SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१०४॥ *5555 ॥ १५२ ॥ परं पुनर्विनोदाय कुर्वेऽमुष्याः परीक्षणम् । एवं विमृश्य सानन्दं मन्दं मन्दं जगाद सः॥१५३ ॥ फलं ताव-18 सप्तमः दहं भद्रे ! मुझे प्राक्तनकर्मणः। ईदृशी कथमापेदे दशा ते तु वशामणेः॥ १५४ ॥ विनयव्यत्ययस्त्वन्तः कोऽपि नैव प्रकाशा वितय॑ते । सुधामयूखलेखायाः किमु स्याद्विषवर्षणम् ॥ १५५ ॥ निर्विवेकतयैवात्र नूनं राज्ञो विजृम्भितम् । विज्ञमप्यमनीकर्तुमिन्दिरा मदिरा न किम् ॥१५६॥ इयं कान्तिरिय मूर्तिरियं मतिरिदं वयः। तव सर्वमिदं भद्रे! मयि स्यादन्धमण्डनम् ॥ १५७ ॥ सङ्गेन च ममाङ्गस्य रूपसंपत्तवाप्यसौ । क्षणात्तुषोदकस्येव क्षीरेयीव विनंक्ष्यति ॥ १५८ ॥ मम जाज्वल्यमानेऽ. स्मिन् प्राच्यकर्मोदयानले । त्वद्विडम्बनजं पापं हविराहुतयिष्यति ॥१५९॥ त्वामहंपूर्विकापूर्व वरिष्यन्ति नृपाङ्गजाः। न स्युर्मधुकृतः के के केतक्यामुत्कचेतसः ॥१६०॥ मत्प्रसद्य प्रपद्यस्व सद्यो गमनमन्यतः । यदियं यामिनी कामधेनुः प्रच्छन्नकमणाम् ॥ १६१ ॥ इत्युक्त्वा विरते तस्मिंस्तदंहिन्यस्तलोचना । सधैर्य सविषादं च सा जगाद विशारदा ॥१६२॥ प्रा-13 णेश ! लेशतोऽप्येष न दोषः क्षितिशासितुः। किन्त्ववश्योपभोग्यस्य स्वस्य प्राक्तनकर्मणः ॥१६३॥ प्रभुः कर्मविपाको हि दे-16 हिनां संपदापदोः । परस्तु वस्तुतस्तस्य नियोगीव प्रवर्तते ॥ १६४ ॥ यत्त्वयाऽन्यत्र गत्यै मे वचोऽनुचितमौच्यत। अनेन दहनेनेव हृदयं दह्यते मम ॥ १६५ ॥ अयं धर्मः पणस्त्रीणां कुलस्त्रीणां न युज्यते । आचारं नहि नीचाना|माचरन्ति सचेतसः॥ १६६ ॥ कुरूपोऽपि कुलस्त्रीणां पतिरेव गतिर्भवेत् । न शुष्कमपि मुश्चन्ति लता हि जगती-16! 18॥१०॥ रुहम् ॥ १६७ ॥ तव सङ्गेन बाह्याङ्गविनाशेऽप्यविनश्वरः । चिरं पतिव्रताचारो मम जीवतु जीववत् ॥१६८ ॥ भवे भवे ससौभाग्यो वल्लभः सुलभः स्त्रियाम् । आजन्मनिर्मलं शीलं किन्त्वेकं देव ! दुर्लभम् ॥१६९ ॥ निवासः सर्व
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy