________________
5425445
पिपासिताः॥ ६८॥ मनस्तेषामपाहार्षीत्सुमुखी सा क्षणादपि । शून्या इव ततस्तास्ता विक्रियास्ते प्रचक्रिरे ॥ ६९॥ तथाहि-कश्चिदाधूनयामास मूर्धानं वसुधाधिपः । अहो ! मूर्तिरहो ! कान्तिरित्येतां वर्णयन्निव ॥७॥ देवैरपि दुरापेयं परिणेया कथं मया । इतीव विमृशन्नन्तस्तब्धः कश्चिदवास्थित ॥ ७१ ॥ स्वयं लक्ष्मीरियं सा च कमले खलु खेलति । इतीव कश्चिदादत्त हस्ते लीलासरोरुहम् ॥ ७२ ॥ इमामन्यनृपेणात्तामप्याच्छेत्तुमयं क्षमः । इतीवालोकयामास कश्चिदंसं निजं मुहुः॥ ७३ ॥ अस्या लाभलिपि भालगतामिव निभालयन् । मणिकङ्कणसंक्रान्तं तिलकं कश्चिदैक्षत ॥ ७४ ॥ तल्लावण्यसुरापाणादिवोन्मत्ततयाऽपरः। सुगायन इवागायद्गीतं मधुरया गिरा ॥ ७५॥ कश्चित्कामग्रहावेशादिव अहिलतां गतः । स्वकीयमास्यमुल्लास्य हास्यमाकस्मिकं व्यधात् ॥७६ ॥ इत्यादीन् बहुशो भावाना विष्कुर्वत्सु राजसु । सर्वतः सरलं चक्षुश्चिक्षेप क्षमापतेः सुता ॥७७॥ अथ सर्वनृपाह्वानकुलाचारादिकोविदा । नृपादेशात्प्रतीहारी तां बभाण प्रगल्भवाक् ॥ ७ ॥ अमी वरीतुकामास्त्वां त्वदेकन्यस्तलोचनाः। नृपा उपस्थिताः सन्ति वृणु देवि ! यदृच्छया ॥७९॥ सञ्चचार ततश्चारुलोचना लोचनातिथिः। प्रत्येकं वीक्षमाणा तान् विशेषोल्लेखिचक्षुषा ॥ ८०॥ कीर्त्यमानान् प्रतीहार्या नृपान् मौनेन काश्चन । कांश्चिद्वक्रेण वक्रेण कांश्चिन्नक्रविकृणितैः ॥ ८१॥ कांश्चिद्भकुटिभङ्गेन कतिचिद्धस्तसंज्ञया । सा न्यवारयदाहारानिव सारानरोचकी ॥ ८२॥ युग्मम् ॥ प्रभेव भानोरिह सञ्चरन्ती पतिंवरा यं यमतियुषी सा । छायासमे-हू तोऽपि स स प्रकामं विच्छायतां चित्रमवाप भूपः ॥ ८३ ॥ रत्नपालमथ प्राप्य कुमारं सा स्थिराजनि।पुष्पितं चूतमुत्सृज्य भ्रमरी कुत्र गत्वरी ॥ ८४ ॥ प्रतीहार्यपि विज्ञाततच्चित्ता तामवोचत । रत्नपालः कुमारोऽयं वृत्तं चास्याद्भुतं शृणु ॥८५॥