________________
अष्टम: प्रकाश
दानप्रदीपे ॥ ५० ॥ युग्मम् ॥ द्वितीयवयसामेव योग्यता दारकर्मणि । युज्यते धर्मकर्मैव तृतीयवयसां पुनः॥५१॥ तदेनं नवता
तारुण्यमाकारयत मे सुतम् । रत्नपालमनालस्यं सर्वाङ्गीणगुणार्जने ॥५२॥ तेऽपि दृष्ट्वा स्मरं मूर्तमिव तं जातविस्मयाः। ॥११५॥
कन्यानुरूपं मन्यन्ते स्रष्टुः सृष्टिं च तुष्टुवुः ॥५३ ॥ अवधानमहो! धातुः प्राज्यकार्योऽपि यः सृजन् । स्त्रीपुंसावानुरूप्येण न विस्मरति सन्मतिः॥ ५४॥ तेऽपरेऽपि च पार्षद्यास्ततो भूपतिमूचिरे । इंडविवेकिता कस्य त्वां विनाऽन्यस्य वत्तेते ॥ ५५ ॥ ततश्चमूसमूहेन नृपः परिवृतं सुतम् । तमहाय विवाहाय प्रजिघाय शुभायतिम् ॥ ५६ ॥ कुमारोऽपि वशीकुर्वनुर्वीशान सर्वतः पथि । स्फायमानमहा हंसपुरोपान्तमुपेयिवान् ॥५७॥ अथाभिगम्य निर्दम्भसंभ्रम भवने वरे । कुमारं | स्थापयामास वीरसेननरेश्वरः ॥५८॥ अपरानपि भूपालान् प्रतिपत्तिपुरस्सरम् । महीपतियथौचित्यमावासेषु न्यवासयत् ॥ ५९॥ तेषु नव्यनिवासेषु सज्जिताशेषवस्तुषु । क्षितीशाः सुखमूषुस्ते भवनेषु निजेष्विव ॥६०॥ अथोर्वीपतिरुद्दण्ड स्वयंवरणमण्डपम् । भृत्यैरचीकरत्स्वर्णकुम्भायितनभोमणिम् ॥ ६१॥ ततो लग्नदिने भूपः सर्वानाकार्य भूपतीन् । उच्चैमण्डपमश्चेषु यथौचित्यं न्यवीविशत् ॥ ६२॥ रत्नपालः परं तेषु सर्वेष्वपि विशेषतः । सौन्दर्यसंपदा रेजे रजनीश इवोडुषु ॥ ६३ ॥ विमुच्येतरसंसर्ग जनानां युगपदृशः। भेजुस्तमञ्जसा भृङ्ग्यः केतकीकुसुमं यथा ॥ ६४ ॥ अथोलूलुध्वनौ बन्धुवधूनां मधुरोडुरे । वाद्यानां निनदेऽम्भोदगम्भीरे गर्जदम्बरे ॥ ६५ ॥ दिव्यसर्वाङ्गशृङ्गारां हस्तन्यस्तवरस्रजम् । शुश्रू|षितां भुजिष्याभिर्विधृतातपवारणाम् ॥६६॥ प्रौढं विमानमारूढां नरवाह्यं स्वयंवरे । कन्यामानाययद्भूपः श्रिया मूर्तिमिवापराम् ॥ ६७ ॥ त्रिभिर्विशेषकम् ॥ तस्यां प्रविष्टमात्रायां समकालं महीभुजाम् । दृशो निपेतुरुल्लासिलावण्याम्भ:
॥११५॥