SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ "गिहिज्ज आरनालं अंबिलधावण तिदंडउक्कलि । वन्नंतराइपत्तं फासुअसलिलं च तयभावे ॥१॥" न चोत्सर्गेण तस्यापि ग्रहणं सङ्गतं यते। स्युः प्रवृत्त्यनवस्थादिदोषास्तस्य ग्रहे यतः ॥११॥ श्रूयते वर्धमानेन केव-I लज्ञानशालिना । गच्छता प्रतिबोधार्थमुदायनमहीभुजः ॥ १२॥ अचित्तमपि तापाचैहुंदाद्यम्बु तपस्विनाम् । प्राणान्तेऽ. प्यनुमेने नानवस्थादोषभीरुणा ॥ १३ ॥ युग्मम् ॥ किञ्च प्राचीनवृष्ट्यादौ तटाकादिगमप्यदः । वर्णान्तरादिभावे न यते ह्यं प्रसज्यते ॥ १४ ॥ श्रुतोक्तमपि निन्दन्ति ये पुनः काञ्जिकादिकम् । नूनं शून्यधियां तेषां भिक्षुताऽपि न वीक्ष्यते । ॥१५॥ यदुक्तमुत्तराध्ययने "आयामगं चेव जवोदगं च सीअं सोवीरं च जवोदणं च। नो हीलए पिण्डं नीरसं तु पंतकुलाइं परिवए जे स भिक्खू ॥१॥” इति ॥ न चानागमिकं वाच्यं जरन्नीरं मनीषिणा । नवानामिव तस्यापि व्यक्त्यैवोक्तिर्यदागमे ॥१६॥ तथा चोक्तं श्रीनिशीथभाष्ये"कंजिअआयामासइ संसहसिणोदगस्स वा असई । फासुअजलं तसजढं तस्सासइ तसेहिं जं रहि॥१॥" इति। गाथायां संसठ्ठशब्देन-गवंगरसभायणनिक्केअणज तं संसहुदगं भन्नइ ॥ इति निशीथचूर्णी व्याख्यातं तच्च जरत्पानीयमेव । तथा दशवैकालिकेऽपि "तहेवुच्चावयं पाणं अदुवावारधोअणं ।" इत्यादि ।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy