SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गत्वा नारदस्तु विशारदः । स्थित्वा च विजने देशे दिशः पश्यन् परामृशत् ॥ ७१३ ॥ गुरुपादैरिदं तावदादिष्टं यत्र कश्चन । न पश्यति त्वया तत्र पेष्टव्यः पिष्टकुक्कुटः॥ ७१४ ॥ पश्याम्यत्राप्यहं पूर्व पश्यन्त्येते च पक्षिणः । लोकपालाश्च | पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ ७१५ ॥ तत् स्थानमिह नास्त्येव यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरूक्तीनां ६ हन्तव्यो नैव कुक्कुरः ॥ ७१६ ॥ गुरुपादाः सदा हिंसाभीरवः करुणाकराः । इदमस्माकमादिक्षन् प्रेक्षामेव परीक्षि-31 तुम् ॥ ७१७ ॥ इत्यामृश्याविनाश्यैव कुक्कुटं स समाययौ । तस्याविनाशने हेतुं गुरोस्तं च व्यजिज्ञपत् ॥ ७१८॥ स्वर्ग| यास्यत्ययं नूनमिति निश्चित्य तं गुरुः । साधु साध्विति वाचालः सस्नेहं परिषस्वजे ॥ ७१९ ॥ स्वकीये परकीये वा न ह्यपेक्षा महात्मनाम् । यत्रैव गुणमीक्षन्ते तत्त्वतस्तत्र ते रताः॥ ७२० ॥ वसुपर्वतको पश्चादागत्येति जजल्पतुः । निहतौ कुक्कटौ तत्र यत्र कोऽपि न पश्यति ॥ ७२१॥ गुरुस्तावशपत् पापौ युवां पूर्वमपश्यतम् । अपश्यन् पक्षिमुख्याश्च कथं भरे कुक्कुटौ हतौ ॥ ७२२ ॥ अथ दध्यावुपाध्यायो विध्याताध्यापनामतिः। धिम् ज्ञानं मम धिग् बुद्धिं धिक् चाध्यापन-2 चातुरीम् ॥ ७२३ ॥ उपदेश इवाभव्ये बीजवाप इवौषरे । गीतगानमिवाकर्णेऽरण्यान्यामिव रोदनम् ॥ ७२४ ॥ वसौ च निजसूनौ च दिनानीयन्ति हा मया। दिवानिशं मुधैवायं व्यधाय्यध्यापनोद्यमः ॥७२५॥ युग्मम् ॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः। तयोर्विद्यार्पणं सर्पपयःपायनमेव हा ॥ ७२६ ॥ यथापात्रं परीणामो जायते हि गुरोगिराम् । स्थानभेदाद्धनाम्बूनां मुक्ता लवणता न किम् ? ॥ ७२७ ॥ अनयोरपि चेद्विद्या मदीया नरकप्रदा । तदेनसां निवासेन | गृहवासेन मे सृतम् ॥ ७२८ ॥ निर्वेदादित्युपाध्यायस्तपस्यामाददे तदा । सतां ह्युद्विग्नता पुण्यविशेषप्रतिपत्तये ॥७२९॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy