SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥११३॥ अष्टमः प्रकाशः। ॥ अथाष्टमः प्रकाशः॥ श्रीवर्धमानः सुखवृद्धयेऽस्तु विशुद्धमन्नं घटयन सुपात्रे । यः पूर्वमार्हन्त्यसुरद्रुबीजमुवाप विभ्रन्नयसारभावम् ॥१॥ अथ धर्मार्थदानस्य प्रकारः सुकृताकरः । सुपात्रपानदानाख्यः पञ्चमोऽयं प्रपञ्चयते ॥२॥ सर्वारम्भनिवृत्तेभ्यः कल्पते प्रासुकोदकम् । यावज्जीवं हि षड्जीवत्राणं तैः प्रत्यपद्यत ॥ ३॥ एकस्मिन्नपि यद्विन्दौ संख्यातीता हि जन्तवः । तस्याम्भसः समारम्भः संयतस्योचितः कथम् ॥४॥ गार्हस्थ्येऽपि स्थितो वीरः सोदरस्योपरोधतः । शीतोदकसमारम्भं नारेभे वत्सरद्वयम् ॥ ५॥ अप्कायस्य समारम्भे षण्णामपि विराधना । पञ्चानामन्यकायानां यस्मादम्भसि संभवः॥ ६॥ यत उक्तं श्रीओघनिर्युक्तौ "जत्थ जलं तत्थ वणं जत्थ वणं तत्थ निच्छओ अग्गी । तेऊवाउसहगया तसा य पच्चक्खया चेव ॥१॥" प्रतिनोऽपि तदारम्भमारभन्ते यके पुनःन ते संयमिनः किन्तु वेषपाषण्डमाश्रिताः॥७॥ यदुक्तमुपदेशमालायाम् "दगपाणं पुप्फफलं अणेसणिज गिहत्थकिच्चाई। अजया पडिसेवंती जइवेसविडंबगा नवरं ॥१॥" ततः प्रासुकमेवाम्बु ग्रहीतुं युज्यते यतेः । ऊचुस्तच्चारनालाद्यं नवधा गणधारिणः ॥ ८॥ यदुक्तं श्रीकल्पादौ"उस्सेइम १ संसेइम २ चाउलउदगं ३ तिल ४ तुस ५ जवाणं ६।आयाम ७ सोवीरं ८सुद्धविअर्ड ९ जलं नवहा ॥१॥" तदन्यतममेवैषां गृह्णन्ति श्रुतवेदिनः। दौर्गत्याय दुरन्ताय जिनाज्ञातिक्रमो यतः॥९॥ यत्तु वर्णान्तरप्राप्तमागमे कचिदुच्यते । तदमीषामभावे हि न पुनर्मुख्यवृत्तितः॥१०॥ तदुक्तं प्रवचनसारोद्धारे ॥११३॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy