SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ यामास श्रीरेवं हि फलेग्रहिः ॥ ४३७ ॥ जिनाचः कोटिशस्तेषु स स्वर्णादिमयीर्न्यधात् । बोधिलाभे परं बीजं यतस्तासां विधापनम् ॥ ४३८ ॥ स तत्र व्यधितस्नात्रममात्रमहमन्वहम् । प्रभावना विभूषा हि सम्यक्त्वस्य महीयसी ॥४३९ ॥ तीर्थयात्रारथयात्राद्युत्सवान् प्रतिवत्सरम् । सोऽद्भुतानमितांश्चक्रे न तृप्तिः सुकृते सताम् ॥ ४४० ॥ कांश्चिलक्षेश्वरांश्चक्रे कांश्चित्कोटीश्वरान् पुनः । साधर्मिकानयं शुल्कमुक्तिचिन्तार्पणादिना ॥ ४४१ ॥ मासे मासेऽयमस्राक्षी लक्ष भोज्यं सधर्मणाम् । कोटिभोज्यं पुनर्वर्षे पोष्यास्ते तत्त्वतः सताम् ॥ ४४२ ॥ भोजं भोजं समस्तेभ्यस्तेभ्यश्चादादयं मुदा । दिव्यं नेप थ्यमातिथ्यमेषु पथ्यं परत्र यत् ॥ ४४३ ॥ त्रिसन्ध्यं विदधे नित्यमर्हणामर्हतामयम् । श्रेयसीनां यतः श्रेयः श्रीणां विश्रामभूरियम् ॥ ४४४ ॥ सहस्रैः सह भूपानां स द्विरावश्यकं व्यधात् । इदं हि हननस्थानमंहसां भूयसामपि ॥ ४४५ ॥ स पर्वपौषधं भूपत्रिसहस्रया सह व्यधात् । पर्वकृत्यपरित्यागः सतां नैवोचितो यतः ॥४४६ ॥ एवमाराध्यतो धर्मं राज्यं तस्यै धताधिकम् । धर्मः पर्जन्यधर्मा हि वृद्धये ऋद्धिवीरुधाम् ॥ ४४७ ॥ मूर्द्धाभिषिक्तास्तं भक्त्या सहस्रमपरे नृपाः। उपासत सुरेशानं सामानिकसुरा इव ॥ ४४८ ॥ पञ्चाशतः स कोटीनां ग्रामाणामाधिपत्यभुक् । द्वात्रिंशतः सहस्राणां पुराणां पुनरीशिता ॥ ४४९ ॥ प्रभुर्गजरथाश्वस्य प्रत्येकं. लक्षविंशतेः । स चत्वारिंशतः पत्तिकोटीनामनुशासिता ॥ ४५० ॥ राज्यमित्यक्षतं वर्षलक्षमेकममुक्त सः । पुण्यत्राते हि कस्तत्र विघ्नमाधातुमीश्वरः ॥ ४५१ ॥ अन्येद्युः पार्श्वदेवाही ज्ञानी तत्रागमद्गुरुः । नृपश्च सपरीवारस्तमवन्दत भक्तितः ॥ ४५२ || सुधादेश्यं गुरोः पुण्योपदेशमुपकर्ण्य सः । नृपः प्रमोदमेदस्वी पप्रच्छ स्वच्छधीर मुम् ॥४५३ ॥ प्राग्भवे किं मया पुण्यं चक्रे राज्यर्द्धिरीदृशी । कच्चोलकं च येनाप्तमिष्टदायि द्युर लवत् ॥४५४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy