् देशः सुखी अष्टमः प्रकाशः। ॥ ११४ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy