SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥४१॥ HASSASSHOSHUSSEISTIGHESIS सर्वविद्याविदीभूय गुरोस्तस्य प्रसादतः । नारदः शारदीनेन्दुशुद्धधीः स्वपदं ययौ ॥ ७३० ॥ नृपचन्द्रोऽभिचन्द्रोपि प्रपेदे | द्वितीयः समये व्रतम् । निपुणास्ते हि ये कर्म कुर्वन्त्यवसरोचितम् ॥ ७३१॥ आसीत्तस्य पदे राजा वसुर्वसुमतीपतिः। यस्याधिक है। प्रकाशः। जने जज्ञे प्रसिद्धिः सत्यवाक्तया ॥ ७३२॥ तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः। प्रसिद्धिादशी यस्य तल्लेश्यः प्रायशो हि सः ॥ ७३३ ॥ अन्येधुर्मंगयुः कोऽपि मृगयायां मृगं प्रति । इषू चिक्षेप विन्ध्योामिषुश्चास्खलदन्तरा ॥ ७३४ ॥ ज्ञातुं तत्स्खलने हेतुं सोऽपि तत्र गतोऽस्खलत् । जज्ञौ च पाणिनाकाशस्फटिकस्य शिलां स्पृशन् ॥ ७३५॥ स दध्यौ ध्रुवमेतस्यां संक्रान्तः परतश्चरन् । मयाऽदर्शि मृगश्चित्रमिवादशेऽभितो मुखे ॥ ७३६ ॥ लक्ष्यते कथमप्येषा न पाणिस्पर्शनं विना । तद्योग्या रत्नभूतेयं वसोर्वसुमतीपतेः ॥ ७३७ ॥ गत्वा व्यजिज्ञपद्राज्ञे रहस्तां लुब्धकः शिलाम् । वित्तैः सन्तोष्य तं हर्षाद्राजाऽप्यानीनयत्ततः ॥ ७३८ ॥ घटयामास च छन्नं तया स्वासनवेदिकाम् । अघातयच्च तत्कर्तृन् निस्तूंशा हि नरेश्वराः॥ ७३९ ॥ तस्यां सिंहासनं वेदौ नरेन्द्रः स्वं न्यवीविशत् । सत्यप्रभावतो व्योम्नि स्थितमित्यबुधन् जनाः॥ ७४०॥ तस्याहो ! सत्यतस्तुष्टाः सान्निध्यं कुर्वते सुराः। एवं सार्वत्रिकी ख्यातिस्तस्याऽमुखरयद्दिशः ॥७४१॥ ततो भीताः स्वयं भूपाः सीमालास्तमुपासत । नृणां सत्या ह्यसत्या वा ख्यातिः खलु विजित्वरी ॥ ७४२ ॥ अन्येधुनारदस्तत्र समागाद्वसुपर्वतौ । तं च सच्चक्रतुःप्रीत्या सतीर्थ्या हि मिथस्त्रयः॥ ७४३ ॥ तदा च पर्वतः स्वेषां शिष्याणां शेमुषीजुषाम् । व्याख्यानयदनिर्वेदमाद्यघदममन्दधीः ॥ ७४४ ॥ अजैर्यष्टव्यमित्यत्र मेषैरित्यर्थभाषिणम् । तं प्रोचे नारदो भ्रातर्धान्त्या व्याख्यासि किं वृथा? ॥ ७४५ ॥ गुरुाख्यन्न जायन्त इति व्युत्पत्तितो ह्यजान् । त्रिवार्षिकाणि धान्यानि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy